अद्वैतशतकम्

विकिस्रोतः तः
Jump to navigation Jump to search

प्रणम्य परमानन्दं
स्वात्मानं परमेश्वरम् ।
अद्वैतशतकं वक्ष्ये
सर्ववेदान्तसंग्रहम् ॥१॥

ज्ञप्तिरूपो महादेवो
स्वेच्छया देहमाविशन् ।
जीवात्मेति श्रुतौ प्रोक्तो
देहो मायेति संज्ञितः ॥२॥

तस्माद् दृश्यमयो देहो
देहि दृग् रूप उच्यते ।
एवं दृग् दृश्यरूपेण
संस्थितं भूतमण्डलम् ॥३॥

विना देहेन जीवात्मा
किञ्चित् कर्तुं न शक्तिमान् ।
विना जोवेन देहोऽपि
ज्ञातुं द्रष्टुं न शक्तिमान् ॥४॥

तस्मात्तादात्न्तसंबन्धं
प्राप्तो देहेन चेतनः ।
देहोहमिति निश्चित्य
कर्माणि कुरुते सदा ॥५॥

वपुश्चतुर्विधं प्रोक्तं
मनुष्याणां विवेकिनाम् ।
स्थूलं सूक्ष्मं कारणञ्च
सामान्यञ्चेति नामभिः ॥६॥

संसारार्णवमग्नानां
जन्तूनामविवेकिनाम् ।
सामान्यदेहरहितम्
त्रिविधं वपुरूच्यते ॥७॥

जागरे स्थूलदेहस्यात्
सूक्ष्मदेहः प्रकीर्तितः ।
स्वप्ने, सुषुप्तौ देहश्च
कारणाक्यः प्रकीर्तितः ॥८॥

दृश्यरूपमिदं सर्वं
देह इत्याभिधीयते ।
तत्रव्याप्तं परं ज्योति-
र्देहोति परिगीयते ॥९॥

अयं सामान्य देहस्यात्
मनुष्याणां विवेकिनाम् ।
सावस्था हि तुरोयारख्या
भुवनेषु सुदुर्लभा ॥१०॥

यदा सामन्यदेहेऽस्मिन्
स्थितिः पुंसाभिजायते ।
तदा योगीश्वरो वेदैः
परमात्मेति गीयते ॥११॥

यदा स्थूलादिदेहेषु
मनुष्याणां स्थितिर्भवेत् ।
जीवात्मेति तदा प्रोक्तः
सङ्कोचग्रहणाद् बुधैः ॥१२॥

अयं जीवो हि संसारे
सदाऽसारे परिभ्रमन् ।
लोकाल्लोकान्तरं गत्वा
गर्भपात्रं विशात्यसौ ॥१३॥

गत्वा गर्भगृहाद् भूयो
मानुषं लोकमाविशन् ।
पुत्रोऽयं मम भार्येयं
अस्मदीयमिदं धनम् ॥१४॥

इदं गोत्रमिदं मित्रं
अस्मदीयमिदं गृहम् ।
इयं माता मम पिता
जना एते ममारयः ॥१५॥

इति निश्चित्य जीवात्मा
रागदेषं दिने दिने ।
एतान् प्रति करोत्येव
स्वाज्ञानादेव केवलम् ॥१६॥

एकरूपस्य देवस्य
सर्वेषामन्तरात्मनः ।
व्योमवद् व्याप्तदेहस्य
बोधरूपस्य सर्वदा ॥१७॥

कुत्रचिद् दृश्यरूपस्य
मायादीनां परिग्रहात् ।
सर्वस्याधाररूपस्य
मेघाधीनां यथा नभः ॥१८॥

सच्चिदानन्दरूपस्य
ब्रह्मरुद्रादिकल्पनात् ।
विभागं कुरुते जीवः
स्वाऽज्ञानादेव केवलम् ॥१९॥

व्याप्तरूपस्य देवस्य
सङ्कोचं दुःखमेव हि ।
तदेव जीवः कुरुते
स्वाऽज्ञानादेव केवलम् ॥२०॥

