अद्भुतसागरः - भागः २

विकिस्रोतः तः

{

               




   

 बन्धनाद्रुधिरोत्पत्तिर्वेपनं च न शस्यते ॥
 क्रीडन् काकैः कपोतैर्वा शारिकाभिस्तुरङ्गमः ।
 आत्मनः स्वामिनो वाऽपि तदा मरणवेदकः ॥
 दुर्मना ध्यानशीलश्च रक्तनेत्रो भयावहः ।
 जिह्वया लेढि वदनमात्मनस्तु यदा हयः ॥
 निर्निमित्तं पतति वा तदा स्याद्रिपुवृद्धये ।
 वामपादेन च तथा विलिखँश्च वसुन्धराम् ॥
 स्वपँस्तु वामपार्श्वेण दिवा वा न शुभप्रदः ।
 प्रवेपमाना ह्रेषन्तो निश्वसन्तस्तथा मुहुः ॥
 शकुन्मूत्रं विमुञ्चन्तो वेदयन्ति महद्भयम् ।
 उत्तिष्ठन्तो निषीदन्तः सन्ध्ययोर्दीनमानसाः ॥
 त्रस्ताः श्रान्ताश्च रुष्टाश्च ह्रेषमाणा भयावहाः ।

बृहद्यात्रायां वराहः ।

 अरोहणमन्यवाजिनां पर्याणादियुतस्य वाजिनः ।
 उपवाह्य तुरङ्गमस्य वा कल्पस्यैव विपन्नशोभनाः ॥
प्रद्वेषो यवसाम्भसां प्रपतनं स्वेदो निमित्ताद्विना
 कम्पो वा वदनाच्च रक्तपतनं धूमस्य वा सम्भवः ।
अस्वप्नश्च विरोधिनां निशि दिवा निद्रालसध्यानता
 सादोऽधोमुखता विचेष्टितमिदं नेष्ट स्मृतं वाजिनाम् ॥
वामैश्च पादैरभिताडयन्तो महीं प्रवासाय भवन्ति भर्तुः ।

शालिहोत्रः ।

 वामपादेन कुट्टित्वा स्कन्धं धुत्वाऽति वाजिनः ।
 यदा पृष्ठं च बहुशः सद्यो घोरं विनिर्दिशेत् ॥

बृहद्यात्रायां वराहः ।

अतीव ह्रेषन्ति किरन्ति बालान् निद्रारता वा प्रवदन्ति यात्राम् ।
रोमत्यजो दीनखरस्वराश्च पांशून् ग्रसन्तश्च भयाय दृष्टाः ॥

सुन्दरकाण्डे रावणवधनिमित्तम् ।

 "दीना अश्वाः प्रह्रेषन्ति न च ग्रासाभिनन्दिनः"[१]

भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "ध्यायन्तः प्रकिरन्तश्च व्याला वेपथुसंयुताः ।
 दीनास्तुरङ्गमाः सर्वे........."[२]

भागवते कृष्णोत्क्रान्तिनिमित्तम् ।

 "वाहाश्च पुरुषव्याघ्र लक्ष्यन्ते वदतो मम"[३]

अथ पुच्छप्रकरणम् । तत्र शालिहोत्रः ।

 दक्षिणेन तु मार्गेण बालान् प्रकिरते यदा ।
 बलिनोऽभ्यन्तराद्धीमान् बाह्यानां च पराभवम् ॥
 वामार्धेन प्रकीर्यन्ते बाला अश्वस्य नित्यशः ।
 प्रवासं तत्र जानीयाच्छीघ्रं चैव निवर्त्तनम् ॥
 सर्वतः प्रकिरन्तश्च यदा बालानभीक्ष्णशः ।
 चिरं प्रवासं जानीयात् कार्यस्य साधनं तथा ॥
 चक्रवद्यत्र बालानि प्रकिरन्ति तुरङ्गमाः ।
 अन्त्यत्र बलीयांसो मध्यानां च पराजयः ॥

