सामग्री पर जाएँ

अधिकरणसारावलिः

विकिस्रोतः तः
अधिकरणसारावलिः
[[लेखकः :|]]

श्रीः

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।

वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा ह्मदि ।।

 

शास्त्रावतारः

1. स्वस्ति श्रीरङ्गभर्तुः किमपि दधदहं शासनन्तत्प्रसत्त्यै

सत्यैकालम्बि भाष्यं यतिपतिकथितं शश्वदद्ध्याप्य युक्तान्।

विश्वस्मिन्नामरूपाण्यनुविहितवता तेन देवेन दत्तां

वेदान्ताचार्यसंज्ञामवहितबहुवित्सार्थमन्वर्थयामि ।।

2. श्रीमद्भ्यां स्यादसावित्यनुपधि वरदाचार्यरामानुजाभ्यां

सम्यग्दृष्टेन सर्वंसहनिशिततधिया वेङ्कटेशेन क्लृप्तः।

सेव्योसौ शान्तचित्तैः श्रवणरसनया शान्तिलाभार्थिभिर्वा

सिद्धश्शारीरकार्थे सहजबहुगुणः रुाग्धरादुग्धराशिः।।

3. त्रय्यन्तस्वान्तवादिन्यधिकरणगणे पौनरुक्त्योक्तबाधौ

मन्दत्वासङ्गतत्वे विशयमफलतां मानबाधं च मन्तॄन्।

दिङ्मोहक्षोभदीनान् दिनकरकिरणश्रेणिकेवोज्जिहाना

ह्मद्या पद्यावलीयं ह्मदयमधिगता सावधानान्धिनोतु ।।

4. गम्भीरे ब्राहृभागे गणयितुमखिलं कः प्रवीणः प्रमेयं

दिङ्मात्रं दर्शयन्नप्यहमिह निपुणैः प्राध्वमध्यक्षणीयः।

मा भून्निश्शेषसिद्धिस्तदपि गुणविदः स्फीतनिस्सीमरत्ने

मध्येहारं निधेयम्महति जहति किम्मौक्तिकं लब्धमब्धौ।।

5. वेदार्थन्यायचिन्त्ये प्रथममधिगतः कर्मवर्गः प्रमाणैः

भेदैरङ्गैः प्रयुक्त्या क्रमविरचनयाऽथाधिकृत्याऽतिदिष्ट¬ा।

तत्राशेषैर्विशेषैस्तदनु तदनुवत्र्यूहतः प्राप्तबाधैः

तन्त्रेणाथ प्रसक्त्या तत उपरि चतुर्लक्षणी देवतार्था।।

6. प्राग्धर्मेऽल्पास्थिरार्थे प्रशमितविशये तादृशाराध्ययुक्तेऽ-

थातश्शारीरकांशे बहुविधमहिम ब्राहृ मीमांसितव्यम्।

कृत्स्नस्वाद्ध्यायसाङ्गाद्ध्ययनसमुदितापातबुद्ध्यैव कर्म

त्यक्त्वाऽऽदौ ब्राहृचिन्तां किमिति न कुरुतान्तन्न तुल्योक्त्यबाधात्।।

7. प्रावण्यं प्राक्त्रिवर्गे सफलयतनतोपासनाङ्गत्वतोऽपि

व्याख्यारूपेऽत्र शास्त्रे क्रमनियतिरसौ स्याच्च मुख्यक्रमेण।

मानत्वादिर्विचार्यः पुरत इह तथा वाक्यवेद्यात्पदार्थो

दृष्टान्तश्चोपमेयाद्यदि मधु सविधे यातु चादिं्र किमर्थः।।

8. व्याचख्युः केऽपि तापत्रयहतिमितरे साधनानां चतुष्कं

काण्डेऽस्मिन् पूर्ववृत्तं कथयति निगमः कर्मचिन्ताफलान्तत्।

साङ्गाधीतिर्हि सूते विशयमवसरः क्वात्र तन्त्रान्तरादे-

रौचित्यस्थापितोऽयं क्रम इह न पुनश्चोदनासंप्रयुक्तः।।

9. नित्यप्राप्तस्य कण्ठस्थितकनकनयान्निर्विशेषस्य लब्धि-

  र्मिथ्याभूतं निवत्र्यं श्रुतिशकलभुवः प्रेक्षणात्तन्निवृत्तिः।

कर्मैवं क्वोपयुक्तं प्रतिभटमपि तद्वृत्ततोक्तिर्मदुक्ते

प्राप्ताऽत्रेति प्रलापे प्रतिवचनगतिर्भाषिता विस्तरेण।।

10. मीमांसायाः कबन्धं कतिचन जगृहू राहुकल्पं शिरोऽन्ये

किन्तैरन्तर्विरोधप्रमुषितमतिभिः बाह्रकल्पैभ्र्रमद्भिः ।

  स्वाद्ध्यायाद्ध्यायकात्स्न्ये स्वविधिपरविधिप्रेरणा तावदास्तां

कृत्स्नापातप्रतीतौ किमिति कृतधियः कृत्स्नचिन्तान्न कुर्युः।।

11. प्राधीतस्यैकरूपप्रयतननियतादेकरूपोपकारा-

  द्विद्यास्थानैक्यसिद्धौ क्रमनियतियुताकाङ्क्षयैकप्रबन्ध्यम्।

  अद्ध्यायादिष्विवावान्तरविषयफलाद्यन्यताऽत्राप्यभेत्त्री

  तत्तुल्यः कर्तृभेदः कलिबलकलुषैः कल्पितोऽर्थे विरोधः।।

12. तत्तद्वैशिष्ट¬भेदाद्यदगणि भिदुरा देवता पूर्वभागे

  संज्ञावैषम्यमात्रादपि कथमियताऽधीतयष्टव्यभङ्गः।

उद्देश्याकारभेदोऽस्त्ययमिह हविषामुक्तिभिन्ने प्रयोगे

  दौर्बल्यं त्वक्षवेद्यान्मितिचरमतया द्रव्यतो देवतायाः।।

13. जैमिन्युक्तं विरुद्धं यदिह बहुविधन्दर्शितं सूत्रकारै-

स्तस्मादत्रैकशास्त्र्यं हठकृतमिति न ब्राहृसंवाददाढर्¬ात्।

तन्नस्तात्पर्यभेदैर्विहतिपरिह्मतिः काण्डवत्काण्डयोस्स्यात्

  बाह्राक्षेपार्थगूढाशयवचनभवद्भ्रान्तिशान्त्यादिसिद्धेः।।

14. आक्षिप्य स्थापनीयाः कतिचिदिह नयाः पूर्वकाण्डप्रणीताः

केचिद्व्युत्पादनीयाः क्वचिदपवदनं ख्याप्यमौत्सर्गिकस्य।

इत्थं सर्वत्र चिन्ताक्रम इति समतां वीक्ष्य मध्यस्थदृष्ट¬ा

शाश्त्रैक्ये पौनरुक्त्यप्रभृतिपरिह्मतिस्सावधानैर्विभाव्या।।

15. वृत्तिग्रन्थे तु जैमिन्युपरचिततया षोडशाध्याय्युपात्ता

सङ्कर्षः काशकृत्स्नप्रभव इति कथं तत्वरत्नाकरोक्तिः ।

अत्र ब्राूमस्सदुक्तौ न वयमिह मुधा बाधितुं किञ्चिदर्हाः

निर्वाहस्तूपचारात् क्वचिदिह घटते ह्रेकतात्पर्ययोगः।।

16. सौत्री सङ्ख्या शुभाशीरधिकृतिगणना चिन्मयी ब्राहृकाण्डे

तादथ्र्येऽनन्तरत्वेऽप्यधिकरणभिदा नाल्पसारैः प्रकल्प्या।

अक्षोम्र्याशाहिकाष्ठाद्विरदमुनिवसूम्र्यर्द्रितत्त्वातिशक्वर्य

क्षैरक्षैः प्रयाजैरिह भवति रसैः पादनीतिप्रबन्धः।।

17. शास्त्रं त्वेतत्समन्वित्यविहतिकरणप्राप्तिचिन्ताप्रधानै-

  रद्ध्यायैष्षोडशाङ्घ्रिद्विकयुगभिदुरं षट्कभेदादिनीत्या।

तत्राद्यं वक्ति सिद्धं विषयमपि परन्तत्प्रतिद्वन्द्वियुग्मं

स्वप्राप्तेस्साधनं च स्वयमिति हि परं ब्राहृ तत्रापि चिन्त्यम्।।

18. तत्राद्येऽत्यन्तगूढाविशदविशदसुस्पष्टजीवादिवाचः

पश्चात्स्मृत्यादिकैरक्षतिरहितहतिः कार्यताभ्रेन्द्रियादेः।

दोषादोषौ तृतीये भवभृदितरयोर्भक्तिरङ्गानि चाथो-

पासारोहप्रभावोत्क्रमसरणिफलान्यन्तिमे चिन्तितानि।।

19. रुाष्टा देही स्वनिष्ठो निरवधिमहिमाऽपास्तबाधः श्रिताप्तः

खात्मादेरिन्द्रियादेरुचितजननकृत्संसॄतौ तन्त्रवाही।

निर्दोषत्वादिरम्यो बहुभजनपदं स्वार्हकर्मप्रसाद्यः

पापच्छिद्ब्राहृनाडीगतिकृदतिवहन् साम्यदश्चात्र वेद्यः।।

20. विध्युक्त्याऽधीत्य वेदान्विधिबलविरतावन्यजादेव रागात्

कृत्स्नं मीमांसमानाः क्रमत इति परब्राहृचिन्तान्तरन्ति।

प्राप्ते तुर्ये युगेऽस्मिन् परिमितबलधीप्राणतद्विघ्नदृष्ट¬ा

कालक्षेपाक्षमत्वात् कतिचन कृतिनश्शीघ्रमन्ते रमन्ते।।

21. रागान्मीमांसते चेत् स्वयमिह यततां किं गुरूक्त्येति चेन्न

ब्राहृज्ञानाप्तये गुर्वभिगमनविधेस्तेन तत्त्वोपदेशात्।

सद्विद्याचार्यवत्त्वे प्रथयति च परब्राहृवित्तिन्तथान्या-

प्याचार्यादित्यधीते नियमविधिरसौ निश्चितो नीतिविद्भिः।।

22. सिद्धे व्युत्पत्तिराद्या न भवति न च धीर्लक्षणाद्युज्यतेऽस्मिन्

किं शास्त्रेणान्यसिद्धे न च निशमयितुस्सिद्धबोधे फलं स्यात्।

ब्राहृण्येवन्न मानान्युपनिषद इति स्तम्भिते तद्विचारे

शास्त्रारम्भं चतुस्सूत्र्यघटयदुचितैन्र्यायभेदैश्चतुर्भिः।।

23. सिद्धे व्युत्पत्त्यभावे स्वरिव फलतया लक्ष्मभङ्गे च लभ्यं

ब्राहृान्योक्त्याऽनुमानप्रमितमपि भवत्वंशतश्शास्त्रवेद्यम्।

विध्यर्थत्वेऽप्यबाधात् परविषयवचस्स्वार्थमानं भवेदि-

त्यन्वारुह्रोक्तिदैन्यन्न हि सहत ऋजुस्सूत्रकृद्वावदूकः।।

24. द्वाभ्यामादौ प्रतीतिप्रजननमुदितं सिद्धरूपे परस्मिन्

द्वाभ्यां वैफल्यशङ्का तदनु परिह्मता शास्त्रतज्जन्यबुद्ध्योः।

औचित्यानेकभाष्यस्वरसगतिमती प्राक्तनी वर्तनीयं

शास्त्रारम्भार्थमेकं त्रितयमपि परं शास्त्रमित्याहुरेके।।

25. यत्तत्सेनेश्वरार्यैरगणि वकुलभृत्किङ्करैरङ्ग्यकारि

व्यासार्यैन्र्यासि च द्विश्श्रुतमिति विशदं विष्णुचित्तैर्विवव्रे।

अश्रौषं शेषकल्पादहमपि विदुषो वादिहंसाम्बुवाहात्

अद्धा निद्र्धार्यतेऽतश्चतुरधिकरणी ब्राहृचिन्तोपयुक्ता।।

26. व्युत्क्रम्यात्राद्यतुर्यावभिदधति नयौ केचिदप्राप्तमेतत्

बोधासिद्धौ कथं तत्फलमिह विमृशेत् सिद्धवत्कारमान्द्यात्।

मध्यौ द्वौ रूपनामप्रजननविषयौ यद्विदुस्तच्च मन्दं

सत्युक्तेऽपेक्षितेऽर्थे विफलविभजनं नोचितं नीतिसूत्रे।।

इति शास्त्रावतारः

।1.1.1. (अथ जिज्ञासाधिकरणम्)

27. कार्ये व्युत्पत्तिराद्या नियतमिति गिरस्तत्परा एव सर्वा

नान्या वेदेऽपि नीतिस्तत उपनिषदामूषरप्रायतैव।

नातस्तद्वेद्यमीमांसनमुचितमिति प्रत्यवस्थीयमाने

सिद्धे व्युत्पत्तिमाद्यां बहुमुखमवयन् ब्राहृ जिज्ञास्यमाह।।

28. अङ्गुल्या निर्दिशन्तः किमपिकिमपि तद्वाचकांशैः प्रयुक्तैः

बालान् व्युत्पादयन्ति क्रमभवमिलितज्ञापकत्वं विदन्तः।

सङ्घातास्ते पदानां विदधति च धियं क्वापि सिद्धे विशिष्टे

कर्तव्ये क्वापि चेति क्वचिदिह नियतिश्शब्दशक्तेर्न कल्प्या ।।

29. संसारेऽनादिसिद्धे मुहुरनुभवतस्सञ्चितास्संस्क्रियास्स्यु-

स्संस्कारोद्बोधकाश्च स्वयमुपनिपतन्त्यप्रकम्प्यात्प्रवाहात्।

तत्तज्जातीयभेदग्रहणसमुचिता वृत्तयस्तन्निदानाः

तद्वत्स्याच्छिक्षकादिव्यवह्मतिषु शिशोरैदमथ्र्यादिबोधः।।

30. दक्षैराधोरणाद्यैरनुमितविविधस्वप्रयासोपयोगैः

शिक्षाभेदा विचित्रा गजविहगमुखान् ग्राहयद्भिः प्रयुक्ताः।

तस्मात्सार्था मनुष्यप्रभृतिषु च तथाभूतशिक्षाविशेषः

कल्पो भाष्योदितो यन्न यदि कथमसौ कल्पतेऽन्योऽपि मार्गः।।

31. कस्मैचित्सिद्धमर्थं कमपि कथयितुं चेष्टया चोद्यमानः

तस्मै तं वक्ति तद्धीसमविषयतया शिक्षते तद्वचोऽन्यः।

आदिष्टो बोधनार्थं यदिह वितनुते तत्तदर्थं हि युक्तं

तद्वाक्यात्सिद्धवेदी प्रयतत इति चेदस्त्वनादेशिकन्तत्।।

32. पुत्रस्तेऽभून्न सर्पोऽयमिति वचनतः प्रीत्यभीत्यादिलिङ्गैः

तद्योग्यार्थन्तदूह्रं विषयनियतिरासक्तिपूर्वैः क्वचित्स्यात्।

आवापोद्वापभेदात् प्रतिपदनियता शक्तिरप्यत्र सिद्ध्येत्

भूयोदृष्ट¬ादिसाहाय्यकमिह वचसः कार्यपक्षाविशिष्टम्।।

33. कार्ये व्युत्पत्तिराद्या भवतु तदपि किं शक्तितात्पर्यसिद्धेः

प्राग्व्युत्पत्तिः क्रियायां नृवचसि निगमे त्वन्यथेत्यभ्युपैषि।

स्थाप्याऽतोऽनन्यथासिद्ध्यनुगमनियतैस्सत्प्रयोगैर्हि शक्तिः

कोऽसौ पाञ्चाल इत्याद्युचितविरतिकं सिद्धमात्रेऽपि वाक्यम्।।

34. दुःखासंभिन्नदेशप्रभृतिफलतया चोदनास्वेव सिद्धं

श्रौतत्वादार्थवादिक्यपि भवतु फलं रात्रिसत्रे प्रतिष्ठा।

अङ्गीकुर्मो निषेधानुगुणमिति तथाऽनर्थकृत्त्वं निषेद्ध्ये

विद्ध्यर्थैरप्यतस्स्यादवितथविषया ब्राहृधीरर्थवादैः।।

।। इति जिज्ञासाधिकरणम् ।।

।1.1.2

35 . जन्माद्यैश्चेद्विशेष्यं भवति बहुलताऽथोपलक्ष्यं ब्रावीषि

ज्ञाताज्ञातादिदौःस्थ्यं व्यतिषजति न चालक्षिते स्यात्परीक्षा।

उद्दिष्टब्राहृचिन्ता तत इह कथमित्यत्र हेतुत्वलक्ष्यः

पुंसूक्तादिप्रसिद्धो गुणनिधिरघजिद्ब्राशब्दार्थ उक्तः।।

36. नाना चेल्लक्षणानि स्वरसभिदुरता ब्राहृणि स्याद्विशेष्ये

खण्डो मुण्डश्च गौरित्यभिलपनसमा धर्मिशब्दैकताऽत्र।

तेष्वेकं चेद्यथाऽन्यत्समुदितमफलं स्याद्व्यवच्छेद्यहानेः

खण्डत्वादिक्रमाच्चेत्यसदविहतितः खण्डतादेर्विशेषात्।।

37. तत्तत्स्वप्रत्यनीकव्युदसननियतं भेदकं नान्यबाधि

व्याघातः कालभेदान्न भवति जननस्थापनध्वंसनानाम्।

प्रत्येकं लक्षणत्वं सुवचमिह बहूदाह्मतिर्धीमहिम्ने

संभूयाप्याहुरेके फलमपि च तदाशङ्कितार्थव्युदासः।।

38. ज्ञातं चेन्नोपलक्ष्यन्न च यदि नतरां लक्ष्मयोगाप्रतीतेः

ज्ञाताज्ञातांशभेदस्विह दुरभिलपो लक्षणेनैव वेद्ये।

ब्राहृत्वं ब्राहृशब्दान्वितिरपि विदितेऽन्यत्र नोचेन्न शङ्का

मैवन्नानागमोद्यद्विशयशमनतः श्रीमति ब्राहृतोक्तेः।।

39. यावल्लक्ष्यावबोधं यदवगतिरतो लक्षणात्तद्विशेष्यं

यस्याबोधेऽपि पश्चाद्यदवगतिरिदं स्यात्कुतो नोपलक्ष्यम्।

तस्माद्द्वेधापि भाष्येऽनुमतिरनुचितेत्याशयाज्ञस्य चोद्यं

मोक्षार्थोपास्यभेदे ह्रुभयमपि समन्वेति विद्याविकल्पात्।।

40. चन्द्रे शाखेव शान्ते महति तटगतं लक्षणं कारणत्वं

सत्यज्ञानादिवाक्यैरपमृदितगुणन्तद्विभातीति डिम्भाः।

एकत्रार्थो विशेष्ये प्रतिपदनियतावज्र्यतत्तन्निमित्त-

द्वारावृतिं्त पदानामिह विदुररुणाद्युक्तिवन्न्यायवृद्धाः।।

1.1.3.

41. वीतावीतप्रयोगक्रमनियतिमती कार्यता विश्वमेतत्

सर्वज्ञेन प्रकिप्तं गमयति विफलस्त्वत्र शास्त्रैर्विचारः।

इत्युन्नीतौ लघुत्वादनुमितिवशतः कर्मजैश्वर्ययुक्तो

विश्वामित्रादिनीत्या स्फुरति विभुमिहासूत्रयच्छास्त्रवेद्यम्।।

42. क्षित्याद्यं कार्यताद्यैः कटकमकुटवत् कर्तृपूर्वं स कर्ता

सिद्ध्येदत्राण्वदृष्टप्रभृतिजनकदृक् सर्वशक्तिश्च मैवम्।

श्रोत्राद्यैस्सौरभादिग्रहणरुचिरियन्तादृशव्याप्त्यभावात्

सर्वं हेतुन्न पश्येत् घटकृदिह न चाकर्तृता तावताऽस्य।।

43. कार्यत्वात् स्याद्विवादास्पदमिदमखिलं सर्ववित् कर्तृपूर्वं

यन्नैवन्तद्धि नैवं पुरुषवदिति नानन्यथासिद्ध्यभावात्।

हेतावेतादृशात्मन्यविदुरभिदुरं व्याप्त्यसिद्ध्यादिदौःस्थ्य-

न्तद्भङ्गे लक्षणानामगणि गमनिका तत्त्वमुक्ताकलापे।।

44. यद्यप्यात्मान्तरादेरनुमितिरनघा लिङ्गभेदैस्तथाऽपि

प्रत्यक्षव्याप्तिशैली न खलु शिथिलिता कुत्रचित्पक्षभेदे।

आम्नाये त्वद्भुतोक्तिर्न भवति वितथा तादृशाप्तोक्तनीत्या

बाधाभावादिसाम्याद्विहतिमति भवेल्लोकवत् गौणतादिः।।

45. नन्वाम्नायप्रधानाः क्वचिदनुकथयन्त्यस्मदादेरशक्यैः

कार्यैः कर्ताऽनुमेयः पर इति तदभिप्रैतु जन्मादिवाक्यम्।

तस्मादीशानुमानत्यजनमनुचितं वैदिकस्येति चेन्न

क्वाप्यौचित्योपदेशाद्यत इति च सदाद्युक्तिसिद्धानुवादात्।।

।1.1.4

46. कर्तव्ये ह्रर्थ उक्ते निशमयितृफलं सिद्धरूपे तु न स्यात्

प्रीत्या साफल्यक्लृप्तौ वितथमपि वचः किन्न दृष्टन्तदर्थम्।

विद्यार्थत्वेऽन्यदृष्टेर्विषयवदनृतं तत् परीक्ष्यन्न भावी-

त्याक्षेपेऽनन्यशेषे निरवधिकसुखे शास्त्रतात्पर्यमाह।।

47. तात्पर्यं ब्राहृतत्त्वेऽप्यविहिवीधिनाऽप्येकवाक्यत्वपक्षे

भेदेऽपि स्यादसिद्धेर्न भवति बलिभुग्दन्तसङ्ख्योक्तिसाम्यम्।

स्वादार्थत्वं मृषात्वक्षममिति न मृषेत्यूहने प्रीत्ययोगा-

द्वालोपच्छन्दनादिष्वपि विषयतथाभावबुद्ध्यैव हर्षः।।

48. यत्प्रीत्यर्थं वचस्तन्निखिलमनृतमित्यर्भकप्रायवाक्यं

सत्योक्त्यानन्ददृष्टेर्न च विहतिरिहाद्ध्यक्षतश्शास्त्रतो वा।

तेनानन्यार्थसिद्धोक्त्यनृतविषयताशङ्कनस्तम्भनेन

त्रय्यन्तास्सत्यनित्याद्भुतपरमपरब्राहृनिष्ठाः प्रमाणम्।।

49. ब्राहृैके निष्प्रपञ्चीकरणविधिपदं ध्यानविध्यर्थमन्ये

निर्धर्माद्वैतवाक्योपचरितमितरे सिध्यतीति ब्राुवन्ति।

तेषामेषां स्वपक्षस्ववचनविहतिव्याकुलानेकजल्पाः

कल्पोऽयं बाह्रकल्पः कृतमतिपरिषत्पीठमर्दैरमर्दि।।

50. अन्यार्थो ह्रर्थवादस्स्तुतिमुखमुखतः स्थापितः प्रागिदानीं

 स्वातन्त्र्येण प्रमाणीक्रियत इति ततः काण्डयोस्स्याद्विरोधः।

 न स्यात्सामान्यतो हि प्रथममभिदधे मानतास्थापनार्थं

 केषांचित्स्वार्थतोक्ता स्वत इह सुभगे बोधमात्रात्पुमर्थे।।

51. त्रेधा सर्वत्र वेदे नियतविभजने चोदनाद्यंशभेदै-

 श्चत्वारोऽप्यर्थवादा मुनिभिरभिहिता ब्रााहृणांशस्य शेषाः।

 अत्रातच्छेषतोक्तौ स्मृतिहतिरिति चेद्विद्धि दत्तोत्तरन्तत्

 सामान्योक्तिर्हि सेयं तत उपरि यथामन्त्रविध्यन्यतोक्तेः।।

52. आम्नातैरैहिकार्थैरविगुणसफलैश्शाकुनज्यौतिषाद्यैः

 पारत्रिक्या प्रवृत्त्याऽप्यतिनिपुणधियामागमाश्वाससिद्धौ।

 शब्दे तस्माच्च बोधे सति परविषये दोषबाधव्यपेते

 मानं तत्र स्वतोऽसौ न कथमितरथा नैगमाध्वापलापः।।

53. शास्त्रारम्भोपपत्त्यै चतुरधिकरणी पेटिकेयं प्रवृत्ता

 लक्ष्यस्योक्तं विशेषद्वयमिह घटते वक्ष्यमाणोपजीवि।

 सद्ब्राहृाद्युक्तिवेद्यः पर इति हि वदेत्कारणत्वाधिकारे

 वक्ष्यत्यस्य द्विलिङ्गाद्यधिकृतिषु पुनस्तादृशानन्दतादीन्।।

54. आत्मन्येवं परस्मिन्न कृत इति मिते विश्वहेतुत्वलक्ष्ये

 शास्त्रैकस्थापनीये निरुपधिपरमप्रेमयोग्ये प्रसक्ते।

 ईदृक्त्वं स्याद्यथार्हं प्रकृतिपुरुषयोर्नानुमानाद्ययोग्यौ

 दुःखास्पृष्टौ च तावित्यथ परकथनं दोधवीति क्रमेण।।

।1.1.5

55. गौणेक्षासाहचर्यान्न तु बहुभवनप्रेक्षणं नैव मुख्यं

 दृष्टान्ताद्यैरिहाभात्यनुमितिरचितस्तादृशाज्जन्म युक्तम्।

 सच्छब्दस्तेन मूलप्रकृतिमविकृतिं व्याहरेदित्ययुक्तं

 श्रुत्याऽन्येषां निरोधात्त्वदभिमततिरस्कारिलिङ्गादिभिश्च।।

56. ज्ञाते ह्रेकत्र सर्वं विदितमिति भवत्यैक्यसिद्ध्यै प्रतिज्ञा

 मृत्तत्कार्यादयश्च त्रय इह कथितास्तस्य दृष्टान्तभेदाः।

 तेनाव्याक्तानुमानं कथितमिति वृथोत्कण्ठितं हेत्वनुक्ते-

 स्सारूप्यादेश्च हेतोरुपरि परिह्मतेरत्र संभावनोक्तेः।।

57. आदेशात्मस्वशब्दैरनियतशरणैस्त्वन्तदैक्योपदेशा-

 ज्जीवेन स्वेन साहंकरणमनहमोऽचिद्गणस्य प्रवेशात्।

 एकज्ञानेन सर्वं विदितमिति गिरा सर्वतादात्म्यवाचा

 शाखाविद्यान्तरादेरपि बहुभविता विश्वविद्विश्वमूर्तिः।।

।1.1.6.

58. मुख्येक्षा यद्यभीष्टा भवतु तदुचिते सा पुनर्जीवतत्त्वे

 सद्विद्यायां हि शब्दैस्त्रिभिरुपरि सतस्तस्य जीवैक्यमुक्तम्।

 इत्यूहादुज्जिहानं प्रशमयितुमथ प्रस्तुतो विश्वकर्मा

 जीवस्याप्यन्तरात्मा निरुपधिकमहानन्दथुस्स्थाप्यतेऽत्र।।

59. दृष्टः पूर्वं विकारे मयडिति चरमेऽप्येवमस्त्वित्ययुक्तं

 मध्ये तद्भङ्गदृष्टेः प्रचुरमिह वदेत् प्रत्ययोऽन्यस्य बाधात्।

 आनन्दप्राचुरीच प्रकृतपरसुखाल्पत्वलब्धावधित्वा-

 द्दुःखाल्पत्वानपेक्षा परदुरितभिदश्शासितुस्तद्विरोधात्।।

60. आत्मा तस्यैष एवेत्युदितमनितरात्मत्वमस्यैव वक्तुं

 शारीरोक्तिश्च तस्मिन्निखिलतनुतया स्यादसङ्कोचवृत्तिः।

 शोध्यत्वन्तत्तदर्थानुगुणमिति विभोस्तत्प्रसाद्यत्वमात्रं

 प्राप्येऽस्मिन्प्राप्तिरूपा परविद उपसंक्रान्तिरानन्दसिन्धौ।।

61. निर्देहेऽस्मिन्निरंशे न हि भवति शिरः पक्षपुच्छादि किञ्चि-

 त्तस्मात्पुच्छं प्रतिष्ठेत्युदितमिह परं ब्राहृ भातीति चेन्न।

 सोढा पुच्छत्वक्लृप्तिर्यदि कथमितरन्नानुमन्येत कल्प्यं

 ब्राहृण्यात्मप्रतिष्ठावचनमनितराधारताख्यापनाय।।

।1.1.7.

62. भूयिष्ठानन्तपुण्योपचयबलसमुद्बुद्धपूर्वोक्तभूम्नां

 शक्रादिन्यायतस्स्यात् त्रिगुणतनुभृतामीश्वराणां प्रवाहः।

 तन्नाकर्मोत्थदिव्याकृतिजनिमहिमा शासिता सर्वपुंसां

 नित्यश्रीब्र्राध्नबिम्बे श्रुत इति स य इत्युक्त एवैष एकः।।

63. सर्वेभ्यः कल्पकेभ्यो ह्रुदित इति वदत्यन्तरादित्यविद्या

 तस्माच्छेषाभ्यनुज्ञानयत इति विभोः पुण्ययोगोऽस्तु मैवम्।

 आम्नातोऽनन्यशास्यस्स्ववशपरफलस्साधुना नैष भूयान्

 स्यात्पुण्ये लक्ष्मयोगादपि न सुकृतमित्यादिना पाप्मशब्दः।।

64. प्रख्यातं शुद्धसत्वं किमपि तदनघं द्रव्यमव्यक्ततोऽन्य-

त्तद्रूपं रूपमैशं दिवि कनति तथा शेषशेषाशनाद्यैः।

 नित्यं तत्सूरिसेव्यं परतरमजहत्स्वस्वभावस्स देवः

 पुंसां संसारशान्त्यै विपरिणमयति व्यूहपूर्वैर्विभागैः।।

65. देहत्वात् सप्तधातुत्रिमलमघभवन्दुःखकृन्नाशयुक्तं

 सांशत्वादेश्च हेतोरिति यदि तदसद्धर्मिमानेन बाधात्।

 बाधश्शास्त्रैकवेद्ये क्वचिदपि न भवेदन्यथाऽतिप्रसङ्गात्

 यत्तु स्वेच्छावतारेष्वभिनयति तदप्यासुरोपप्लवार्थम्।।

66. इत्थं विद्यात्रयेण स्थिरचरचिदचिद्देहिनस्सर्वहेतो-

 रव्यक्ताज्जीवतत्त्वादपि समधिकता यद्यपि स्यात्तथाऽपि।

 उत्थानद्वारभेदात् क्रमत इह मृदूपक्रमान् क्रूरनिष्ठान्

 अध्यायेऽस्मिन्निरुन्धन्नधिकरणगणैस्तद्गुणानुद्गृणाति।।

67. शब्दैस्सद्ब्राहृमुख्यैश्श्रुतिशिरसि मितं कारणं किञ्चिदेकं

 सङ्कल्पाभ्यासरूपैरतदननुगुणैश्चिन्तितश्चिद्विशेषः।

 भूताकाशादिशङ्काजननसमुचितैर्नामभिः कारणस्थैः

 क्षिप्त्वा तत्पादशेषश्रुतिसमुदयनासम्भवोक्त्या भुनक्ति।।

68. आकाशप्राणशब्दावनितरगतिकौ रूढिभङ्गेन नेयौ

 ज्योतिश्शब्दस्तु रूढ¬ा प्रथयति पुरुषं दिव्यतेजोविशिष्टम्।

 प्रख्यातेन्द्रादिशब्दस्तदनु नियमितस्तद्विशिष्टप्रवृत्त्ये-

 त्येवं स्यात् पेटिकैषा द्विकयुगलवती शब्दवृत्तिक्रमेण।।

।1.1.8.

69. अत्राकाशस्त्वशेषप्रभवविलयभूस्साम्नि दृष्टस्स्वनाम्ना

 निर्दिष्टस्तैत्तिरीयेऽप्यनितरजनितस्स्वात्मनस्सम्भवोक्त्या।

 मैवं सिद्धानुवादो ह्रयमथ च परप्राप्यतादिर्न तÏस्म-

 स्तत्कर्तात्मा विपश्चिच्छØत इति विहिता स्वात्मनस्तत्प्रसूतिः।।

।1.1.9.