अथ सत्यविहीनानां
कामिनां कामचारिणाम् ।
स्वधर्मविमुखानां च
संसर्गं कुरुते सदा ॥२१॥

पुनर्वश्यावशो स्थित्वा
तैस्सार्धं श्वखरागवत् ।
सर्वधर्मविनिर्मुक्तो
देहो ता एव सेवते ॥२२॥

आलापे हरिणाक्षीणां
दर्शनस्पर्शनादिषु ।
हासभावविलासेषु
मनः सम्यङ् निमज्जति ॥२३॥

विषयग्रहणाज्जन्तोः
प्रद्वेष उपजायते ।
मातरं पितरं पुत्रं
वृद्धञ्चान्यजनान् प्रति ॥२४॥

अलब्धविषयो जन्तुः
चिन्तया परितप्यते ।
शोकमोहभयक्ळेश-
क्रोधलोभाधियुक्तया ॥२५॥

लब्धे तु परमप्रीति
सौभाग्यशतसंयुतम् ।
अभिप्रायशतं ध्यात्वा
विषयेषु विषज्यते ॥२६॥

अलब्धविषये लब्धे
जन्तुः श्रेयो न लभ्यते ।
एवं विषयगर्तेषु
परिमज्जति मानवः ॥२७॥

सम्पाद्य मित्रं जीवात्मा
तेषां दुःखं दिने दिने ।
ममेति मन्यते नित्यं
जन्मान्तरकृताश्रुभात् ॥२८॥

प्रारब्धकर्मणां भुक्तिं
कुर्वन् देहि दिने दिने ।
पौरुषेण प्रयत्नेन
कर्माणि कुरुते सदा ॥२९॥

संसारे वर्तमानानां
पुंसां तेनैव हेतुना ।
श्रुभाश्रुभानि कर्माणि
द्विविधनीति सन्मतम् ॥३०॥

श्रुभाश्रुभानि कर्माणि
पौरुषाणि न चेद्यदि ।
वेदानां विधिवाक्यानां
व्यर्थत्वं भवति ध्रुवम् ॥३१॥

न हिंस्यात् सर्वभूतानि
न कुर्यादहितं सताम् ।
एवमादीनि वाक्यानि
व्यार्थन्येव विचारणे ॥३२॥

अन्यथा विधिवाक्यानि
प्रवर्तन्ते तु कं प्रति ।
जीवं प्रति प्रवृत्तिश्चेत्
सोऽपि कर्मवशानुगः ॥३३॥

कर्मानुसारि जीवश्च
कर्माण्येवानुवर्तते ।
तस्माद्धि कर्माणि क्षीणे
तस्य मृत्युर्भवेद् ध्रुवम् ॥३४॥

ये मूढा द्विविधं कर्म
नाङ्गीकुर्वन्ति मोहतः ।
तेषां हि मरणं मोक्षो
लोकायतिकवद्ध्रुवम् ॥३५॥

स्थूलदेहं गृहीत्वैवं
अनुभूय शुभाशुभम् ।
पौरुषं सूक्ष्मदेहेन
भोक्तुमारभते पुनः ॥३६॥

स्थूलदेहात् सूक्ष्मदेह-
व्यावृत्तिं मरणं स्मृतम् ।
जीवानां मृतिकालेऽस्मिन्
सूक्ष्मदेहः प्रकीर्तितः ॥३७॥

प्रारब्धकर्माणां नाशात्
उपभोगेन चेतनः ।
स्थूलदेहात् सूक्ष्मदेह-
व्यावृत्तिं कुरुतेऽवशः ॥३८॥

यथा स्वप्ने स्थूलदेहात्
सूक्ष्मदेहस्थितिर्भवेत् ।
मृतिकाले तथा पुसां
सूक्ष्मदेहस्थितिर्भवेत् ॥३९॥

यत् कर्म कुरुते स्वप्ने
सूक्ष्मदेहेन चेतनः ।
स्थूलदेहेन जीवात्मा
तदेव कुरुते तदा ॥४०॥