वाह्यमाने तु विशेषः ।

 बालार्धं दक्षिणं यत्र वाह्यतां विप्रकीर्यते ।
 हयानां च जयं प्राहुर्बहुश्रियं च निर्दिशेत् ॥
 अथ बालाः प्रकीर्यन्तं स्नानमात्रस्य वाजिनः ।
 अश्वारोहाः सहायैस्तु अध्वानं तु प्रपेदिरे ।


 उभे पार्श्वे प्रकीर्यन्ते बालास्तु विमुखीकृताः ।
 महाभयं भवेत् तत्र शब्दे बिटबिटायिते ॥
 आकिरन्ति भयादश्वा बालान् स्निग्धमृदुप्रभान् ।
 चक्रवच्च प्रदृश्यन्ते निःशब्दाश्च भवन्ति च ॥
 विजयं चार्थसिद्धिं च निर्दिशन्ति तुरङ्गमाः ।
 प्रहृष्टानां प्रकिरणं घर्मार्त्तानां च वाजिनाम् ॥
 स्नातानां च विकीर्यन्ते न ते ग्राह्या निमित्ततः ।

अथ ह्रेषितम् । तत्र पराशरः ।

 स्निग्धगम्भीरह्रेषं जयाय ।

बृहद्यात्रायां वराहः ।

क्रौञ्चवद्रिपुवधाय ह्रेषितं ग्रीवया त्वचलया च सोन्मुखम् ।
स्निग्धमुच्चमनुनादि हृष्टवद्ग्रासरुद्धवदनैश्च वाजिभिः ॥
पूर्णपात्रदधिविप्रदेवतागन्धपुष्पफलकाञ्चनानि वा ।
द्रव्यमिष्टमथ वा परं भवेद्ध्रेषतां यदि समीपतो जयः ॥

शालिहोत्रः ।

 विप्रान् सुमनसो वह्निं कुमारीं पूर्णभाजनम् ।
 अश्वा दृष्ट्वाऽभिह्रेषन्ते विजयं तत्र निर्दिशेत् ॥
 दिवाकरं वीक्षमाणो जृम्भमाणः प्रह्रेषते ।
 संग्रामं निर्दिशेत् तत्र भर्त्तुश्च विजयं भवेत् ॥
 तुरगस्तु यदा व्यूहे ध्वजाग्रं वीक्ष्य ह्रेषते।
 हृष्टः स्वकर्णौ विन्यस्य नान्यं संप्रेक्षते हयः ॥
 क्षिप्रं तु संहरत्येतज्जयो ह्येषां प्रदृश्यते ।
 अनुरक्ताश्च ह्रेषन्ते युगपच्च यदा हयाः ॥
 संग्रामं निर्दिशेत् तत्र विजयं चापि स्वामिनः ।

 प्रशस्तकर्णाः स्निग्धाङ्गा रक्ताक्षा विजयोत्सुकाः ॥
 ह्रेषन्ते तुरगा यत्र तत्रापि विजवं ध्रुवम् ।
 त्रिषु स्थानेषु संक्रम्य शब्दमेव प्रकुर्वतः ॥
 सुवृष्टिं सुभिक्षं च विजयं चैव निर्दिशेत् ।
 खादन्तस्त्वतिह्रेषन्ते न च विस्फोटयन्त्युत ॥
 द्वार्याचार्यस्य वेद्यां वा सर्वासिद्धिं च निर्दिशेत् ।
 ग्रसित्वा खादनं चैव सतृणं चैव ह्रेषते ॥
 भूमिलाभं सुवृष्टिं च राज्ञश्च विजयं विदुः ।

विष्णुधर्मोत्तरे ।

 ह्रेषतस्तुरगान् ज्ञात्वा घोषो वा वाजिनो भवेत् ।
 तदा विजयमाख्याति स्वामिनो ध्रुवमेव तु ॥

शालिहोत्रः ।

 शिरसा तालुकण्ठे च अनुक्रोशं शनैः शनैः ।
 सिञ्जितं तद्विजानीयाद्ग्रासार्थेनानिमित्ततः ॥