70. प्राणायत्तं हि देहादिकमिह विदितं तेन तत्कारणत्वं

श्रुत्युक्तं रूढिशक्त्या सुदृढमिति न तद्व्योमवत् साधनीयम्।

तन्न प्राणस्य काष्ठादिषु महिमहतेः पूर्ववच्चानुवादात्

आकाशोक्तेरिवोक्ते भगवति निखिलप्राणनस्यापि दृष्टेः।।

71. नोकिं्त व्याहन्ति लिङ्गं किमपि भवति तु ख्याततत्त्वानुकूलं

 शब्दश्चानन्यनिष्ठश्श्रुत इति न परो ज्योतिराद्युक्तिवेद्यः।

 विश्वोत्पत्त्युक्त्यभावेऽप्यवगतमिह तल्लिङ्गमित्याक्षिपन्तं

 रुन्धेऽथाधिक्रियाभ्यां तदुचितचिदचिद्वर्गवैशिष्ट¬युक्त्या।।

।1.1.10.

72. कौक्षेयज्योतिषैक्यं कथितमिह परज्योतिषस्तस्य विश्वो-

 पादानत्वं च विद्यान्तरविदितमतः कारणं वह्निरस्तु।

 मैवं पुंसूक्तवाक्योदितपरपुरुषप्रत्यभिज्ञप्त्यबाधात्

 गायत्र्युक्तिस्तु साम्यादपि च निगदितास्तस्य भूतादिपादाः।।

73. उत्थानं ज्योतिरादावधिकरणयुगे कारणव्याप्तलिङ्गा-

 दित्याभाष्यान्यलिङ्गं स्ववचसि विहितं नेति भाष्यं कथं स्यात्।

 इत्थं विश्वादिलिङ्गं सदिह न तु पराभीष्टलिङ्गं समस्ती-

 त्युत्पश्यन् पूर्वपक्षी व्यवहरति तथा व्याहतिस्तन्न शङ्क्या।।

।1.1.11.

74. विद्या प्रातर्दनी सा वदति हिततमोपास्तिकर्मेन्द्रमेव

 ख्यातप्राणेन्द्रचिह्नान्वितमपि तदसौ विश्वकर्तेति चेन्न।

 ब्राहृ त्रेधा ह्रुपास्यं बहुविधचिदचित्कञ्चुकं स्वात्मना च

 प्राणेन्द्रप्रक्रमोऽपि प्रबलतरमहावाक्यवैघट¬भग्नः।।

75. यल्लिङ्गं कारणैकस्थितमिति कथितं ज्योतिषीन्द्रे च तत्तु

 प्रख्यातान्यैकनिष्ठं प्रथममितमतस्तन्मुखोत्थित्ययोगः।

 अप्राप्ते तद्विमर्शे प्रकृतशिथिलता नेति चेत्सत्यमेतत्

 विष्णूत्पत्त्यादिनीतिभ्रमत इह पुरोवादमुत्प्रेक्ष्य शङ्का।।

76. ज्योतिः प्राणेन्द्रशब्दाः परतरविषयाः कारणव्याप्तधर्मा-

 दित्येतत्साध्वमीषां बहुविहतिमती ख्यातमात्रे तु वृत्तिः।

 तत्कौक्षेयानलात्मा कथित इह तथा ध्यानतस्तत्फलाप्त्यै

 मुख्यप्राणादिलिङ्गं तदुपहितपरोपासनान्मोक्षणाय।।

77. कार्यं यत्कर्मवश्यं यदपि दृढमितं तन्निरूढैस्तु शब्दैः

 निर्दिष्टे ब्राहृणि स्यात्क्वचिदगतिहता रूढिरैन्द्रीनयेन।

 तल्लिङ्गानन्यथासिद्ध्यधिगमनबलात्तद्विशिष्टे विवक्षा

 स्यादीशे ज्योतिरिन्द्राद्यभिलपनपदेऽहंत्वमादीरिते च।।

78. स्वेच्छातस्सर्वहेतुश्शुभगुणविभवानन्तनिस्सीमहर्ष-

 श्शुद्धाकर्मोत्थनित्याकृतिरनुपधिकाकाशनादिस्वभावः।

 सप्राणाप्राणभेदव्यतिभिदुरजगत्प्राणनो दिव्यदीप्तिः

 प्राणेन्द्राद्यन्तरात्मा प्रभुरधिकरणैस्सप्तभिः प्रत्यपादि।।

 



।1.2.0.

1. अत्रायोगान्ययोगव्यपनयननयैब्र्राहृपादत्रिपादी-

 भागारूढैर्मृदूपक्रमकठिनपरैः प्राय आद्ये प्रसाद्ध्यम्।

 कृत्स्नाक्षेपोपशान्त्यै प्रथम इह ततः पाद उक्तिस्त्रिपादी

 क्वाचित्काक्षेपपूर्वाखिलकलहसमुन्मूलनाय प्रणीता।।

2. अस्पष्टस्पष्टरूपस्फुटतरचिदचिल्लिङ्गवद्वाक्यचिन्ता

 भाष्ये दीपावतारेऽप्यभणि नयगणैस्सम्प्रवृत्ता त्रिपाद्याम्।

 अत्यन्तास्पष्टलिङ्गान्वितविषयमुशन्त्याद्यपादं तु केचित्

 तत्रेदन्तारतम्यं नियतनिजबलैः कर्मतार्तीयमानैः।।

3. पूर्वत्रासिद्धरूपैस्स्वमतिविरचितोन्नीतिभिः पूर्वपक्ष-

 स्सिद्धैस्साधारणैरप्युपधिनियमितैः प्रत्यवस्था द्वितीये।

 स्पष्टासाधारणत्वैरुपरिपरमतानूक्तिकल्पैरथेति

 न्यायैकतिं्रशदत्र प्रतिचरणविभक्त्यन्विताऽन्वेषणीया।।

4. विश्वं पादे द्वितीये वपुरिति कथयंश्चिन्त्यते वाक्यवर्गो

 विश्वाधारस्स आत्मेत्यभिलपनपरस्तर्कणीयस्तृतीये।

 तुर्ये साङ्ख्यादिपक्षोदितपरिपठनभ्रान्तिरुन्मूलनीये-

 त्येवं केचित्त्रिपादीं जगदुरयमपि श्रोतृबुद्धेस्समाधिः।।

।1.2.1

5. यस्य प्राणश्शरीरं स खलु हिततमोपास्तिकर्मप्रसक्त-

 स्तस्मिञ्जीवत्वशङ्काजगदुपजनके सौति शाण्डिल्यविद्या।

 पूर्वन्यायाच्च युक्तन्दमनमिह महावाक्यतः प्रक्रमस्ये-

 त्युत्थाने प्रक्रमोक्तानुगुणमिति महावाक्यमेकीकरोति।।

6. अन्वारुह्रात्र भेदं प्रथममधिकृतिर्भाषिता किंनिमित्तं

 विद्यैकत्वेऽनुवादः पर इह गुणविद्ध्यर्थमेवेति युक्तम्।

 सत्यं ब्राहृानुमत्य क्वचिदुपनिषदि क्वापि कल्प्ये विवादे

 चिन्तैषोदाह्मतिस्स्यात्परमतरचितेत्यर्थसिद्धिस्तु बोद्ध्या।।

7. सर्वत्वं कर्मभिस्स्वैर्जनिमति घटते ब्राहृशब्दोऽत्र चैवे-

 त्यल्पस्थानोऽल्पमानस्सुखतदितरभुग्जीव एवेति चेन्न।

 तज्जत्वादेरनूक्तेर्विविधगुणभिदादर्शनात्सर्वतादे-

 स्स्वारस्स्यादप्यणुत्वं ह्रुपधिकृतमिहोपास्तये ज्यायसि स्यात्।।

।1.2.2.

8. अत्ता खल्वोदनादेर्भवभुगिति कठश्रुत्यधीतोऽप्यसौ स्या-

 न्न स्यान्मृत्यूपसिक्तस्थिरचरनिखिलग्रासतस्तल्लयोक्तेः।

 जीवव्यावर्तनं च प्रकरणविदितं भोक्तृतोक्तिद्र्वयोस्तु

 प्रेर्यत्वप्रेरकत्वप्रतिनियतरसाच्छत्रिनीत्याऽथवा स्यात्।।

9. सत्त्वं स्वाद्वत्त्यनश्नन् ज्ञ इति विभजनात्पैङ्ग्यधीतन्तु सत्त्वं

 बुद्धिः प्राणोऽथवेति त्वृतमिह पिबतोर्जीव एकस्तयोश्चेत्।

 मैवं जन्तौ तु सत्त्वश्रुतिरियमुचिता कर्मभुङ्नाप्यनश्नन्

 तत्प्रश्नप्रक्रमोऽन्याशय इदमपि चाभाषि पूर्वापराद्यैः।।

।1.2.3.

10. यद्वृत्तादेर्य एषोऽक्षिणि पुरुष इति श्रूयमाणोऽस्तु जीवो

 यद्वाऽक्ष्णोर्देवताऽर्कः प्रतिकृतिरथवा तत्र दृश्येति चेन्न।

 एतद्ब्राहृैतदेवामृतमभयमिदं कं खमित्याद्यधीते-

 स्संयद्वामत्वमुख्यैस्स्थितिनियतिबलादर्चिराद्युक्तितश्च।।

11. स्वातन्त्र्योत्तंसितासु श्रुतिषु न फलदस्यैव वेद्यत्ववादः

 कल्याणालोकनादेरिव विधिबलतो वेदनस्यार्थवत्त्वात्।

 तस्मादक्ष्यन्तरस्थः प्रतिकृतिपुरुषो युज्यते पूर्वपक्षे

 सेयं पूर्वापरास्वप्यधिकृतिषु यथासम्भवं नीतिरूह्रा।।

12. पूर्वन्यायेऽग्निविद्या पुरत उपनता मध्यतस्त्वत्र तस्मा-

त्तद्वन्न ब्राहृविद्यानुगतिरिति भवेदक्षिविद्या ततोऽन्या।

मैवं विचछित्तिरङ्गैर्न हि भवति मिता चाङ्गगताऽनेकधाऽस्याः

प्रोक्तं च ब्राहृविद्यानुगुणमिह फलं प्राक्तु न ब्राहृदृष्टिः।।

।1.2.4.

13. अन्तर्यामी स जीवो बहुविधकरणायत्तधीवृत्त्यनूक्ते-

 र्नान्यो द्रष्टेति चोक्तेरिति यदि न नियन्त्रन्तरस्य व्युदासात्।

 द्रष्टृत्वाद्यं च तत्तद्विषयघटितधीरूपमीशे हि मुख्यं

 तद्धर्माः काण्वमाद्ध्यन्दिनपठितिगतास्तस्य चात्मा शरीरम्।।

14. स्थानैक्यादत्र शाखाद्वयपरिपठितावात्मविज्ञानशब्दा-

 वेकार्थावित्यकम्प्यन्तदपि कथयतो बुद्धिमेवेत्यपार्थः।

 लोकाम्नायप्रसिद्ध्योरनुगमत इमौ चेतने ह्रेकतानौ

 बाधः केनापि नास्मिन्भवति च सत इत्यादिभिस्सामरस्यम्।।

।1.2.5

15. दृश्यत्वादेर्निषेधो विकृतिमति भवत्यक्षरे सन्निकर्षात्

 पञ्चम्युक्ताक्षरन्तत्तदवधिकपरः पञ्चविंशोऽस्तु मा भूत्।

 सर्वज्ञत्वादिदृष्टः प्रथमसमुदितं त्वक्षरं ब्राहृ शुद्धं

 पश्चादुक्तन्तु जीवादिकमवधितया भेदतस्तत्परोक्तेः।।

।1.2.6.

16. स्वर्लोकादित्यवाताम्बरसलिलमहीरूपमूद्र्धादिक्लृप्त्या

 ध्येयो वैश्वानरात्मा स्थिरबहुविशयश्शब्दलिङ्गादिसाम्यात्।

 मैवं ब्राहृेत्यधीतेर्भुवनतनुतया योगतस्त्वग्निशब्दो

 वैशिष्ट¬ाद्वा क्रियाङ्गं स्ववपुषि परधीर्गार्हपत्यादिधीश्च।।

17. अन्यस्मिन्नन्यदृष्ट¬ा न भवति विदुषां क्वापि निश्श्रेयसाप्ति-

 स्तस्माद्वैश्वानरोऽसौ न पर इति फलं त्वन्नसिद्ध्यादि मैवम्।

 ब्राहृैव ह्रन्यदृष्ट¬न्वितघटितमिह ब्राहृशब्दाद्यभावात्

 सर्वाघध्वंस उक्तः फलमपि परमं ब्राहृ च व्याप्तमन्नम्।।

18. त्रिष्वत्रोपासितॄणां मितह्मदयगुहाक्ष्यन्तरश्चिन्त्य उक्तो

 विश्वान्तर्यामितादेर्विपुलपरिमितश्चिन्तनीयस्त्रयेऽथ।

 षट्सु ब्राहृात्मशब्दौ पुरुषपदमपि क्षेत्रतज्ज्ञप्रपञ्च-

 व्यावृत्ते विश्वहेतौ प्रकरणनियमान्नामवृत्त्या नमन्ति।।

19. तज्जत्वादेर्हि सर्वं जग्दभिगदितं ब्राहृभावेन पूर्वं

 सर्वान्तर्यामिता च प्रभवितुरुदिता सर्वतद्देहता च।

 तस्माद्विश्वैक्यबाधप्रभृतिबहुविधापार्थबम्भ्रम्यमाण-

 क्षुद्रक्षीबोक्तिजालं निखिलमिह नयैस्सूत्रकारो निरास।।

20. स्वाधीनाशेषसत्तास्थितियतनतया सर्वभावेन तिष्ठन्

 ग्रस्ताशेषोऽक्षिनित्यस्थितिरखिलतनुः कल्पिताग्न्यादिगात्रः।

 स्वर्लोकाद्यङ्गवैश्वानरपदविषयो लक्षणस्यादिमस्य

 प्रोक्तः पादे द्वितीये श्रुतिनिकरशिरश्शेखरः श्रीनिवासः।।


।1.3.1.

1. स्पषटैर्जीवादिलिङ्गैर्युतमिह हि वचस्साद्ध्यते ब्राहृनिष्ठं

 मध्येऽत्राधिक्रियोक्तिस्त्रिषु किमिति न तत्तत्प्रसङ्गात्तदुक्तेः।

 किञ्चास्यामर्धलौकायतिकनिरसनं प्रस्तुतार्थोपयुक्तं

 ब्राहृोत्कर्षश्च सिद्ध्येद्गलति दिविषदां कारणैक्यभ्रमश्च।।

2. न्यायास्सप्तैव साक्षात् परविषयतया सङ्घटन्तेऽत्र पादे

 सर्वाधारस्स आत्मा स्वमहिमनिलयस्तत्र तात्पर्यभूमिः।

 तत्सिद्ध्यै शासनाद्यं कथितमिह मिथस्स्यूतमालोचनीयं

 सर्वेशत्वं च षष्ठप्रमितनयमितं पश्चिमन्यायरक्ष्यम्।।

3. सिद्धं प्रागेव मुण्डोपनिषदि परमं ब्राहृ तद्धर्मभेदै-

 र्भेदोक्तेश्चेत्यकाण्डे किमिति पुनरिमां पिष्टपेषम्पिनष्टि।

 सत्यं क्षेत्रज्ञधर्मैः पटुभिरुपनता प्रक्रियाभेदशङ्का

 प्रख्याप्य प्रत्यभिज्ञामपुनरुदयमुन्मूल्यते शब्दपूर्वैः।।

4. यस्मिन्नोतम्मनोऽन्यैस्सह करणगणैर्जायते यश्च नाना

 नाड¬ाधारश्च योऽन्तश्चरति सकरणी कर्मभोक्तेति चेन्न।

 विश्वाधारात्मभावादमृतवितरणान्मुक्तसृप्यत्ववादात्।

 प्रागुक्तप्रक्रियैक्यादनशनसहितात् काशनाच्चान्यसिद्धेः।।

5. व्याप्ते तत्राक्षमोतं यदि किमिह ततो जन्म चास्येच्छयोक्त-

न्नाडीचक्रस्य नाभिर्भवति च स परो हार्दरूपेण तिष्ठन्।

निष्कम्पव्यापिनोऽन्तश्चरणमपि शुभैर्विग्रहैरस्ति लोके

सौबालाम्नातवद्वा चरणमिदमपि स्यादधिष्ठानमात्रम् ।।

।1.3.2.

6. आत्माज्ञानाभिलापादनुपरतशुचे नारदाय प्रयुक्तं

 प्राणे सानत्कुमारं विरमति वचनं हिंसनार्हस्स जीवः।

 अल्पप्रत्यर्थिभूमा निरवधिकसुखोऽप्येष एवेति चेन्न

 प्राणाख्यात्सत्यशब्दोदितमधिकतयोपास्यमत्र ह्रुपात्तम्।।

7. नामाद्याशान्तवेद्ये प्रतिवचनवशात् प्रश्नतश्चाधिकोक्ते

 प्राणे विश्रान्तिदृष्ट¬ा भवतु तदवधिः प्रस्तुतात्मोपदेशः।

 मैवं जातो हि नामादिवदिह परमादात्मनः प्राण उक्तः

 स्वस्मादित्यत्र तत्स्यादिति न विघटनात् स्वारसिक्या विभक्तेः।।

8. प्राणद्रष्टाऽतिवादी तदनुवदनतश्चोदितस्सत्यवाद-

 स्तस्मात्सर्वाहमर्थस्सकलजनयिता प्राण एवेति चेन्न।

 एष त्वित्यन्तोक्तेरतिवदनकृतः प्राक्तनादस्य तद्व-

 न्नत्वन्योऽस्त्यग्निहोत्री स्वमहिमनिलये ह्रत्र धर्मोपपत्तेः।।

9. नामादौ वाक्च तस्योपरि तदनु मनश्चाथ सङ्कल्पनामा

 चित्तं ध्यानं च तस्माद्बलमपि च ततस्स्याच्च विज्ञानपूर्वम्।

 अन्नं तोयं च तेजो गमनमपि ततो मन्मथस्स्यात्तथाऽशा

 प्राणस्सत्यः परात्मा सकलनियमिता गम्यते भूमवाक्ये।।

।1.3.3.

10. प्रख्याताकाशपूर्वस्वविकृतिवहनादक्षराख्यं प्रधानं

 तस्याप्याकाशतोक्तौ धृतनिखिलजगत् क्षेत्रितत्त्वन्तु तत्स्यात्।

 मैवन्द्रष्टृत्वपूर्वैरनितरनियतैश्शासनायत्तधृत्या

 किञ्च द्रष्ट्रन्तरस्य व्युदसनमिह तत्तुल्यतद्द्रष्ट्रपोहः।।

।1.3.4.

11. लक्षीभूतोऽयमेकः खलु पुरुष इह ध्यायतेरीक्षतेश्च

 क्षेत्रज्ञस्सोऽयमण्डाधिप इतरपरात्स्वान्यजीवात्परोऽसौ।

 नो चेद्भौमादिभोगप्रकरणविहतिर्बोभवीतीत्ययुक्तं

 तस्मिञ्शान्तामृतत्वप्रभृतिपरगुणख्यात्यनूक्त्योरयोगात्।।

12. नन्वत्रोङ्कारमात्रात्रयफलगणनारूढभूम्यन्तरिक्ष-

 प्रत्यासत्त्या निवासस्सरसिजवसतेब्र्राहृलोकोऽस्तु मैवम्।

 पापोन्मुक्तेन लभ्यो ह्रयमिह कथितस्सूर्यसम्पत्तिपूर्वं

 सोढव्यो मद्ध्यलोकैव्यवधिरिति समस्तत्समाधानमार्गः।।

।1.3.5.

13. दह्यं ह्मत्पुण्डरीके गगनमभिहितन्तैत्तिरीयश्रुतौ य-

 च्छन्दोगैस्तत्र गीतं यदपि च दहराकाश इत्येतदेकम्।

 भूताद्यं तत् प्रसिद्धेर्महिमत इति न प्रत्यनीकैरनेकैः

 श्रौती च स्यात् प्रसिद्धिर्भगवति बलिनी लिङ्गवर्गैस्सनाथा।।

14. बाह्राकाशश्च यावानयमपि हि तथेत्येतदक्लिष्टमीशे

 सत्यात्मप्राणशब्दा नभसि न कथमप्यन्वयं प्राप्नुवन्ति।

 कामाधारश्च योऽसौ समगणि दहराकाशवाचाऽत्र नित्य-

 स्तस्यैव ह्रेष आत्मेत्यनुवदनमतस्तद्गुणाश्चिन्त्यकामाः।।

15. सर्वेशाधारतोक्त्या भवतु च ह्मदयव्योम तद्वाज्यधीतं

 छान्दोग्यस्थो निषादस्थपतिनयपदं ब्राहृलोकादिशब्दः।

 आपस्तम्बश्च वैभाजनपुरमवदद्ब्राहृ सर्वात्मभूतं

 पूतस्तस्य प्राणिनस्स्युस्तदपि तदपि हि स्यात् पुरं सर्ववासात्।।

16. जीवस्तह्र्रेष आत्मा गुणगणघटनात्तत्परामर्शदृष्टे-

 रल्पत्वाद्युक्तितश्चेत्यसदनुपधिकात्सत्यसङ्कल्पतादेः।

 विश्वैकाधारतादेरपि स खलु परो दह्यतौपाधिकी स्यात्

 प्राजापत्यात्तु वाक्यात्परसमदशया तद्गुणोक्तिर्विमुक्ते।।

17. दह्याकाशोऽपवर्गप्रद इति गदितुं सम्प्रसादोक्तिरत्र

 प्राजापत्ये तु वाक्ये परपरिपठनं प्राप्यनिष्कर्षणार्थम्।

 आकाङ्क्षाद्यैस्तदेवं परतदितरयोरन्विते वाक्ययुग्मे

 युक्तन्नान्योन्यबाधप्रभृतिकमिह तत्सामरस्यं हि सौत्रम्।।

।1.3.6.

18. प्राणेशोऽङ्गुष्ठमात्रः क्वचिदनुकथितस्सञ्चरन् कर्मभिः स्वै-

 रन्यत्राङ्गुष्ठमात्रं पुरुषमपि यमो निश्चकर्षेति दृष्टम्।

 तस्मादेतत्प्रमाणप्रमितमुपनिषज्जीवमाहेत्ययुक्तं

 वाक्यस्थेशानतादेर्नरह्मदयपरिच्छित्तितस्तद्धि मानम्।।

19. नह्रङ्गुष्ठप्रमाणं ह्मदयमखिलजन्त्वाश्रयन्तत् परस्मि-

 न्व्याप्ते तन्मानतोक्तिः क्वचिदिति मनुजाधिक्रियोक्तिप्रसङ्गे।

 सूत्रद्वन्द्वद्वयान्तस्त्रिभिरधिकरणैश्चिन्त्यते तद्विशेष-

 स्तातीर्यैस्स्थापनीया त्ववजिगमिषिता नेतिकर्तव्यताऽत्र।।

।1.3.7.

20. शब्दात्मा लौकिकार्थाकृतिरियमथवा देवतातो न तस्या

 ब्राहृोपासेत्यनार्षं श्रुतपरिहरणं कल्पनं चाश्रुतस्य।

 विश्वरुाष्टा च मा भूदनुमितिविषयस्तत्परैस्त्वेष शास्त्रै-

 निर्बाधैस्स्थापितः प्राक् स्वयमपि विभुना नैव शक्यापलापः।।

21. सामथ्र्यं देवतानामुचिततनुभृतामर्थिता तापभाजां

 सम्पद्येतेति तासामपि भवति परोपास्तिवर्गाधिकारः।

 ख्यातम्मन्त्रार्थवादप्रभृतिषु निखिलं दोषबाधाद्यभावे

 मिथ्येत्युद्धोषयन्तस्स्वत इह कथिताम्मानतां प्रस्मरन्ति।।

22. द्वेधा वृतिः स्तुतौ स्यात् स्वपरगुणमुखी प्राक्तनी तावदथ्र्या

 निर्धार्यः पश्चिमायामपि निपुणधियाम्मुख्यधर्मैकदेशः।

 रुच्यर्थायां च तस्यामनृतकथनतो रोचना न ह्यमुग्धे

 भूतार्थे का स्तुतिस्स्यादिति मुनिगदिता गौणतादेर्निवृत्त्यै।।

23. नानादेहाप्तिशक्ताः कथमिह युगपत्कर्मसन्निद्ध्यनर्हा-

 स्तत्तद्वृत्तान्तसत्त्वे श्रुतिषु भवति नानित्ययोगः प्रवाहात्।

 काण्डादौ कर्तृवादः प्रवचननियतो वेदनित्यत्वसिद्धे-

 रीशः प्राचीनकल्पक्रमत उपदिशेद्वर्णसर्गेऽपि वेदान्।।

24. वेदानामीशबुद्ध्या क्रमनियमहतिः कल्पभेदे यदीष्टा

 मन्त्रांशानान्तथा स्यान्न खलु तदुचितं व्रीहिसोमादिसाम्यात्।

 इत्थं विद्ध्यर्थवादक्रम इति नियमे पाक्षिके वा तथात्वे

 पक्षोऽसावाक्षपादः परमतपरिषत्कोटिमाटीकतान्नः।।

25. सौक्ष्म्यात्तुल्याभिघारात् सहकृदपनयाच्छादकादान्यपर्या-

 दत्यासत्त्याऽतिदूराद्बलवदभिभवानुद्भवाक्षोपघातैः।

 नेक्ष्यन्ते वर्तमानान्यपि हि सुरगणस्तद्वदन्तर्द्धिशक्तेः

 प्रख्यातास्सिद्धिभेदा आपि जननतपोयोगमन्त्रौषधीभ्यः।।

।1.3.8.

26. स्यादेवं देवमात्रे मनुज इव परोपास्तिमात्रे तथाऽपि

 स्वस्यैवाराद्ध्यभावस्स्वपदमपि फलं यत्र नात्राधिकारः।

 मैवं सर्वान्तरात्मा स्वतनुभृदिति चोपासते मुक्तिकामाः

 कामादावर्तते तु स्वपदमपि फलं कल्पमन्वन्तरादौ।।

।1.3.9.

27. जैमिन्युक्तापशूद्राधिकरणसरणेर्नास्ति विद्याग्निलब्धिः

 शूद्रादीनान्तथाऽपि स्मृतिपरभजनाधिक्रिया जाघटीति।

 श्रोतृत्वाद्भारतादेस्स्वजनिसमुचितैः कर्मभिश्चेत्ययुक्तं

 प्राप्ते ब्राहृोपदेशे ह्रुपनयनपरामर्शनादि प्रसिद्धम्।।

28. शूद्राणां भारतादेश्श्रवणमनुमतं पापशान्त्यादिसिद्ध्यै

 वेदार्थापातबुद्धिर्यदनधिकरणा नोपबृंह्रेत तैस्सः।

 विद्यास्थानानि शूद्रैर्मुरभिदकथयत् पाण्डवाय द्विसप्ता

 प्यस्प्रष्टव्यानि तस्मान्न हि विकलधियां स्यादुपासाधिकारः।।

29. गीतं शूद्रादिकानामपि परभजनं केवलं स्वार्हधर्मै-

 र्धर्मव्याधस्तुलाधृग्विदुर इति च ते प्राग्भवाभ्याससिद्धाः।

 वक्ता शूद्रेति जानश्रुतिमभिमुखयञ् शोकमस्य व्यनक्ति

 क्षत्रप्रेषादिलिङ्गैस्स्फुटतरविदितं क्षत्रियत्वं हि तस्य।।

30. धूत्वेति प्राच्यवाक्यप्रकृत इह भवेन्मुक्त आकाशनामा

 बन्धेऽसौ नामरूपे वहति तदनु च ब्राहृभावे जहाति।

 इत्यन्याय्यं पुरोक्तः पुनरयमभिसम्भाव्य एव ह्रुपात्तो

 ब्राहृत्वन्न ह्रवस्था श्रुतिषु च युगपज्ज्ञाज्ञतादिर्विभक्तः।।

31. विश्वात्माऽनन्तभूमा नियमनधृतिकृन्मुक्तभोग्यस्वभावो

 दह्यस्वाधारसर्वो ह्मदयपरिमितावस्थया सर्वयन्ता।

 देवादीनामुपास्यो वसुमुखविबुधैस्स्वात्मभावेन सेव्य-

 श्शूद्राद्योपास्त्यनर्हः प्रभुरिह बुबुधे नामरूपैककर्ता।।




।1.4.1.

1. निर्णीतं वाक्यजातं परविषयतया स्पष्टजीवादिलिङ्गं

 तत्तच्छायानुसारि प्रथयति तु वचस्तत्परन्तुर्यपादे।

 षड्भिद्र्वाभ्यां च तत्र प्रशमयति नयैस्साङ्ख्ययोगोक्तशङ्कां

 घट्टौ जाघट्ट इत्थं कथितनिगमनं त्वष्टमं केचिदूचुः।।

2. द्वाभ्यां क्षेप्यं प्रधानं कपिलमतमथ त्वेकतोऽन्योक्तसङ्ख्या

 तुर्येणाव्याकृतोक्तेरपि विभुरवधिस्स्थाप्यते द्वारवृत्या।

 शुद्धाशुद्धौ च जीवावधिकरणयुगेऽनन्तरं वारणीयौ

 शेषं तत्रान्तरोक्तेश्वरनिरसनकृत्तुर्यपादाष्टकेऽस्मिन्।।

3. अक्षाद्यव्यक्तनिष्ठं जडमथ पुरुषन्तत्त्वकाष्ठां विविच्य

 ब्राूते वल्ली कठानां परमतपठितां प्रकियामित्ययुक्तम्।

 तत्रस्थानेकवाक्योदितविविधवशीकार्यमुख्यक्रमोक्ते

 श्शान्तात्मा विष्णुरुक्तः पर इह पुरुषः प्रत्यभिज्ञाप्यते च।।

4. न ह्रर्था इन्द्रियाणां प्रकृतिरथ मनोहेतुरेषान्न चेष्टं

 बुद्धिश्चैतन्न सूते नच महति महाञ्जायते बुद्धिसंज्ञः।

 भोक्तुर्युक्तम्महत्त्वम्महति नहि भवेदात्मता पारिशेष्या-

 त्त्वव्यक्तोक्तिश्शरीरे तदिह न कपिलप्रक्रियाप्रत्यभिज्ञा।।

।1.4.2.

5. स्वातन्त्र्येण ह्रजाया निखिसजनकता सूच्यते क्वापि वाक्ये

 बद्धोऽजस्तत्र शेते त्यजति पुनरिमां भुक्तभोगामजोऽन्यः।

 इत्युक्तेस्तान्त्रिकी सा त्वियमिति यदि नाजात्वमात्राभिधाना-

 दस्वातन्त्र्यप्रसिद्धेस्सृजतिरपि परप्रेर्यतान्नोपरुन्ध्यात्।।

।1.4.3.

6. यस्मिन् पञ्चेति वाक्ये परपरिगणिता विंशतिः पञ्चयुक्ता

 प्रोक्ता सप्तम्यधीतस्त्विह पुरुषगणोऽनन्यनिष्ठोऽस्तु मैवम्।

 आकाशस्य स्वनाम्ना पृथगनुकथनात् सप्तमीशक्त्यबाधात्

 षÏड्वशोऽह्रत्र सर्वाश्रय इति विधितोऽनूद्यते ब्राहृताद्यैः।।

7. संज्ञोपाधिस्समासो ह्रयमिति निगमे सप्तसप्तर्षिनीत्या

 प्राणाद्यन्तन्मनोन्तं प्रकरणनियतं पञ्चकं धीन्द्रियाख्यम्।

 ज्योतिश्शब्देन शाखान्तरविदितमिदं न्यूनवादस्तु पूर्यो

 घ्राणं वक्त्यन्नशब्दो रसनमपि सह प्राणशब्दस्त्वगर्थः।।

।1.4.4.

8. विश्वोपादानवक्त्री श्रुतिषु सदसदव्याकृतोक्तिः परोक्ते

 ह्रव्यक्तेऽन्वेति तस्मात्तदितरदखिलं नेयमत्रेति चेन्न।

 यत्रासत्त्वादि दृष्टं प्रकरणविदितन्तत्र सर्वज्ञताद्यं

 लिङ्गं स्यादित्यधीतं स्थिरमपि तदिहाबाध्य आत्मादिशब्दः।।

9. आसीदग्रे त्वसद्वा इदमिति विलयावस्थतामात्रमुक्तं

 नैवासीत् किञ्चिदित्याद्यपि विलयपरं शून्यादेर्निषेधात्।

 सर्वस्याव्याकृतत्वं विभजनविरहात्तादृशावस्थतत्तद्-

 द्रव्यस्तोमान्तरात्मा तदिह सदसदव्याकृताद्युक्तिवाच्यः।।

।1.4.5.

10. यस्यैतत्कर्म वेद्यस्स इति वचनतः कर्मवश्यप्रतीतेः

 कर्ता पुंसां स एव स्वकृतपरिणतेरित्युपक्रान्तिभग्नम्।

 बालाक्यज्ञाततत्त्वान्तरमुपदिशतः स्यादिहाजातशत्रो-

 स्तज्ज्ञातोक्तिर्निरर्था जगति कृततया कर्मशब्दोऽत्र मुख्यः।।

11. एवं जीवातिरिक्ते प्रकरणनियते तत्र यज्जीवमुख्य-

 प्राणाख्यानं न तेन क्षतिरिह हि तथा तद्विशिष्टे ह्रुपासा।

 प्राणस्य प्राणभाजोऽप्यधिकरणतया वाजिवाक्योक्तनीत्या

 ब्राहृज्ञप्त्यै तदन्यप्रकथनमिति हि स्थापना सार्वभौमी।।

।1.4.6.

