अनेकार्थसङ्ग्रहः/षट्स्वरकाण्डः

विकिस्रोतः तः
षट्स्वरकाण्डः
अथ षष्ठः काण्डः
षट्स्वरकान्ताः

ग्राममद्गुरिका श्रृङ्ग्यां ग्रामयुद्धेऽपि कीर्त्यते ।
स्यान्मदनशलाका तु सार्यां कामोदयौषधौ ॥ १ ॥

मातुलपुत्रको धत्तूरफले मातुलात्मजे ।
लूतामर्कटकः पुत्रीनवमालिकयोः कपौ ॥ २ ॥

वर्णविलोडकः काव्यच्छायाहृत्सन्धिचौरयोः ।
स्नानाचिकित्सकश्चातुर्मास्यव्रतकरे नरे ॥ ३ ॥

स्नानाचिकित्सकं प्रोक्तं नारीपुष्पतपस्ययोः ।
सिन्दूरतिलको हस्ती सिन्दूरतिलकाऽङ्गना ॥ ४ ॥

इति षट्स्वरकान्ताः ।
षट्स्वरणान्ताः

दोहदलक्षणं गर्भे स्यात्सन्धौ योवनस्य च ।
यौवनलक्षणं वक्षोरुहे च लवणिम्नि च ॥ ५ ॥

इति षट्स्वरणान्ताः ।
षट्स्वरतान्ताः

अर्धपारावतश्चित्रकण्ठे स्यात्तित्तिरावपि ।

इति षट्स्वरतान्ताः ।
षट्स्वरयान्ताः

प्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये ॥ ६ ॥

विष्वक्सेनप्रिया लक्ष्म्यां त्रायमाणौषधावपि ।
समुद्रनवनीते स्यात्पीयूषे च सुधाकरे ॥ ७ ॥

इति षट्स्वरयान्ताः ।
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे षट्स्वरादिकाण्डः षष्ठः ।