ग्रासार्थेनानिमित्तत्वादफलं तदित्यर्थः ।

 चित्रसत्त्वा यदाश्वाश्च नाभिनन्दन्ति खादनम् ।
 परस्परेण ह्रेषन्ते विद्यादग्निभयं ध्रुवम् ॥
 शुष्केन्धनं च काष्ठं वा खादन्तो यत्र[४]ह्रेषते ।
 आदित्यं य उदीक्षन्ते विद्यादशनिजं भयम् ॥
 स्तम्भयित्वा तु लाङ्गूलं वीक्षमाणोऽपि ह्रेषते ।
 विजृम्भमाणो बहुशो वग्निना भयमादिशेत् ॥
 यदा स्थानगतोऽन्योन्यं ह्रेषमाणो ह्युदीक्षते ।
 स्वेदमानः पुरीषेण सद्यो रोगं विनिर्दिशेत् ॥


 सेनायां दीर्यमाणायां सेनापतिमुखाद्यदा ।
 भर्त्स्यमाना विह्नेषन्ते युद्धमत्युग्रमादिशेत् ॥

बृहद्यात्रायां वराहः ।

 सन्ध्यासु दीप्तामवलोकयन्तो ह्नेषन्ति चेद्युद्धपराजयाय ।

शालिहोत्र: ।

 उत्तिष्ठन्ति निषीदन्ति श्वसन्ति च मुहुर्मुहुः ॥
 वित्रासयन्तो ह्रेषन्ते तत्पराजयलक्षणम् ।
 स्थानात् स्थानात् प्रश्वसँस्तु उद्विग्नं यदि ह्रेषते ॥
 विद्यात् परेषां विजयमार्त्तनादः पराजयम् ।
 ग्रसन्तो ह्रेषिताश्चित्रं निश्वसन्ति च वाजिनः ॥
 निमित्तं तादृशं दृष्ट्वा निर्दिशेत् तु महद्भयम् ।
 बहुमूत्रपुरीषाश्च प्रस्रवन्ति यदा हयाः ॥
 ह्रेषिता दीननिर्ह्रादास्तदा तत्र पराजयम् ।
 भूम्यां ग्रसित्वा ग्रासं च पूर्णास्यो यदि ह्रेषते ॥
 अश्वारोहाश्व बद्धाश्वस्त्वन्नपानाय बोध्यते ।
 विच्छिद्य वा प्रहेषन्ते यदा खरतरस्वनाः ॥
 सेना तत्र प्रबध्येत चमूरपि विपद्यते ।
 उत्थाप्यमाना रोदन्ते दीर्घं न खरनिःस्वनाः ॥
 हयाँस्तु तादृशान् दृष्ट्वा राज्ञो मरणमादिशेत् ।

अत्रापि शाकुनमिश्रकाभिहतान् दृष्ट्वाऽऽदितोऽभिधायाह शालिहोत्रः ।

 यदि स्वाभिमुखो ह्रेषेन्न च विद्यादिदं फलम् ।
 पृथक् पृथक् दिशानां च फलं तासां प्रवक्ष्यते ॥
 ऐन्द्र्यां हयस्याभिरुतान्नृपस्य च महद्भयम् ।
 आग्नेय्यां वाऽप्यग्निभयं याम्यायां मरणं ध्रुवम् ॥

 क्षुधाभयं च नैर्ऋत्यां वारुणे जनसंप्लवम् ।
 वायव्यां च व्याधिनाशं सौम्ये च शत्रुरोधनम् ॥
 ऐशान्यां तुरगरुताद्द्विजातीनां महद्भयम् ।
 खे रवेत् तत् तदेवाशु विद्यात् तत्र महद्भयम् ॥
 रात्रौ रुतं भवेत् स्वस्मिञ्छत्रावह्नि रुतं भवेत् ।
 एवं शुभाशुभं ज्ञेयं समे समफलं मतम् ॥
 दृष्ट्वा त्वशुभमुत्पातं शान्तिं तत्र च कारयेत् ।
 [५]शान्त्युक्तामुपसर्गेषु वाहानां हितमिच्छता ॥
 उभौ कालौ तु विधिवद्ब्राह्मणान्मधुपायसैः ।
 पुष्कलां दक्षिणां वाऽपि हयागारेषु वाऽऽचरेत् ॥
 पुष्पलाजाक्षतैर्वाऽपि गोपुरेषु च कारयेत् ।
 इत्याह स्म च भगवान् शालिहोत्रोऽग्निनाशनम् ॥