12. पत्यादीनां प्रियत्वं श्रुतिरनुवदति ह्रात्मनः कामसिद्ध्यै

 तेनासौ पुण्यपापोदितफलभुगिति प्रक्रमादिप्रतीतम्।

 तत्तद्भोगप्रदातुः प्रथयति हि विभोः कामतस्तत्प्रियत्वं

 द्रष्टव्यश्चैष मुक्त्यै श्रुतिनिकरमितः प्रत्यभिज्ञाप्यतेऽत्र।।

13. व्युत्पत्त्या ह्रात्मशब्दो वदति च परमं ब्राहृ यद्वा समासात्

 सार्थोऽयं जीवशब्दो वदति च परमं द्वारवृत्त्येति पक्षाः।

 व्यक्त्यैक्यादाश्मरथ्यो निरुपधिकदशाद्वैततस्त्वौडुलोमि-

 स्तत्स्थत्वात्काशकृत्स्नः परविषयतया जीवशब्दं जगाद।।

14. भेदोपाधिव्यपाये भवभृदयमियाब्राहृतामित्ययुक्तं

 नित्यन्तद्भेददृष्टेरतिपतितभवे साम्यसाधम्र्यशब्दात्।

 मृत्तत्कार्यक्रमश्च श्रुतिशतविहतस्तेन जीवोक्तिमीशे

 तत्स्थत्वात्काशकृत्स्नो यदिह निरवहद्व्याससिद्धान्त एषः।।

।1.4.7.

15. मृत्पिण्डादेः कुलालप्रभृतिरिह पृथक्तद्वदेवादिकर्ता

 नोपादानं विकारैर्विरहत इति न द्वारमात्रे विकारात्।

 मृद्दृष्टान्तादिमात्रान्नच विकृतिरसौ स्यात् परस्य स्वरूपे

 देहद्वारोर्णनाभिप्रभृतिविकृतिवद्व्यापृतेर्दर्शितत्वात्।।

16. स्वज्ञानाद्यं स्वजन्यं भवति सृजति च स्वान्यसंयोगमीश-

 स्संयोगे मूर्तनिष्ठे प्रकृतिरपि हि तत्स्यान्निमित्तं क्रियातः।

 एकस्यादौ बहु स्यामिति बहुभवनं सौभरिन्यायसिद्धं

 भेदाभेदश्रुतीनामविहतिरिह च स्याद्विशिष्टैक्ययोगात्।।

17. कार्यैक्ये हि प्रतिज्ञा तदनुगुण उदाहारि दृष्टान्तवर्गः

 रुाष्टुस्स्यामित्यभिध्यां श्रुतिरिह वनतां वृक्षतादिं च वक्ति।

 आत्मानं चैष एव स्वयमकुरुत तद्भूतयोनित्वमुक्तं

 तस्मात्कर्ताऽपि देवः प्रकृतिरपि भवेत् सर्वतत्त्वान्तरात्मा।।

18. नोपादानं निमित्तं किमपि तदितरत्कारणन्तद्धि विद्मो

 यद्वा सिद्धं निमित्तं न भजति तदुपादानतामित्ययुक्तम्।

 इष्टादाकारभेदादुभयघटनतो लोकवेदानुरोधे

 सिद्धे स्वच्छन्दलक्ष्मप्रणयनकुसृतिः पाकचिन्ताविपाकः।।

19. उक्त्वा तत्त्वान्तराणां विलयमथ तमस्येकतामात्रमुक्तं

 प्रोक्तं चानादितादि प्रकृतिपुरुषयोर्वेदतद्वेदिवाक्यैः।

 लीयेते तौ परस्मिन्निति तु लयवचस्स्यादयस्तोयनीत्या

 तेनासौ भोक्तृभोग्यप्रभृतिकवचिताद्विश्वसृष्टिस्समीची।।

।1.4.8.

20. अग्रे संवर्तनं भात्यवितथवचसि क्वापि हैरण्यगर्भं

 ग्रस्ताशेषस्वकार्ये तमसि च शिव एवेति केचित्पठन्ति।

 एतादृग्वाक्यवर्गस्स्फुटभवदधिकाशङ्कनस्तम्भनार्थं

 प्रागुक्तान्नीतिभेदानतिदिशति परं शिष्यशिक्षैकचित्तः।।

21. विश्वेशश्श्रीपतिश्चेद्भवति कथमसौ त्राणमात्राधिकारी

 दूरं गत्वाऽपि दुःख्यद्विधिशिवतुलया घट्टकुट¬ां प्रभातम्।

 मैवं मत्स्यादिभावेष्विव निजविभवानुक्रियानाट¬मेत-

 द्ब्राहृेशरुाष्टरि स्यान्निरवधिकबृहत्पौरुषे पूरुषे नः।।

22. साङ्ख्योक्तप्रक्रियोक्तेस्तदभिमतसृजेस्तत्प्रसङ्ख्यानक्लृप्ते-

 स्तत्प्रोक्ताव्याकृतैक्यात्स्ववृजिनवचनात्तत्फलावद्ययोगात्।

 भेदात्कर्तृप्रकृत्योद्र्रुहिणशिवमुखानेकहेतुश्रुतेश्च

 क्षिप्तं पादत्रयोक्तं श्रुतिह्मदयसमुद्धाटनादन्वरक्षत्।।

23. जिज्ञास्यत्वेन सिद्धेस्स्थिरचरचिदचिद्देहिनि ब्राहृतत्त्वे

 श्रुत्याद्यैरेव सूक्ता स्वरसगतिरियं कारणाम्नायवाचाम्।

 बाधं रोधं च बाह्रान्तरमिह बहुधा वर्णयन्तो मुसल्या

 निष्काल्योरन्परस्तान्निषदुपनिषदां निश्चलत्वप्रसिद्ध्यै ।।

24. आदौ जिज्ञास्यताऽऽस्तां बहुविहतिहता सह्रतां लक्षणोक्तिः

 मृष्यामश्शास्त्रयोनिप्रलपितमपि वस्स्यात् समन्वित्यपोक्तिः।

 सूत्रैरेतैस्स्फुटार्थैस्सविषयवचनैर्निर्विशेषैक्यपक्षे

 मुख्येक्षाद्यैस्स्वधर्मैः प्रकृतिपुरुषतो भेदवादः कथं स्यात्।।



श्रीः

।2.1.1.

1. तत्तादृक्तर्कतन्त्रक्रमनिपुणमहाबुद्धिसन्तोषसिद्धि-

 र्यद्यप्युक्तेन लभ्या तदपि मृदुधियां हैतुकास्कन्दशङ्की।

 स्थूणाखातक्रमेण स्थिरयति कथितं ब्राहृणः कारणत्वं

 कार्यत्वं यस्य यादृक्छØतिभिरवगतं तस्य तत्तादृशञ्च।।

2. पादद्वन्द्वं द्वितीये परिहरति परे कारणे बाह्रपीडां

 कार्यद्वारेण पादान्तरयुगमुदयत्यान्तरक्षोभशान्त्यै।

 हेतुत्वायोगभङ्गः प्रथममिह विभोस्तस्य सार्वत्रिकत्वा-

 योगक्षेपः परस्तात् फलति स च भवेच्छ्रौतनित्यं विहाय।।

3. तन्त्रच्छायानिदाने स्वयमुपनिषदामान्यपर्ये निरुद्धे

 तन्त्रेभ्यो दुर्बलत्वात्तदनुसरणमित्युज्जिहीते परोऽद्य।

 इत्थं सत्यत्र तत्तत्स्मृतिनयपृतनातिक्रमन्तत्तदर्हैः

 प्रत्यस्त्रैर्वारयित्वा द्रढयति चलितं पादतः प्राच्यमर्थम्।।

4. निर्णीतं कर्मकाण्डे स्मृतिनयविहतौ निश्चलत्वं श्रुतीनां

 चर्चा तत्सिद्धयेऽसौ पुनरपि विफलः स्याद्द्वितीयाद्यपादः।

 मैवं गम्भीरनानाश्रुतिशिखरपरिच्छेद्यदुर्बोधताया-

 माप्तोक्त्या तर्कतश्च क्षममनुसरणं पश्यतो ह्रत्र भङ्गः।।

5. द्वाभ्यां स्मृत्या विरोधं परिहरति ततस्त्वष्टभिस्तर्कबाधं

 तेनोपादानभावं द्रढयति तु विभोः कर्तृतान्तद्द्वयं च।

 तत्तत्क्षेपात्तुलाग्रद्वयनमनसमुन्नामनीत्या प्रवृत्ते

 शङ्कावर्गे परीक्षासमनिहितमतिः पक्षपातं रुणद्धि।।

6. स्मर्ता श्रुत्यैव गीतः कपिलऋषिरसौ वासुदेवांशभूतः

 ख्यातो रामायणादौ प्रणिधिनिपुणधीर्वक्ति वेदान्ततत्त्वम्।

 तस्मादस्मद्विदूरे श्रुतिशिरसि तदुक्त्यैव निष्कर्षणं स्या-

 न्न स्यादेकार्थमन्वाद्यनघबहुगिरा तत्र तत्त्वार्थसिद्धेः।।

।2.1.2.

7. वेदान् पूर्वं विधाताऽलभत भगवतस्सर्वविद्यानियुक्तो

 वागीशश्चैष तस्मात्तदुदितविहतौ कम्पनं वेदमूध्र्नः।

 मैवन्तस्यापि वेदापह्मतिमुखविपद्दर्शनात् क्षेत्रिभावात्

 भ्रान्त्यादिस्सम्भवेदित्यगतिकविषये पूर्ववन्निर्वहामः।।

।2.1.3.

8 विश्वं त्रैगुण्यवत् स्यात् त्रिगुणत उदितन्नासमादित्ययुक्तं

 सर्वाकारेण साम्यं क्वचिदपि न भवेत् केनचित् साम्यमिष्टम्।

 भग्ना हेतुव्यवस्थोचितगुणसमता गोमयाद्वृश्चिकादौ

 स्थूलत्वं याति चेशः प्रकृतितनुरतस्सर्वचोद्योपमर्दः।।

9. ईक्षा तादृग्बहु स्यामिति सति पठिता तेजसोऽपाञ्च दृष्टा

 सालक्षण्यं ततस्स्याज्जगत इति मृदुप्रज्ञपाश्र्वस्थचोद्ये।

 तत्तन्मूर्तेः परस्येक्षणमिदमिति तद्वाक्यभावापलापी

 सामान्येनाभिमानिव्यवहरणमिह व्याहरत् पूर्वपक्षी।।

2.1.4.

10. संवादादक्षपादक्षपणककणभुग्भिक्षुपक्षेष्वणूनां

 विश्वं तद्धेतुकं स्यादिति मृदुमतिभिश्श्वावराहक्रमोक्तौ ।

 अन्योन्यव्याहतार्थस्थपुटितकुहनायुक्तिदोषापनुत्त्यै

 भाति त्रय्यन्तसूर्यः प्रतिमततिमिरस्तोमकुकिं्षभरिर्नः।।

।2.1.5.

11. एको यस्यापि देहस्स भवति विविधानन्दुःखैकभोक्ता

 विश्वं देहः प्रभोश्चेत् स कथमतिपतेद्विश्वदुःखानुभूतिम्।

 इत्थं जीवेशसीमामपलपितुमनाः कोशभाजा श्रुतीनां

 सम्राड्भृत्यादिनीत्या शममिह लभतां साम्यवैषम्यदर्शी।।

।2.1.6.

12. कार्यं धर्मैर्विरुद्धैः कट इव शकटात् कारणद्रव्यतोऽन्य-

 द्व्यापारः कारकाणां विफल इतरथेत्यद्र्धवैनाशिकोक्तौ।

 द्रव्यैक्येऽप्यस्तु सर्वं तदभिमतदशाभेदतोऽसच्छØतिश्चे-

 त्यद्ध्यक्षाल्लघवाच्च श्रुतिकथितजगद्ब्राहृतादात्म्यमुक्तम्।।

13. मायोपाधिस्वशक्तिव्यतिकरितपरब्राहृमूलः प्रपञ्चो

 येषां तेऽप्यद्वितीयश्रुतिमवितथयन्त्यत्र तत्तद्विशिष्टे।

 अप्राधान्यात्तथा नः प्रकृतिपुरुषयोरन्तरात्मप्रधाने

 वाक्येऽस्मिन् स्थूलसूक्ष्मान्वय इति जगतोऽनन्यभावोपपत्तिः।।

14. विश्वारम्भे विवर्तं शकलपरिणतिं शक्तिशेषस्य सूतिं

 व्याक्त्युल्लासौ विसृÏष्ट विकृतिमनियतां तत्त्वपङ्क्तौ च सृष्टिम्।

 तत्तद्वाक्यैकदेशः स्वरस इति मुधा कल्पयन्तस्तु मुग्धा

 स्सर्वश्रुत्यैकरस्यप्रणयिभिरधरीचक्रिरे तत्त्वविद्भिः।।

।2.1.7.

15. उक्तेऽनन्यत्वपक्षे चिदपि परिणतिब्र्राहृणस्स्यात्ततस्त-

 ज्जीवैक्यं तत्त्वमस्याद्यवगतमहतन्दुःखसिन्धुश्च जीवः।

 अभ्रान्तस्तु स्वदुःखं न सृजति न च तत् क्रीडयाऽप्यस्य मैवं

 तात्स्थ्येनानन्यतोक्तेस्तदपि चिदचितोस्तच्छरीरत्वसिद्धेः।।

।2.1.8.

16. शक्तौ कर्तृप्रकृत्योरुपकरणगणोपस्थितौ कार्यकृत्त्वं

 तस्मादग्रे सदेकं किमुपकरणयेदित्यसच्छक्तिभेदात्।

 क्षीरायस्कान्तलूतात्रिदशमुनिमुखान्वीक्ष्य तोष्टव्यमस्मिन्

 संकल्पादेव जीवो नुदति निजवपुर्विश्वरूपस्तथेशः।।

।2.1.9.

17. कृत्स्नं कार्यात्मना चेत् परिणमति परं नावशिष्येत किञ्चि-

 द्यद्यंशान्निष्कलत्वश्रुतिविहतिरिदं स्याद्विशिष्टेऽपि तस्मिन्।

 ब्राहृोपादानतैवं न घटत इति चेन्न स्वपक्षेषु साम्या-

 त्तन्मानात्तद्गृहीतौ श्रुतिमितमिति तल्लोकवत् स्वीकुरुष्व।।

 

 

18. संयोगाख्यं हि कार्यं विभुतदितरयोस्स्यादणूनाम्मिथो वा

 कार्त्स्न्येनांशेन वा तद्विहतमिति वदन् शून्यवादे निमज्जेत्।

 सांख्योऽपि प्राह विभ्वीं प्रकृतिमिति कथन्न्यूनसृष्टिस्ततस्स्या-

 न्मायादिष्वेवमूह्रं निगमनिगदिता त्वक्षता पद्धतिर्नः।।

।2.1.10.

19. आत्मार्थं विश्वसृष्टिः कथमपि सततावाप्तकामस्य न स्यात्

 कारुण्याद्दुःखसृष्टिर्न भवति न च सा सर्वशक्तेश्चिकित्सा।

 सर्वज्ञस्स्वात्मतृप्तस्तदिह न जगतो हेतुरित्यन्धचोद्यं

 लीलाऽसौ लोकवत्स्यादभिमतिसमये सिद्धितस्त्वाप्तकामः।।

20. विश्वं दुःखैकतानं विषममपि सदा निर्मिमाणस्य लीला

 संजायेतासमञ्जक्रमत इति भवेन्निर्दयत्वादिदोषः।

 मैवं बीजाङ्कुरादिक्रमविषमभवानादिकर्मौघभाजां

 जीवानां सौति तत्तत्फलमिति करुणासाम्ययोरप्रहाणात्।।

21. दृष्टन्यायेन विश्वप्रजनकचिदचित्तत्त्वभेदप्रक्लृप्तौ

 स्वेष्टप्रत्यर्थिधर्मोपनयननियतव्याप्तिवैयाकुली स्यात्।

 अत्यन्तादृष्टमर्थं भणितुमधिकृताच्छास्त्रतस्सर्वकर्तु-

 स्सिद्धौ बाधाद्यनर्हप्रमितिपरवती सर्वधर्मोपपत्तिः।।

22. सांख्यस्मृत्या विरोधाद्विधिमतविहतेः कार्यवैरूप्यतोऽस्मि-

 न्नेकार्थानेकतन्त्रोदितविहततया देहभोगावियुक्त्या ।

 कार्योपादानभेदात् स्वहितविहतितः कारकस्तोमहानेः

 कृत्स्नांशाद्यूहबाधात् कृतिविफलतयाऽप्युत्थितं प्रत्यविद्ध्यत्।।

   



।2.2.1.

1. बाधाभावादकम्पे स्थितवति निगमैब्र्राहृहेतुत्ववादे

 भूयः किं वीतरागो वदति परपरीवादमत्रेत्ययुक्तम्।

 प्रख्यातप्राच्यनैकप्रतिसमयभवन्मन्दसन्देहशान्त्यै

 तुल्यत्वभ्रान्तिसिद्धा प्रकरणसमता तर्कपादे हि वार्या।।

2. षÏड्वशालम्बिसांख्यं स्फुटतरपठितं भारते योगतुल्यं

 तत्स्थत्वात् पञ्चविंशस्त्विति च निगदितस्सर्वतत्त्वान्तरात्मा।

 तस्मात् सेशानतन्त्रं श्रुतिसमधिगतं स्थापयित्वाऽथ सूत्रैः

 पक्षं त्वीशानपेक्षं प्रतिवदति नयैरुत्कटप्रत्यवायम्।।

3. अव्यक्तादीन्पदार्थाननुमितिमुखतस्स्थापयन्तस्स्वबुद्ध्या

 षÏट्त्रशत्तत्त्ववादप्रभृतिषु न कथं सङ्गमिच्छन्ति सांख्याः।

 तुल्याक्षेपोपपत्तीश्श्रुतिनियतिमुचां कल्पनास्सम्मृशन्तो

 दृष्टं नापह्नुवीरन् लघुमनुमिनुयुश्शेषमिच्छन्ति शास्त्रात्।।

4. कार्यं किञ्चित् कुविन्दप्रभृतिविरचितं दृश्यतेऽन्यच्च सर्वं

 कत्र्रायत्तं श्रुतं तत् क्वचिदपि न पराधीनताभङ्गदृष्टिः।

 पङ्ग्वन्धक्षीरपाथस्तृणजलदतटिद्वाय्वयस्कान्तपूर्वैः

 दृष्टान्तैर्न त्वदिष्टं फलति तदखिलं चेतनाधिष्ठितं नः।।

5. नन्वत्राचेतनानां स्वसमुचितविधौ कत्र्रधीनत्वमुक्तं

 शास्त्रारम्भे विधातुव्र्यनुददनुमितिं किं परस्सूत्रकारः।

 पृच्छेयं नातितुच्छा शृणु तदवहितस्सर्वकृन्नानुमातुं

 नापह्नोतुं च शक्यस्तदुभयनियमादर्शनादित्यमंस्त।।

6. सत्त्वाद्यान् द्रव्यभेदांस्त्रिगुणमितिसमाहारतः कल्पयन्त-

 स्तेषां नित्यं विभुत्वे समविषमदशाद्यत्र कीदृग्वदेयुः।

 अन्योन्याध्यासक्लृप्तिः प्रकृतिपुरुषयोर्भोगमोक्षोपपत्त्यै

 च्छायापत्त्यादिनीत्या कथमियमुभयाचेतनत्वे घटेत।।

7. पुंसां भोगापवर्गप्रभृति फलमिदं तच्च सर्वं प्रधाने

 द्रष्टृत्वादेश्च क्लृप्तिः पुरुष इह पृथग्द्रष्टृतादिश्च बुद्धौ।

 मुक्त्यै बद्धस्य शास्त्रं मुनिरकृत ततो नित्यमुक्तोऽस्मि चेत्या-

 द्यन्योन्यव्याहतोकिं्त वृषलपरिणये जैनभक्ता जपन्तु।।

।2.2.2.

8. कल्प्योपादनमेकं परममहदधिक्षित्य नानाविधाणू-

 पादानौघस्य दृष्टात् समधिकवपुषः कल्पनेऽनिष्टमाह।

 प्राज्ञाधिष्ठानशून्यप्रकृतिपरिणतिः प्राङ्निरस्ताऽथ सेशं

 सूक्ष्माणुद्रव्यमूलद्व्यणुकमुखजगत्सृष्टिपक्षं पिनष्टि।।

9. प्रागेवारम्भणोक्तावपह्मतविषया प्रागसद्द्रव्यक्लृप्तिः

 काणादानामिदानीं क्षिपति बहुमुखं कारणप्रक्रियांशम्।

 त्रेधा हेतौ विभक्ते त्वनुमितिशरणैस्तत्तदंशैर्यथार्हं

 व्याघातादीन्विकल्पक्रमविविधगतीन् व्याहरत्यत्र सूत्रैः।।

10. दृष्टस्याणोः प्रसूतिं द्व्यणुकमणुमपि स्थापयन्तोऽनुमित्या

 दृष्टाकारानुसारान्न निरवयवताद्यत्र वक्तुं क्षमेरन्।

 सर्वं सह्रेत सूक्ष्मे प्रमितिपरवतां जालकालोकलक्ष्ये

 तद्भागान् ख्यापयेद्वा स्मृतिरफलतया त्वान्यपर्येण नेया।।

11. विश्रान्तिर्न क्वचिच्चेदवयवनिवहानन्त्यतो मानसाम्यं

 माषक्षोणीभृतोस्स्यादिति यदि तदसत्तारतम्यादनन्ते।

 वैषम्यं पक्षमासप्रभृतिषु नियतं नह्रनन्तेष्वनिष्टं

 पारावर्यञ्च जात्योर्न किमनुकथितं व्यक्त्यनन्तत्वसाम्ये।।

12. नादृष्टं किञ्चिदन्यच्छØतिसरणिजुषां देवतानुग्रहादे-

 रन्यत्वे तस्य तज्ज्ञैरधिकयतनवत् क्लृप्तिरादौ व्युदस्ता।

 यत्ने यत्नानपेक्षां न किमनुमनुते स्याददृष्टेऽपि तद्वत्

 भूतस्थादृष्टवादे द्व्यणुकृदणुगतादृष्टकल्पोऽत्र लूनः।।

13. नित्यं सम्बन्धमेके निजगदुरपृथक्सिद्धसर्वानुवृत्तं

 नित्यं नित्येष्वनित्येष्वपि कतिचिदिमन्तावदायुष्कमाहुः।

 तत्तद्द्वन्द्वस्वभावप्रतिनियतिमुचां स्यान्न तेन व्यवस्था

 गुर्वी त्वन्यस्य क्लृप्तिः कथमधिकजुषां नानवस्था न दोषः।।

14. निर्धूते सूत्रकारैरवयविपरमाण्वात्मके द्रव्यवर्गे

 विश्वं व्याप्त्येकलक्ष्यं परममहदसत् स्यादथाद्रव्यमेव।

 मैवं दृष्टाणुतत्संहति तदुभयसम्बन्धसिद्धेरबाधा-

 दागन्तुक्षोणिताद्यैः श्रुतिरपि जगदारम्भणं बम्भणीति।।

।2.2.3.

15. बाह्रोक्ताचारभागश्श्रुतिविहतिवशाज्जैमिनीये निरस्त-

 स्तत्त्वांशं तर्कितं तैः प्रतिवदति गुरुर्जैमिनेरत्र पादे।

 निर्धूतं तत्र पूर्वं निरुपधिकनयैरर्धवैनाशिकोक्ते

 पक्षान्वैनाशिकानां जिनगिरिशमतक्षेपतः प्राक् क्षिणोति।।

16. बुद्धोऽसौ स्वावतारैस्सह परिगणितः श्रीधरेण स्वशास्त्रे

 सर्वज्ञो नैव मुह्रेन्न च निखिलसुह्मद्विप्रलिप्सेत कञ्चित्।

 तस्माद्बुद्धोक्तभङ्गे भजति भिदुरतां सात्त्वतादीति चेन्न

 स्वाभीष्टप्रत्यनीकप्रमथनमनसा मोहनादिप्रवृत्तेः।।

17. दुर्वारा मोहनेच्छा निखिलजनयितुः केन मोहोऽन्यथा न-

 स्तस्मात्कर्मानुरूपन्दिशति फलमसौ तत्त्वबोधं भ्रमं वा।

 स्वोक्त्यादेस्सिद्धमेतन्निरुपधि विषमो नैव तस्मात् समोक्तिः

 कारुण्याद्विप्रलिप्सा न यदि वृजिनजं नेशनिघ्नं फलं स्यात्।।

18. कल्प्यो बोद्धेति सर्वे सुगतमतविदो बोध्मध्यक्षमेके

 बुध्याकारानुमेयं कतिचन कतिचित् बोध्यमिथ्यात्वमाहुः।

 तत्तुल्यन्यायतोऽन्यो धियमपि जगदुः संवृतेरेव सिद्धां

 तान्सर्वांस्तर्कमानैद्र्यति दितिजगुरूनद्य वैभाषिकादीन् ।।

19. एकद्व्यादिस्वभावैर्यदणुभिरथवा तत्तदेकस्वभावैः

 क्षोणीदेहादिपुञ्जप्रसृतिरिति समाभाषि वैभाषिकेण।

 ज्ञानादानादि तत्र क्षणभिदुरतया बोध्यबुद्ध्योर्न सिद्ध्ये-

 न्निर्बाधा प्रत्यभिज्ञाऽप्यनुमितिमथनी शेषमन्यत्र सूक्तम्।।

20. बोधेष्वाकारभेदं निजमुपरितनेष्वर्पयन् प्राक्तनोऽर्थ-

 स्तद्वैचित्र्यानुमेयः क्वचिदपि न तदाऽध्यक्षतेति प्रजल्पन्।

 प्राक् पश्चाच्च प्रवृत्तैर्विहतिबहुलतां गौरवञ्च ब्राुवाणैः

 शिक्षादक्षैस्सयूथ्यैर्दमित उपशमं यातु सौत्रान्तिकाख्यः।।

।2.2.4.

21. न ग्राह्रग्राहकौ स्तः क्वचिदपि विविधानादिसन्तानचित्रो

 बुद्ध्यात्मा त्र्यात्मकोऽद्य स्फुरति भवदशातिक्रमे स्वात्मनैव।

 योगाचारोक्तिरित्थं विषयविषयिणोर्बोधबाधौ समानौ

 मन्वानैर्वारणीया स्वपरविभजनाद्यत्र न क्वापि सिद्ध्येत्।।

22. बुद्ध्यैक्यं बोध्यबोद्ध्रोर्न घटत इह ते सत्ययोरन्ययोर्वा

 भिन्नत्वे ग्राह्रलक्ष्मक्षतिमभिमनुषे नात्र चित्रैक्यमथ्र्यम्।

 चित्रं द्रव्यं गुणं वा किमिति न च विदुः केऽपि भिन्नैकरूपं

 तेनात्मख्यातिवादे स्थितिमिह भजतु स्वप्रकाशत्वमात्रे।।

।2.2.5.

23. सत्त्वेऽसत्त्वे द्वये च द्वितयपरिह्मतावप्यनिष्टप्रसङ्गै-

 स्सर्वं शून्यञ्चतुष्कोट¬तिगतमिति नामानतस्स्वेष्टवादात्।

 अक्षोभ्यन्तत् प्रहाणे परमतमसती संवृतिर्नार्थसिद्धै

 तस्मादित्थं निषेधो निरुपधिक इह क्वाप्यदृष्टो न कल्प्यः।

24. प्राक्पश्चात् सत्त्वहानेर्गगनकुसुमवत् स्यान्न मध्येऽपि कार्यं

 मैवन्तत्रैव दृष्टेर्न यदि कथमसौ मध्यकार्यादिशब्दः।

 कार्यारम्भे निदानं विकृतिमदुत नेत्यादिचिन्ताऽपि वन्ध्या

 सामग्र्या कार्यसिद्धेर्भजति च गुणतां कारणस्यानवस्था।।

25. साध्यं हेतुस्तदङ्गप्रभृति च यदि वस्संवृतेरेव सिद्ध्ये-

 दस्माद्वाक्यानुरोधादिह न कथमसिद्ध्यादिदोषा भवेयुः।

 तत्र प्रामाण्यबुद्धिर्न यदि पठत तन्मानमित्यस्मदुकिं्त

 वस्तुस्थित्या न मानं तदिति यदि समं त्वन्मतस्थापकेऽपि।।

26. अख्यातिस्त्वन्यथाधीर्विषयरहितधीस्सानधिष्ठानबुद्धि-

 र्बाह्रार्थाकारयोगस्सदसदितरधीश्शून्यधीरात्मधीश्च।

 भ्रान्तौ सर्वत्र तत्तत्परमतकथकैरादृताः पक्षभेदाः

 प्रायोबुद्धिर्यथार्था श्रुतिविदभिमता क्वापि भेदाग्रहादि।।

।2.2.6.

27. संवादात् क्वापि भागे जिनमुनिवचसश्शेषमप्यस्तु मानं

 तस्मात्तेनोपरोध्योपनिषदिति कचोल्लुञ्छनानां दुराशा।

 वैषम्यस्यापि दृष्टेर्न यदि सुगतवागेवमेवास्तु सत्या

 तेनान्योन्यं निरोधात् पुरुषवचनयोरप्रकम्प्या श्रुतिर्नः।।

28. सच्चासच्च द्वयञ्च द्वितयसमधिकं तच्च पूर्वैस्सहेति

 स्यादस्तीत्यादिवाचा परिहितगगनैर्गीयते सप्तभङ्गी।

 व्याघातस्तैर्यदीष्टस्स्वसमयविहतिर्यद्यनिष्टः परोक्ते-

 स्तद्वाक्यैर्न क्षतिस्स्यान्न च निरुपधिकः क्वाप्यसत्वादियोगः।।

29. वृद्धिह्यासौ यथार्हं प्रतितनु भविनां देहभङ्गे विमानं

 मुक्तौ नित्योध्र्वयानप्रभृति गुरुतया नित्यपातं क्षमादेः।

 धर्मादेव्र्यापकत्वं गगनवदथवा तादृशं पुद्गलत्वं

 दुस्तर्कैः कल्पयन्तश्श्रुतिनयकुशलैर्दूरमुत्सारणीयाः।।

।2.2.7.

30. सर्वं जानाति रुद्रश्श्रुतिषु च महितस्सत्यवादी च दृष्टः

 प्रख्यातं तद्व्रतञ्च क्वचिदुपनिषदीत्यस्तु मानं तदुक्तिः।

 मैवं देवेन दैत्यप्रमथनरुचिना मोहशास्त्राणि कुर्वि-

 त्यादिष्टो ह्रेष तन्त्रं निजमकृत ततस्तन्न शिष्टोपजीव्यम्।।

31. प्राजापत्ये हि वाक्ये प्रकटमुपनिषत् प्राह देहात्मवादं

 चक्रे लोकायतं तत् सुरगुरुरभजन्मोहनत्वं मुकुन्दः।

 कण्वस्थाने च लौकायतिकपरिबृढा भारतेऽपि प्रगीताः

 कार्यार्थं विप्रलम्भस्तदिह पशुपतेस्तद्वदेवोपपन्नः।।

32. शैवाद्याख्याविशेषैः पशुपतिसमयस्स्याच्चतुर्धाऽन्यथा वा

 श्रुत्याऽन्योन्यं च बाधस्स्फुट इह तदसौ शापदुष्टार्ह उक्तः।

 अग्राह्रान् भौतिकानामनुसृतनिगमास्सस्मरुस्तत्प्रविष्टान्

 तत्त्वेऽप्यत्रान्यथात्वं सुगतजिनमतानन्तरोक्तिः क्रमाप्ता।।

33. निष्ठा सर्वेषु नारायण इति वचनाद्धेत्वहन्तव्यतोक्ते-

 र्मानत्वोक्त्या च तन्त्रान्तरमपि महितं वेदवद्भारतादौ।

 नातो बौद्धादिवत्तन्निरसनमिति चेत् सत्यमंशे तु बाध-

 स्स्यान्नासौ पञ्चरात्रे क्वचिदपि तदिह स्वीकृतिर्वेदतुल्या।।

34. दृश्यन्ते संगृहीता जगति हि समयास्ते च राज्ञाऽनुपाल्या

 स्तस्मान्नः पक्षपातः क्वतिदनुचित इत्यर्भकप्रायचोद्यम्।

 मुग्धैरन्ये गृहीता भवतु समयसंरक्षणोक्तिश्च धम्र्ये

 निष्ठैक्योक्तिस्तदन्यग्रहविहतिपरा तद्विरुद्धोक्तिदृष्टे।।

।2.2.8.