स्थूलदेहं विहयैवं
गृहीत्वा सूक्ष्मविग्रहम् ।
स्वर्गं वा नरकं वाऽपि
जीवात्मा परिगच्छति ॥४१॥

जीवात्मा पुण्यबाहुल्यात्
स्वर्गलोकं यथाक्रमम् ।
विकासयति भोगार्थं
स्वरूपे स्वेन चतेसा ॥४२॥

विशुद्धं ज्ञानमेवैकं
यथा स्वप्ने त्रिधा भवेत् ।
ग्राहकग्रहणाध्यैश्च
स्वर्गलोके तथा भवेत् ॥४३॥

यद्यत् स्वप्नप्रपञ्चस्य
चोपादानं स्वयं भवेत् ।
स्वर्गस्य नरकस्यैव
उपादानं स्वयं भवेत् ॥४४॥

जीवात्मा लिङ्गदेहेन
स्वर्गं नरकमेव वा ।
गत्वा मनोमयं पश्चा-
दनुभूय शुभाशुभम् ॥४५॥

प्रविश्य कारणं देहं
परिपूर्णं मनोमयम् ।
महत् सुखमवाप्नोति
परित्यज्य परिश्रमम् ॥४६॥

विहाय कारणं देहं
स्वात्मज्ञानमयाद्भुतम् ।
शुक्ळार्तेवे सुसंशुद्धे
गर्भपात्रे प्रबुद्धवान् ॥४७॥

पुनर्गर्भगृहाद्बुद्ध्वा
शुद्धशुक्ळार्तवं तदा ।
उपाधित्वेन संगृह्य
देहमेव किलेच्छति ॥४८॥

गर्भपात्रे स्थितं कुर्वन्
बह्वभद्रावहः पुमान् ।
मूर्च्छावस्थां गृहीत्वादौ
जन्मान्तरसुभाशुभात् ॥४९॥

प्रवाहतोऽनादिमयं
देहमेव पुनः पुनः ।
ध्यात्वा ध्यात्वा कालवशात्
देह एव प्रजायते ॥५०॥

उपाधित्वेन संगृह्य
स्थितश्शुक्ळार्तवं यदा ।
देहं विना स्थियस्यास्य
कथं ध्यानं भवेत्तदा ॥५१॥

बोधमात्रैकरूपस्य
देवस्यानन्दरूपिणः ।
स्वस्वरूपेऽपरिच्छेद्या
माया स्यात् पारमेश्वरी ॥५२॥

ज्ञप्तिरूपस्य देवस्य
ज्ञप्तिरूपोऽहमेव हि ।
इति ज्ञानविहीनस्य
बोधो मायेति कथ्यते ॥५३॥

एवं विचारणे माया
दैवीति परिकल्पिता ।
तया सङ्कोचमात्तस्य
बन्धोऽनादिरिहोच्यते ॥५४॥

अनाध्यन्तवती माया
स्थिता मायाविचारणे ।
चराचरमिदं विश्वं
तत्कार्यत्वात् तथा भवेत् ॥५५॥

अत एव हि देवस्य
सच्चिदानन्दरूपिणः ।
सप्तयोनिष्वहंभाव-
स्तत्र तत्र दृढं भवेत् ॥५६॥

लोकेषु वर्तमानानां
पुंसां तेन च हेतुना ।
देहं विनाप्यहङ्कारो
वर्तते वासनावशात् ॥५७॥

वृक्षबीजे यथा वृक्षो
स्थितश्शाखादिसंयुतः ।
तथाहमि स्थितो देहो
हस्तपादादिसंयुतः ॥५८॥

तस्माद् गर्भस्थितिं कुर्वन्
जीबोऽविद्यादिसंयुतः ।
अहङ्कारवशादेव
देह एव प्रजायते ॥५९॥

देहि सम्पूर्णदेहोऽसौ
जन्मान्तरशुभाशुभात् ।
पुनर्गर्भगृहाद् गत्वा
मूर्च्छामाप सुविस्मिताम् ॥६०॥