अथ ज्वलितफलम् । तत्र पराशरः ।

मुखादग्निविस्फुलिङ्गोलंकाज्वालाप्रपतनमुत्तमाङ्गज्वलनं नाशाय ।

विष्णुधर्मेत्तरे ।

 नेत्रनासापुटप्रोथस्कन्धसासनमूर्धसु ।
 हयानां ज्वलनं शस्तमतोऽन्यत्र न शस्यते ॥

बृहद्यात्रायां वराहः ।

नासापुटप्रोथशिरोऽश्रुपातनेत्रेषु रात्रौ ज्वलनं जयाय ।
पालाशताम्रासितकर्बुराणां[६]चित्रांशुकाभस्य सितस्य चेष्टम् ॥

विष्णुगुप्तस्तु ।

 नासापुटाश्रुपातप्रोथशिरोलोचनेषु रजनीषु ।
 विजयाय प्रज्वलनं ताम्रसितहरितशवलानाम् ॥


शालिहोत्रस्तु ।

 निशायां यत्र दृश्येते नेत्रे दीपशिखाप्रभे ।
 विजयो नियतस्तस्य बलं कोशश्च वर्धते ॥
 यदा च ह्रेषमाणानामुल्का चन्द्रप्रभा द्रवा ।
 उल्का बाणाद्विनिष्पेतुः सुखं सर्वत्र इष्यते ॥
 स तेषां हसितो नाम पार्थिवे जयलक्षणम् ।
 येषां मुखादग्निनिभा उल्का वायुसमीरिता ॥
 निष्क्रामन्ति ह्रेष्यमाणे तत्रापि विजयो भवेत् ।
 धावतश्चक्रवद्यत्र सेनोत्साहश्च वर्धते ॥
 प्रयाति यत्र विज्ञेयं तत्र सर्वत्र सम्पदः ।

पराशरः ।

पृष्ठपुच्छगुदज्वलनं गात्रस्य धूपनं पश्चाज्ज्वलनं सेनापराजयाय ।

बृहद्यात्रायां वराहः ।

उत्सर्गान्न शुभदमासनात् परस्थं वामे ज्वलनमतोऽपरं प्रशस्तम् ।
सर्वाङ्गज्वलनमवृद्धिदं हयानां द्वे वर्षे दहनकणाश्च धूपनं वा ॥

 धूपनं ज्वलनं नेष्टं तथा धूमसमुद्भवः ।
 विस्फुलिङ्गोद्भवं चैव सकृत् पार्श्वानने तथा ॥

शालिहोत्रस्तु ।

 पश्चिमार्धे ज्वलमाने भर्त्तुर्विद्यात् पराजयम् ।
 दीप्यनाने तु पूर्वार्धे हयस्यैव पराभवम् ॥

गर्गस्तु ।

पश्चार्धभागज्वलने हयानां क्षिप्रं भयं शत्रुभवं नृपस्य ।
पूर्वार्धभागे ज्वलिते हयस्य राष्ट्रं विनश्यत्यचिरादशेषम् ॥

शालिहोत्रस्तु ।

 यदा तु सर्वकार्येषु ज्वलत्यङ्कारविस्तरैः ।

 तदा मासद्वयादूर्ध्वं राज्ञो मरणमादिशेत् ॥
 प्राक्पश्चिमार्धयोरेकदैव प्रज्वलनं भवेत् ।
 यदा ज्वलति पूर्वार्धं तुरङ्गो भीमदर्शनः ॥
 तत्र सेनापतेर्नाशस्तथा राष्ट्रविनाशनम् ।

यदा कृत्स्नं पूर्वार्धं ज्वलितं तदा सेनापतिराष्ट्रविनाशो भवतीत्यर्थः ।

 यदा ज्वलति सर्वत्र सपादतलमस्तकः ।
 तदा राष्ट्रविनाशस्तु राज्ञश्च मरणं भवेत् ॥
 उत्तमाङ्गस्य ज्वलने पुरोहितवधं विदुः ।
 ज्वलने चैकपक्षस्य अश्वनाशं विनिर्दिशेत् ॥
 वामपार्श्वे प्रज्वलिते मन्त्रिनाशमथादिशेत्
 पार्श्वे प्रज्वलिते चैव दक्षिणे मन्त्रिनाशनम् ॥