35. प्रामाण्यं कर्मकाण्डस्मृतिनयवशतस्सात्त्वतस्यापि सिद्धं

 पादेऽस्मिन् संगतिश्च प्रतिमतदमने नास्त्यमुष्येति चेन्न।

 प्रत्यर्थित्वं विरोधभ्रममपनयता पञ्चरात्रस्य वार्यं

 दुस्तर्काद्युत्थितोक्त्या तदितरसमयेष्वित्यनुस्यूतसिद्धिः।।

36. दृष्टाऽस्मिन्वेदनिन्देत्यनभिमतमृषेस्सात्त्वते वैदिकत्वं

 मैवं वैशद्यमूलस्तुतिपरवचने वेदवैरस्यहानेः।

 संगृह्राम्नायसारं प्रणयति भगवांस्तद्धि भक्तानुकम्पी

 श्रौतस्मार्तादिवच्च व्यभजदिह विभुर्वैदिकं तान्त्रिकं च ।।

37. वेदानां मानतोक्तेस्तदनुसरणतस्स्वस्य तन्मूलतोक्त्या

 व्यावृत्तिर्भाति बाह्रागमत इति न तत्तुल्यभावोक्तिरार्षी।

 का हानिः क्षुद्रविद्याशबलमिति यथा तादृशे वेदभागे

 मोक्षस्य प्रत्ययार्थं त्वगणिषत परं सात्त्वते सिद्धिभेदाः।।

38. जीवस्योपत्तिमाह प्रथयति च मनो जीवतत्त्वप्रसूतं

 तच्चाहंकारहेतुं व्यपदिशति ततः पञ्चरात्रं न मानम्।

 मैवं जीवादिवाचो ह्रभिदधति विभोव्र्यूहभेदानिहात-

 स्यात्तत्तत्त्वाभिमानान्नियतिमधिगता तेषु तत्तत्समाख्या।।

39. जीवोऽत्रानाद्यनन्तः कथित इति तदुत्पत्तिपक्षो न हीष्ट-

 श्शब्दस्संकर्षणादिर्न कथमपि समन्वेति जीवादिमात्रे।

 श्रौतस्सृष्टिक्रमश्च स्वयमनुपठितस्तद्विरुद्धं न कल्प्यं

 तस्माच्छØत्या मिथो वा न विहतिरिह तत्तन्त्रतात्पर्यदृष्टेः।।

40. सांख्या वैशेषिकाश्च श्रुतिपरिपठितं धर्ममैच्छन्न तत्त्वं

 तत्त्वाचारौ तु बुद्धक्षपणकपशुपत्युक्तिषु श्रुत्यपेतौ।

 वेदोपस्कारिविष्णुस्मृतिवदवितथे पञ्चरात्राख्यतन्त्रे

 तत्त्वं त्रय्यन्यसिद्धं चरणमपि समं गृह्रभेदादिनीत्या।।

41. स्मर्यन्ते पञ्चयज्ञा मुनिभिरपि नमस्कारमन्त्रेण शूद्रे

 तत्राधीतं हविष्कृत्प्रभृतिपदमिहाप्यंशतोऽस्याधिकारः।

 योज्या दक्षोक्तकालक्रमगतिरभिगत्यादिभेदे तदुक्ते

 ग्राह्रा पश्विष्टिसोमप्रभृतिवदखिलं युक्तितस्सङ्कलय्य।।

42. जातावाचार्यशब्दः क्वचिदिति न तथाऽऽचार्यदेवो भवेत्या-

 द्याम्नाते तत्प्रतीतिस्स्मृतिषु नियमिताल्लक्षणात्तत्प्रवृत्तेः।

 तद्वत् स्यात् सात्त्वतादावगतिकविषये रूढिभङ्गो न दोषः

 विप्रादेरत्र शास्त्रे स्थितिरपि बहुधा भारतादौ प्रसिद्धा।।

43. योगास्साङ्ख्यव्युदासात् कणचरदमनादक्षपादानुयाता

 बौद्धोन्माथेन लोकायतमुषितधियो जैनभङ्गात्तदुत्थाः।

 पत्युस्तन्त्रे पशूनां प्रकटितविहतौ तादृशापष्ठुनिष्ठाः

 ध्वस्तास्तत्तुल्यतर्कागमशरणतया साकमस्मिन् कुदृग्भिः।।

44. पादेऽस्मिन् कापिलस्थैः कणभुगनुगतैर्वृद्धवैभाषिकाद्यै-

 योगाचाराभिधानैस्सुगतमतरहश्शून्यवादप्रसक्तैः।

 अर्हत्सिद्धान्तभक्तैः पशुपतिसमयस्थायिभिश्चोपरोधं

 क्षिप्त्वाऽथो पञ्चरात्रे श्रुतिपथमवदत् पञ्चमाम्नायदर्शी।।




।2.3.0.

1. सर्वं साङ्ख्यास्तु नित्यं क्षणिकमखिलमप्यत्र वैभाषिकाद्या

 नित्यानित्यं समस्तं जिनपरिपठितां सप्तभङ्गीं पठन्तः।

 नित्यानित्ये विभज्याप्यभिदधति विपर्यस्य वैशेषिकाद्या-

 श्श्रुत्युत्थांस्तान् निरुन्धन् श्रुतिभिरथ वियत्प्राणपादौ युनक्ति।।

।2.3.1.

2. पूर्वत्राधिक्रियायां पुरुषजनिवचो नित्यतोक्त्या निरूढं

 व्योमोत्पत्तौ तथैव स्थितिरिति वचसोव्र्याहतौ वक्ति कश्चित्।

 सिद्धान्ती व्योमसृष्टिर्निगमशतमिता नान्यथा सिद्धिरस्यां

 वायुव्योमामृतोक्तिर्जनिविधिविहतेत्युक्तिवैषम्यमाह।।

3. तेजः प्राथम्यदृष्टेरमृतवचनतोऽनंशकद्रव्यभावा-

 द्व्योमन्युत्पत्तिवाक् स्यादुपहितविषयैवात्मनीवेति चेन्न।

 प्राथम्यस्याश्रुतत्वात् प्रथमपठनतः कल्पनेऽन्येन बाधात्

 किंचामत्र्योक्तितुल्यं त्वमृतपदमिहानेकवाक्यैककण्ठ¬ात्।।

4. यौक्तस्सत्कार्यवादः श्रुतिभिरनुमतो नावयव्यस्ति सृज्य-

 स्तत्तद्द्रव्येषु नामान्तरभजनसहावस्थया सृष्टिवादः।

 इष्टाश्शब्दाद्यवस्थास्तव निरवयवद्रव्यवर्गेऽपि तस्मात्

 व्योमन्युत्पत्तिरुक्ता श्रुतिषु तदितरोत्पत्तितुल्या न बाद्ध्या।।

।2.3.2.

5. कूटस्थाद्ब्राहृणस्स्याज्जगदखिलमिदं पुत्रपौत्रादिनीते-

 रेतस्मात् प्राण इत्याद्यपि सुगममिहेत्यादिरूहोऽत्र मोहः।

 प्राणस्वान्तादिपाठक्रमत इतरसंक्षोभणेऽतिप्रसङ्गा-

 दीक्षानुस्यूतिदृष्टेः प्रथममिव परं सौति तत्तच्छरीरम्।।

।2.3.3.

6. द्रव्यं सर्वं हि नित्यं कथितमवयविद्रव्यभङ्गेन पूर्वं

 नित्यत्वं सूत्रकारः पुनरपि पुरुषे किं विशिष्याभिधत्ते।

 सत्यं नामान्तरार्हामिह नुदति दशां चेतनस्यानुपाधेः

 प्रत्यक्त्वज्ञत्वधर्मौ तदिह नियमितौ शाश्वतौ क्षेत्रिणोऽपि।।

7. सच्छब्दार्थातिरिक्तं जनिमदखिलमित्यैतदात्म्यादिसिद्धं

 प्रोक्ता सृष्टिश्च जीवे निरवयवनयस्त्वम्बरादौ निरस्तः।

 जीवोत्पत्तिस्ततस्स्यादिति न सदकृताभ्यागमादिप्रसङ्गा-

 न्नित्यत्वाजत्वकण्ठोक्तिभिरपि जननं त्वस्य देहादियोगः।।

8. देहात्मत्वे जनिस्स्यान्न तदिह घटते जातमात्रस्य रागात्

 ज्ञाने किण्वादिमेघोपलशबलपटप्रक्रियाऽप्यत्र दुस्स्था।

 देहे गेहादितुल्या ममकृतिरनघा दोषतस्त्वैक्यमोहः

 क्षिप्तं चैक्यानुमानं बलवदनुमितेश्शास्त्रतस्तर्कतश्च।।

9. देहं देहातिरेके तदवधिनियतप्राणबुद्ध्यक्षरूपं

 धीसन्तानं च नित्यं प्रलयविलयिनं स्थास्नुमप्यापवर्गात् ।

 डिण्डीराभं सदब्धाववितथविकृतौ जीवमिच्छन्त इत्थं

 निर्धूता दूरमत्र श्रुतिभिरितरवद्बाधदोषोज्ज्ञिताभिः।।

।2.3.4.

10. कैश्चिज्ज्ञानत्वमात्रं कथितमुपधिजा ज्ञातृतैवात्मनोऽन्यै-

 स्तत्राम्नायादिबाधं प्रथयति विविधं ज्ञोऽत इत्यादिसूत्रैः।

 पूर्वन्यायादमुष्मिञ् जनिलयरहिते नित्यबोधेऽत्र चोक्ते

 संकोचाद्यर्हबुद्धेर्विकृतिवचनमप्यस्य सद्वारकं स्यात्।।

11. ज्ञातृत्वं ज्ञानता च श्रुतिभिरभिदधे नात्र पक्षे पताम-

 स्सर्वत्रात्मा न भायात् किमिति न निगमैर्देहिनोऽणुत्वसिद्धेः।

 स्वाभासैकस्वमूर्तेरविशदमहसस्सर्वदा भानमिष्टं

 धीसंकोचात् सुषुप्तिप्रभृतिषु विशदोल्लेखमात्रोपरोधः।।

12. धर्मस्थे त्वेवकारे त्रिविधमपि भवेत्तद्व्यवच्छेदकत्वं

 धर्मिण्यस्यान्वये स्यात्तदितरविषये तस्य धर्मस्य हानिः।

 जानात्येवेत्यबोद्धा न भवति जडता ज्ञानमात्रोक्तिवार्या

 ज्ञानालोपादिवाक्यानुगुणविषयतां यात्यसावेवकारः।।

13. उत्क्रान्तिस्पन्दनाणूपमितिवचनतोऽणीयसश्शक्तिलाभे

 धीभूम्ना यौगपद्यं त्ववयवनयतोऽनेकमूर्तिग्रहेऽपि।

 यत्राम्नातं विभुत्वं परविषयमिदं भाति तात्पर्यलिङ्गै-

 र्जीवे व्यापित्ववादो मतिमहिमपरस्स्वच्छताद्याशयो वा।।

।2.3.5.

14. ज्ञातृत्वं पुंस इत्थं भवतु तदपि नामुष्य कर्तृत्वसिद्धि-

 श्श्रुत्याद्यैस्तन्निषेधाद्विकृतिविरहतश्चेत्यसद्दृष्टबाधात्।

 कर्तृत्वापह्नवोक्तेरविकृतिवचसोऽप्यान्यपर्यं हि गींतं

 कर्ता शास्त्रार्थवत्त्वात्तदयमिह न च स्यादबोद्धुर्नियोगः।।

15. किञ्च स्वोक्त्यादिभग्नो निगदितुरहमः कर्तृताया निषेधो

 यद्यन्यस्याहमर्थात्तदिदमुपनिषद्वेदिनस्सिद्धसाद्ध्यम्।

 भोक्तृत्वस्याप्यभावे प्रसजति वितथं बन्धमोक्षादिशास्त्रं

 प्राणादानाद्विहारात् प्रकृतिसमधिकोऽस्मीति योगाच्च कर्ता।।

16. व्यापारज्ञानवाञ्छाप्रशमनयतनायोगयुक्तिस्तु मन्दा

 कार्ये सामग्र्यपेक्षे विधितदितरयोर्लोकसिद्धा प्रवृत्तिः।

 सार्थं शास्त्रं हितोक्त्या नियतिनियमिता शास्त्रयोग्या दशा सा

 ज्ञाता कर्ता च भोक्ता तदयमिह पुमान् भाति सर्वैः प्रमाणैः।।

।2.3.6.

17. कर्ता नह्रन्यतन्त्रस्स्मरति खलु तथा पाणिनिश्चान्यथा चेत्

 आज्ञा कुर्यान्न कुर्यादिति तु निगलिते धावनादेशवत् स्यात्।

 मैवं कर्माक्षकालप्रकृतिपरवशे कर्तृतां तत्फलं च

 स्वीकृत्यात्मेशमात्रे श्रुतिशतविदिते द्वेष इत्थं दुरन्तः।।

18. साधारण्येन हेतुस्सलिलमिव विभुस्सर्वकार्याङ्कुराणां

 वैषम्यं त्वाविरिञ्चात् प्रतिनियतफलैः प्राणिनां कर्मबीजैः।

 साम्यं स्वस्य स्वगीतं श्रुतमपि तदिहाधोनिनीषादिभेद-

 स्तादृक्कर्मानुरूपं फलमिति नियतोऽनादिरेष प्रवाहः।।

19. काले दुःखोपशाÏन्त जनयति भगवान् व्याजमात्रावलम्बी

 या दुःखापाचिकीर्षा परहितमनसस्सैव तस्यानुकम्पा।

 दत्ते देहादियोगं दिशति च निगमं वक्ति वेदान्तसारं

 निस्सीमानन्दयोगं निरुपधि समये सौति पुंसां तयैव।।

20. दोषस्स्यान्निग्रहांशो यमयितुरिति चेन्नोपमर्दासहत्वात्

 स्वानिष्टं नेश्वरे हि प्रसजति न परानिष्टमस्य प्रतीपम्।

 कारुण्यं सावकाशं क्वचिदिति कथितं साक्षिताद्यञ्च सुस्थं

 दृष्टे चैतत्स्वभावे फलद इति धिया युज्यते तत्प्रपत्तिः।।

21. प्रत्यङ्ङात्माऽहमर्थः प्रमितिपरवतां कर्तृतादिश्च तस्मिन्

 स्वेच्छापूर्वप्रवृत्तेरयमचिदधिकस्तावदीशानतुल्यः।

 ईशस्तु स्वेच्छयैव प्रयतत इति तन्निघ्नमन्यत्समस्तं

 सारथ्यादिक्रमेण प्रतिनियतगतिस्स्यात् त्रयाणां प्रवृत्तिः।।

22. कर्तृत्वं स्यात् कदाचित् करणवति परप्रेरणानिव्र्यपेक्षं

 नोचेत् तन्निग्रहाद्यं कथमिति यदि न स्वेष्टपक्षेऽपि साम्यात्।

 स्वेनापथ्यप्रवृत्तं न हि पुनरपि तत् कारयेयुर्दयाद्र्रा-

 स्तच्चेत्तस्य स्वभावादितरदपि न किं निष्फलोऽधीतभङ्गः।।

23. क्षेत्रज्ञानां समानां विषमयतनता तादृशादृष्टभेदा-

 न्नादृष्टं त्वन्यदिष्टं नियमनभिदया शासितुस्तत्र भाव्यम्।

 साक्षित्वाद्यञ्च नेतुस्समनिगममितं प्रेरकत्वं न रुन्धे

 भाष्यादिग्रन्थलेशोऽप्यवहितमनसामैदमथ्र्यं भजेत।।

24. कर्ता देवः फलानां न तु करणभृतः प्रेरकश्चेत्ययुक्तं

 सर्वश्रुत्यादिकोपान्न भवति न फलं कर्मणः पापचर्या।

 कर्माधीनं तु चिन्ताद्यपि हि भवभृतो भाषितं भाष्यकारै-

 र्जन्तूनां देवतानामपि करणगणाधिष्ठितं वक्ष्यतीत्थम्।।

।2.3.7.

25. जीवादत्यन्तभिन्नः पर इति बहुधा व्याहरत् सूत्रकारो

 भेदाभेदश्रुतीनां घटकनिगमतश्शात्रवं च व्यपोढम्।

 उक्ताक्षेपे समाधावपि न समधिको हेतुरत्रास्ति सत्यं

 पादांशाद्युक्तिमुह्रद्बहुकुमतिमतक्षिप्तये त्वंशचिन्ता।।

26. अंशत्वं रामकृष्णप्रभृतिषु घटतां विग्रहांशाधिकारा-

 ज्जीवे ब्राहृांशतोक्तिर्न हि निरवयवं ब्राहृ वक्तुर्घटेत।

 ब्राहृादिश्चित्समष्टिः प्रतिपुरुषमिह त्वंशता चेत्ययुक्तं

 विश्वरुाष्टुर्बहु स्यामिति बहुभवनध्यातुरेकत्वसिद्धेः।।

27. व्योमैकं स्याद्धटाद्यैः पृथगुपधिगणैब्र्राहृ बह्वंशमेवं

 तत्रोपाधिव्यपाये भवभृदयमियाद्ब्राहृतामित्ययुक्तम्।

 स्वानर्थारम्भदौस्थ्यात् प्रतिनियतगुणप्रत्यभिज्ञाद्यदृष्टे-

 श्छिन्नाच्छिन्नांशचिन्तोदितबहुविहतेस्साम्यशब्दाच्च मुक्तौ।।

28. मायोदन्वत्यपारे प्रतिफलति मृषावीचिषु ब्राहृचन्द्र-

 श्छायांशास्तस्य जीवा इति कतिचिदुशन्त्येतदुन्मत्तगीतम्।

 न ब्राहृद्रष्टृतैषामचिदपि हि तथा स्वेन कल्प्यो न जीवः

 क्लृप्तेः प्राक् स्वात्महानेस्त्रितयसमधिकः कल्पकस्त्वत्र मृग्यः।।

29. सन्मात्रं ब्राहृ सर्वानुगतमिह पुनर्नित्यसिद्धास्त्रयोंऽशाः

 जीवेशाचित्प्रभेदादिति च कतिचनेदं च नोदञ्चनीयम्।

 सत्तामात्रानुवृत्तेस्तदधिकवपुषश्शासितुब्र्राहृतोक्ते-

 ब्र्राहृत्रैविध्यवाक्यं निरवयवतया निश्चितेऽन्याशयं स्यात्।।

30. मेरोरंशः किरीटप्रभृतिरिति नयान्नित्यभिन्नेंऽशतोक्ति-

 स्साजात्याल्पत्वमूला गमयितुमुचितेत्यागमासन्नपक्षे।

 अंशोक्तिस्स्यादमुख्या स हि निपुणधियामेकवस्त्वेकदेश-

 स्तस्माज्जीवो विशिष्टे भगवति गुणवत्तत्प्रकारोंऽश उक्तः।।

31. उक्तं नित्योपलब्धिप्रभृति परमते पूर्वमेव ह्रनिष्टं

 भूयस्तादृक्प्रसङ्गः प्रकथित इह किं भोगसङ्कीर्णतादेः।

 मैवं पूर्वं हि बाह्रप्रसृतिमशमयत्साम्प्रतं ब्राहृवाद-

 व्याजोत्सिक्तान् कुदृष्टीन् परिह्मतिरिति च स्याद्भविष्यन्मतेषु।।

32. मिथ्याज्ञानादिचक्रे मरुति भगणवद्धूर्णमानस्य जन्तोः

 प्रत्यक्तत्त्वप्रबोधाद्भवपरिहरणे सर्वतन्त्राविगीते।

 शुद्धात्मज्ञानगर्भां परभजनभिदामङ्गभेदांश्च वक्ष्य-

 न्मीमांसारम्भसिध्यद्वपुषमपि पुनश्शोधयामास जीवम्।।

33. क्लृप्तिव्र्योमादिकेऽपि क्रमभुवि च विभो प्राच्यतत्त्वैर्विशिष्टा-

 ज्जीवस्यौपाधिकौ तु प्रजननविलयौ चिद्धनज्ञातृताऽस्य।

 कर्तृत्वं पारतन्त्र्यं गुणतनुनयतो विश्वरूपांशता चे-

 त्याम्नायान्योन्यबाधव्यपनयनवियत्पादसाध्यानि सप्त।।



(द्वितीयाध्यायस्य चतुर्थः पादः) ( उपोद्घातः)

2.4.0.

1. अक्षाद्युत्पत्त्यनूक्तौ नहि फलमधिकाशङ्कनं त्वत्र मन्दं

 तत्संख्यादेः परीक्षाऽप्यनुकृतबलिभुग्दन्तचिन्तेति चेन्न।

 एतेष्वब्राहृकार्यं किमपि कथयतां बाधनेनार्थवत्त्वा-

 त्तत्साक्षात्संगतिस्स्यात् प्रथमचरमयोर्मध्यमानां प्रसङ्गात्।।

2. अष्टावत्राधिकाराः प्रथममिह वियन्नीतिरुक्तेन्द्रियाणां

 तेजोबन्नोक्तनीतिं द्रढयति चरमे व्यष्टिभेदस्य सृष्टौ।

 संख्यामानादिचिन्तास्वपि तदुपहितोपासनाद्यैः फलं स्यात्

 प्राणादिभ्यः प्रमाता पृथगिति विशदीकर्तुमप्येष पादः।।

।2.4.1.

3. अग्रे सत्तामृषीणां श्रुतिरभिदधती प्राणतां वक्ति तेषां

 नात्र ब्राहृैव वाच्यं बहुवचनहतेस्तेन नित्याक्षसिद्धिः।

 मैवं तत्सृष्टिदाढर्¬ाद्बहुवचनमिदं पाशनीत्यैव नेयं

 प्राणर्षित्वे परात्मन्यपि हि सुघटिते तन्निरुक्त्यादिसाम्यात्।।

।2.4.2.

4. सप्त प्राणाश्चरन्तीत्युदितमभिहितास्ते विशिष्यापि योगे

 तस्मात् सप्तेन्द्रियाणीत्यसदधिकवचोदृष्टितोऽत्रान्यपर्यात्।

 लक्ष्मैषां सात्त्विकाहंकरणपरिणतद्रव्यता चाविशिष्टा

 भेदेनोक्तिः प्रधाने मनसि फलवती कर्मबोधेन्द्रियेभ्यः।।

5. देहव्याप्येकमक्षं कतिचिदकथयन् भागतो भिन्नकृत्यं

 केचित् कर्मेन्द्रियाणि श्रुतिपथविमुखास्तत्यजुः क्षुद्रतर्कैः।

 क्षेत्रज्ञस्याहुरेके सह करणगणं बुद्ध्यहङ्कारचित्तै-

 रन्ये तं चित्तवर्जं निजगदुरिति तानर्थतोऽत्र व्युदास।।

।2.4.3.

6. सर्वेष्वानन्त्यवादात् परिमितिनियमानुक्तितश्चेन्द्रियाणां

 व्याप्तिस्सिद्धेति चेन्न प्रयदखिलतनूत्क्रान्तिगत्यागतिभ्यः।

 वृत्त्या दूरस्थधीस्स्याद्भजनविधिपरेऽनन्ततोक्तिस्स्वकार्यैः

 कन्दस्थानां च तत्तत्तनुषु विकृतिमद्द्रव्यभावात् पृथुत्वम्।।

।2.4.4.

7. प्राणः प्रागुक्तनीत्या परजनित इति स्थापितो वायुमात्रं

 देहान्तस्तत्क्रिया वा स इति न पृथगुत्पत्तिवादात् सहास्य।

 द्रव्यत्वं द्रव्यवर्गे पठनत उचितं नैष तत्त्वान्तरं स्या-

 त्तेजस्त्वे वाय्ववस्थात्यजनवदिह तत्त्यागहानेः कदाऽपि।।

।2.4.5.

8. उक्तः प्राणस्त्रिलोक्या सम इति स जगद्व्यापकोऽस्त्वित्ययुक्तं

 जीवाक्षन्यायतस्तत्सहपठिततदुत्क्रान्तिगत्याद्यबाधात्।

 स्तुत्यर्था सर्वसाम्यश्रुतिरिह करणक्षेत्रधृत्यादिहेतौ

 देहेऽनल्पोपकारस्स्फुरति च दशधा वृत्तिभेदैर्विभक्तः।।

।2.4.6.

9. भोक्तॄणां देवतानामपि तनुकरणाधिष्ठितिर्नेशतन्त्रा

 तत्स्वातन्त्र्यप्रदानादिति न तनुभृतस्तच्छरीरं हि सर्वे।

 नित्ये तत्पारतन्त्र्ये क्वचिदपि न भवेद्राजसामन्तनीतिः

 प्राणन्यायात् प्रभुत्वं तदिह परवशं चेतनानां स्वशक्ये।।

।2.4.7.

10. प्राणोऽपि स्याद्धृषीकं भृशमुपकरणात्तेषु मुख्यत्ववादा-

 दुत्क्रान्त्यादौ च साह्रादिति यदि न पृथक्छब्दतस्तस्य भेदात्।

 कण्ठोक्तादिन्द्रियत्वान्मनसि तु घटते गोबलीवर्दनीति-

 र्न प्राणे सात्त्विकाहङ्करणविकृतिता शब्दसाम्यादि मन्दम्।।

।2.4.8.

11. मन्वाद्यैस्स्मर्यतेऽसौ सरसिजवसतिव्र्यष्टिनामादिकर्ता

 जीवेनानुप्रविश्येत्यपि कथितमतः प्रेष्यकृत्यक्रमोऽत्र।

 तन्नैकोऽहि प्रवेष्टा त्रिवृतमकृत च व्याकरोदित्यधीत-

 स्तत्तज्जीवान्तरात्मा सृजति स भगवांस्तादृशं कार्यजातम्।।

12. या जीवेनात्मनेति श्रुतिरियमपि न ब्राहृजीवैक्यमाह

 प्रागेवैकोऽन्तरात्मा वपुरितरदिति स्थायिभेदाभिधानात्।

 तेनेशस्तद्विशिष्टः स्वकरणकतयाऽनुप्रवेशेऽपि कर्ता

 जीवे तत्कर्तृतायामिह न हि घटते त्वाश्रुतिः कर्तृभेदात्।।

13. अग्न्यादावण्डमध्यस्थितिमति कथितं रूपभेदैस्त्रिवृत्त्वं

 तेजोबन्नाशितोक्तावपि विशदमिदं तेन वेधास्त्रिवृत्कृत्।

 मैवं ब्राहृाण्डसृष्टिर्भवतु कथमसावत्रिवृत्कारपूर्वा

 भुक्तेऽन्नादौ त्रिधोक्ता परिणतिरितरत् सन्निकृष्टेः प्रदृष्टिः।।

  (निगमनम्)

14. अक्षाणां जन्मसंख्यापरिमितय इह प्राणवायोस्स्वरूपं

 तत्सौक्ष्म्यं देवतादेस्तदुभयविषयाधिष्ठितौ पारतन्त्र्यम्।

 प्राणस्यानिन्द्रियत्वं बहुविधचिदचिद्व्यष्टिनामादि चाद्या-

 त्पञ्चीकर्तुः स्वनाभिप्रभवकवचितादूचिरे प्राणपादे।।

15. नित्यत्वं व्योम्नि वाताद्यणुषु च पुरुषेऽप्यज्ञतादीनपार्थाञ्

 श्रोत्रादौ भूतताद्यं मनसि च विभुतां नित्यतत्त्वान्तरत्वम्।

 प्राणेष्वात्मादिभावं स्वपदनियमनस्वैरितां स्वर्गिबृन्दे

 वेधस्युन्मुक्तयन्त्रक्रममपि वदतां पादयुग्मेऽत्र भङ्गः।।

16. तर्कैरापातसत्यैरविहतिकथने व्याहतिः स्थापिता स्यात्

 सम्यग्भिर्वस्तुगत्या तदिति यदि तदा स्वाभिमानोपरोधः।

 तेनाद्ध्यायो विरोधप्रशमनकृदसौ बौद्धबन्धोर्विरुद्ध-

 स्सौत्री तर्काप्रतिष्ठा श्रुतिपथविमुखस्वैरवादेषु योज्या।।



  श्रीः उपोद्घातः

1. साद्ध्या मुक्तिर्नचेत्स्यात्प्रसजति विफला साधनाद्ध्यायक्लृप्ति-

 स्साद्ध्या चेन्नश्वरी स्यात् कथमिह पुनरावृत्तिशून्योऽपवर्गः।

 मैवं ब्राहृानुभूतिः परभजनवता प्रागसिद्धैव साद्ध्या

 धीसंकोचप्रणाशस्त्वियमिति च भवत्युत्तरावध्यतीता।।

2. पादाभ्यामत्र पूर्वं जनयति भवितां ब्राहृविद्याधिकारं

 पश्चात्तेषामुभाभ्यां वदति बहुविधां तामशेषैस्सहाङ्गैः।

 ऐश्वर्यादौ विरकिं्त निरवधिविभवे पूरुषे चाभिलाषं

 विद्याभेदावलम्बं तदुपकरणमप्याह पादैः क्रमेण।।

3. संसारोद्विग्नचेतास्तनुभृदधिकरोत्यत्र शारीरकांशे

 वैराग्यार्थस्तु पादः किमिति पुनरसौ सूत्रकारैर्निबद्धः।

 सत्यं प्राप्यान्तराणां निरयगणतुलारोपणं मुक्त्युपाय-

 प्रारम्भेऽभ्यर्हितं स्यात्त्वरत इह खलु स्पष्चस्वबोधः।।

।3.1.1.

4. देहाद्यं भोग्यनीत्या दिवि भुवि च गतौ तत्रतत्रैव लभ्यं

 प्राणाद्यैभूतसूक्ष्मैरपि किमिह मुधा पूर्वदेहाद्गृहीतैः।

 जीवस्याणोर्गतिं च स्वयमुपजनयेदीश्वरः प्राणनीत्या

 मैवं स्वच्छन्दकृत्ये श्रुतिमितनियतौ गौरवोक्तेरयुक्तेः।।

5. नानाजातीयराशिं व्यपदिशति जनो भूयसोंऽशस्य नाम्ना

 प्राचुर्यादेवमापः पुरुषवचस इत्युच्यते भूतवर्गः।

 व्यÏष्ट पञ्चीकृतैस्तैस्सृजति हि स विभुस्तारतम्यं पुनश्च

 श्रद्धाशब्दस्त्विहापः कथयति निगमे तत्समाख्यावदुक्तेः।।

6. द्यौः पर्जन्योऽथ पृथ्वी तदनु च पुरुषो योषिदित्येवमेतान्

 पञ्चाग्नीन् कल्पयित्वा परिकरसहितांस्तेषु पञ्चाग्निविद्या।

 श्रद्धाख्यं भूतसूक्ष्मं क्रमपरिणतितससोमवर्षान्नरेतो-

 रूपं हव्यं सजीवं तनुधरमरुतो जुह्वतीति ब्रावीति।।

।3.1.2.

7. इष्टापूर्तादिरूपं तनुभृदिह शुभंकर्म यत् किंच कुर्यात्

 भुक्त्वा कृत्स्नं तदन्ते पुनरवनिमियादित्यसदृष्टबाधात्।

 कार्त्स्न्येनेत्यश्रुतत्वात् सुकृतफलतया जातिभेदाद्यधीते-

 स्तस्मात् प्रारब्धशेषैस्तदितरसहितैरापतेत् स्वर्गपान्थः।।

8. धूमं रातिं्र च पक्षं तिमिरकलुषितं दक्षिणावृत्तिमासान्

 पश्चाल्लोकं पितॄणां गगनमपि मृतश्चन्द्रमभ्येति कर्मी।

 प्रत्यावृत्तौ तु चन्द्राद्रगनसततौ धूममभ्रं च मेघं

 व्रीह्रादीन्याति रेतस्सिचमथ जननीं यातनाचक्रवर्ती।।

9. आचारांशस्य साद्ध्यं चरणवचनतो जीतिभोगादिकं स्यात्

 कर्माचारौ विभक्तौ श्रुतित इति न सद्गत्यभावात्तथोक्तेः।

 मुख्यं वृत्त्या हि कर्मण्यपि चरणवनो नैकदेशे निरोद्ध्यं

 जात्यादिः कर्मभेदप्रभव इति मिते चिन्त्यमाचारसाद्ध्यम्।।

10. प्राप्ताचारातिवृत्तौ प्रतिपदमृषयस्सस्मरुः प्रत्यवायान्

 प्राचीनांहः प्रणाशं तदनुसरणतः पुण्यकर्मार्हतां च।

 नातस्सत्कर्ममात्रात् त्रिदिव इति धिया तत्परित्यागशङ्का

 न ह्राचारप्रहीणे श्वदृतिजलसमश्शोधको वेदवर्गः।।

।3.1.3.

11. सर्वेषां देहपाते सति नियमवती चन्द्रमः प्राप्तिरुक्ता

 तस्मात् पापोत्तराणां निरयगतिपुरस्कारिणी सेति चेन्न।

 लोकस्सूंपूर्यते तैर्न पर इति गिरा संकुचेत् सर्वशब्द-

 स्ते तत्तद्यातनान्ते तत इह सहसा कुत्सितां यान्ति योनिम्।।

12. जन्मप्राप्तिर्जरायुप्रभृतिषु भवितां कर्मपाकैर्विचित्रा

 भूयिष्ठैः पुण्यपापैस्त्वपदवदनवती पञ्चमाहुत्यपेक्षा।

 तद्वद्धूमादिमार्गः कति कति च शुभैरुत्कटैर्देहपाते

 दिव्यं रूपं विमानादिकमपि सपदि प्राप्य याताः प्रसिद्धाः।।

।3.1.4.

