सामग्री पर जाएँ

अध्यायाः ७४ - ७६

विकिस्रोतः तः

अध्यायाः ७४ - ७६

940

श्रीराम उवाच ।

यथा चित्तचमत्कृत्या राज्ञो गङ्गावतारणम् ।

भगीरथस्य संपन्नं तन्मे कथय भो प्रभो ।। १

श्रीवसिष्ठ उवाच ।

आसीद्भगीरथो नाम राजा परमधार्मिकः ।

भुवः समुद्रयुक्ताया मण्डलीतिलकोपमः ।। २

संकल्पानन्तरं प्राप्ता यथाभिमतमर्थिनः ।

चन्द्रप्रसन्नवदनादस्माच्चिन्तामणेरिव ।। ३

साधूनां यो व्यवस्थार्थं धनान्यविरतं ददौ ।

तृणमात्रमुपादत्ते क्वचिच्चिन्तामणिर्यथा ।। ४

वज्रसारमिव प्रोतमुज्वलन्नेमि योऽभिनत् ।

अधो मणिरयोयन्त्रं सर्वदुर्जनचेष्टितम् ।। ५

अधूमवह्निदेहश्रीः श्रान्तोऽपि दैन्यमप्यलम् ।

तमोऽहरन्नृणां नैशं द्युमणिर्वेश्मनामिव ।। ६

किरन्नग्निकणासारमभितः स्वप्रतापजम् । ।

मध्याह्नसूर्यकान्ताग्निरिव ज्वलति योऽरिषु ।। ७

मृदुशीतलसंस्पर्शो यः समाह्लादयन्मनः ।

सुज्ञानां द्रवति स्निग्धस्येन्दोरिन्दुमणिर्यथा ।। ८

जगद्यज्ञोपवीतस्य स्वर्गपातालवाहिनः ।

गङ्गावाहस्य येनास्यां तृतीयः पूरितो गुणः ।। ९

अगस्त्यशोषितोऽम्भोधिर्गङ्गापूरेण पूरितः ।

येन दुष्पूरभूतोऽपि महासार्थोऽर्थिनामिव ।। 6.1.74.१०

गङ्गासोपानपद्धत्या येन पातालवासिनः ।

योजिता ब्रह्मणो लोके बान्धवा लोकबन्धुना ।। ११

ब्रह्माणं शंकरं जह्नुं तपसाराधयंश्च यः ।

भूयोभूयो ययौ खेदमशून्याध्यवसायिनः ।। १२

यौवने वर्तमानस्य तस्य भूमिपतेरपि ।

प्रविचारयतो लोकयात्रां पर्याकुलामिमाम् ।। १३

सुविरागचमत्कारविचारकणिकोदभूत् ।

वयस्यपि च तारुण्ये दैवाद्वल्ली मराविव ।। १४

एकान्ते चिन्तयामास महीपतिरसाविति ।

जगद्यात्रामिमां नित्यमसमञ्जसमाकुलम् ।। १५

पुनर्दिनं पुनः श्यामा दानादानशतं पुनः ।

तदेव भुक्तविरसं लक्ष्यते कर्म कुर्वताम् ।। १६

येन प्राप्तेन लोकेऽस्मिन्न प्राप्यमवशिष्यते ।

तत्कृतं सुकृतं मन्ये शेषं कर्म विषूचिका ।। १७

 