गर्गस्तु ।

 वामे तु पार्श्वे ज्वलिते हयस्यामात्यनाशनम् ।
 दक्षिणे ज्वलिते पार्श्वे मित्रनाशं विनिर्दिशेत् ॥

शालिहोत्रः ।

 ज्वलने चैकपक्षस्य अश्वनाशं विनिर्दिशेत् ।
 कोशागारविनाशः स्यादुदरे ज्वलितं भवेत् ॥
 मुष्कयोर्वाऽथ मेढ्रे च ज्वलने च विचक्षणः ।
 अन्तःपुरभयं विद्याज्जघने सुतनाशनम् ॥

बृहद्यात्रायां वराह ।

अन्तःपुरं नाशमुपैति मेढ्रे कोशक्षयं स्यादुदरे प्रदीप्ते ।
पायौ च पुच्छे च पराजयः स्याद्वक्त्रोत्तमाङ्गज्वलने जयश्च ॥
स्कन्धासनासज्वलनं जयाय बन्धाय पादज्वलनं प्रदिष्टम् ।
ललाटवक्षोऽक्षिभुजेषु धूमः पराभवाय ज्वलनं जयाय ॥

शालिहोत्रः ।

 यदा बालेषु पुच्छे वा जघने चापि वाजिनाम् ।
 अग्निर्भवति धूमो वा तदा विद्यान्महद्भयम् ॥
 कूर्मकुक्ष्यक्षिजङ्घासु यदा ज्वलति केसरी[७]
 तदा भर्त्तुः प्रवासः स्यात् सर्वशस्यविनाशनः ॥
 कीर्यन्ते यदा बाला ज्वलमानस्य वाजिनः ।
 चित्रवृष्टिस्तु पर्जन्यस्तस्मिन्नुत्पातदर्शने ॥
 ज्वलन्ति बाला धूमानि यदा प्रायेण वाजिनाम् ।
 तदाऽस्त्रेण विजानीयाद्बुधः सेनापतेर्ध्रुवम् ॥
 बालैरभीक्ष्णं प्रकिरन् स्फुलिङ्गश्च यदा भवेत् ।
 वरूथिनी तु सेनायाः क्षिप्रं शस्त्रेण बध्यते ॥

गर्गः ।

 सौम्याग्नेयं जगत् सर्वं हयास्तेजोगुणाधिकाः ।
 हुताशनप्रणीताश्वः परमाय प्रजायते ॥
 दीप्यते ग्रासरहितस्ततस्तेजोमया हयाः ।
 तस्मिन्नग्नौ शरत्काले मदकाले च वाजिनः ॥
 न ग्राह्याणि ज्वलनानि नृत्यगानादिकेषु च ।
 समग्रफलदा न स्युर्याज्ञिके ज्वलानि तु ॥

शालिहोत्रः ।

 तन्मुखं सर्पिषाऽभ्यक्तं प्रोक्षयेद्गौरशर्षपैः ।
 अहतक्षौमसंवीतमाल्यदामविभूषितम्
 प्रदद्याद्दैवतेभ्यो वा द्विजेभ्यश्चैव तं तथा ।
 सप्तरात्रात् परं वाऽपि निष्क्रमेणोपपादयेत् ॥


 सुवर्णगोप्रदानेन भूमिदानेन वा पुनः ।
 देवेभ्यः प्रणमेन्नित्यं प्रातरुत्थाय मानवः ॥
 भोजयेद्ब्राह्मणाँश्चैव दध्ना सर्पिःफलोदनैः ।
 सायं प्रातस्तर्पित्वा ब्राह्मणान् मधुपायसैः ॥
 पुण्याहं वाचयेच्चैव स्वस्त्यायनकसयुतम् ।
 व्रतोपवासैः संतिष्ठेद्यमेन नियमेन च ॥
 वायव्यैर्वारुणैश्चैव तथा चेन्द्रपुरोगमैः ।
 आश्विनैर्वैष्णवै रौद्रैः सावित्रैश्च पुरोहितः ॥
 सदा दुर्गामराणां च सावित्राणां तथा तथा ।
 एवं कुर्वीत शालायां सप्तरात्रमतन्द्रितः ॥