13. आहुत्योर्देहवत्त्वं प्रथमचरमयोर्निरविवादं तथा स्यात्

 जन्मैवाकाशवायुप्रभृतिषु भवतेरन्वयादित्यसारम्।

 रेयस्सिग्ओभावनीया पृथगभिसपनानर्हतामात्रमेव

 द्युभ्वोः पुण्यप्रसाध्यं फलमिह पठितं नास्ति भोगस्य मध्ये।।

।3.1.5.

14. व्योमादिस्थित्यवस्था चिरमचिरमिति व्यक्तनिर्देशहानेः

 शुक्लावस्थानयात् स्यादनियतिरिति न स्वारसिक्याः प्रवृत्तेः।

 व्रीह्रादिभ्यो हि दुर्निष्प्रपयरमिति तु श्रूयते तेन पूर्वं

 शीघ्रं तत्तदृशास्त्यजनमिति परिज्ञायते वाक्यशक्त्या।।

।3.1.6.

15. जन्म व्रीह्रादिनाम्ना श्रुतमिह तदिदं देवमत्र्यत्ववत्स्यात्

 नैरात्म्यं स्थावराणां नच निगमविदस्स्थापयन्तीति चेन्न।

 पुण्यस्यैव प्रवृत्ते फलपरिगणने स्थावरत्वोक्त्त्ययोगात्

 रेतस्सिगवष्र्मणीव ह्रुपचरति जनिं स्थावरेऽप्यन्यदेहे।।

16. हिंसायोगादशुद्धं श्रुतिविहितमपि न्यायमिष्टादिकं तत्-

 पापांशं व्रीहिभावप्रभृतिषु सुकृती भुङ्क्त इत्यप्ययुक्तम्।

 उक्ता मन्त्रार्थवादैः पशुहितमिति सा तच्चिकित्सावदेषां

 ब्राूते यज्ञे वधोऽसाववध इति मनुस्स्तौति निन्दा त्विहान्यत्।।

17. कर्तुर्दोषं दिशेत् संज्ञपनमिह पशोस्तत्क्रतोश्चोपकुर्यात्

 तस्मादस्मिन्निषेधं क्षिपति न विधिरित्यब्राुवन् सांख्यभक्ताः।

 निर्धूते पश्वनर्थे न खलु तदुचितं पिष्टपश्वादिकल्पः

 तत्तत्कालाधिकारिप्रतिनियत इति क्वापि न स्याद्विरोधः।।

18. किञ्चोत्सर्गापवादक्रममिह जहतः कीदृशी नित्यहिंसा

 शुद्धं न क्वापि सिध्योत् तव हि विधिपदं स्पष्टतत्तन्निषेधम्।

 यत्रासत्यादि वैद्यं तदनु च विहिता निष्कृतिस्तन्निमित्ता

 तत्रागत्या तथा स्यादितरवदथावा केवलं तन्निमित्तम्।।

19. अश्लिष्टं विग्रहाद्यैर्नभ इव मुसलैः क्षेत्रिणं केचिदाहुः

 कर्माकर्तारमेवं फलमपि विविधोपाधिभेदैकनिष्टम्।

 अव्यक्तस्यापवर्गं भवभुजमपि चानादिमुक्तस्वभावं

 तेषामित्थं मनीषां वहिरकृत नयैरेष वैराग्यपादः।।

20. पादे त्वर्थाष्षडस्मिन् वपुरिह विजहद्भूतसूक्ष्मैस्सहेयात्

 भुक्तस्वर्गोऽवरोहेदनुशयसहितो मात्रया भिन्नमार्गः।

 चन्द्रावाप्त्यादि न स्यान्निरयपथजुषामम्बरादौ सदृक्त्वं

 तस्माच्छीघ्रोऽवरोहः परवपुषि चिरं व्रीहिपूर्वे तु योगः।।



(तृतीयाध्यायस्य द्वितीयः पादः) (उपोद्घातः)

1. ब्राहृैव स्वैस्स्वभावैर्बहुमुखमवदत् प्राक्तनाध्याययुग्मे

 तस्येहाकृष्य चिन्ता किमिति पुनरसौ साधनाध्यायमध्ये।

 मैवं विद्याः प्रभेत्तुं विशदयति परं तद्धि तद्रूपभेदात्

 सिद्धोपायादिभावं प्रथयति च विभोः प्राप्यतृष्णाप्रथिम्ने।।

2. नैर्गुण्यं ब्राहृणश्चेद्वितथ इह गुणैरब्राहृविद्याविभागः

 सोऽस्त्वेतैः कल्पितैश्चेच्छØमतविहतिर्नात्र दृष्टिक्रमोऽपि।

 निर्दोषत्वच्च नित्यं यदि वदसि मुधा दोषशान्त्यर्थयत्नः

 कल्प्यं चेद् दुष्टता स्यात् प्रकृतिरिति परक्षिप्तये चैष पादः।।

3. किञ्चादौ चिन्त्यभावः प्रमितिविषयतास स्वप्रभत्वं सुखत्वं

 विश्वाधिष्ठानता चस्वबहुभवनधीर्निविशेषे कथं स्यात्।

 सर्वश्रुत्यर्थहानं स्ववचनविहतिस्सर्वमानैश्च बाधो

 मायावैयात्यभाजामिति सगुणदशोपास्तिपादश्च दुस्स्थः।।

4. त्यक्तं दोषैर्गुणाढ¬ं यदि पुनरिह तद् चिन्त्येत पादे

 जीवस्वप्नाद्यवस्थामननमथ कथं संघटेतेति चेन्न।

 स्वाप्नार्थरुाष्ट्टभावबहुविधब्राहृमाहात्म्यसिद्ध्यै

 जन्तोरस्य स्वमुक्तावति परवशताज्ञप्तये चैतदत्र।।

5. पादस्यास्याद्यमर्धं कतिचिदधिजगुः पूर्वपादस्य शेषं

 पश्चार्धञ्चात्र साक्षादनुघटितमुपास्त्यर्थतत्तद्गुणोक्तेः।

 एतन्नातीव ह्मद्यं शबलितकथने चातुरीवैपरीत्यात्

 ब्राहृोक्तौ जीवदोषग्रह इह तु मुखं तत् प्रतिद्वन्द्विबुद्धेः।।

6. स्वप्नेऽनार्थआस्सन्तु सृष्टास्तदपि बहुविधा दुस्त्यजा भ्रान्तिरत्र

 प्रध्वस्तानामिदानीन्तनवदनुभवात् स्धायितादिभ्रमाच्च।

 सत्यं श्रुत्यादिसिद्धे श्रुतपरिहरणायोगतस्सृष्टिमात्रं

 स्वीकृत्यांशे तु बाधाद् भ्रममपि हि यथाजागरं न क्षिपामः।।

7. कश्चिद्योगप्रभावान्निजपरभवनस्स्वैरसञ्चारनीत्या

 निष्क्रान्तः पूर्वदेहाद्विशति परवपुः पूर्वमाप्नोति भूयः

 इत्थं स्वप्नेऽप्युदन्तस्थिति कतिचिच्छ्वासवृत्त्या तथान्ये

 चित्तोद्यद्धीप्रसृत्येतरतनुभजने सौभरिन्यायसिद्धेः।।

।3.2.1

8. उक्तं पत्या प्रजानां भविनि दहरवत्सत्यसंकल्पताद्यं

 पुत्रादेश्चैष कर्ता प्रकृतइह सृजेत्स्वाप्नमर्थञ्च मैवम्।

 मुक्तौ तादृग्गुणोक्तेरनभिमतसमुत्पादनादेरयोगात्

 स्वाप्नानां सूचकत्वादपि निखिलजगत्कर्तुरेषापि सृष्टिः।।

9. कामङ्कामं विधातेत्यपि णमुलुचितोऽनूद्यते चेश इत्थं

 सोऽयं सुप्तेषु जागत्र्यपि विशदमिदं सम्परिष्वङ्गवाक्यात्।

 तत्तत्कालावसानाः कति कति नियता जागरेऽप्यर्थभेदाः

 तत्तत्कर्मानुरूपं फलवितरणमित्येतदप्युक्तमाप्तैः।।

10. मायामात्रोक्तिलाभाच्छØतिमुखसुगता विश्वमिथ्यात्वमाहुः

 शास्त्रारम्भे तदेभिः कथितमिह ततोऽसङ्गतत्वादिदुस्स्थम्।

 मायाशब्दो न मिथ्यावचन उपचरत्वन्ततः किं ततस्स्यात्

 सत्येऽशास्त्रादौ प्रयोगादुचितनियमने सोऽयमाश्चर्यतार्थः।।

।3.2.2.

11. स्थानं जन्तोस्सुषुप्तौ श्रुतिरनियमतो वक्ति नाड¬ः पुरीतद्

 हार्दं ब्राहृेति तस्मादिह भवतु मिथो नैरपेक्ष्याद्विकल्पः।

 तन्न प्रासादखट्वाशयनवदुपकृत्यन्तरैर्योजितानां

 पक्षेपक्षे विकल्पः क्रमघटितचतुर्दोषयुक्तो न युक्तः।।

।3.2.3.

12. मुक्तिब्र्राहृण्यपीतिरजहदसुखगणा तादृशीयं सुषुप्तिः

 श्रुत्यैव ख्याप्यतेऽतस्तदनु तनुभृदुद्बुध्यमानस्ततोऽन्यः।

 मैवं कर्मानुवृत्तेस्स्मरणनियमतः पूर्वएवेतिशब्दात्

 मोक्षोपायादिशिष्टेस्स्वपदनुवदनात् प्राच्य एव प्रबुद्धः।।

13. जीवानादित्वमूचे दृषदनुकरणं क्षेप्स्यते चापवर्गे

 स्वर्गाद्यर्थेप्रवृत्तिश्श्रुतिनयविदिता सौगताद्याश्च भग्नाः।

 कल्पान्तेऽप्येकतोक्तेर्नियमितविषया नामरूपग्रहाणात्

 भूयश्चिन्ता सुषुप्तेः प्रलयसमदशासञ्जिहासादिसिद्ध्यै।।

।3.2.4.

14. जाग्रत्स्वप्नौ न बाह्रावगमविरहितौ श्वासपूर्णा सुषुप्तिः

 तस्मान्मुग्धिरमृतिस्स्यात् प्रशमितकरणप्राणवर्गेति चेन्न।

 मृत्यादेरहेतुभेदात्स्थितिमृतिविशयादुत्थितेरानियत्यात्

 मर्तुं प्रक्रम्य मध्ये विरमति विधिनेत्यत्र तुर्यार्धभावः।।

15. जन्तूनां जागरादिस्थितिषु भवति यद्वैशसं दर्शितं तत्

 तत्तत्स्थानेषु योगेऽप्यनघशुभगुणं ब्राहृ संशोध्यतेऽत्र।

 संसर्गैक्यादिना परिहरति ततो दोषवर्गानुभाभ्यां

 हीनत्वौदार्यहानी परमपनयते नीतियुग्मेन नेतुः।।

।3.2.5.

16. नैर्गुण्यं निर्गुणोक्तेर्गुणवचन मिहाविद्यघर्मार्थवादो

 नैर्दोष्यं वस्तुवृत्त्या तदितरदखिलं स्वाप्नभोगादितुल्यम्।

 इत्थं जीवेशभूमापहरणकुहनावादमोमुह्रमानान्

 क्षेप्तुं नस्थानतोऽपीत्यधिकरणमथारभ्यतेऽनेकश्रृङ्गम्।।

17. हेयं वस्तु स्वतो यत् स्थितिरिह हि भवेद् दुःखकृत्स्वेच्छयापि

 त्याज्यत्वं नान्यथा स्यादिति न निरुपधेर्हेयभावस्य हानेः।

 नित्यस्वातन्त्र्यभाजो भविन इव दशाभेदतो नाप्यवद्यं

 श्रुत्यैवैकत्र देहे परतदितरयोश्शुद्ध्यशुद्धी ह्रधीते।।

18. ब्राहृक्षत्रादिदेहेष्वणुरिव विभुरप्यात्मभावेन तिष्टन्

 तत्तच्छब्दाभिलप्यस्तदिह स न कथं तत्तदादेशवश्यः।

 मैवं न ज्ञाप्यतेऽसावविदितविरहाच्छासितृत्वान्न शास्यः

 किञ्चिज्ज्ञो ह्रन्यतन्त्रो जगति हितविदा बोध्यतते प्रेर्यते च।।

19. उत्सर्गेणापवादं न खलु नयविदः क्षोभणीयं क्षमन्ते

 तस्मात् ब्राहृे गुणादौ विधिविषयमतिक्रम्य तिष्ठेन्निषेधः ।

 एवं शान्ते विरोधे नहि समविषयापच्छिदान्यायसिद्धिः

 दृष्टो नित्यं निषेधः पर इह च ततस्स्यादुपक्रान्तिनीतिः।।

20. सत्त्वं कार्यस्य गोपायति कथमसतस्सद्भवेदित्यधीतिः

 द्रव्यान्यत्वं हि कार्ये व्यपनयति परं मृत्तिकेत्येवशब्दः।

 अन्तर्भावाद्विशिष्टे भगवति जगतो नेहनानेति युक्तं

 निर्दिष्टेयत्त्वशङ्कां प्रशमयति परे नेतितेतीति चोक्तिः।।

21. तत्तद्वस्तुप्रदेशे सकलगुणतया पूर्णदृश्यः परात्मा

 वृद्धिह्यासादिभेदोज्झित इति हि जलाधारसूर्योपमोक्तिः।

 असपर्शोदाह्मतिश्चेन्न हि घटकरकाकाशदृष्टान्तयुक्ति-

 स्तस्माग्ब्राहृ द्विलिङ्रं द्विविधविभवमित्येव वेदान्तपक्षः।।

।3.2.6.

22. विश्वरुाष्टुस्स्वदुः खप्रजननमिह न स्वांशतोऽचित्त्वक्लृप्तौ

 मृत्तत्कार्यादिकञ्च स्वरसमिह बहूदाह्मतं सप्रतिज्ञम्।

 तस्मादव्याकृतादिर्विहरणनियता विक्रयैवेति चेन्न

 स्वांशे मौढ¬ं वितन्वन्विहरति भगवानित्यनर्थानपोहात्।।

23. कश्चिन्नित्योऽचिदंशो विविधविकृतिमान् ब्राहृणीत्याहुरेके

 फेनादिन्यायतोऽन्ये सति विकृतिवशाद् ज्ञाज्ञसर्वज्ञभागान्।

 चन्द्रज्योत्स्नादिनीत्या कतिचिदिह जगद्ब्राहृणोरैकजात्यं

 सर्वे ते सर्ववेदस्वरसगतिहतेरत्र वित्रासनीयाः।।

।3.2.7.

24. सेतुं तीत्र्वेत्धीतेः परिमितिवचनात् प्राप्यसम्बन्धितोक्ते-

 रन्याधिक्यश्रुतेरप्यतिवहननयात्कारणं प्रापकं स्यात्।

 प्राप्यं त्वन्यद्भवेदित्यसदनवधिके कारणे प्राप्यतोक्तेः

 सेतुत्वाद्युक्तिरस्मिन् बहुभिरविहतां वृत्तिमङ्गीकरोतु।।

25. सेतुत्वं सेतुतुल्याद्विधरणनियमाद्बन्धनाद्वात्र युक्तं

 व्याप्तेऽप्यस्मिन्नुपाधेः परिमितिवचनं सार्थकं सूत्रितं प्राक्।

 चातुष्पद्य ञ्च तत्तन्मतिसमनुगुणं कल्प्यतेऽनन्तभूम्नः

 ल्वस्येत्येवामृतस्येत्यभिहितमथवा मुक्तिरेवामृतं स्यात्।।

26. अन्यस्याधिक्यवादे परमवधितया कारणं यत्र दृष्टं

 तत्र ह्रव्याकृतादिस्तदवधिरितरपेक्षयासौ परश्च।

 यस्मादन्यत्परं नेत्यभिहितविषये तत्परोक्तेरयुक्तेः

 एवन्त्वादित्यनूक्तिस्तत इति यदिवा व्याप्ययुक्तं तदस्तु।।

।3.2.8.