एवं देहत्रये कुर्वन्
स्थितिं देहि परिभ्रमन् ।
जीवात्मेतुच्यते सद्भिः
सर्ववेदान्तपारगैः ॥६१॥

एवं संसरतः पुंसः
स्वेनार्जितशुभाशुभात् ।
देशिकालोकनादेव
वैराग्यं जायते हृदि ॥६२॥

एवं वैराग्ययुक्तस्य
पुंसो हृदि निरन्तरम् ।
आविर्बभूव शुद्धात्मा
विचारस्सोयमीदृशः ॥६३॥

धनेन दुःखरोपेण
दुर्लभेनात्ममृत्युना ।
पुंसां का प्रीतिरेवस्यात्
पापरूपेण सर्वदा ॥६४॥

किं मे गेहेन किं भोगैः
किं धनईर्धनदैरपि ।
किं मित्रबान्धवईः कार्यं
सर्व कालवशादसत् ॥६५॥

किं स्त्रिया पापरूपिण्या
किं पुत्रैर्भन्दहेतुकैः ।
मृत्युना गृह्यमाणस्य
तैः किं कार्यं क्षणे क्षणे ॥६६॥

अतीता बहवः पुत्राः
दारा जन्मनि जन्मनि ।
प्रारब्धकर्मभोक्तृणां
पुंसां किमिह तैः फलम् ॥६७॥

भावेष्वरतियुक्तस्य
पुंसस्सत्यार्थभाषिणः ।
कोऽहं कथमिदञ्चेति
चिन्ता स्यात् सुव्हिशारदा ॥६८॥

सा चिन्ता देशिकं विप्रं
वेदशास्त्रागमान्वितम् ।
ब्रह्मज्ञानवतां पुंसां
वरं घटयति क्षणात् ॥६९॥

शक्तिपातपवित्रोऽयं
जीवात्मा गुरुविग्रहम् ।
दृष्ट्वा परवशो भूत्वा
नतिञ्चकै पुनः पुनः ॥७०॥

नत्वा देवं महात्मानं
देशिकं करुणामयम् ।
स्वस्वरूपं परिज्ञातुं
प्राञ्जलिस्तमभाषत ॥७१॥

स्वरूपं परमानन्दं
ज्ञातुभिच्छामि देशिक ।
संसाराब्धितितीर्षूणां
कर्णधारोऽसि देहिनाम् ॥७२॥

इति पृष्टो विरक्तेन
शिष्येण परमार्थवित् ।
स्वस्वरूपं पां ध्यायन्
देशिकस्तमभाषत ॥७३॥

यमाश्रित्य प्रवर्तन्ते
जनास्सर्वे निरन्तरम् ।
स्वरूपमिति तं विद्यात्
करणैश्चक्षुरादिभिः ॥७४॥

जाग्रत्‌काले यमाश्रित्य
स्थूलदेहः प्रबर्तते ।
सूक्ष्मदेहस्तथा स्वप्ने
स्वरूपं तं विदुर्बुधाः ॥७५॥

सुषूप्तौ तु यमाश्रित्य
भासते कारणं वपुः ।
स्वाज्ञानमयमव्यक्तं
स्वरूपमवधारय ॥७६॥

यो जाग्रदादिभेदेन
मिथ्यारूपेण भासते ।
तेषां द्रष्टृस्वरूपेण
स एव परमेश्वरः ॥७७॥

स एव त्वं शिवो विष्णु-
रग्निरिन्द्रचतुर्मुखः ।
स एव सूर्यस्सोमश्च
सः शास्ता स विनायकः ॥७८॥

वाणी श्रीगिरिजा दुर्गा
देवी चेत्यादिनामभिः ।
विभिद्य प्रोच्यते प्राज्ञै-
र्मतिभेदेन नान्यथा ॥७९॥

एकरूपं समाश्रित्य
सङ्कल्पञ्च विकल्पकम् ।
यदा करोत्यसौ देही
मन इत्युच्यते तदा ॥८०॥