अथ पुष्पितम् । शालिहोत्रः ।

 विवर्णा विन्दवो वर्णाः प्रभवन्ति शरीरजाः ।
 अग्रदन्तादिभागेषु तत् स्थानं पुष्पसंज्ञितम् ॥
 वर्णेऽसवर्णं पुष्पं तु सूक्ष्मत्वादुपलभ्यते ।
 शुभाशुभव्यञ्जकानि संस्थानस्थानवर्णतः ॥
 अग्रदन्तेषु यस्य स्युरुत्तरंष्वधरेषु च ।
 स्निग्धश्वेतानि पुष्पाणि खुरेष्वपि तथैव च ॥
 अर्थागमं तेषु विद्यादह्नां सप्ततिभिर्बुधैः ।
 अपि वा सप्तभिः पर्मासैः सप्तभिरेव च ॥
 स्थानैरेषु विवृद्धिः स्यात् केशेष्वर्थागमं विदुः ।
 निगाले भोजनार्थाय अर्थलाभं च निर्दिशत् ॥
 दन्तात् पुत्राँश्च लभते कण्ठे पुष्पाणि यस्य तु ।
 ग्रीवोपस्कन्धक्रोडेषु पुष्पितेषु धनागमः ॥

 अंशयोः पुत्रलाभाय बाह्वोर्मित्रविवृद्धये ।
 जानुजङ्घाकलाकूर्चैः पुष्पितैस्तु सुरप्रियः ॥
 कक्षयोः कुक्षिपार्श्वेषु पृष्ठे वा चार्थसिद्धये ।
 सेनापत्यं तु नाभ्यंशे विजानीयाविचक्षणः ॥
 मुष्कयोः पुष्पिते वाहे पुत्रोत्पत्तिं विनिर्दिशेत् ।
 सर्वाङ्गपुष्पितो वाजी श्वेतैः सर्वार्थसाधकैः ॥
 हितो धनकरो नित्यं पुत्रपौत्र विवर्द्धनः ।
 श्वेतैः श्वेतानि वाऽत्यर्थे स्निग्धानि वसनानि च ॥
 अर्थलाभाय पुष्पाणि यस्य तत्सदृशानि चेत् ।
 पुत्रपौत्रविवृद्धिश्च अर्थवृद्धिस्तथैव च ॥
 वर्धते वाऽश्वकोशेन चक्रं वाऽस्य विवर्धते ।
 ससत्त्वानां प्रशस्तानामायुधानां तथैव च ॥
 छत्रध्वजपताकानां वेदितव्याकृतीनि च ।
 नन्द्यावर्त्तसवर्णानि तथा शङ्खाकृतीनि च ॥
 पुष्पमाङ्गल्यरूपाणि वर्णाद्वर्णोत्तमानि च ।
 स्निग्धानि समरूपाणि प्राङ्मुखानि च वाजिनाम् ॥
 तान्याहुर्धनलाभाय विपरीतस्तु गर्हितः ।

पराशरस्तु ।
 अथ पुष्पं श्वेतं स्निग्धमवर्णस्य प्रशस्तम् । श्वेतस्य कृष्णं पीतं रक्तं च । यस्याश्वस्य ललाटे श्वेतकलेन्दुतारकासंस्थानं वा पुष्पं स्यात् तदनुसारिविजयं विद्यात् । आप्रोथाक्तमलं यस्य हिरण्यपुण्ड्रकं धाम स्त्रीविजयावहम् । यस्य वा स्निग्धैः सर्वाङ्गस्थैः सन्नाहानुकारं तु विभवराष्ट्रविजयावहम् । शालिहोत्रः ।