27. आराध्यः कर्मकाण्डस्थितनयनिवहस्थापितानां क्रियाणां

 अध्यक्षो देवतानामनुपधिमहिमा मध्यकाण्योदितानाम्।

 अत्राप्येतावतोक्ते भवभयचकिताप्राप्त्युपाल्त्येकलक्ष्यः

 तत्तच्छारुाार्थयोग्यं दिशति फलमिति स्थाप्यतेऽथात्युदारः।।

28. कृष्यादेर्मर्दनादेरपि भवति फलं द्वारतो वान्यथा वा

 धर्माणां साधनत्वं श्रुतिभिरवगतं दोषबाधोज्झिताभिः।

 तस्मादीशप्रसादात्फलमिति तु वचस्तत्प्रशंसेति चेन्न

 श्रौताराध्यप्रसादत्यजनकनतोऽपूरवक्लृप्तेरयोगात्।।

29. यद्यप्याराध्यमूलं फलमपि फलितं देवताधिक्रियायां

 कर्मापेक्षा तथोक्ता फलजननपरप्रेरणादौ तथापि।

 साक्षित्वानादरत्वप्रभृतिपरगुणान् प्रेक्ष्य तत्प्रीणनादौ

 शङ्कातङ्कैर्निरुद्धंस्तवरयितुमधुना तादृशोदारतोक्तिः।।

30. सम्राजस्सानुकम्पातपितुरुचितविदस्साम्यभाजो वदान्यात्

 स्थाने विन्दन्ति पुत्रा नियतरुचिभिदा.तास्तं तमर्थंम्।

 तत्र प्राप्यं स्वतो यद्विहतिरिह यतस्तत्प्रशान्तिश्च यस्माद्

 देयं यच्चाविशेषाद्दमनमपि यथालोकमत्रापि तत्स्यात्।।

31. शुद्धानन्दे तदित्थं शुभगुणजलधौ सत्यनित्यस्वदेहे

 देवीभूषायुधाद्यैरतिशयिनि कनद्भोगलीलाविभूतौ।

 शेषित्वाधारभावप्रभृतिबहुविधस्थास्नुसम्बन्धदीप्ते

 दृष्टिस्स्वर्गापवर्गप्रसवितरि हरौ निर्निमेषा श्रुतिर्नः।।

32. पादे स्वप्नार्थहेतुस्तदयमिह सुषुप्त्याधतिस्सुप्रगोप्ता

 मुग्धोद्बोधादि कर्ता त्वनघशुभगुणोऽचिद्भिरंशी स्वदेहैः।

 पारम्यस्यैकसीमा सकलफलद इत्युच्यते भक्तिभूम्ने

 सत्ये ह्रेवं गुणादावथ परभजने रूपभेदादि चिन्त्यम्।।



  3.3.0,1. तत्त्वज्ञानानुविद्धं हिततममनघं मोक्ष्यमाणस्य वक्तुं

तत्त्वे निर्धूततर्कज्वरनियतमहासन्निपातप्रलापान् ।

निष्पन्ने तत्त्वबोधे न किमपि विदुषा साध्यमित्युद्गृणद्भ्यो

यावज्जीवानुवत्र्यं मुररिपुभजनं मुक्तिलाभाय वक्ति ।।

3.3.0,2. भीष्माभ्यो यातनाभ्यः पितृपथगमनावर्तनादेश्च बिभ्यत्

तृष्णां कृष्णामृताब्धौ परिणयति परां यावता तावदुक्तम् ।

इत्थं लब्धाधिकारः परमधिकुरुते साधने यत्र साङ्गे

पादद्वन्द्वे परस्मिन्तदिह बहुभिदाबर्बरं निब्र्रावीति ।।

3.3.0,3. एकस्मिन्नेव पादे निपुणनयकृता न द्वयोस्तर्कणं स्यात्

भेदोऽभेदश्च नैको विषय इह भवेदन्यहानप्रसङ्गात् ।

तस्मादस्मिन्प्रकीर्णा नयविततिरिति प्रेक्षितग्रन्थचोद्ये

वेद्यावच्छिन्नविद्यानियमकृदयमित्यैदमथ्र्यं समथ्र्यम् ।।

3.3.0,4. आख्यावन्तं गुणानां निजगदुरुपसंहारतः पादमेतं

विद्यैक्यार्थे तदस्मिन्नपवदनतया भेदचिन्ता प्रसक्ता ।

इत्थं शुश्रूषुशङ्कामिह शिथिलयितुं भाषितं भाष्यकारैः

तद्भेदाभेदमीमांसनमिह विषयस्त्वत्र चोक्तोऽनुवृत्तः ।।

3.3.0,5. निस्सीमानन्दनाडिन्धमनिरुपधिकानन्तसम्पद्गुणौधे

विद्याभेदैरविभज्य प्रणिधिरिह यदि प्राप्तिरप्यंशतस्स्यात्।

मैवं तैरेव धर्मैस्तदितरसहितैः पूर्णकामस्य पूर्णं

प्राप्यं ब्राहृैव नान्यत्किमपि फलमतस्तत्क्रतुन्यायसिद्धिः ।।

3.3.1,6. भेदश्शब्दान्तराद्यैर्विधिषु नियमितः कर्मकाण्डे द्वितीये

संयोगाद्यैक्यतोऽन्यस्समुदितनियतात् सैव विद्यासु नीतिः ।

आदौ तेनैव शाखान्तरनयमुदितं चोदनादेरभेदात्

श्रुत्यैवाक्षिप्य भूयः प्रतिसमधित तं भेदकान्यार्थतोक्त्या ।।

3.3.1,7. शाखासु प्रक्रियान्या श्रवणमपि पुनर्दृष्टमत्राविशेषं

विद्याभेदस्ततस्स्यादिति न तदुभयं युक्तमध्येतृभेदात् ।

तेषामेवेति वाक्यात् क्वचिदुपजनिता भेदशङ्का त्वयुक्ता

स्वाध्याये ब्राहृविद्यापदमिह हि भवेत्तद्व्रतेनान्वयोक्तेः ।।

3.3.1,8.रूपैक्यादैक्यसिद्धौ किमितरदुपसंहार्यमन्यो गुणश्चेत्

भेदो न स्याद्विकल्पं तदिह किमफला तेन चिन्तेति चेन्न ।

वेद्याकारैक्यमैक्यं दिशति तदधिकं किञ्चिदाकृष्यतेऽङ्गं

कर्मण्यप्येवमेव ह्रुपह्मतिविषयो भेदकांशातिरिक्तः ।।

3.3.2,9. प्राग्वच्छाखाविभेदेऽप्युपशमितभिदा तादृगुद्गीथविद्या

स्यादेका चोदनाद्यैस्तदसदुभयथा रूपभेदोपलब्धेः ।

गाता गेयश्च गेये सकलमसकलञ्चेति वैषम्यसिद्धौ

शेषाभेदोऽप्यभेदं न गमयति भिदा त्वेकभेदेऽपि सिध्येत् ।।

3.3.2,10. छन्दोगोद्गीथशब्दस्तदवयवपरः प्रक्रमादिप्रसिद्धेः

कृत्स्नोद्गीथाभिधायी प्रकरणनियमाभावतो वाजिनां स्यात् ।

उद्गीथोक्तिश्च नैषामुपचरितवती गातरि प्रक्रमस्था

तत्कत्र्रा साधनीये द्विषदुपशमने तत्फलत्वोक्त्यबाधात् ।।

3.3.2,11. यद्यप्यब्राहृविद्या परपरिभवनाद्यैहिकार्थप्रयुक्ता

न ग्राह्रा मोक्षशास्त्रे तदपि समतया तत्परीक्षेति केचित् ।

काम्या विद्याप्यनिष्टव्यपनयनमुखैब्र्राहृविद्योपयुक्तैः

तत्तत्साध्यप्रभेदैर्भवति समुचितालोचनेत्याहुरन्ये ।।

3.3.2,12. अज्ञातब्राहृतत्त्वः कथमिव विमृशेत् कुत्रचिद् ब्राहृदृÏष्ट

तस्मात्तत्तादृशानां समुचितमगतेरत्र मीमांसनं स्यात् ।

आदध्युः कर्मणाञ्च स्वफलवितरणे वीर्यवत्त्वातिरेकं

ब्राहृध्यानार्थकर्मातिशयजननतः प्रस्तुतापेक्षितं तत् ।।

3.3.3,13. ज्यैष्ठ¬श्रैष्ठ¬ादिसाम्ये क्वचन समधिकं भाति वासिष्ठ¬पूर्वं

तेनेत्थं रूपभेदाद्बहुनिगमगता भिद्यतां प्राणविद्या ।

मैवं वागादितत्तद्गुणपरवशतावर्णनस्याविशेषात्

वागाद्यैस्स्वस्वधर्मोपचरणमकृतं तावता स्यान्न भेदः ।।

3.3.4,14. नानाशब्दादिभेदादिति खलु भिदुरां वक्ष्यति ब्राहृविद्यां

रूपं विद्यान्तरस्य प्रकरणपठितं नान्यदन्यत्र योज्यम् ।

तस्मात् सत्यत्वपूर्वास्तदितरगुणवत् स्युव्र्यवस्थापनीयाः

मैवं ब्राहृस्वरूपावगतिरिह यतस्तद्धि सर्वास्वपेक्ष्यम् ।।

3.3.4,15. सत्यत्वं विश्वहेतौ बहुविधचिदचिद्विक्रियाजालहानेः

ज्ञानत्वं ज्ञातृभावात् स्वरबहुलतया स्वप्रकाशत्वतश्च ।

त्रिद्व्येकाभिस्तु सर्वं प्रमितमिह परिच्छित्तिभिब्र्राहृणोऽन्यत्

तस्यानन्त्यं वियोगात् तिसृभिरपि सदा निर्मलानन्दधाम्नः ।।

3.3.4,16. उक्तं जन्मादिसूत्रे ननु निखिलजगद्धेतुता ब्राहृलक्ष्म

स्यात्तेनैव स्वरूपावगतिरिह मुधा सत्यतादीति चेन्न ।

हेतोरीशस्य हेत्वन्तरगतविविधावद्यवर्गप्रसङ्गे

शङ्कारूढे क्रमेणेतरविभजनतस्तस्य साफल्यसिद्धेः ।।

3.3.4,17. नन्वाध्यानं प्रियाद्यैरपि भवति शिरः पक्षपुच्छादिरूपैः

बाढं तत्र प्रियाद्यैस्तदवगतिरतस्ते तु सर्वानुवृत्ताः ।

पुच्छाद्यंशो निरंशे न भवतु न च तद्दृष्टिरुत्कृष्टतत्त्वे

तस्माच्चित्याग्निरूपक्रमवदिह कृतं रूपणं ब्राहृणि स्यात् ।।

3.3.4,18. आनन्दत्वप्रधानं कतिचिदिह विदुस्सौत्रमानन्दशब्दं

धर्मानन्दाभिधानं तदुभयवचनं वेति पश्यन्ति केचित् ।

ज्ञानोक्तौ चैतदेवं तदितरसमता यावता स्यान्न शङ्क्या

तावद्धर्मानुवृत्तिर्बहुभजनपदे ब्राहृणि स्थाप्यतेऽत्र ।।

3.3.5,19. आचामेदित्यपूर्वाचमनमिह विधेः प्राणविद्यावतस्स्यात्

मैवं स्मृत्यादिसिद्धेः परमनुविहिता प्राणवासस्त्वदृष्टिः ।

भुञ्जीतेत्यादिनीत्या विधिरपि घटते प्राप्तधात्वर्थनिष्ठः

प्रागुक्ता प्राणविद्या तदिदमवसरे चिन्तितं त्वङ्गमस्याः ।।

3.3.5,20. आदावन्ते च वासः परिधिरभिहितो मन्यतिश्चात्र दृष्ट¬ै

सा चाराध्यप्रियार्था स्तुतिरिह न भवेद्गत्यलाभाभिनन्द्या ।

युक्तश्चापूर्वभावात् परिदधतिगिरा तद्विधानाभिसन्धिः

प्राणश्चाराधनीयः परिहितवसनो युज्यते सद्भिरद्भिः ।।

3.3.6,21. शाखैक्येऽध्येतृभेदो न भवति न गुणः कश्चिदन्यो विधेयः

तस्मादुक्ताविशेषश्रवणमिह पुनः किं न विद्यां विभिन्द्यात् ।

मैवं यद्यप्यनूक्तिर्नतु गुणविधये कल्पतेऽस्यास्तथापि

व्यक्त्यै सौकर्यतश्च व्यसनसमसनन्यायतस्त्वैक्यसिद्धेः ।।

3.3.6,22. छन्दोगैर्वाजिभिश्च स्फुटमनुपठिता भाति शाण्डिल्यविद्या

भेदाभेदावमर्शस्त्विह किमिति न सन्दर्शितो भाष्यकारैः ।

तद्ब्राूमो यत्रयत्राधिकपरिपठनं तत्रतत्राधिकानां

अन्तर्भावादियुक्तावधिकमनधिकं वेति साधारणोक्तेः ।।

3.3.6,23. स्थानद्वन्द्वे वशित्वप्रभृतिविरहिता वाजिभिस्तद्युता चा-

धीता शाण्डिल्यविद्या तदिह भिदुरता कल्पनीयेति चेन्न ।

आरण्योक्तं वशित्वाद्यपि खलु विततिस्सत्यसङ्कल्पतायाः

साधीताग्नेरहस्येऽप्यधिकविरहतो नात्र विद्यैक्यबाधः ।।

3.3.7,24 अक्ष्यादित्योपलक्ष्ये भगवति भजनं चोदनादेरभेदात्

एकं स्यात् तेन नाम्नोरनियतिरिति न स्थानतो रूपभेदात् ।

स्थानं तत्स्थत्वबुद्ध्यै ह्रुपदिशति न चेत् स्यान्न रूपातिदेशः

तस्मादर्काक्षिय़ोगादहरहमिति तन्नामनी स्थापनीये ।।

3.3.8,25. सम्भृत्यादिर्गुणौघः प्रकरणपठनाभावतस्सर्वविद्या-

स्वन्वीयेतेति चेन्न क्वचिदगतिकतो लिङ्गतस्स्थापितत्वात् ।

अल्पस्थानासु विद्यास्वघटितवपुषस्स्वोचितस्थानवृत्तेः

द्युव्याप्तेरेकमन्त्रे सहपठनवशात् तत्समस्थानिनोऽन्ये ।।

3.3.9,26. आख्याद्यैक्यादभेदः पुरुषविषययोर्विद्ययोरित्ययुक्तं

यज्ञाद्याकारक्लृप्तेरिह विषमतया रूपभेदप्रसिद्धेः ।

तादथ्र्यात् तैत्तिरीये परभजनफलं मुक्तिरत्राप्यनूक्ता

छान्दोग्ये पूर्णमायुः फलमिति तु तयोर्भाति संयोगभेदः ।।

3.3.9,27. स्पष्टे रूपादिभेदे हठसमुपनतो नामसाम्यादिमात्रात्

पुंविद्यापूर्वपक्षो मृदुरिति विफलाऽधिक्रियैषेति चेन्न ।

अन्यैव न्यासविद्या प्रकरणपठिता तद्विधानप्रधाने-

त्यस्वातन्त्र्यादिसिद्ध्यै विभजनमनयोरित्यतीवार्थवत्त्वात् ।।

3.3.9,28. यद्येवं यज्ञदृष्टिः परविदि पुरुषे चोद्यते सानुबन्धे

यज्ञस्यानङ्गभूतं कथमिह विविधं कल्प्यते तत्रतत्र ।

तस्मात् प्रक्रान्तविद्यास्तुतिरियमुचितेत्याहुरेकेऽन्यथाऽन्ये

तिष्ठत्वेतद् द्विधापि प्रकृतसुघटिता सम्प्रदायस्तु चिन्त्यः ।।

3.3.10,29. युज्येरन् ब्राहृविद्यापरिसरपठिताश्शन्न इत्य़ादिमन्त्राः

तादथ्र्यात् सर्वविद्यास्विति न तदुदिताधीतिशेषत्वलिङ्गात् ।

नो चेदन्येऽपि तद्वत् सविधपठनतस्सन्तु शुक्रं प्रविध्ये-

त्येवम्प्रायास्तदर्था न च घटत इदं लिङ्गतो दुर्बलत्वात् ।।

3.3.11,30. शाखे द्वे मुक्तिभाजः क्वचन कथयतः पुण्यपापप्रहाणं

ब्राूतेऽन्या तत्प्रवेशं प्रियतदितरयोर्दायसंक्रान्तिकाले ।

हानञ्चोपायनञ्च क्वचिदिति पृथगाम्नातसंपर्कसिद्धिः

वाक्यं शाखान्तरस्थं भवति हि विहिताकाङ्क्षया वाक्यशेषम् ।।

3.3.11,31. इत्थं ब्राहृज्ञकर्मत्यजनमितरसंक्रान्तिसम्पृक्तमस्तु

स्याच्चिन्तायां व्यवस्था पृथगनुपठनादित्यसत् क्लृप्तिदौस्स्थ्यात् ।

सर्वेषां मुक्तिभाजां द्वितयमपि यथोपास्ति साध्यं समानं

तच्चिन्तासौ तथा तन्महिमविद इति स्थापनीयोभयत्र ।।

3.3.11,32. कत्र्रा तेनैव भोग्यं शुभमितरदपि स्थापितं कर्मकाण्डे

तस्माद् ब्राहृज्ञकर्म द्विषति सुह्मदि वा नापतेदित्ययुक्तम् ।

विद्यामाहात्म्यतो यद्विगलति विदुषः कर्म तत्साध्यतुल्यं

विद्वत्प्रद्वेषभक्त्योः फलमिति कथने वाक्यतात्पर्यसिद्धेः ।।

3.3.12,33. कर्मोद्धूतिर्मुमुक्षोः क्वचिदुपनिषदि श्रूयते साम्पराये

मार्गेऽन्यस्यां द्विधैवं शकलश इह तच्चिन्तनञ्चास्तु मा भूत् ।

नह्रुक्तं कर्मसाध्यं पथि फलमथ गत्यर्थदेहानुवृतिं्त

मुक्त्यै विद्यैव कुर्यादघहतिवचने पाठतोऽर्थो बलीयान् ।।

3.3.12,34. निश्शेषं कर्म नश्येदिह यदि विदुषस्स्थूलदेहान्तमात्रे

विश्राम्येत् तस्य तावच्चिरमिति हि वचो नार्थंवत्त्वं गतेस्स्यात् ।

गत्वा सम्पद्य चाविर्भवनमिति न संबोभवीतीत्ययुक्तं

स्याद्धीसङ्कोचमात्रस्थितिकृदनुगतस्सूक्ष्मसंस्कारयोगः ।।

3.3.13,35. पन्थास्स्यादर्चिरादिः फलमिह सकलब्राहृविद्यासु मा वा

प्रारभ्याधीतियोगात् प्रकरणनियता तस्य चिन्तेति चेन्न ।

सर्वासां तद्य इत्थं विदुरिति वचसात्राथ येचेति चोक्त्या

मार्गे साधारणेऽÏस्मन्स्तदनुसरणतस्तद्वदेवास्य चिन्ता ।।

3.3.13,36. हेयोपादेयमार्गद्वितयमुपदिशन् मुक्तिदाता मुमुक्षोः

योगी यः कश्चनैतत्सरणियुगलविन्मुह्रते नेत्यगायत् ।

तस्मादस्मादृशाधीत्यविशदविशदीकर्तृवाक्यावमर्शात्

ब्राहृप्राप्त्यर्हकृत्स्नप्रणिहितविहितं मार्गचिन्ताविधानम् ।।

3.3.13,37. हानादेरर्चिरादेरपि किमभिहितं चिन्तनं सूत्रकारैः

विद्याङ्गत्वादिसिद्ध्यै यदि भवतु तदानन्तरे पाद एतत् ।

मैवं विद्याङ्गतायामपि भजनमिवेदञ्च धीत्वाविशेषात्

कर्मादिभ्यो विभक्तं कथयितुमिह तत्सूत्रणं स्थानपाति ।।

3.3.14,38. यस्यामस्थूलतादि प्रपठितमुचितं चिन्तनं तस्य तस्यां

नान्यस्यां मानहानेर्न यदि नियमनं कस्य कुत्रेति चेन्न ।

हेतुत्वोन्नेयदोषव्यपनयनमिह ब्राहृविद्यासु सर्वा-

स्वानन्दाधिक्रियोक्तक्रमनियमितमित्यस्य सार्वत्रिकत्वात् ।।

3.3.14,39. सत्यत्वाद्यैस्स्वरूपावगतिरभिहिता सर्वविद्यानुवृत्त्या

भूयस्तत्तुल्यधर्मेष्वधिकरणमिदं स्याद् वृथैवेति चेन्न ।

कैश्चिज्ज्ञातस्वरूपे क्वचिदितरगतं किञ्चिदन्यन्निषेध्यं

व्यावृत्त्या न स्वरूपावगतिरत इति प्रेक्षणस्यापि रोधात् ।।

3.3.14,40. व्यावत्र्यानन्त्यतस्तद्व्युदसनमपि हि स्यादनन्तं ततस्त-

च्चिन्ता किञ्चिज्ज्ञसाध्या जलधितरणवन्नोपदिश्येत मैवम् ।

तत्तत्सामान्यधर्मानुहतिकबलिताशेषभेदोपदेशे

तादृक्विन्तोपपत्तेरनवममिति वा गृह्रतां संगृहीतिः ।।

3.3.15,41. सूत्रस्वारस्यलाभात् प्रथममसुभृतः पूर्वपक्षे निवेशः

सिद्धान्ते ब्राहृणश्चेत्यधिकरणगतिस्तोकशङ्कापनुत्यै ।

साक्षाद्ब्राहृेति वाक्यद्वयमवमृशतामन्यशङ्कैव न स्या-

दित्यालोच्याथ भाष्ये परविषयतया पूर्वपक्षोऽप्युपात्तः ।।

3.3.15,42. यत्साक्षादित्यमुष्मिञ्छØतिशिरसि परं ब्राहृवैद्यं यदेवे-

त्येतÏस्मश्चास्त्वथापि प्रतिवचनभिदा तत्र रूपं भिनत्ति ।

विद्याभित् प्रष्टृभेदोऽप्ययमिति यदि नानूद्य भूयोऽनुयोगात्

पश्चादुक्तश्च दोषात्यय इह न भिदां सौति साधारणत्वात् ।।

3.3.15,43. सद्विद्यायां यथा हि प्रतिवचनभिदा प्रश्नभेदानुसारात्

विद्यैकत्वे विशेष्यं प्रकटयति परां देवतामेवमत्र ।

तेनोषस्तः कहोलश्रुतमपि स च तत्संश्रुतं सङ्कलय्य

ध्यायेतां ब्राहृ सर्वान्तरमिति फलवत्तत्र सब्राहृचर्यम् ।।

3.3.16,44. आकाशं ताण्डिनस्तच्छयितमधिजगुर्वाजिनस्तेन विद्या

भिद्येतात्रेति चेन्न द्विविध इह यतो ब्राहृनिर्देश एषः ।

सर्वाधारत्वपूर्वैः परतरविषयस्सामगाकाशशब्दो

विश्वेशाधारतोक्त्या सुषिरविषयतान्यत्र रूपं तु नान्यत् ।।

3.3.16,45. छन्दोगानामुपास्यं प्रथितमिह गुणैरष्टभिब्र्राहृ जुष्टं

तच्चान्येषां वशित्वप्रभृतिघटितमित्यस्तु रूपे तु भेदः ।

मैवं यत्तद्वशित्वाद्यपि तदिह भिदा सत्यसङ्कल्पतायाः

इत्यैकाथ्र्यं निरूढं परमपि दहरोपासनं तद्वदूह्रम् ।।

3.3.16,46. नन्वाकाशो गुणाद्यैः पर इति दहराधिक्रियायां पुरोक्तं

तस्मान्नान्यार्थशङ्केत्यधिकरणमिदं नोज्जिहीतेति चेन्न ।

व्योमातीतं निमित्तं दहरमिदमुपादानमित्युद्गृणन्तः

पूर्वं क्षिप्ताः प्रसङ्गात् पुनरपि गमिताश्छिन्नमूलत्वमत्र ।।

3.3.17,47. उद्गीथादौ क्रियाङ्गे भजनमपि भवेत्पर्णताद्युक्तनीत्या

कर्माङ्गं तत्फलोक्तिस्त्विह नुतिरिति गोदोहनन्यायभग्नम् ।

स्वर्गादीनां फलत्वं क्रतुषु तदधिके ह्रत्र वीर्यातिरेकः

पर्णत्वादौ न वाक्यं वदति करणतां कर्म चाहानुपास्तौ ।।

3.3.17,48. उद्गीथे प्राणदृष्टौ क्रतुघटितफलादन्यदुक्तं फलं तत्

स्वीकृत्य प्राग्विचारः स्थित इति विहतः पूर्वपक्षोऽत्र मैवम् ।

अत्रत्येऽनङ्गभावे स्थितनिहितधियस्तत्र विद्यैक्यशङ्का

त्यक्त्वाङ्गानङ्गभावौ पृथगपृथगिति स्याच्च पूर्वत्र चिन्ता ।।

3.3.18,49. कामानेतांश्च सत्यानिति वचनबलाद्धम्र्युपास्तेर्विभक्ता

धर्मोपास्तिस्तदर्थं गुणिपरिगणनं तन्त्रतोऽस्त्वित्ययुक्तम् ।

तत्तद्वैशिष्ट¬भेदात् प्रतिविधि गुणिनश्चिन्तनावृत्तिरथ्र्या

राजत्वाद्यैः पृथक्त्वाद्भवति हि हविषो दानमावृत्तमिन्द्रे ।।

3.3.18,50. तत्तद्भोगप्रतीतेर्गुणघटितपरोपासना भोगहेतुः

मुक्तिश्च स्यात् क्रमादित्यसदगुणवचस्यान्यपर्याभिधानात् ।

शास्त्रेऽस्मिन्ना समाप्तेः क्व फलमभिहितं निर्गुणोपास्तिसाध्यं

नोच्छास्त्रञ्च प्रकल्प्यं गुणनियमनतः ख्यातिमांश्चैष पादः ।।

3.3.18,51. प्रत्येकं मेलनाद्वा दहरगुणगणेऽप्यत्र सञ्चिन्त्यमाने

गुण्यावृत्त्यर्थलब्धेः कथमिह तदनावृत्तिशङ्केति चेन्न ।

बुद्ध्यारोहे गुणानां यदवधि गुणिनो रूपमथ्र्यं ततोऽन्यद्

विद्यैकान्तं तदावृत्त्यनुघटिततदावृत्तिचिन्ताप्रवृत्तेः ।।

3.3.19,52. प्रक्रान्ता दह्यविद्या प्रकटमुपरि च ज्ञायते तैत्तिरीये

तस्मादूध्र्वानुवाकः प्रकृतिविषयनिर्धारणार्थोऽस्तु मैवम् ।

तत्तद्विद्योदितैस्तैः परमिह पुरुषं प्रत्यभिज्ञाप्य शब्दैः

तस्मिन्नारायणत्वं वददधिकबलं प्रक्रियातो हि वाक्यम् ।।

3.3.19,53. वाक्यैस्सर्वार्थतायां दहरभजनमप्यत्र भागीति सार्थः

तल्लिङ्गोपेतभागो न च बहुभिरलं योद्धुमेकं गतार्थम् ।

नैकस्यास्योपकुर्यात् प्रकरणमलसं किञ्च सर्वोपजीव्ये

तत्त्वे तात्पर्यमत्र स्फुटमिति वितथा तत्परित्यागक्लृप्तिः ।।

3.3.19,54. आत्मैक्यं देवतैक्यं त्रिकसमधिगता तुल्यतैक्यं त्रयाणाम्

अन्यत्रैश्वर्यमित्याद्यनिपुणफणितीराद्रियन्ते न सन्तः ।

त्रय्यन्तैरेककण्ठैस्तदनुगुणमनुव्यासमुख्योक्तिभिश्च

श्रीमान्नारायणो नः पतिरखिलतनुर्मुक्तिदो मुक्तभोग्यः ।।

3.3.20,55. अङ्गं पूर्वप्रसक्तेष्टकचितसमुपस्थापितस्य क्रतोस्स्याद्

बुद्ध्यात्माग्निर्मनश्चित्प्रभृतिरपि यथा मानसं द्वादशाहे ।

तद्वीर्यस्यातिदेशादिति न सदुदितो ह्रत्र विद्यात्मकोऽङ्गी

श्रुत्याद्यैरेव तस्मिन्नुपकृतिसमताबोधनार्थोऽतिदेशः ।।

3.3.20,56. कल्प्यो ह्रत्र क्रियात्मा क्रतुरपि तदपि प्रागुपात्ताङ्गशक्त्या

वाक्यस्थैश्चानुबन्धैरिह समुपनतो भाति विद्यामयस्तु ।

दूरस्थाकृष्टयोगात् स्ववचनपठिताकृष्टयोगो लघीयान्

अप्राप्तेऽर्थे विधित्वं ह्रनुवदनसमेऽप्याश्रितं तद्वदत्र ।।

3.3.21,57. तत्कालाकारिणस्स्यादहमिति भजने कञ्चुकस्यात्मनो धीः

आसत्तेर्मामुपास्स्वेत्युदितवदिति चेन्नान्यथा सन्निकर्षात् ।

शुद्धो ह्रात्मात्र साध्यः फलमतिरविनाभाविनी बोद्धृकृत्ये

बुद्ध्यासन्नेऽन्तरङ्गे सति विधिनियता तत्क्रतुन्यायसिद्धिः ।।

3.3.21,58. कर्तुर्भोक्तृत्वमात्रं गणयितुमुचितं दृष्टभोगार्थयत्ने

स्वर्गाद्यर्थेऽन्यदेहानुगतिरपि परं स्वाधिकारानुविद्धा ।

मुक्त्यर्थे प्राप्त्यवस्थाप्रणिधिकथनतस्तत्क्रतुन्यायवाचां

तद्युक्तोपास्यरूपं विषय इति कुतोऽतिप्रसङ्गादिशङ्का ।।

3.3.21,59. विद्याभेदेषु वेद्याकृतिविषमतया यावदुक्तेऽपि चिन्त्ये

प्राप्यं सर्वोपपन्नं खलु तदिह कथं प्राप्यचिन्तानिषेधः ।

तस्माद्बद्धस्य चिन्तास्त्विति न कलुषितो नह्रहंशब्दमुख्यः

प्राजापत्यात्तु वाक्यादकलुषदशया भावनीयत्वसिद्धिः ।।

3.3.22,60. उद्गीथादेर्विशेषे भजनविधिरसौ स्यात् स्वसान्निध्यगीतेः

मैवं सर्वाङ्गिभूतक्रतुमुखत इहाशेषसान्निध्यसिद्धेः ।

सामान्यं व्यक्त्यपेक्षक्रियमपि नियमादर्शने व्रीहितावत्

शब्दश्चोद्गीथमात्रं वदति नतु भिदां छागनीतिस्तु नात्र ।।

3.3.23,61. व्यस्तो वैश्वानरात्मा प्रतिनियतफलोदाह्मतेश्चिन्तनीयः

कृत्स्नोपास्तौ फलोक्तिस्स्तुतिरिह यदि वा कृत्स्नरूपोऽप्युपास्यः ।

मैवं व्यस्तेषु दोषः पृथगनुकथितस्तत्फलोक्तिस्स्तुतिस्स्याद्

दृष्टं ह्रष्टाकपालप्रभृतिषु च तथा तेन चिन्त्यस्समस्तः ।।

3.3.23,62. सामस्त्यस्यैव योगे द्रढिमवति महावाक्यतात्पर्यवृत्त्या

व्यस्तेष्वंशाननूद्य स्तुतिनियतनयादान्यपर्यं फलोक्तेः ।

नामादीनामुपास्तौ फलमवधितयापेक्षितं भूमवाक्ये

नाप्येवं प्रत्यवायश्श्रुत इति विषमोदाह्मतिर्नार्थसिद्धै ।।

3.3.24,63. सर्वासु ब्राहृ वेद्यं फलमपि खलु तद्ब्राहृविद्येति चाख्या

ध्यानाद्युक्त्येकलक्ष्ये विधिरपि भजने सर्वविद्यैक्यमित्थम् ।

तन्नाख्यारूपभेदात् तदुपहितविधौ तेन वैशिष्ट¬सिद्धेः

मिश्रं मध्वादिविद्याफलमिह च पृथक्काम्यविद्यासु चैवम् ।।

33.24,64. नानाशब्दादिभेदादिति कथमवदत् सूत्रकृच्छब्दसाम्ये

न ह्रेते यागदानादय इव भिदुरा भक्तिविश्रान्तिसिद्धेः ।

सत्यं शब्दस्य भेदस्त्वयमुपचरितो रूपभेदद्रढिम्ने

ज्ञानं ये चाविधेयं करणमिति जरतुस्तन्निरासेऽभिसन्धिः ।।

3.3.24,65. यद्वा शब्दादिभेदादिति तु कथयता सूत्रकारेण सम्यक्

न्यासोपासे विभक्ते यजनहवनवच्छब्दभेदादभाक्तात् ।

आख्यारूपादिभेदश्श्रुत इतरसमः किञ्च भिन्नोऽधिकारः

शीघ्रप्राप्त्यादिभिस्स्याज्जगुरिति च मधूपासनादौ व्यवस्थाम् ।।

3.3.25,66. ज्योतिष्टोमाग्निहोत्रप्रभृतिवदधिकानन्दसिद्ध्यै समुच्चि-

त्यर्हास्स्युब्र्राहृविद्या न च भजनविधिः कश्चिदेकं प्रति स्यात् ।

कर्तुं ताः कालभेदात् क्षममिति न मिथो वासनास्थैर्यबाधात्

सम्पूर्णब्राहृलब्धै पृथगिह च विधिः प्रायणान्ते समाधौ ।।

3.3.25,67. रूपादीनां विशेषैर्ननु परभजनं नैकरूपं विभक्तं

सामग्रीभेदतस्तत्फलमपि विषमं सम्मतं न्यायतस्स्यात् ।

न स्यात् सर्वासु विद्यास्वपि हि फलतया वक्ष्यते भोगसाम्यं

प्राप्यैक्यञ्च प्रसिद्धं बहुसरणिजुषां लोकतो वेदतश्च ।।

3.3.26,68. तत्तद्विद्यासु तादृक्फलतरतमतां वारयित्वा प्रसङ्गात्

प्रागुक्तोद्गीथविद्याफलमथ पुनराक्षिप्य गाढीकरोति ।

मा भूदुक्तं स्ववाक्ये फलमिह तु न सा पर्णमय्यादिनीतिः

स्पष्टा खल्वत्र विद्या फलकरणतया वर्तमानोक्तितोऽपि ।।

3.3.26,69. तादथ्र्यं नात्र कर्मश्रुतिरवगमयेदाश्रयालम्बमात्राद्

विद्याहानौ च युक्तं प्रतिविधिवचनं तत्फलार्थिप्रसङ्गे ।

तारे सोपासनेऽस्तु स्तवनमनुगमात् तावता सा तु नाङ्गं

प्रग्वक्तव्यस्य हित्वा वच इदमुपरि स्थापनीयप्रसक्त्यै ।।

3.3.26,70. विद्यैक्योद्गीथविद्याद्वितयविभजनप्राणविद्यैकभावाः

सर्वास्वानन्दतादेर्गुणिवदनुगतिः प्राणवासस्त्वदृष्टिः ।

शाण्डिल्यैक्यं विभज्य स्थितिरहरहमोस्सम्भृतेस्स्थानसीमा

पुंविद्याया विभेदोऽध्ययननियतता शन्न इत्यादिकानाम् ।।

3.3.26,71. हानाद्यन्योन्ययोगस्तदुचितसमयो देवयानादिसाम्यं

सर्वत्रास्थूलतादि व्यतिहरणमथानेकशिष्यश्रुतानाम् ।

दह्योपास्त्येकभावो गुणफलविधिरुद्गीथमाश्रित्य दृष्टौ

गुण्यावृत्तिर्गुणार्थं निखिलपरतरोपास्तिवेद्यावसायः ।।

3.3.26,72. विद्यारूपा मनश्चित्प्रभृतय उचिता ज्ञानरूपक्रतुस्थाः

क्षेत्री शुद्धोऽनुचिन्त्यः क्रतुगुणसकलोद्गीथपूर्वेषु दृष्टिः ।

सामस्त्येनैव वैश्वानरभजनमथानेकविद्योपपत्तिः

मोक्षार्थनां विकल्पः पुनरनियतिरुद्गीथदृष्टेरिहोचे ।।



  3.4.0,1. कर्म प्राक् चिन्तयित्वा ननु परममथ ब्राहृ जिज्ञास्यमुक्तं

पादे विद्याङ्गतोक्तिः पुनरिह वितथानेकधा त्याज्यतोक्तेः ।

मैवं कर्मैव तत्तद्गुणयुतविनियुक्त्यन्यभावेन भिन्नं

विद्यानिष्पत्तिहेतुः किमपि च सुकृतं स्यान्नवृत्येकसंज्ञम् ।।

3.4.0,2. त्यागः काम्यक्रियायां क्वचन परविदः क्वाप्यनर्हक्रियायां

स्वैकाधीनत्वबुद्धेः क्वचिदनुपधिकस्वार्थबुद्धेश्च गतिः ।

अत्राहिंसादिकानां त्वघविहतिकृतां सर्वसाधारणानां

ब्राूते वर्णाश्रमादिप्रतिनियतिमतामप्युपास्त्यङ्गभावम् ।।

3.4.1,3. कर्तात्मा कर्मणां यस्तदधिकमिह न ब्राहृ तस्मान्मखादौ

तद्बुद्ध्यैवोपयुक्तास्स्युरुपनिषद इत्यज्ञमीमांसकोक्तौ ।

जीवान्यब्राहृचिन्तात्मकभजनविधौ कर्मणामङ्गभावं

प्राह क्षिप्तान्यलिङ्गः कलुषशमनतस्सत्त्वसंवर्धकानाम् ।।

3.4.1,4. पादैरत्रैवमेकादशभिरपि परं ब्राहृ वेद्यं निरूढं

भूयः किं क्षुद्रलिङ्गैर्गगनलिपिसमैः क्षोभ्यते ब्राहृविद्या ।

सत्यं तत्तादृगल्पश्रुतमतिकलहत्रासितच्छात्रडिम्भ-

स्तोमक्षेमाय जैमिन्यह्मदयकथितं पक्षमुत्क्षिप्य हन्ति ।।

3.4.1,5. कुर्वन्नेवेति वाक्यं परविदि नियताचारतोक्तिस्सहैवा-

न्वारम्भो धीक्रियाभ्यामपि न नियमयेदङ्गतामङ्गितां वा ।

विद्यापूर्वं क्रियाणां करणमनुवदद्वाक्यमन्यार्थमुक्तं

न ह्रेतद् ब्राहृविद्यामनुवदति न चोद्गीथविद्या क्रियाङ्गम् ।।

3.4.1,6. स्वाध्यायप्राप्तये ह्रध्ययनमुदितमाघानवन्नोत्तराङ्गं

विद्याङ्गं त्वर्थबोधो भवतु यदधिका सा स्वरूपैः फलैश्च ।

नित्यात्मज्ञानमात्रं क्रतुषु नियमतोऽपेक्षितं नान्यविद्या

काम्यत्यागस्सविद्ये कथमिह भविता सापि यद्यङ्गमेषाम् ।।

3.4.1,7. नाङ्गं विद्या मखादेर्न हि तदधिकृतेष्वेव तामामनामः

स्यात्तत्तत्कर्मणां सेत्यपि न बहुविधाद् वैपरीत्योपदेशात् ।

जाबालैरूध्र्वरेतोविधिरपि पठितोऽनूद्यतेऽन्यैश्च तस्मात्

प्राप्तिग्र्राह्रान्यथापि स्वयमिह तु विधिस्तन्निषेधस्सरागे ।।

3.4.2,8. जुह्वादिस्तोत्रनीत्या भजतु रसतमाद्युक्तिरङ्गस्तुतित्वं

मैवं तत्तद्विधानप्रकरणरहितापूर्वनिर्देशयुक्तेः ।

तत्तद्दृष्टेर्विधानं विविधमिह समालक्षि चैतत्समीपे

तेनानन्यार्थशिष्टे फलवति च विधिर्युज्यते कल्प्यमानः ।।

3.4.2,9. किञ्च प्राप्तेरभावान्न तदनुवदनं नाधिरोप्यस्तुतिर्वा

युक्ता विध्येकवाक्ये गतिरियमगतेस्सात्र नासक्तिहानेः ।

उत्कर्षः कल्प्यते चेदगतिकविषये तत्प्रसह्र प्रसह्रं

मध्ये विद्याविधीनां वचनमिदमिति स्यात्तु विद्यार्थमेतत् ।।

3.4.2,10. विद्यार्थत्वेऽपि युक्ता स्तुतिरियमसतः कीर्तनादित्ययुक्तं

दृष्ट¬ुद्देशेऽतिचारादथ च विशयनं स्यादिति त्वर्भकोक्तिः ।

नित्येऽस्मिन्ह्रप्रमाणं प्रसजति निगमो युक्तिवार्यत्वपक्षे

त्वित्थम्भावे बुभुत्स्ये वच इह फलवद् दृष्टिविध्यर्थमेव ।।

3.4.3,11. विद्यास्वाख्यानभेदा विधिमहिमह्मतास्सन्तु पारिप्लवार्थाः

न स्युर्विद्याविधानैः प्रकरणपठितैरेकवाक्यत्वदृष्टेः ।

मन्वाद्याख्यानमात्रं भवति च कथितं तत्र पारिप्लवार्थं

तेनाकाङ्क्षानिवृत्तौ न तदधिकपराख्यानतादथ्र्यक्लृप्तिः ।।

3.4.4,12. यज्ञादेरङ्गभावाच्च तदनधिकृतेष्वङ्गिनोऽधिक्रिया स्यात्

विद्यैवं नोध्र्वरेतस्स्विति न बहुविधस्वाश्रमार्हाङ्गतोक्तेः ।

विद्यायोगश्चतुर्णां विधिरपि हि समश्श्रूयते स्मर्यते च

प्रायेणौचित्यभूम्ना मुनिभिरभहितं क्वापि मोक्षाश्रमत्वम् ।।

3.4.5,13. त्यक्ते यज्ञादिधर्मे परभजनविधेरूध्र्वरेतस्सु दृष्ट¬ा

विद्या तेनानपेक्षा गृहवति च भवेदित्यनालोचितोक्तिः ।

यज्ञेनेत्यादिकाभिश्श्रुतिभिरवगता ह्रस्य सा तत्प्रसाध्या

जिज्ञासार्थत्ववादो जिगमिषति पदेत्यादिनीत्या निवत्र्यः ।।

3.4.5,14. नन्विच्छार्थत्वहानिर्जिगमिषति पदेत्यादिके गत्यभावात्

श्रुत्युक्तेऽÏस्मस्तथा नेत्यसदिह च यतो गत्यभावस्समानः ।

इच्छा स्याद्धीविशेषात्तदनुपजनने कर्मभिस्सा न साध्या

जिज्ञासां प्राप्तुमिच्छोर्न च न भवति तज्ज्ञानमिष्टं पुरैव ।।

3.4.5,15. नन्वत्रेच्छानुवृतिं्त प्रति विहितमिदं कर्म योज्यम् ततः किं

नेच्छार्थं धीविशेषप्रजननमुदितं तावता वारितं स्यात् ।

ज्ञानार्थं कर्मविध्यन्तरमपि विविधं नापलापक्षमं ते

निध्यानन्यायतोऽतस्त्वनुवदति विधेयेष्टतां सन्प्रयोगः ।।

3.4.6,16. यज्ञादिव्यापृतत्वादनिभृतकरणे सर्वकालं गृहस्थे

शान्त्यादीनामयोगात्तदितरविषयास्ते गुणा इत्ययुक्तम् ।

प्रव्रज्यादिस्थितानामपि तदुपधिकानेकधर्मप्रवृत्तेः

तत्सर्वं सह्रते चेत्सह तदपि फलाद्युज्झनञ्चात्र तुल्यम् ।।

3.4.6,17. प्रज्ञातस्वापराधाः प्रभुमनुतपने लोकसिद्धैरुपायैः

आत्मार्हैरर्चयन्तः क्रमशमितरुषस्तस्य सेवां लभन्ते ।

इत्थं नश्शास्त्रसिद्धैरिदमनिदमिति स्वाधिकारैर्विभक्तै-

निष्प्रत्यूहः प्रसादो निरुपधिसुह्मदश्श्रीधरस्स्याधिगम्यः ।।

3.4.7,18. आहारस्य व्यवस्था न भवति वचनात्प्राणविद्याधिकर्तुः

सामान्यस्थो निषेधो बलवति हि विधौ संकुचेदित्ययुक्तम् ।

अङ्गत्वेनाविधेस्स्यादनुमतिवचनं प्राणभङ्गप्रसङ्गे

पश्यैतत्प्राणनिष्ठादधिकमहिमनि ब्राहृनिष्ठे ह्रुषस्तौ ।।

3.4.8,19. वर्णादेः कर्मणां हि श्रुतिभिरभिदधे ब्राहृविद्याङ्गभावः

तस्मादब्राहृनिष्ठे तदननुसरणात्स्वैरितैवास्तु मैवम् ।

नित्यत्वस्यापि सिद्धेस्तदुचितविनियुक्त्यन्यभावानुसारात्

तन्त्रं काम्याग्निहोत्रादिवदिह परविन्नित्यवर्गेऽपि योज्यम् ।।

3.4.9,20. दारालाभे विरक्तेम्र्रदिमनि च भवेदन्तरेणाश्रमान् यः

तस्मिन्निश्शेषधर्मत्यजि भवतु कथं ब्राहृविद्येति चेन्न ।

सामान्यैर्वर्णधर्मैर्गुणनियतियुतैस्सा हि तत्रापि साङ्गा

भीष्मादौ दृष्टमेतद् भवति तु वृषले गत्यभावादभावः ।।

3.4.9,21. आरूढो नैष्ठिकादित्रयमथ पतितस्तत्परावर्तनाद्यः

तत्रापि ब्राहृविद्या भवतु सहकृता तद्दशार्हैस्स्वधर्मैः ।

मैवं यद्यप्यभीच्छन्त्युपपतनमिदं शोधकञ्चास्त्यनेकं

सर्वार्हं कीर्तनाद्यं तदपि तदुचितो नैष तादृङ्निषेधात् ।।

3.4.9,22. प्रायश्चित्तं वदन्ति ह्रुपपतनमहापातयोब्र्राहृयोगं

प्राप्ते पाते प्रमादाद् विदधति मुनयो योगिनां योगमेव ।

तस्मादारूढपातेऽप्यधिकृतिरिति नाचोदनीयं हि शास्त्रं

यावज्जीवं तु तन्निष्कृतिरिति नियमस्सूत्रकाराद्यभीष्टः ।।

3.4.9,23. यो बालं हन्ति यस्रुाीं शरणमुपगतं यश्च यो वा कृतघ्नः

प्रायश्चित्तैर्विशुद्धानपि जगदुरिमान्साधुसंसृष्ट¬नर्हान् ।

स्मृत्याचारानुसारादिह च गतिरियं दर्शिता सूत्रकारैः

शास्त्रं नश्शासनीयं यदि भवति तदा सम्प्लुतो धर्मसेतुः ।।

3.4.10,24. ब्राहृांशत्वे समाने गुणविषमतया शुद्ध्यशुद्धिस्वभावैः

देहैर्योगादनुज्ञापरिहरणमपि प्रेक्षणस्पर्शनादेः ।

इत्येवं सूत्रितं प्राक् पुनरिह विविधालेपकक्षोभशान्त्यै

सम्यग्ज्ञातात्मनोऽपि स्वतनुसमुचिताचारतः प्रत्यबोधि ।।

3.4.11,25. उद्गीथादावुपास्तिर्भवति हि फलिना यज्वनैवात्र शक्या

तस्मात्तत्कर्तृकासाविति यदि न परिक्रीतकर्माश्रयत्वात् ।

ऋत्विक्साध्या यथान्ये गुणफलविधयोऽनूद्यते चैवमेषा

शक्यत्वं नह्रुपाधिर्विधिबलनियतेस्स्वामिभृत्यक्रमेण ।।

3.4.12,26. मन्तव्यत्वे श्रुते सत्यथ मुनिरिति वागस्तु तस्यानुवादः

कश्चिन्न ह्रत्र दृष्टो विधिरिति पुरः पण्डितत्वस्य लब्धेः ।

ऊहापोहार्हता हि श्रवणमननतोऽनन्तरं पण्डितत्वं

मौनख्यातिः प्रकृष्टे मनन इति विभौ धारणाद्युक्तिरेषा ।।

3.4.13,27. शिष्टं बाल्येन तिष्ठासनमपि विदुषो बालकृत्यं तदस्तु

भर्तुं बालस्य भावो नतु सुशक इति स्वैरितास्येति चेन्न ।

दुश्चारित्रादमुं नाविरत इति वचस्सन्निरुन्धे ह्रतोऽसौ

माहात्म्यं स्वं निगूहेदिति मुनिविहिते बाल्यविध्याशयस्स्यात् ।।

3.4.14,28. भोगार्थोपासनानां स्वजनसुकृतैस्तत्क्षणादुद्भवस्स्यात्

स्वर्गादिस्त्वत्र देहे न घटत इह तु स्वान्तशुद्ध्योपपत्तिः ।

स्नानप्रायत्यनीतिस्तत इति न पुरो विघ्नसम्भावनोक्तेः

कारीर्यादौ तदर्हैस्सगुणविरचितेऽप्यस्ति विघ्नः कदाचित् ।।

3.4.15,29. अस्त्वन्यत्रान्तरायः प्रबलतममिदं सात्त्विकत्यागयुक्तं

कर्म प्रोक्तं निवृत्त्याह्वयमिति सपदि ब्राहृविद्यां विदध्यात् ।

मैवं तस्माद् बलीयान् यदि भवति परब्राहृभक्तापराधः

तच्छान्तौ तत्प्रसूतिस्स न यदि झटिति स्यात्परोपास्तिलाभः ।।

3.4.15,30. विद्यार्थत्वं क्रियाणां व्यभिचरणवशान्नेति शङ्कापनुत्त्यै

प्रत्यूहानाञ्चतुर्णां प्रशमनमुचितं सर्वदेति प्रसिद्ध्यै ।

निष्प्रत्यूहस्य सद्यः फलमिति च सतां तोषहेतोरमुष्मिन्

पादान्ते न्यासिषातामनियमविषयौ शास्त्रकत्र्राधिकारौ ।।

3.4.15,31. प्रत्यूहस्य प्रसङ्गः क्षम इह परवित्कर्मणां तद्विधूत्यै

भोगार्थोपास्तिहेतुष्वयमनुकथितः किं मुधात्रेति चेन्न ।

काम्ये निर्विघ्नबुद्ध्या पतति मतिरतस्तत्र वैराग्यभूम्ने

तत्प्रत्यूहप्रसक्तिर्भवति फलवती स्याच्च विद्यार्थकाम्यम् ।।

3.4.15,32. विद्या कर्माङ्गिका स्याद्रसतममुखधीश्चोदिता प्राप्त्यभावात्

आख्यानानाञ्च विद्याविधिसविधजुषां तद्विधानार्थतैव ।

विद्या साङ्गोध्र्वरेतस्स्वपि गृहवति सा यज्ञदानाद्यपेक्षा

शान्त्याद्यर्हो गृहस्थोऽप्यविपदि विदुषोऽप्यन्नशुद्ध्यैव सिद्धिः ।।

3.4.15,33. एकं विद्याश्रमार्थं विधुरमवियुतं विद्ययाहुश्च्युतं न

क्रत्वङ्गे दृष्टिर्ऋत्विक्कृतिरथ मुनिता चोदिता ध्यानसिद्ध्यै ।

बाल्यं शक्त्यादिगुप्तिर्बलवदभिहतैः कर्मभिर्नान्यविद्या

तद्वन्मुक्त्यर्थविद्या स्वजनकसुकृतैरित्युवाचात्र पादे ।।

3.4.15,34. वाक्यार्थज्ञानमात्रं कतिचन कुदृशो मुक्त्युपायं गृणन्ति

ज्ञानं कर्मेति युग्मं करणमिति समुच्चित्य मन्यन्त एके ।

कर्मप्राधान्यमन्ये निजगदुरपरे मुक्तिमिच्छन्त्यसाध्यां

सर्वे तेऽप्यत्र कर्माङ्गकभजनविधिस्थापनोक्त्या निरस्ताः ।।

3.4.15,35. यद् दुःखं वर्तते तत्क्षणभिदुरतया न स्वयत्नोपरोध्यं

नातीतार्थञ्च यत्नो न च सुपरिहरं भाविहेतौ समग्रे ।

दुःखात्यन्तोपरोधे करणविधिरतो व्यर्थ इत्यर्धरम्यं

प्रायश्चित्त्या कृतानां परमकरणतो दुःखसामग्र्यपोहात् ।।

3.4.15,36. राजद्विष्टादि सर्पाद्यपि परिहरसि च्छत्रपूर्वं बिभर्षि

प्रायश्चित्ताप्रवृत्तौ फलति दुरितमित्येवमीहामिहेच्छ ।

उत्प्रेक्षारूढभाव्यापजयशमनतस्स्वोक्तिसाफल्यमिच्छन्

पश्यंश्चाबालतिर्यग्भयचकितगतिं जोषमित्थं जुषस्व ।।

3.4.15,37. साध्यं वा साधनं वा स्वविहितविपथैर्दुर्निरूपं वदन्तः

तद्वादे किं प्रवृत्ताः किमिति च विदधत्यन्वहं भोजनादीन् ।

मुक्तेर्नित्यत्वसिद्ध्या भजनमफलमित्यप्यसत् प्रागसिद्धेः

सांख्यास्त्वत्रानुयोज्यास्सकरणदशया नित्यमुकिं्त गृणन्तः ।।

3.4.15,38. मोक्षोभावे मुधा स्यात्सपरिकरमिदं साधनं चिन्त्यमानं

मुक्तिश्चेद् भ्रान्तिसिद्धा भ्रम इह भविता यावदात्मस्वरूपम् ।

क्षेत्रज्ञं नित्यमुक्तं कथयितुरफलस्साधनाध्याय इत्थं

प्रध्वंसात्मा हि मुक्तिर्नयविदभिमता सा तु भावात्मिका नः ।।

3.4.15,39. सन्तत्यात्मा कपालप्रभृतिबहुविधावस्थयान्यत्र नाशो

धीसङ्कोचप्रणाशो विकसनमतथाभूतमत्रागमात्स्यात् ।

मन्यन्तेऽन्ये तु धारावहनमतिनयात् सन्ततिं मुक्तबुद्धेः

सामग्री चेश्वरेच्छाप्रभृतिसमुदयस्स्यादनावृत्तिरेवम् ।।

स्स्वधर्मैः प्रकृतिपुरुषतो भेदवादः कथं स्यात्।।"