941

पुनःपुनः पर्युषितं कर्म कुर्वन्न लज्जते ।

मूढ्बुद्धिरबुद्धिस्तु कः कुर्यात्किल बालवत् ।। १८

अथैकदोद्विग्नमनाः कदाचित्त्रितलं गुरुम् ।

एकान्तं संसृतेर्भीतः समपृच्छद्भगीरथः ।। १९

भगीरथ उवाच ।

अन्तःशून्यासु सुचिरं भ्रमत्संसारवृत्तिषु ।

अरण्यानीषु चैतासु भृशं खिन्ना वयं विभो ।। 6.1.74.२०

जरामरणमोहादिरूपाणां भवकारिणाम् ।

भगवन्सर्वदुःखानां कथमन्तः प्रजायते ।। २१

त्रितल उवाच ।

चिरसाम्यात्मनोत्थेन निर्विभागविलासिना ।

राजन् ज्ञेयावबोधेन पूर्णेन भरितात्मना ।। २२

क्षीयन्ते सर्वदुःखानि त्रुट्यन्ति ग्रन्थयोऽभितः ।

संशयाः समतां यान्ति सर्वकर्माणि चानघ ।। २३

ज्ञेयं विदुरथात्मानं संशुद्धं ज्ञप्तिरूपिणम् ।

स च सर्वगतो नित्यं नास्तमेति न चोदयम् ।। २४

भगीरथ उवाच ।

चिन्मात्रं निर्गुणं शान्तमस्ति निर्मलमच्युतम् ।

देहादि नेतरत्किंचिदिति वेद्मि मुनीश्वर ।। २५

किं तत्र प्रतिपत्तिर्मे स्फुटतामेति नेतरा ।

एतावन्मात्रसंवित्तिः स्यामहं भगवन्कथम् ।। २६

त्रितल उवाच ।

ज्ञानेन ज्ञेयनिष्ठत्वमेति चेतो हृदम्बरे ।

ततः सर्ववपुर्भूत्वा भूयो जीवो न जायते ।। २७

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ।। २८

आत्मनोऽनन्ययोगेन तद्भावनमनारतम् ।

विविक्तदेशसेवित्वमरतिर्जनसंसदि ।। २९

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।

एतज्ज्ञानमिति प्रोक्तमज्ञानं तदतोऽन्यथा ।। 6.1.74.३०

रागद्वेषक्षयाकारं संसारव्याधिभेषजम् ।

अहंभावोपशान्तौ तु राजन् ज्ञानमवाप्यते ।। ३५

भगीरथ उवाच ।

शरीरेऽस्मिंश्चिरारूढो गिरौ तरुरिव स्वके ।

अहंभावो महाभाग वद मे त्यज्यते कथम् ।। ३२

त्रितल उवाच ।

पौरुषेण प्रयत्नेन त्यक्त्वा भोगौघभावनाम् ।

गत्वा विकसितां सत्तामहंकारो विलीयते ।। ३३

यन्त्रणापञ्जरं यावद्भग्नं लज्जादिनाखिलम् ।

अकिंचनत्वशेषेण स्फुटा तावदहंकृतिः ।। ३४

 

942

सर्वमेतद्धिया त्यक्त्वा यदि तिष्ठसि निश्चलः ।

तदहंकारविलये त्वमेव परमं पदम् ।। ३५

शान्ताशेषविशेषणो विगतभीः संत्यक्तसर्वैषणो

गत्वानूनमकिंचनत्वमरिषु त्यक्त्वा समग्रां श्रियम् ।

शान्ताहंकृतिरस्तदेहकलनस्तेष्वेव भिक्षामट

न्मामप्युज्झितवानलं यदिभवस्युच्चैस्त्वमुच्चैरसि ३६

 

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० भगीरथोपदेशो नाम चतुःसप्ततितमः सर्गः ।। ७४।।

 

पञ्चसप्ततितमः सर्गः ७५

श्रीवसिष्ठ उवाच ।

अथ तस्य गुरोर्वक्त्रादित्याकर्ण्य भगीरथः ।

मनस्याहितकर्तव्यः स्वव्यापारपरोऽभवत् ।। १

ततः कतिपयेष्वेव वासरेषु गतेषु सः ।

अग्निष्टोममखं चक्रे सर्वत्यागेकसिद्धये ।। २

गोभूम्यश्वहिरण्यादि ददौ धनमशेषतः ।

द्विजेभ्यो निजबन्धुभ्यो गुण्यगुण्यविचारयन् ।। ३

दिवसत्रयमात्रेण सर्वमेव परित्यजन् ।

असुमात्रावशेषोऽसावासीद्राजा भगीरथः ।। ४

अथ सर्वार्थरिक्तं तत्खिन्नप्रकृतिपौरकम् ।

सीमान्तिने तृणमिव राज्यं स्वमरये ददौ ।। ५

आक्रान्ते द्विषता राज्ये मुनिः सद्मनि मण्डले ।

अधोवासोवशेषोऽसौ निर्जगाम स्वमण्डलात् ।। ६

यत्र न ज्ञायते नाम्ना यत्र न ज्ञायते मुखात् ।

तत्र ग्रामेष्वरण्येषु दूरेषूवास धैर्यवान् ।। ७

इत्यल्पेनैव कालेन प्रशान्तसकलैषणः ।

परमेण शमेनासावाप विश्रान्तिमात्मनि ।। ८

भ्रमन्द्वीपानि भूपीठे कदाचित्कालयोगतः ।

अवशः शत्रुणाक्रान्तं स्वमेव प्राप तत्पुरम् ।। ९

नानागारांश्च तत्रासौ प्रवाहपतितांश्च तान् ।

पौरांश्च मन्त्रिणश्चैव शमी भिक्षामयाचत ।। 6.1.75.१०

विविदुस्ते नृपं पौरा मन्त्रिणश्च भगीरथम् ।

पूजयामासुरथ तं सविषादाः सपर्यया ।। ११

प्रभो राज्यं गृहाणेति प्रार्थितोऽप्यरिणा मुनिः ।

नादत्तेऽनादृताशेषस्तृणमप्यशनादृते ।। १२

कतिचिद्दिवसांस्तत्र नीत्वाऽन्यत्र जगाम सः ।

भगीरथोऽयं हा कष्टमिति लोकेन शोचितः ।। १३

अथान्यत्रोपशान्तात्मा परिविश्रान्तधीः सुखी ।

आत्मारामं कदाचित्तु स प्राप त्रितलं गुरुम् ।। १४

स्वमेव स्वागतं कृत्वा तेन सार्धं भगीरथः ।

कंचित्कालमुवासाद्रौ वने ग्रामे पुरे जने ।। १५

समतामुपयातौ तौ गुरुशिष्यौ समौ स्थितौ ।

कलयामासतुः स्वस्थौ विनोदं देहधारणम्  १६

किमयं धार्यते देहः किं वानेनोज्झितेन नः ।

यथाक्रमं यथाचारं तिष्ठत्वेष यथास्थितम् ।। १७

इति निश्चित्य तिष्ठन्तौ तौ वनाद्वनगामिनौ ।

अनानन्दं परानन्दं नासुखं न च मध्यमम् ।। १८

 

