अधिगमाभिप्रेरणस्य सम्प्रत्यय:
दिखावट
व्यवहारेऽस्माभिरवलोक्यते यत् यदा कोऽपि जन: किमपि विशिष्टं कार्यं सम्पादयितुं संलग्नो भवति, तत्कर्म प्रत्याकर्षणं प्रवर्तनञ्च नितान्तं दुष्करं भवति । "प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते" इति न्यायोक्तिरपि प्रसिद्धास्ति । आचरणसम्बन्धिन्या एतस्या: परिस्थितिभिन्नताया: वैयक्तिकभिन्नताया: वा व्याख्यार्थं शिक्षामनोवैज्ञानिका: यस्य सम्प्रत्ययस्यानुरागं कुर्वन्ति तदभिप्रेरणम् इत्यभिधीयते । शिक्षामनोविज्ञाने 'अभिप्रेरणम्' विशिष्टं गौरवं दधाति । ' अभिप्रेरणम्' इति पदम् आङ्ग्लभाषाया: 'Motivation' इति शब्दस्य अनुवादो वर्तते । आङ्ग्लभाषाया: Motivation इति पदस्योत्पत्तिः लेटिनभाषाया: 'मोटम' इति धातोः जाता वर्तते । एतस्यार्थो वर्तते Move, Motor, Motion अर्थात् दोलनं, गतिः तथा च गत्यात्मकम् इति वा । प्रेरणाया: व्युत्पत्तिजन्योऽर्थो भवति 'गतिसञ्चालनम्' इति । प्रेरणाया: हेतोरेव प्राणिनि गतिरायाति । स: किमपि कर्तुं यतते । गतिरेषा बाह्या तथा चान्तरिकापि भवति । वस्तुतः यदाभ्यन्तरे किमपि प्रचलति तस्याभिव्यक्तिरेव बहिर्भवति । अत एवाभ्यन्तरे जायमाना गतिरेव सर्वाधिकमहत्त्वपूर्णा भवति । एवं क्रमेणाभिप्रेरणा आभ्यन्तरिका शक्तिर्वतते या तु जनाय किमपि कर्तुम् अतिरिक्तमुत्साह प्रददाति ।
मेक्डूगलमते---
प्रेरकं नाम प्राणिनः ताः दैहिक्यो मनोवैज्ञानिक्यश्च दशा: वर्तन्ते या: तं किमपि कार्यं विशिष्टरीत्या सम्पादयितुं योजयति।
वुडवर्थानुसारम्---
प्रेरकस्तु व्यक्तेः सा मनोदशा वर्तते या कस्यचिन्निश्चितस्य उद्देश्यस्य पूर्त्यर्थं तं निश्चितव्यवहारार्थं विवशं करोतीति ।
मैक्डोनाल्डमते--- प्रेरणा व्यक्तेराभ्यन्तरे जायमानं तच्छक्तिपरिवर्तनं वर्तते यस्मिन् भावात्मकोन्ते जनाया: लक्ष्यप्रतिक्रियायाश्च गुणो विद्यमानो भवति ।" गुडमतानुसारम् --- कस्यचित्कार्यारम्भस्य, प्रर्वतनस्य, नियमितीकरणस्य वा प्रक्रियैव 'प्रेरणा' इत्यभिधीयते ।"
अभिप्रेरणस्य महत्त्वम्--- विद्यालयेषु यत्किमपि ज्ञानादिकं प्रदीयते, शिक्षणं वा क्रियते तस्य साक्षात्सम्बन्धः अभिप्रेरणेन वर्तते । बालकानां मानसिकविकासे प्रेरणाया: अन्यतमं महत्त्वं वर्तते । सफलशिक्षणाय अभिप्ररणस्य तत्त्वमनिवार्यं भवति । वस्तुतः प्रेरणा समस्तानां क्रियाणां स्रोतभूता वर्तते । बालकानां शिक्षायां बुभुक्षा- पिपासा- प्रभृतीनां शारीरिकानामभिप्रेरकानां विशिष्टस्थानं वर्तते । अत्र शारीरिकैरभिप्रेरकै: सह अर्जिताः, सामाजिका: वैयक्तिकाश्च अभिप्रेरका: अपि स्वकीपं महत्त्वं बिभर्ति । यतो हि जनस्य शिक्षायामुदरपूर्त्या सह सामाजिकप्रतिष्ठाप्रभृतिप्रेरका: अपि सहायकाः भवन्ति । शिक्षणे प्रेरणाया: महत्त्वं मन्यमानः 'एण्डरसन:' प्रेरणामन्तराऽधिगमस्य कल्पनामपि कर्तुं न प्रभवति । तन्मते---" शिक्षणस्य सर्वोत्तमा प्रगतिस्तदैव भविष्यति यदा जनः प्रेरितः स्यात्' इति ।
मिल्टनमते ---
अभिप्रेरणं शिक्षणस्यानिवार्यं तत्त्वं वर्तते' इति । कैली अपि शिक्षणेऽभिप्रेरणस्य महत्त्वमुद्घोषितवान् तन्मते- 'शिक्षणप्रक्रियायाः समुचितव्यवस्थायामभिप्रेरणमेकं प्रधानं तत्त्वं वर्तते । सर्वेषु शिक्षणेषु किमप्यभिप्रेरणं नूनमेव विद्यमानं भवति।"
शिक्षणेऽभिप्रेरणस्य प्रयोगं शिक्षक: पुरस्कारदण्डयो: प्रशंसानिन्दयोश्च माध्यमेन परिणामज्ञापनेऽपि कर्तुं शक्नोति । कक्ष्यायां स: छात्रेषु स्पर्धाया: प्रतियोगिताया: सहकारितायाश्च भावनाया अभ्युदयं कृत्वाधिगमे प्रोत्साहनं दातुं शक्यते । एवमभिप्रेरणया शिक्षणे उत्साह: उत्पद्यते । एतेन छात्रेषु शक्तिसञ्चालनं भवति तथा च शक्तिलक्ष्यप्राप्तिपर्यन्तं प्रचलति 'अभिप्रेरणा' इति।।