श्रीः

।4.1.0. उपोद्घातः

1. इत्युत्पत्तिक्रमेण प्रथममभिहितो मुक्त्युपायस्सहाङ्गैः

तत्साध्यं सूत्रकारः फलमथ विदुषः पर्वभेदैव्र्यनक्ति।

स्थूले देहेऽस्य सिध्येद्यदिह वदति तत्पादयुग्मेन पूर्वं

निष्क्रान्तस्याथ यत्स्यात्परिगणयति तत्पादयुग्मान्तरेण ।।

2. सूक्ता प्रागेव विद्या किमिति पुनरिमां वक्ति यद्यस्ति शेषं

 ब्राूतामेतच्च पूर्वं नहि तदिह फले संघटेतेति चेन्न।

 मुक्तैरन्यैरसिदिं्ध प्रकृततदविनाभावमासन्नसिदिं्ध

 मुक्तावस्थासमञ्च स्थिरभजनरसं व्यङ्क्तुमत्रानुबन्धः ।।

।4.1.1.

3. शुद्धैरुत्कृष्टधर्मैस्सदनपचरणे ब्राहृविद्या भवित्री-

 त्युक्तं पूर्वाधिकारे विमृशति तु परं तत्स्वरूपं यथावत्।

 प्रत्यक्षं वा स्मृतिर्वा सकृदिदमसकृद्वेति नोक्तं पुरस्तात्

 यावज्जीवानुवृत्तिप्रभृति च तदिहापौनरुक्त्यं सुबोधम्।।

4. ज्ञानं मुक्तेरुपायश्श्रुतिभिहितस्तस्य संख्या तु नोक्ता

 सौकर्यं स्यात्सकृत्त्वे तत इह तु भवेच्चारिताथ्र्यं विधीनाम्।

 सम्यक्त्वात्तद्ध्रुवत्वं न पुनरनुगमात्प्रोक्तमित्यप्यसारं

 सामान्योक्तेर्विशेषे सति पशुनयतस्तत्र विश्रान्तिसिद्धेः।।

5. किञ्चाग्नेयादिनीत्या विदिरिह वदति ध्यानशब्दार्थमेव

 ध्याने चोपासनोक्तिः परभजनतया वक्ति सेवात्मकत्वम्।

 ऐकाथ्र्ये विद्युपास्योव्यतिकरिततया श्रूयते च प्रयोगः

 कार्ये हेतौ च भक्तेः क्वचिदुपचरितो भक्तिभेदत्ववादः।।

6. योगोद्युक्तेषु यस्स्यात्स्ववरणविषयस्तेन लभ्यः परात्मा

 ग्राह्रत्वञ्च प्रियत्वात्तदपि हि गुणतो भक्तिरेव श्रुतैव ।

 साच प्रीत्यात्मिका धीः क्वचिदतिशयिते स्मृत्यबाधोऽप्यतस्स्यात्

 प्रोक्ता चैषा ध्रुवानुस्मृतिरनुवहनात्तैलधाराक्रमेण।।

7. रागादादौ प्रवृत्तिश्श्रवणमननयोध्र्यानमेकं विधेयं

 तत्र द्रष्टव्यशब्दो विशदतमतया वक्ति वैशिष्ट¬मात्रम्।

 शब्दोत्थं दर्शनं ये विषयमकथयन् वेदनोक्तेरमीषां

 व्याघातादिप्रपञ्चस्स्वयमिह निपुणैस्सूक्ष्ममन्वेषणीयः।।

8. ध्याने वैशद्यमात्रादुपचरणवती दृष्टिशब्दप्रवृत्तिः

 स्यात्तुल्यं तत्तवापि ह्रभिलपति धियं चाक्षुषीं दृष्टिशब्दः।

 घ्रातास्प्रष्टेतिशब्दः करणविरहिते मुख्यवृत्तो नहि स्यात्

 तद्ग्राह्रस्त्वस्मदीयो बहुनयगुणवांस्त्याज्य एव त्वदीयः।।

9. न द्वारद्वारिक्लृप्तिः कथमपि घटते विश्रमश्चेद्विशेषे

 सामान्यात्मा विशेषैर्लघु च न गुरुभिः कर्तुरैक्ये विकल्प्यम्।

 अर्थैक्ये दर्शनोक्त्या स्मृतिरुपचरिता युज्यते स्पाष्ट¬सिद्ध्यै

 स्मृत्युक्त्या दर्शनस्योपचरणमसदित्यन्यदेतत्फलान्नः।।

10. कृच्छ्रादौ शक्तिहीनो दृढपरितपनस्संयमार्हश्च कुर्यात्

 सर्वार्थां केशवानुस्मृतिमिति घटते तद्विकल्पो यथार्हम्।

 सामान्यात्सर्वदोषेष्वियमुपकुरुते सर्वनैमित्तिकानां

 मुक्तेरप्यत्र मूलं मुनिरनुमनुत तां तादृशध्यानरूपाम्।।

11. नन्वेवं ये मुकुन्दे शरणमुपगता वर्जिता ध्यानयोगैः

 ते चातिक्रम्य मृत्युं यमिन इव परं धाम यान्तीत्युशन्ति।

 सत्यं तेऽपीतिशब्दान्नियतविषययोर्गौरवे लाघवेऽपि

 प्राप्तार्थं ध्यानशास्त्रं प्रणिधिसहदशायोगिभिर्योगविद्भिः ।।

12. धर्मो वर्णादियोग्यः कलुषशमनतस्सत्त्ववृद्ध्योपकारी

 भक्तेस्तद्वत्प्रपत्तिस्त्वगतिकसमयेष्वन्तरायापहन्त्री।

 सानुक्रोशे हि शक्ते शरणवरणतस्सर्वसाध्यं सुसाधं

 मोक्षाकाङ्क्षी प्रपद्ये शरणमहमिति क्वापि मन्त्रे श्रुतञ्च।।

।4.1.2.

13. जीवादत्यन्तभिन्नस्स विभुरभिदधे लक्षणैस्साधनान्तैः

 मुक्त्यर्थोपासनेऽस्मिन्मुषिततमसि न ब्राहृदृष्ट¬ादियुक्तिः।

 तत्त्वज्ञे वीतरागे तदिह न घटते सोऽहमस्मीत्युपास्तिः

 तन्न स्वात्मान्तरात्मन्यहमिति वचसोऽप्यत्र मुख्यप्रवृत्तेः।।

14. वस्विन्द्रादेरुपास्तौ प्रकृतिशबलितस्वान्वितेक्षा पुरोक्ता

 शुद्धस्स्वात्मा च नित्यः क्वचिदिह तु विभुस्तादृशा स्वेन युक्तः।

 व्यक्तिर्जीवेशभेदे व्यधिकरणपदैर्भावने स्यात्तथापि

 ब्राहृाधीनस्वरूपप्रमितिसुदृढतासिद्धयेऽहङ्ग्रहोक्तिः।।

15. ऐक्योपास्तावहं त्वं त्वमहमिति मतिर्निर्विशेषे कथं स्याद्

 भेदाभेदाभिलापः करकमणिकतद्व्योमनीत्या न मुख्यः।

 मत्तुल्यस्त्वं त्वयाहं सम इति वदतां नोपचारोऽपि युक्तः

 तस्मात्सर्वान्तरात्मन्ययमहमिति धीराकृतिन्यायसिद्धा।।

16. अद्वैतं द्वैतहानौ न भवति सुवचं तत्प्रतिद्वन्द्विकत्वात्

 द्वैतञ्चाद्वैतगर्भं द्वितयमिह हि तत्स्वस्वरूपादभिन्नम्।

 द्वैताद्वैतञ्च तादृक्तदुभयनियमानुज्ज्ञानादेव सिध्येत्

 सर्वं स्थाने स्थितं स्यात् प्रमितिपरवतां नेतरेषां तु किञ्चित्।।

17. नन्वद्वैते निषेध्यो गगनकुसुमवद् भ्रान्तिसिद्धोऽस्तु भेदो

 मैवं सत्यादभिन्नस्स यदि न खलु तद्भ्रान्तिसिद्धत्वसिद्धिः।

 भिन्नत्वञ्चास्य तस्माद्यदि भवति मृषा विद्धि दत्तोत्तरं तत्

 सत्यञ्चेत् सत्यभेदोपगतिरिति मुधा दूरतो धावनं वः।।

।4.1.3.

18. नामादिब्राहृदृष्टावपि तदहमिति प्रत्ययः पूर्ववत्स्यात्

 ब्राहृध्यानत्वसाम्यादिति यदि न न खल्वन्तरात्मा प्रतीकः।

 न ब्राहृण्यन्यदृष्टिः कथमपि घटते तस्य सर्वाधिकत्वात्

 अन्यस्मिन्ब्राहृदृष्टौ परमिह नियतैर्लक्षणैस्तद्ग्रहोऽथ्र्यः।।

19. आत्मन्यब्राहृभूते भवतु फलवती कुत्रचिद् ब्राहृदृष्टिः

 नैषा वस्तुव्यवस्थां शिथिलयति नरे वैनतेयत्वधीवत्।

 एतावन्मात्रमोहादिदमहमिति तु स्थापयन् क्षिप्रमृच्छेत्

 इन्द्रत्वारोपदर्पोद्धतनहुषमहाभोगिसंस्थामवस्थाम्।।

।4.1.4.

20. तादथ्र्याद् देवतानां फलकरणतया कर्मणश्चोदितत्वात्

 आदित्यादौ निकृष्टात्मनि भवतु समुत्कृष्टकर्माङ्गदृष्टिः।

 मैवं कर्म प्रधानं विहितमपि यतस्तत्समाराधनं तत्

 तत्प्रीता देवतैव प्रदिशति फलमित्यर्थतस्सा प्रधानम्।।

21. अन्यस्मिन्नन्यदृष्टेरविधिरिह घटतामन्यथाख्यातिपक्षे

 याथाथ्र्यं सर्वबोधानुगतमिति मते युज्यते नान्यदृष्टिः।

 तन्नात्राद्ये हि न स्याद् विमतिरविमता भ्रान्तिनीतिः परस्मिन्

 तादृग्भेदाग्रहोपप्लुतमतियुगलस्थापनायां नियोगात्।।

22. द्रष्टव्यापह्नवे न भ्रमदनुविहिता दृष्टिरद्वैतमोहः

 स्यादुत्कृष्टापराधस्तत इह विहिता तादृशत्वस्य दृष्टिः।

 तादृग्दृष्टौ न दोषस्तत इति कतिचित्ताक्ष्र्यदृष्ट¬ादिनीत्या

 द्वेधान्यत्रान्यदृष्टिर्न किमनधिगता व्यक्तितो जातितश्च।।

23. मुख्यं ब्राहृैकमेवेत्यवहितमनसां ब्राहृदृष्टिः कथं स्यात्

 एकत्वेनेति केचिन्नहि बलिनि विधौ शङ्कनीयोऽपराधः।

 स्वेच्छापूर्वद्विचन्द्रभ्रमवदिह भिदाकल्पनामाहुरन्ये

 बम्भ्रम्यन्ते यथा च श्रुतिषु बहुविधं ब्राहृ भातीति बालाः।।

।4.1.5.

24. आसीनस्यैव योगश्श्रुतिषु न ददृशे ध्यानमाहुस्सदेति

 न्यायश्चेलाजिनादेर्नियमविधिकृतः पाक्षिकासीनतायाम्।

 तस्मादेतद्धटेत स्थितिगतिशयनेष्वप्रकम्प्येन्द्रियस्ये-

 त्यप्राप्तं यत्ननिद्रान्वयिनि कथमविच्छिन्नधीसन्ततिस्स्यात्।।

25. चित्तैकाग्र्योपपत्त्यै विदधति नियतिं देशकालासनादेः

 सच्छिद्रं त्वन्यदापि क्षममिति सततं चिन्तनं संस्मरन्ति।

 प्रत्यक्संस्कारभूम्ना परनिहितधियस्तादधीन्यादिबुद्ध्या

 जुष्टं व्यासक्तनीत्या भवति हि समये योगिनः कर्म सर्वम्।।

26. कर्मोपास्त्यङ्गभूतं यदिह निगदितं तत्परे पूर्वपादे

 योगेन ब्राहृदृष्टिर्यदपि च परमो धर्म इत्युक्तमाप्तैः।

 तेन प्राधान्यसिद्धावितरदनुगुणं तस्य नेयं तथा च

 प्रायः प्रकान्तयोगे पटिमलघुतया कल्पितः कालयोगः।।

27. विद्याङ्गं पूर्वमुक्तं किमिहं पुनरसावासनाद्यङ्गचिन्ता

 दृष्टार्थांशं विभज्य प्रथयितुमपि न प्राक्शमाद्यङ्गवादात्।

 सत्यं ध्यानाख्यधारावहनमतिदशा त्वन्वहं साधनीया

 चित्तैकाग्र्येण सर्वप्रयतनविरहे स्यादितीदं प्रकाश्यम्।।

।4.1.6.

28. एकस्मिन्नेव घरुो यदि भवति परध्यानरूपा तु भक्तिः

 तद्विश्रान्तो विधिस्स्यादुपरि तु विफला ब्राहृचिन्तेत्ययुक्तम्।

 छान्दोग्ये यावदायुस्सुचरितमुदितं ब्राहृलोकाप्तिहेतोः

 तद्धि ध्यानस्य वृद्ध्यै तदपि च विहितं कुत्रचित्प्रायणान्तम्।।

।4.1.7.

29. नाभुक्तं कल्पबृन्दैरपि सुपरिहरं कर्म गीतं मुनीन्द्रैः

 पापाश्लेषप्रणाशश्रुतिरपि परविद्वैभवोक्तिस्ततस्स्यात्।

 मैवं नाभुक्तमित्याद्यपि फलजनने कर्मणो दाढर्¬माह

 प्रायश्चित्तक्रमेण त्विह परभजनं चोदितं कर्मशान्त्यै।।

30. निष्कृत्यात्मत्वमस्योदितदुरितसमुन्मूलनस्योपपन्नं

 नात्र स्वर्गादिनीतिः प्रतिहतिविगमे धीविकासस्स्वतो हि।

 पापालेपः प्रमादोदितसहनमिति स्थाप्यमाज्ञानुवृत्त्यै

 नो चेन्न स्याद्गतिर्नाविरत इति गिरो योगिनाञ्च प्रवृत्तेः।।

31. अश्लेषः कर्मशक्तेरनुदय उदये तन्निवृत्तिर्विनाशः

 शक्तिस्सा च प्रणेतुस्तदुचितफलकृन्निग्रहानुग्रहात्मा।

 प्रायश्चित्तं निमित्ते कथमनुदित इत्यत्र नैवानुयोज्यं

 नाधर्मस्तस्य तत्स्यादिति खलु ह्मदयं ग्राह्रमश्लेषवाचः।।

32. धीपूर्वं तूत्तराघं न सृजति परवित्सर्वदा सावधानो

 जातं नैमित्तिकैश्च क्षिपति समुचितैराशु भुञ्जीत वा तत्।

 वृत्रादौ दृष्टमेतन्नियतिविभवतश्चेदिराजादिसिद्धिः

 युक्ताद्यैवान्यदा वा मुनिरिह मनुते ब्राहृनिष्ठस्य मुक्तिम्।।

।4.1.8.

33. धर्मस्याश्लेषनाशौ न हि परभजनानुग्रहेणोपपन्नौ

 तस्याघत्वप्रसङ्गाच्छØतिरपि च परं पापनिर्मुक्तिमाह।

 भोगैस्तत्पुण्यनाशोऽस्त्विति यदि न यतः काम्यमप्यस्य पापं

 तÏस्मस्तल्लक्ष्मसिद्धेर्न सुकृतमिति च श्रूयते पाप्मतास्य।।

34. पुण्यं विद्यानुकूलं यदिह सफलता तस्य विद्याप्रदत्वात्

 तस्यां यन्नोपयुक्तं तदपि दुरितवद् बन्धकत्वेन वार्यम्।

 कारागारोपरुद्धे निगलयुगलतस्सार्वभौमस्य भृत्ये

 हैमं काष्र्णायसञ्च प्रसदनसमये भञ्जनीयं सहैव।।

35. काम्यं नेच्छेद्विरक्तो यदि किल कुरुते रागयोगात् फले तत्

 नाधीपूर्वञ्च काम्यं किमपि नच दिशेद्बन्धमज्ञातधर्मः।

 विद्यार्थैर्लुप्यतेऽतः किमितरदिति चेन्नाधिकैस्सान्तरायैः

 अन्यार्थैर्मोहजैः क्वाप्यनुतपनवतो बन्धुजैश्चास्त्वलेपः।।

।4.1.9.

36. नश्यत्वारब्धकार्यं परविदि दुरितं नह्रधीतो विशेषः

 सर्वे पाप्मान इत्यप्यभिहितमिति चेन्नोपलम्भादिबाधात्।

 सद्विद्या तस्य तावच्चिरमिति च वदत्यस्मरंश्चागमज्ञाः

 जीवन्मुक्त्यादिशब्दोऽप्युपचरणपरो मोहितास्तेन मन्दाः।।

37. रोगाद्यारम्भकाणां प्रशमनविधयस्सन्ति दानार्चनाद्याः

 प्रत्येतुस्स्वावताराद्यपि विभुरपुनर्जन्मतामप्यगायत्।

 तस्मादारब्धकार्ये फलनियतिवचो दुर्घटं भाति मैवं

 प्रायश्चित्तोज्झितानां ननु फलनियतिस्सूत्रकाराद्यभीष्टा।।

।4.1.10.

38. श्लेषश्चेदस्य पुण्यैस्स तु भवति तदा बन्ध इत्यभ्युपेत्यं

 यद्यश्लेषो भवेत्तैः परविदि विफला पुण्यनिष्ठा परस्तात् ।

 तस्माद्धर्मोऽप्यधर्मक्रमत इह परित्याज्य एवेत्ययुक्तं

 न स्याद्बन्धाय विद्याङ्कुरमुपचिनुते ह्रग्निहोत्रादिधर्मः।।

39. सर्वापेक्षेत्यवोचन्ननु परभजने कर्मणामङ्गभावं

 भूयो वक्त्यग्निहोत्रेत्यपि तदिति मुधा ह्रेकमत्रेति चेन्न।

 विद्याया नैरपेक्ष्यात्तदपरिकरता शङ्किता प्रागपास्ता

 श्लेषाभावप्रसक्ता त्विह पुनरिति तन्नीतिवैषम्यसिद्धेः।।

।4.1.11.

40. निर्दिष्टास्माच्छरीरादिति नियतिरतो यावदित्यादिशब्दः

 कर्म प्रारब्धकार्यं कथयति विदुषस्तच्छरीरान्तमेव।

 मैवं प्रारब्धचैत्र्यान्न तदवधिविधौ व्याप्रियेतान्यपर्याद्

 भूयोदेहस्मृतेश्चान्तिमवपुषि दृढोद्यत्समाधेस्तु मोक्षः।।

41. नन्वत्रास्मादितीदं वितथमिह पदं स्याच्छरीरे न तु स्यात्

 कारागारौपमित्यप्रथनपरतया तस्य साफल्यसिद्धेः।

 त्याज्यत्वव्यक्तये हि प्रभुरसुखमिमं लोकमित्यप्यगायद्

 भूतावासं विशिंषन्निममिति च मनुर्हेयभावं व्यनक्ति।।

42. सर्वे जीवास्समानास्स्वत इह विविधं कर्म चानादितुल्यं

 वैषम्यादिश्च दोषो न भवति भगवत्यन्यथा शास्त्रभङ्गः।

 मुक्तौ नातो विलम्बप्रभृति घटत इत्यल्पसारोऽनुयोगः

 चित्रे कर्मप्रवाहे फलसमयभिदा ह्राश्रिता सर्वतन्त्रैः।।

43. आवत्र्या ब्राहृविद्या त्वसकृदहमिति स्याच्च न स्यात्प्रतीके

 कर्माङ्गेऽर्कादिदृष्टिः प्रणिधिरपि भवेत्सासनः प्रत्यहञ्च।

 पापे पुण्ये च नाशादिकमथ तु तयोर्भोग्यतारब्धकार्ये

 कार्यत्वं स्वार्हवृत्तेरिति कथितमिहारब्धशान्तौ च मोक्षः।।



।4.2.0. उपोद्घातः

1. नित्यत्वज्ञत्वपूर्वैर्निपुणमभिहितं जीवतत्त्वं द्वितीये

 जागर्यादौ च खेदो जगदटविमहाजाङ्घिकस्याथ गीतः।

 विद्यारम्भावसानावधि यदपि परं ध्यातुरथ्र्यं तदुक्तं

 प्रारब्धस्यावसाने वपुरिह जहतो गत्युपक्रान्तिमाह।।

2. वण्र्यो वैराग्यपादे तनुकरणगणक्षोभ ईदृक् तथापि

 ब्राहृज्ञस्यापि काले भवति मृतिरिति ज्ञप्तयेऽत्रानुबन्धः।

 तस्योत्क्रान्तौ विशेषं कथयितुमुचिता चात्र साधारणोक्तिः

 मध्ये विद्याफलानां मरणमपि वदंस्तत्प्रियं चिन्त्यमाह।।

3. वृत्तिर्वागादिकं वा क्वचन भजतु सम्पत्तिमन्यक्रमां वा

 श्रुत्यैवोक्तक्रमां वा नहि फलमिह तच्चिन्तनस्येति चेन्न।

 सम्पत्त्याम्नानमीदृक्क्रमनियतियुतं युज्यते न ह्रपार्थं

 तस्मात्तच्चिन्तनं क्वाप्युपकुरुत इति स्थाप्यमेतद्यथार्हम्।।

4. जीवं ये नित्यमुक्तं निजगदुरथवा जीवतो मुक्तिमाहुः

 तत्तज्जल्पोपजापप्रचलितनिगमग्रामसंक्षोभशान्त्यै।

 उक्त्वा प्रारब्धकार्यं विदुषि च फलवत्प्रायणञ्चात्र तुल्यं

 नाडीभेदप्रवेशप्रभृति समधिकं वक्ष्यति ब्राहृगत्यै।।

5. आयुस्सीमामनिष्टैरिह बहुभिरसावात्मनः प्रेक्ष्य योगी

 यत्कुर्याद्यच्च पुत्रप्रभृतिषु नहि तत्तक्र्यमत्रेत्यनुक्तिः।

 गीतादिष्वन्त्यकाले यदगणि तदपि प्राच्ययोगप्रकारं

 तत्तत्प्राप्यानुरूपे नियतमिति यथापूर्वधीरत्र भाव्या।।

।4.2.1.

6. कर्मज्ञानाक्षवर्गो मनसि न विलयं यात्यतत्संभवत्वात्

 तद्वृत्तेस्तादधीन्यात्तदुपरतिमिह प्राह सम्पत्तिशब्दः।

 इत्येतन्नोपपन्नं तदुभयविलये चोद्यनिस्तारसाम्यात्

 सम्पत्तिश्श्लेषमात्रं करणविषयवाक्शब्दमुख्यत्वसिद्ध्यै।।

।4.2.2.

7. अन्नस्योक्तं विकारो मन इति मनसः प्राणसम्पत्तिवाक्ये

 प्राणस्याम्भोमयत्वात् प्रकृतिविकृतितासम्भवात्तल्लयोऽस्तु।

 मैवं तत्तन्मयत्वश्रुतिरभिमनुते तत्तदाप्यायनं तैः

 प्राग्वत्संश्लेषमात्रं तत इह हि मनः प्राण इत्यामनन्ति।।

।4.2.3.

8. प्राणस्सैकादशाक्षस्तदनु निविशते तेजसीत्थं श्रुतत्वात्

 मध्येऽन्यप्राप्तिक्लृप्तौ श्रुतिहतिरिति चेन्नात्मयोगस्य चोक्तेः।

 प्राणस्य स्वाप्तजीवे मिलति निजतनोरुद्धृतैर्भूतसूक्ष्मैः

 तेजः प्राप्तिश्च गङ्गानिपतितयमुनासागरप्राप्तिवत्स्यात्।।

।4.2.4.

9. तेजस्येवास्तु युक्तश्श्रिततनुभृदनस्तेजसीत्याद्यबाधात्

 छत्रिन्यायोऽपि नास्मिन्निति यदि न तथान्यत्र भूतान्तरोक्तेः।

 विश्वारम्भाय देवस्त्रिवृतमकृत च प्रागिमं भूतपूर्वं

 प्राचुर्यात्तत्तेदकव्यवह्मतिरिति चासूत्रयत्पूर्वमेव।।

।4.2.5.

10. अत्रैव ब्राहृ विन्दत्यमृत इह भवत्यागमाद्ब्राहृनिष्ठो

 नोत्क्रान्तिस्तस्य युक्तेत्यसदुपनिषदो ह्रस्य गत्याद्युशन्ति।

 नान्यप्राप्त्यर्थमेतत् सगुणसमधिकं कुत्रचिन्मानहानेः

 तस्मादत्रामृतत्वप्रभृतिवचनतस्तादृशी तद्दशोक्ता।।

11. निश्शेषं भोगहेतौ गलति परविदः कर्मणि प्रायणेऽथो

 गत्यर्थं सूक्ष्मदेहानुगतिरणुतया निश्चितस्याफला स्यात्।

 मार्गे संवादवादस्तदुचितवपुषा त्वस्त्वितीवानुयोगे

 कृत्स्नाविद्यानिवृत्तिः परपदगमनापेक्षिणीत्यादि वाच्यम्।।

12. कल्पादौ भूतसूक्ष्मप्रभृतिभिरुदितं वष्र्म कल्पान्तनाश्यं

 प्रत्येकं प्राणिभेदे नियतमनियतस्थूलदेहानुयायि।

 लिङ्गाख्यं भस्त्रिकान्तः परुवकवदवस्थायि सांख्यैः प्रगीतं

 सूक्ष्मांशः पूर्वमूर्तेरुपरितनतनोर्बीजमत्रेष्यते तत्।।

13. तत्त्वज्ञानेन बन्धः किल गलति पुरा नोत्क्रमेणेत्यसारं

 माता वन्ध्येतिवद्धि स्ववचनविहतिर्जीवतो मुक्तिवादे।

 मुक्तश्चेत्तत्वबोधात्तनुभृदिह तदा तत्त्वविन्नैष दुःख्येत्

 मिथ्या दुःखं तदा चेत्कथय तव कदा तस्य सत्यत्वमिष्टम्।।

14. यं यं भावं स्मरन्तो जहति वपुरिदं देहिनो यान्ति तं तं

 तस्मादुत्क्रान्तिसाम्यं न घटत इति चेत्तन्न तन्मात्रसाम्यात्।

 विद्याभेदादिनीत्या भवति विषमता ह्रन्तिमप्रत्ययादौ

 किञ्चित्साधम्र्यवादे न च नियतिमती सर्वथा साम्यसिद्धिः।।

।4.2.6.

15. जीवोत्क्रान्त्युक्तिकाले विदुषि तु घटते तत्प्रतिक्षेपभङ्गो

 भूतोत्क्रान्तेस्तु पश्चात्तदुपनिपतने सङ्गतिस्स्यात्कथंचित्।

 तस्मात्साधारणोऽपि ह्रयमुपरि ततस्स्थाप्यते हार्दयोगः

 तुल्येऽप्यस्मिन्नतुल्यास्सरणिमुखतया प्राप्यभेदेन नाड¬ः।।

16. प्राप्तुं भोगापवर्गौ प्रयति तनुभृति प्राप्तसूक्ष्मस्वदेहे

 सम्पत्त्या किं परस्यां श्रितह्मदयसुषौ लभ्यते देवतायाम्।

 आतस्तेजः परस्यामिति चिरघटितेऽप्यस्तु सिद्धानुवादो

 मैवं मानानुसारात्फलमिति परमे संक्रमश्श्रान्तिशान्त्यै।।

।4.2.7.

17. सम्पत्तिर्देवतायां भवतु लय इयं सा हि सर्वस्य योनिः

 भूयस्रुाष्टुं क्षमा चेत्यसदनुषजतो वाच्यवैरूप्यदोषात्।

 विश्लेषो भूतसूक्ष्मैरिह न च घटते सृष्टिक्लृप्तिस्तु गुर्वी

 प्रोक्ता धूमादिमार्गे गतिरपि भविनस्तत्परिष्वञ्जनेन।।

।4.2.8.