943

धनानि वाजिविभवाद्यैश्वर्यं चाष्टधोदितम् ।

सिद्धैरप्यर्पितं तुष्टैर्मेनाते जर्जरं तृणम् ।। १९

स्वकर्मणैव देहोऽयं यावत्सत्त्वमनिच्छया ।

धारणीय इति स्वेन कर्मणैवाथ तस्थतुः ।। 6.1.75.२०

अभिननन्दतुरागतमुत्तमौ

निजसमाचरणक्रमजं मुनी ।

सुखमसौख्यमभीप्सितवर्जितौ

समसमेऽतिसमौ शमिनौ स्वतः ।। २१

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० भगीरथनिर्वाणं नाम पञ्चसप्ततितमः सर्ग ।।७५।।

 

षट्सप्ततितमः सर्गः ७६

श्रीवसिष्ठ उवाच ।

अथैकदा पुरे श्रेष्ठे कस्मिंश्चिन्मण्डलान्तरे ।

अनपत्ये नृपं मृत्युरहन्मत्स्य इवामिषम् ।। १

तत्र प्रकृतयः खिन्ना नष्टदेशक्रमा नृपम् ।

अन्विष्यन्ति स्म संयुक्तं गुणलक्ष्म्या विशालया ।। २

तं भगीरथमासाद्य स्थिरं भिक्षाचरं मुनिम् ।

परिज्ञाय समानीय सैन्ये चक्रुर्महीपतिम् ।। ३

भगीरथः क्षणेनैव प्रावृषीवाम्बुना सरः ।

वलितः सेनया गुर्व्या झटित्याशिश्रिये गजम् ।। ४

भगीरथो जगन्नाथो जयतीति जनारवैः ।

नीरन्ध्रतामुपाजग्मुर्गिरीन्द्राणां महागुहा ।। ५

तत्र तं पालयन्तं तद्राज्यं राजानमादृताः ।

आजग्मुः प्राक्प्रकृतयः प्राहुरित्थं नृपाधिपम् ।। ६

प्रकृतय ऊचुः ।

राजन्नस्माकमधिपो यस्त्वया स पुरस्कृतः ।

मृत्युना विनिगीर्णोऽसौ मत्स्येनेवामिषं मृदु ।। ७

तत्तत्पालयितुं राज्यं प्रसादं कर्तुमर्हसि ।

अप्रार्थितोपयातानां त्यागोऽर्थानां च नोचितः ।। ८

श्रीवसिष्ठ उवाच ।

इति संप्रार्थितो राजा तदङ्गीकृत्य तद्वचः ।

सप्तसागरचिह्नायाः स बभूव भुवः पतिः ।। ९

समः शान्तमना मौनी वीतरागो विमत्सरः ।

प्राप्तकार्यैककरणः स तिरोहितविस्मय ।। 6.1.76.१०

पातालतलनष्टानां सागराकारकारिणाम् ।

पितामहानां गङ्गाम्बु शुश्रुवे तारणक्षमम् ।। ११

तदा किल स्वर्गनदी वहति स्म न भूतले ।

पितॄणां भूतविख्योऽभूत्तेन गङ्गाजलाञ्जलिः ।। १२

भगीरथेन च महीमवतारयितुं दिवः ।

गङ्गां गृहीतो नियमस्ततःप्रभृति भूभृता ।। १३

ततो राज्यं परित्यज्य मन्त्रिणां भूपतिः शमी ।

तपसे कार्यकार्येहो जगाम विजनं वनम् ।। १४

 

944

तत्र वर्षसहस्रैश्च समाराध्य पुनःपुनः ।

ब्रह्माणं शंकरं जह्नुं भुवि गङ्गामयोजयत् ।। १५

ततः प्रभृत्यमलतरङ्गभङ्गिनी

जगत्पतेः शशिविभृदङ्गसङ्गिनी ।

नभस्तलान्निपतति गां त्रिमार्गगा

महात्मनामिव बहुपुण्यसंततिः ।। १६

स्फुरत्तरङ्गभङ्गिनी स्वफेनपुञ्जहासिनी

प्रसन्नपुण्यमञ्जरीयुतेव धर्मसंततिः ।

भगीरथे महीपतौ यशःप्रचारवीथिका

तदा हि सा त्रिमार्गगा महीतले बभूव ह १७

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० गङ्गावतरणं नाम षट्सप्ततितमः सर्गः ।। ७६ ।।

"https://sa.wikisource.org/w/index.php?title=अध्यायाः_७४_-_७६&oldid=40803" इत्यस्माद् प्रतिप्राप्तम्