संशयं परित्यज्य
रूपं प्रत्यवधारितः ।
यस्मिन् काले प्रत्यगात्मा
बुद्धिरित्युच्यते तदा ॥८१॥

यदाऽसौ स्वपरामर्शाद्
इदमित्थमिति स्फुटम् ।
रूपं प्रति विजानाति
तदाहङ्कारवान् भवेत् ॥८२॥

यदा हस्तः कर इति
बाहोः पर्याय एव हि ।
मनोबुद्धिरहङ्कार-
श्चित्तं चेति तथात्मनः ॥८३॥

यथावह्नोर्वर्तिभेदात्
इक्षोः पाकविशेषतः ।
नामरूपात्मको भेदः
स तथा जीवस्य नान्यथा ॥८४॥

यथा क्षीरे घृतं व्याप्त
तथ्या दृश्ये परः पुमान् ।
उपाधिभेदात् भेदस्स्यात्
तस्मादेकस्य नान्यथा ॥८५॥

एकरूपो महादेवः
सर्वभूतेष्ववस्थितः ।
एकरूपो महाकाशो
घटादिषु यथा स्थितः ॥८६॥

पृथक् पृथक् स्थितानाञ्च
देहानामविवादतः ।
पाणिपादादियुक्तानां
भेदो नास्ति विचारणे ॥८७॥

चराचरमिदं विश्वं
पञ्चभूतात्मकं स्मृतम् ।
देहानां पञ्चभूतानां
भेदो नास्ति तथास्थिते ॥८७॥

मृन्मयत्वाद् घटादीनां
यथा भेदो न विद्यते ।
पञ्चभूतात्मकत्वेन
देहानाञ्च तथैव च ॥८९॥

एवं विचारणे तात
नास्ति भेदः कदाचन ।
देहानां पञ्चभूतानां
जडानामाशुनाशिनाम् ॥९०॥

नवप्रदेशमात्रोऽयं
हस्तपादादिमानहम् ।
इति निश्चयवान् लोके
जीव इत्यभिधीयते ॥९१॥

सर्वत्र परिपूर्णोऽहं
अयं देहो समेति च ।
इति निश्चयवानन्तः
परमात्मेति कथ्यते ॥९२॥

एवं स्थिते न भेदस्स्यात्
जीवात्मपरमात्मनोः ।
तयोरभेद एव स्यात्
चित्स्वरूपाविशेषतः ॥१३॥

देहसाक्षी प्राण एव
इति चेत्तन्न संगतम् ।
सुषुप्तौ सर्वदेहानां
जडत्वादेव नान्यथा ॥१४॥

स्वव्यापारकृते प्राणो
देहोपरतिदर्शनात् ।
देहस्य कर्ता न प्राण
इत्येवमवधारय ॥९५॥

यच्चिन्त्यते भूपतिना
तत् कुर्वन्त्यनुजीविनः ।
तस्मात् प्राणो न कर्ता स्याद्
इति लोकेषु दर्शनात् ॥९६॥

देहत्रयसमुद्भूतां
वासनां संपरित्यजन् ।
परिगृह्य परं देहं
परिपूर्णं परो भव ॥९७॥

परिपूर्णमयं रूपं
परिगृह्य शुभशुभम् ।
नित्यनैमित्तिकं कर्म
सदा कुर्वन्न लित्यते ॥९८॥

कृतानि वाङ्‌ मनः कायै-
र्लोके कर्माणि जन्तुभिः ।
तोषामन्यतमत्वेन
कथं कर्ता भविष्यति ॥९९॥

सर्वत्रावस्थितं शान्तं
स्वस्वरूपाभिधं शिवम् ।
अनुभूय वपुस्त्यक्त्वा
ज्ञाप्तिमात्रमयो भव ॥१००॥




"https://sa.wikisource.org/w/index.php?title=अद्वैतशतकम्&oldid=26051" इत्यस्माद् पुनः प्राप्तिः