18. नाडीजालेऽतिसूक्ष्मे न भवति सुशका मुक्तिनाडी विवेक्तुं

 तस्मान्मूर्धन्यनाडीगतिरनियमतो मुच्यमानस्य पुंसः।

 वाक्यं गन्तुस्तयोध्र्वं प्रवददमृततां सम्भवादस्तु मैवं

 विद्यासम्प्रीतहार्दप्रसदनमहसा स्वार्हनाडीप्रवेशात्।।

19. स्वाधीनो हार्दसंज्ञस्स्वयमविकलया सम्पदा साकमेकः

 स्थित्वा ह्मतपद्ममध्ये स्थगितनिजतनुस्सप्तलोकीगृहस्थः।

 नाडीचक्रे सुषुम्नां निखिलधृतिकरीं नाभिमूर्धान्तरूपां

 भित्त्वा तन्मध्यरन्ध्रप्रहितमिषुमिवोत्क्षिप्य नेता मुमुक्षुम्।।

।4.2.9.

20. एतैरेवेति वाक्ये दिनकरकिरणालम्बनेनोध्र्वयानं

 यत्प्रोक्तं योगिनस्तद्दिनमृतिनियतं निश्ययुक्त्येति चेन्न।

 अह्नि च्छायासु रात्रिष्वपि हि लधुतरा रश्मयस्सन्ति लिङ्गात्

 तापो वर्षादिरात्रौ न यदि हिमदिनन्यायतो नेयमेतत्।।

।4.2.10.

21. सर्वेषामप्रशस्तं रजनिमरणमित्यह्नि योगी म्रियेत

 प्रेयाद्यद्येष रात्रौ न चरममरणं तद्भवेदित्ययुक्तम्।

 कर्म प्रारब्धकार्यं ह्रनियतसमयं क्षीयते तावदेवे-

 त्युक्तश्चास्मिन्विलम्बोऽहनि निशि च परं विद्यया सोऽश्नुतेऽतः।।

22. यत्रैकस्यापवर्गः प्रतिनियततया गण्यते जातकक्षैः

 तत्स्यादन्त्यं शरीरं न तु भवति ततोऽप्यन्ययोगव्युदासः।

 न ह्रत्राप्यन्तकाले दिनरजनिभिदा देशभेदादि चैवं

 शव्यं कुर्वन्ति चास्मिन् यदुच यदुच नेत्यादि चैवं विभाव्यम्।।

।4.2.11.

23. देहं योगीश्वरोऽपि त्यजति यदि रवेर्दक्षिणावृत्तिकाले

 विन्देत्सायुज्यमिन्दोरिह भवति पुनस्तच्छØतेस्तत्स्मृतेश्च।

 मैवं पूर्वोक्तनीतिस्त्विह नहि विहताथास्य सायुज्यमिन्दौ

 विश्रान्त्यै सूर्यनीत्या जगदुपकृतये भीष्मकालप्रतीक्षा।।

24. किञ्च प्रारब्धकर्मप्रतिनियतमिदं जाह्नवीसम्भवस्य

 स्वेच्छा येनैवमासीत् स च वसुरभवन्नै साक्षाद्विमुक्तः।

 तस्माद्विन्देत मुकिं्त नरपितृदिविषद्रात्रिकालेऽपि योगी

 स्यातां प्राशस्त्यनिन्दे तदितरविषये गीतयोक्तौ तु मार्गौ।।

25. सम्पद्येतान्यदक्षं मनसि तदपि तत्संयुतं प्राणवायौ

 सोऽध्यक्षे तैस्समेतस्स च तदखिलवान् भूतवर्गे तु सूक्ष्मे।

 उत्क्रान्तिस्स्यात् समाना युतिरथ च परे सा च संश्लेषमात्रं

 निर्गच्छेद् ब्राहृनाड¬ा घृणिभिरथ निशादेवरात्र्योश्च मोक्षी।।



।4.3.0. उपोद्घातः

1. निर्गत्य ब्राहृरन्ध्रात् तपनकरमथालम्ब्य नाडीनिबद्धं

 प्रत्युद्यद्देवबृन्दप्रहितबलिरसौ येन योगी प्रयाति ।

 मौकुन्दस्स्थाप्यतेऽसौ परमिह मुनिना पञ्चभिन्र्यायभेदैः

 मोहाकूपारपारं पुरमभिगमयन्मुक्तिघण्टापथो नः।।

।4.3.1

2. शाखाभेदेषु भिन्नां गतिमुपनिषदोऽधीयते तन्मुमुक्षोः

 विद्यावैषम्यनीत्या गतिरपि विषमा न व्यवस्थार्चिरादेः।

 नैतत्सर्वत्र तैस्तैरिह तदिदमिति प्रत्यभिज्ञानसिद्धौ

 भाव्यं न्यूनाधिकत्वप्रभृति निखिलमप्यत्र सिद्धाविरुद्धम्।।

3. चैद्यादीनामयोध्यास्थिरचरजनुषां पुण्डरीकादिकानां

 भीष्मादीनामुपास्तिक्रमभवविभवव्यूहलोकस्थितानाम् ।

 धातॄणां तत्सुतानामिधिकृतिविगमे ब्राहृसम्प्रेप्सताम-

 प्यन्येषां प्रस्थितिस्सा शितपृथुमतिभिश्चिन्तनीया यथार्हम्।।

।4.3.2.

4. सम्प्राप्तो देवलोको मरुदपि च समं वत्सरादित्यमध्ये

 नैकत्वं रूढिभेदात्तत इह तु तयोस्तुल्यभावाद्विकल्पः।

 मैवं योऽयं प्रसिद्धः पवत इति मरुद्देवतानां गृहत्वं

 तस्योक्तं धारकत्वात्तत उचितमिदं निर्विकल्पं तदैक्यम्।।

।4.3.3.

5. कौषीतक्यागमोक्ता वरुणशतमखौ सोऽपि नाथः प्रजानां

 क्वापि स्थाप्या निपीड¬ श्रुतिमपि विफला ह्रन्यथा तच्छØतिस्स्यात्।

 तस्मात्ते वायुलोकात्परमनुपठनात्तत्र सन्त्वित्ययुक्तं

 सम्बन्धाद्विद्युतोऽन्वग्वरुण इति परौ पाठतस्तत्परौ स्तः।।

6. यत्त्वस्यामानवस्य श्रुतिमिह परसम्प्रापकत्वं भवेत्तत्

 सद्वारत्वेऽप्यबाधं तदपि सहकृतौ तच्छØतौचित्यभूमा।

 यश्चोक्तो मानसाख्यस्तटित उपरि तु ब्राहृलोकाप्तिहेतुः

 तस्मान्नेता स नान्यो विदुरतिवहनं वैद्युतेनैव तस्मात्।।

।4.3.4.

7. भोगस्थानान्यमूनि ज्वलनदिनमुखान्यध्वचिह्नानि वा स्युः

 लोकोक्तिच्छाययैव स्थितमिदमिति नासंभवात्कालशब्दे।

 स्पष्टे नेतृत्वपुंस्त्वे क्वचिदतिवहनं तद्वदन्यैश्च कार्यं

 सन्दिग्धे वाक्यशेषाद्गतिरिति जगुरग्न्यादिवाचोऽभिमन्तॄन् ।।

8. यां श्रुत्वा धर्मसूनुन्र्यपतदभिपतेत्तामसौ तामसौघो

 वर्गस्त्रैवर्गिकाणां पितृसरणिघटीयन्त्रचक्रे विघूर्णेत्।

 वर्तन्येषार्चिरादिश्श्रुतिभिरपुनरावर्तिनां संविभक्ता

 तत्र ब्राूतेऽतिवोढॄंस्तदितरवदहः पक्षमासादिशब्दः।।

9. पूर्वं धूमादिमार्गे सुकृतिषु कथिता चन्द्रमःप्राप्तिरन्या

 सायुज्यं न्यासविद्याप्रकरणपठितं चान्द्रमन्यादृगुक्तम्।

 अन्यात्रार्चिर्मुखानामतिवहनकृतामष्टमस्याप्तिरिन्दो-

 रित्थं सुस्था व्यवस्था प्रणिहितह्मदयैरेवमन्यच्च सूहम्।।

10. भूलोकेशाग्निपूर्वान्कतिचन भविनः केऽपि मन्यन्त एतान्

 शब्दैक्ये ह्रत्र गुर्वी भवति तदभिमन्त्रन्तराणां प्रक्लृप्तिः।

 अन्ये चामानवस्य स्वपदगतपरब्राहृनेतृत्वदृष्ट¬ा

 नित्यत्वात् तद्वदेतान्निजगदुरखिलन्नित्यवैकुण्ठभृत्यान्।।

।4.3.5.

11. वैधात्रस्थाननेतॄन्समकथयदिमान्बादरिस्तादृशानां

 गत्यौचित्यं तदा स्यान्न खलु विभुजुषामत्र वेद्यं न लभ्यम्।

 सामीप्याद् ब्राहृ चोक्तस्सरसिजवसतिस्तेन सार्धञ्च मुक्तिः

 युक्तेत्येतन्न नानाश्रुतिपठितपरस्थानगत्याद्यबाधात्।।

12. मार्गोऽसावर्चिरादिर्गमयति परमं धाम गत्यादियोगात्

 ब्राहृोक्तेर्मुख्यभावादिति तु निरणयज्जैमिनिर्युक्तमेतत्।

 वक्तव्यं त्वत्र किञ्चिन्नयति परविदस्स्वान्वितब्राहृनिष्ठान्

 तद्देहस्वात्मनिष्ठानपि मुखभिदयामी च सम्पूर्णनिष्ठाः।।

13. ध्यायेयुर्ये च जीवान् प्रकृतिशबलितान् केवलान्वा यथेष्टं

 द्वेधापि ब्राहृदृष्ट¬ा जडनिवहमपि स्वेन यद्वान्यदृष्ट¬ा।

 ते सर्वे हि प्रतीकप्रणिहितमनसो नार्चिराद्याध्वयोग्याः

 ब्राहृोपास्तेश्च लिङ्गं गतिरियमनघा सूत्रिता पूर्वमेव।।

14. प्रत्यापत्तिप्रकारः प्रतिनियतिमती कर्मयोगादिनिष्ठा

 विद्याभेदाधिकारः परभजनबलान्मुक्तिविघ्नोपशान्तिः।

 अन्त्यावस्थाव्यवस्था पृथगयनगतौ विश्रमाप्तिर्विभक्ता

 साक्षान्मुक्तिः क्रमाद्वेत्यखिलमगतिकैरप्रणोद्यं परैश्च।।

15. पन्थानं देवयानं तमिममधिगतः पश्चिमे देहपाते

 तत्त्वस्तोमांस्तमोऽन्तानतिपतति तरत्यापगां तत्र दिव्याम्।

 दिव्यं देहादि लब्ध्वा जनिलयरहितं याति विष्णोः पदं तत्

 पर्यङ्कारोहणान्तां भजति बहुमतिं ब्राहृसंवादधन्यः।।

16. संघाते नित्यता न क्वचिदपि न पृथिव्यादिभावस्तथात्वे

 पर्यङ्काद्यैर्न साध्यं किमपि भगवतः पूर्णनिस्सीमशक्तेः।

 व्याप्तप्राप्त्यर्थमूध्र्वं गतिरपि विफलेत्यादिकान् हैतुकानां

 क्षोदिष्ठक्षीबजल्पाञ्छØतिरुपशमयेदद्भुतार्थस्वतन्त्रा।।

17. भावोऽभावश्च यत्रानुपधि समुदितौ तत्र भावी विरोधः

 प्रज्ञातव्याप्तरोधेऽप्यधिकनिजबलान्मानतस्स्वार्थसिद्धिः।

 दृष्टं सर्वेष्टमेतन्न यदि न हि भवेन्मानमध्यक्षतोऽन्यत्

 बाधोऽध्यक्षे मिथो वा वटदलशयनाद्यद्भुतं चैवमूह्रम्।।

18. एकत्वं ब्राहृविद्यापरिषदि सुपथोऽधीयमानस्य तस्मिन्

 वायौ स्याद्देवलोकश्रुतिरपि वरुणाद्यन्वयो विद्युतोऽधि।

 नेतारोऽमानवान्ताः परपदगमने तद्विदां सोऽयमध्वा

 तुर्याध्यायस्य पादे सृतिरधिकरणैरित्थमुक्ता तृतीये।।



।4.4.0. उपोद्घातः

1. उक्तं पादैरघानामिति पृथुवपुषस्सूक्ष्ममूर्तेश्च हानं

 निर्धूतोपाधिराशेर्निरुपधिकमहानन्दमन्त्येन वक्ति।

 स्वाविर्भावोऽत्र चिन्त्यस्त्रिभिरधिकरणैश्छन्दवृत्तिस्त्रिभिश्चे-

 त्येवं द्वे पेटिके स्तस्स्वत उभयमिदं नोपधेर्नाथनिघ्नम्।।

।4.4.1.

2. अश्रान्तस्वप्रकाशं यदिदमहमिति प्रत्यगात्मस्वरूपं

 तस्याविर्भावसिद्धौ नतु किमपि फलं स्यात्सुषुप्ताविशेषात्।

 तस्मान्मुक्तस्स्वमन्यद्भजति वपुरसौ देववद्रूपशब्दात्

 मैवं स्वेनेति शब्दो ह्रफल इह भवेद्रूपवाचार्थसिद्धेः।।

3. नित्यस्वात्मस्वरूपस्थितिरियमभिनिष्पत्तिरित्यूचिवांसः

 तन्मात्रं स्यान्न विद्याफलमिति न विदुर्नित्यसिद्धं त्वसाध्यम्।

 सिद्धं साध्यानुवेधादपि भवति फलं सा त्वविद्यादिभङ्गो

 यद्वा सिद्धस्य वित्तिस्तदिह न विहतं मुक्तइत्यादिसूत्रम्।।

4. स्वाकारान्नित्यभातादधिकसुखतया भाति जीवस्तदानीं

 सिद्धाविर्भावमात्रेऽप्यनुविदुरभिनिष्पत्तिवाचः प्रयोगम्।

 सङ्कोचात्यन्तहानिर्धिय इयमभिनिष्पत्तिरागन्तुरुक्ता

 निष्प्रत्यूहस्वरूपोपधिकमपि तदा स्वेनशब्दः प्रवक्ति।।

5. प्रायस्स्वस्मिन् स्वदेहिन्यनघगुणनिधौ तद्विभूतिद्वये वा

 दृष्टं यत्स्यात्समाधौ भवति पृषतवत्तद्धि मुक्तानुभूतेः।

 कृत्स्नं तच्छर्करौघव्यतिकरितसुधासिन्धुवत् स्वादुभूतं

 तस्मात्स्वात्मप्रकाशे न फलमिति वदन् कूपकूर्मो घृणार्हः।।

6. मल्ली शुद्धं प्रसूनं जनयति समये रञ्जकोपाधिमुक्ते

 तद्वन्नाथानुकम्पा फलमुपशमितावग्रहं सूरितुल्यम्।

 तस्मादागन्तुकेऽपि प्रतिहतिविरहात्तादृशे धीविकासे

 प्रत्यापन्नस्वदायक्रम इह कथितः प्राप्तसिद्धेः प्रतीचः।।

7. अर्वाञ्चं मुक्तिभेदं कतिचिदगणयन् स्वात्ममात्रामनुभूतिं

 तत्र ब्राहृानुभूतेर्विहतिरुपधितस्स्यात्स्वतो वेति चिन्त्यम्।

 सन्ति द्वेधापि दोषास्तत उपचरणान्मुक्तिशब्दोऽत्र युक्तः

 सालोक्यादिप्रभेदेष्वपि सरणिरियं सावधानैर्विभाव्या।।

।4.4.2.

8. जीवेशौ नित्यभिन्नौ श्रुतिरिह च सहेत्याह मुक्तस्य भोगं

 साम्ये पारम्ययुक्तं स्मृतिमपि स पृथग्भातु तस्मात्परस्तात्।

 मैवं तत्त्वं हि मुक्तौ स्फुरति तदनयोर्भेदभानांश इष्टः

 सिद्धे देहात्मभावे त्विह नहि घटते तत्स्वनिष्ठत्वदृष्टिः।।

9. मन्त्रोक्तं भोक्तृभावे यदि सहभवनं ब्राहृ न स्यात् प्रधानं

 तस्मात्तद्भोग्यभावे भवतु तदुचिते ब्रााहृणव्याकृतेश्च।

 द्वेधापि ब्राहृ तत्त्वात् पृथगितर इह स्यादितीदञ्च वार्तं

 सिद्धे भेदे स्वनिष्ठस्थितिपरिहरणं ह्रत्र सूत्रोपपाद्यम् ।।

10. पारम्यं यच्च साम्ये श्रुतमिह नहि तत्सर्वथेत्यप्यधीतं

 ग्राव्णो हेम्नश्च यद्वत्समधरणधृतौ स्यात्तदुक्तिस्तथात्र।

 एवं तद्देहभावे स्थितवति विविधाबाधिताम्नायभूम्ना

 ब्राहृैवेत्यादिवाक्यं प्रथयति समतां तादृगित्यप्यधीतेः।।

।4.4.3.

11. ज्ञानत्वे किं फलं स्यादिति मिषतु गुणैस्तादृशं ब्राहृसाम्यं

 किं धर्मैरस्वरूपैस्तदिह भवतु चिन्मात्ररूपप्रकाशः।

 इत्थं छात्रोक्तपक्षद्वयमुभयविधश्रुत्युपात्ताद्विरोधात्

 निर्धूयाथ द्विधाविर्भवनमघटयत्सिद्धतत्त्वप्रकाशात्।।

12. पर्यायौ नामपाठेष्वनुपरिपठितौ मुक्तिकैवल्यशब्दौ

 कैवल्यञ्चान्ययोगत्यजनमिति कथं धर्मिधर्मान्वयोऽस्य।

 मैवं ब्राहृस्वरूपादपरमिह न खल्वस्ति किञ्चित् स्वनिष्ठं

 न द्रव्यञ्चागुणं स्यादधिकरणयुगं तन्निरातङ्कमेतत्।।

।4.4.4.

13. धात्रादेरप्यपेक्ष्यो ह्रुपकरणगणस्सत्यसङ्कल्पवृत्तेः

 मुक्तस्याप्येवमेवास्त्विति यदि वितथं तद्विकल्पासहत्वात्।

 इष्टा द्रव्याद्यपेक्षा सुकृततदितरापेक्षणं तत्र दुस्स्थं

 न स्यादिच्छाविघातस्त्वनुपधिकतया देववाञ्छैकरस्यात्।।

14. विश्वस्यैतस्य जन्मस्थितिलयरचना विश्वकर्तुर्यथा स्यात्

 इच्छासन्तानभेदान्नियतिरिह तथा नित्यमुक्तक्रियाणाम्।

 तस्यानुच्छेदवृत्त्या प्रतिकलभिदुरास्ताश्च तादृक्प्रवाहाः

 तद्बुद्धेरापरोक्ष्यं त्वनिशमभिदुरं वर्तते ब्राहृधीवत्।।

15. प्रत्यूहार्हः प्रजेशप्रभृतिसुकृतिनां सत्यसङ्कल्पभावो

 मत्र्यारम्भस्पृहादौ तदितरविविधप्राणिसृष्ट¬ादिदृष्टेः।

 तेनेच्छासन्ततीनां सफलविफलते पुण्यपापैरमीषां

 मुक्तस्योक्ता चिकीर्षा त्वविहतविषया तारतम्यं न दोषः।।

16. सूत्रे मुक्तोऽप्यनन्याधिपतिरभिहितस्तेन कस्तस्य शेषी

 श्रुत्यैवोक्तस्स्वराडित्यपि विहतिरतः प्राक्प्रतिष्ठापितानाम्।

 मैवं नाथेतरान्प्रत्यघविहित इह क्षिप्यते शेषभावो

 विश्वस्यात्मेश्वरो यः पतिरिति पठितस्तत्पतित्वं त्वबाध्यम्।।

।4.4.5.

17. मुक्तः प्रोक्तोऽशरीरः क्वचिदथ बहुधा संभवः क्वाप्यधीतो

 गानक्रीडादि चोक्तं तदनुगुणमतद्वन्द्वमार्षं निरस्यन्।

 स्वच्छन्दस्योभयं तत्क्षममिति वदति स्वं मतं सूत्रकारः

 स्याच्चाकर्मोद्भवं तन्निखिलमपि परब्राहृवत्तत्समस्य।।

18. मोक्षे पुण्याद्यभावात्तदुपधिकवपुर्वर्जितत्वं न दूष्यं

 तस्मिन्दुःखार्हदेहत्यजि च शुभवपुस्सत्त्वपक्षोऽप्यबाध्यः।

 इत्थं सत्यत्र मुक्तस्थितिरिह मुनिना कीदृशी सूत्रिता स्यात्

 नैवं स्वच्छन्ददेहग्रहतदनियमस्थापनेऽत्राभिसन्धेः।।

19. नानादेहा यदि स्युर्युगपदधिगतब्राहृसाम्यस्य पुंसः

 तेषां व्याप्तस्वरूपान्वय उचित इति प्राक्तनाणुत्वहानम्।

 नैतद्धीव्याप्तिसिद्धेर्भवति च जगदावेशवाक् तन्निदाना

 सौभर्यादौ प्रक्लृप्तां गतिमपवदितुं न क्षमं ब्राहृसाम्यम्।।

20. देहानां यौगपद्ये बहुषु कथमणुर्धारकोऽस्त्वेष मुक्तः

 चैतन्यद्वारतश्चेत् सकलमपि सदा धारयेद्व्याप्तबोधः।

 मैवं मुक्तस्य शक्तिर्नियमितविषया त्विच्छया सर्वशक्तेः

 प्राक्तादृग्योगशक्त्या बहुतनुभजने कर्मबन्धोऽप्यपेक्ष्यः।।

21. शक्तिः क्षेत्रज्ञसंज्ञा मुनिभिरभिदधे वेष्टिता कर्मभिस्स्वैः

 पुंसोऽनंशापि बुद्धिर्बहुविधविकृतिस्स्वीकृतैवं स चास्तु।

 वालाग्रेत्यादिवाक्यात्तदयमणुरपि स्यादनन्तोऽपि मुक्तौ

 न स्याज्जैनादिभङ्गे परिह्मतविकृतेरैकरूप्यानपायात्।।

22. जीवस्यैकेकशो हि त्यजनत उदितो वृक्षशाखासु शोषः

 तस्मादद्वारकं स्यादपगतवरणे मुख्यमानन्त्यमस्मिन् ।

 मैवं शाखासु भोगाश्रयनियतिकरोपाधिनाशः प्रहाणं

 क्षेत्रादिन्यायतोऽसावभिमतिविरहात् स्यादधीतो जहातिः।।

23. एको नैकः परस्मात् पृथगपृथगपि स्वस्वरूपेण मुक्तः

 स्वाभीष्टाशेषभोक्ता स्वयमिति पृथुकक्षीबचोद्ये भ्रमन्ति।

 तेऽन्वीक्ष्य स्वोक्तिबाधं श्रुतिशतविहतिं तत्तदुक्त्यान्यपर्यात्

 जैनावष्टम्भदृप्यन्मतिकलहमुचस्सत्पथं संश्रयन्तु।।

24. सर्वं संकल्पमात्राल्लभत इति समाम्नायते सूत्रितञ्च

 स्वेच्छातो देहयोगाद्यनियतिकथनं स्यादतः पिष्टपेषः।

 तन्नान्योन्योपरुद्धश्रुतिगतिनियतिः कामतोऽनेकदेह-

 स्वीकारप्रक्रियेत्याद्यनियतिकथने सूत्रकाराभिसन्धेः।।

।4.4.6.

25. यद्यप्युक्तो विमुक्तः परतनुरपृथक्सिद्ध इत्यत्र पूर्वं

 व्यापारांशे तथापि श्रुतमिह परमं साम्यमक्षोभणीयम्।

 संकल्पादेव सर्वोत्थितिरपि हि ततस्स्यादिति प्रत्यवस्थां

 कृन्तत्यन्तेऽधिकारे कृतिमदितरयोस्स्थापयन्भोगसाम्यम्।।

26. सायुज्यं भोगसाम्यं समगणि निपुणैश्शब्दशक्त्याद्यबाधात्

 तच्च व्यापारसाम्ये त्वसति न घटते स्वक्रियास्वादहानेः।

 तस्मान्मुक्तस्य सृष्टिप्रभृतिरपि जगद्व्यापृतिब्र्राहृतुल्या

 मैवं तल्लक्षणं सा कथमनुगमतस्तस्य चान्यस्य च स्यात्।।

27. कथ्यन्ते सृष्टिवाक्ये क्वचिदपि न जगत्कारणत्वेन मुक्ताः

 प्राधीतः कामचारो भवतु न जगदारम्भकत्वं ततस्स्यात्।

 सर्वाकारोपभोग्येश्वरविषयधियस्साम्यतो भोगसाम्यं

 युज्येतानन्दवल्ल्यां समगणि विभुनानन्दमात्रे समत्वम्।।

28. निष्कामश्रोत्रियस्याप्यतिदिशति सुखं मानुषानन्दतुल्यं

 सानन्दान्वक्तुकामा शतगुणमधिकानाविरिञ्चं क्रमेण।

 तत्तद्भोगात्प्रथिष्ठं कथमिदमवरं कष्टमिष्टं च मुक्ते

 सत्यं तत् स्यान्मुकुन्दप्रियजनसदृशे ह्रेकदेशानुवादः।।

29. आनन्दानन्त्यमाह श्रुतिरिह हि यतो वाच इत्यादिकास्याः

 विश्रान्तिश्श्रान्तिमात्रादिति च निगदिता यामुनाचार्यवर्यैः।

 न ह्रानन्दोन्मितिस्स्याद्विधिशतवचनेऽप्यस्य यष्ट¬ा नभोवत्

 तच्चोक्तं भूधराण्वोरुदधिपतितयोर्मज्जने को विशेषः।।

30. विश्वं मुक्तस्य देहो नखलु तदपृथक्सिद्ध्यभावोपलम्भात्

 नोपादानं ततोऽसौ कथयितुमुचितस्सर्वशक्तित्वहानेः।

 नात्माशक्यं चिकीर्षेत्तदितरविषये निर्विघाता तदिच्छा

 व्यापारे भिद्यमानेऽप्यविषमरसता दृश्यते क्वापि लोके।।

31. तत्तत्सेवाविशेषस्थिरपरिणमितस्सार्वभौमप्रसादः

 सूते भृत्यस्य साम्यं स्वयमनभिमतस्वामिचिह्नैकवर्जम्।

 एवं देवं दयालुं शरणमुपगतैर्लभ्यतेऽनन्यलभ्या

 निर्धूतावृत्तिशङ्का निरुपधिकरसा सव्यवस्था त्ववस्था।।

32. अत्राहुस्सूत्रमन्त्यं पृथगधिकरणं केचिदाञ्जस्यलाभात्

 अस्त्यावृत्तिनिर्षेध्ये त्विममिति हि पदं तेन शङ्कोत्थितेति।

 भाष्यादौ तन्न दृष्टं भवति च सुगमं पूर्वशेषत्वमस्य

 स्यादावृत्तिप्रसङ्गादपि निखिलजगन्निर्मितौ साम्यशङ्का।।

33. सर्गाद्यावर्तलीलारससहचरिते दण्डरासे नियुक्तं

 जीवं देवो विमुच्य क्रमत इति सयुग्भावधन्यं भुनक्ति ।

 कर्मात्यन्तोपशान्तेरिह नच पुनरावर्तयत्येनमित्य-

 प्याम्नातेः कर्ममूलाक्षयफलकथनाद्युत्थशङ्कोपशान्तिः।।

34. स्वाविर्भावोऽपवर्गे निरुपधिनियतस्वप्रकार्यन्तदृष्टिः

 चिद्रूपस्यैव तद्वच्छØतिमकुटमितैस्स्वप्रकारैस्सहेक्षा।

 सङ्कल्पादेव सिद्धिस्तदनु च नियमोन्मुक्तता ब्राहृसाम्य-

 प्राप्तौ तल्लक्षणांशोज्झनमिति चरमाध्यायतुर्याङ्घ्रिसाराः।।

35. ध्यानादिं तत्प्रभावं करणभृत इतो देहकाराकुटीरात्

 निष्क्राÏन्त ब्राहृनाड¬ा गतिमपि सुपथा स्वप्रकाशञ्च साध्यम्।

 इच्छातस्स्वेष्टसृÏष्ट परममपि परब्राहृणा भोगमात्रे

 साम्यं मायामतस्थः कथमिव घटयेदन्तिमाध्यायसारम्।।

36. मानामानप्रभेदप्रभृतिविभजनादादिमे कर्मभागे

 नाना वा देवतेत्याद्यनुपदपठनान्मध्यमे देवतांशे।

 भागेऽस्मिन्भेदधर्मप्रभृतिकथनतस्सौगतादेश्च भङ्गात्

 मीमांसायास्त्रिकाण्ड¬ां क्वचिदपि न मृषावादगन्धावकाशः।।

37. त्रय्यन्तोदन्वदन्तस्सृतिरियमुदिता देशिकैः कर्णधारैः

 तत्त्वार्थज्ञानपारं गमयति विशदं त्वन्यदीक्ष्यं विमुक्तौ।

 कर्तव्ये कल्पकारैः क्वचिदभिदधिरे कृत्यसन्देहभेदाः

 तत्त्वेऽप्येवं क्वचित्स्यात्तदपि न वितथस्स्वोपयुक्तांशबोधः।।

38. श्रुत्यन्तैकान्ततर्कक्रमगरिमधृतौ तूलवच्छैलवर्गः

 तत्सिद्धब्राहृबोधद्युमणिरुचि तमस्स्तोमकल्पोऽन्यजल्पः।

 मोक्षोपायैकराज्ये तदितरविधयः किङ्करत्वं भजन्ते

 मुक्तानन्दामृतैकोदधिपृषतकणस्पर्धिनोऽन्ये पुमर्थाः।।

39. पारावर्यं विविच्य प्रथममवितथैरागमैस्तत्ववर्गे

 संसारे तीव्रभीतिः परसमधिगमे तीव्रनिष्पन्नरागः।

 कञ्चिद्विद्याविशेषं सपरिकरमधिष्ठाय शान्तान्तरायः

 सम्पद्य ब्राहृ भुङ्क्ते निरुपधिकमनावृत्तिरित्थं श्रुतार्थः।।

40. सासौ सासूयतत्तत्कुमतिमतसमुन्मूलनी मूलनीति-

 श्रेणीनिश्श्रेणिकल्पा त्रियुगपथरथारोहसूतं सुवीत।

 सन्तस्सन्तापवर्गप्रशमनपटुना तत्त्वबोधेन सन्तं

 सन्तोषं ब्राहृसूत्राधिकरणचरणाध्यायसारावलिर्वः।।

41. षट्पञ्चाशच्छतञ्चेत्यधिकरणगणैव्र्यक्तसीमाविभागे

 काण्डेऽस्मिन्नस्मदुक्तं कतिचिदनुविदुः क्षेपधन्यैः किमन्यैः।

 पश्यन्तो विश्वमेतत् त्रिगुणगुणनिकायन्त्रितस्वान्तनिघ्नं

 नाथे नस्साक्षिभूते न वयमिह मुधा कुर्महे नर्महेलाम्।।

42. विश्वं द्रव्यादिभेदाद्विशदमभिहितं तत्त्वमुक्ताकलापे

 व्यूढं शारीरकस्य त्विह दृढघटितं रूपमापादचूडम्।

 तस्मादस्माच्छØताब्धेरमृतमिव समुद्वान्तमश्रान्तबद्ध-

 श्रद्धैरन्योन्यहस्तप्रदमिदमुभयं धार्यमाचार्यवद्भिः।।

43. इत्थं शारीरकोक्ते पथि समुपनतास्रुाग्धराश्श्रद्दधानं

 पारे मायापयोधेः प्रहितमभिमुखैस्सूरिभिश्शुद्धभावैः।

 ब्राहृालङ्कारकल्पैर्बहुभिरुपनिषत्सूत्रतात्पर्यशिल्पैः

 देवार्हत्वाय दिव्याप्सरस इव परिष्कृत्य सम्भावयन्ति।।

44. प्रज्ञाधम्मिल्लमल्लीपरिमलमिलितप्राज्ञसेवासमुद्य-

 च्छुद्धालोकोज्ज्वलं मां श्रुतिपरिषदुपस्कारिसौभाग्यवद्भिः।

 पद्यैरेतैस्स्वह्मद्यैः प्रणवमहिमवत्पाञ्चजन्यक्रमेण

 स्वाध्मातं रङ्रनाथस्स्वयमिति मुखरीकृत्य संमोदतेस्म।।

45. पाराशर्यः प्रभूतादुपनिषदमृतोदन्वतस्सारभूतं

 निर्मथ्यादत्त सूत्रैरवितथनिगमाचार्यनामा मुनीन्द्रः ।

 यत्तन्निष्कृष्टमित्थं यतिपतिह्मदयारूढमारूढताक्ष्र्यः

 तद्वक्ता वाजिवक्त्रस्सह मम गुरुभिर्वादिहंसाम्बुवाहैः।।

"https://sa.wikisource.org/w/index.php?title=अधिकरणसारावलिः&oldid=403138" इत्यस्माद् प्रतिप्राप्तम्