 वक्त्रयोर्धनलाभाय कुक्षिरोगोऽथ वोदरे ।
 जघने विक्रमं विद्याद्विनाशो हृदये तथा ॥
 आयासादन्नापनाय प्रोथे पुत्रवधो भवेत् ।
 सृक्किणीचिवुके चैव विज्ञेयः सोमपानदः ॥
 घोणाशफे शस्त्रमृत्युरुपसर्गस्तु पादयोः ।
 केशान्ते धनलाभाय दतोर्दुःखं विनिर्दिशेत् ॥
 गण्डयोर्भक्ष्यलाभाय कटे पुत्रवधाय च ।
 शङ्खे भ्रातृवधं विद्याच्छिद्रभागे तथैव च ॥
 वामकर्णे प्रवासाय क्षेत्रवृद्धिस्तु दक्षिणे ।
 हनुक्त्रयोर्भयाय शटयोः शीर्षभेदनम् ॥
 स्फिग्गुदमूत्रकोशेषु मांसलोरुखुरेषु च ।
 वाहनाशं पुष्पितेषु संग्राममभिनिर्दिशेत् ॥
 अपायं बालमूलेषु सर्वशस्यविनाशनम् ।
 कर्णे श्वेतानि धान्यानि विद्याद्वर्णानुवर्णयोः ॥
 पीतकेषु च संग्रामं बालार्कसदृशेषु च ।
 कृष्णे युद्धं विजानीयाद्यातुश्चापि वधं युधि ।
 तीव्रं भ्रातृवधं विद्याद्दुर्गेषु विषमेषु च ।
 पुष्पेषु पुष्पं याप्यं स्याद्वर्णतोऽन्यतरं भवेत् ॥
 राजा विनश्यते तेन राष्ट्रं चैव विनश्यति ।
 श्वशृगालवायसानामाकृतीनि तु यानि तु ॥
 विवर्णानि च रूक्षाणि विषमाणि भवन्ति चेत् ।
 दुर्मुखानि तु यानि स्युस्तथा पश्चान्मुखानि च ॥

 तानि राष्ट्रस्य नाशाय राष्ट्रभ्रंशकराणि च ।
 बालको यस्य पत्राणां राज्ञस्तानि विनाशने ॥
द्विवर्णे तु पुष्पे फलं साधु दद्यात् विकल्पैरनेकैस्तथा तस्य तत् स्यात् ।
चतुर्वर्णपुष्पं समग्रं सुवर्णं फलं चात्र वेद्यं यशोऽग्र्यं प्रभुत्वम् ॥
हये श्वेतपुष्पे भवत्यश्वभर्त्ता रणे शत्रुहन्ता परं चाश्वरत्ने ।
हये रक्तपुष्पे व्रजत्यश्वभर्त्ता विनाशं विवादं परं कीर्त्तिनाशम् ॥
हये कृष्णपुष्पे व्रजत्यश्वभर्त्ता विपत्तिं विनाशं च सङ्ख्ये हरीणाम् ।
हये पीतपुष्पे व्रजत्यश्ववर्णानुवर्णेषु तुल्यं फलं शास्त्रयोगात् ॥
 यथा क्षेत्रे च दशधा विभक्तं लक्षणं पृथक् ।
 पृथक् पुष्पे फलं चैव तच्च विद्यान्निमित्तजम् ॥
 तस्मान्निमित्तजं ग्राह्यमादेश्यं च निमित्तवत् ।
 एवमुक्तानि पुष्पाणि यच्च प्रोक्तमशेषतः ॥

अथ दन्तादिवैकृत्यम् । तत्र पराशरः ।
 अधिकैर्दन्तैः स्वामिनो धनक्षयं विद्यात्। उपर्यधिकैः स्वामिनां संग्रामे वधं ह्रस्वैः करालैर्विसृमरैर्भर्त्तुरनर्थं विनाशं च ।
शालिहोत्रस्तु ।

 चत्वारिंशस्तथाऽश्वानां दशनाः परिसंख्यया ।
 दन्तसंख्यानवैषम्यात् फलं वैशेषिकं शृणु ॥
 हयस्त्वधिकदन्तस्तु प्रजाघ्नो भर्त्तृनाशनः ।
 उच्चैस्तु दर्शनैर्वाऽपि भर्तृघ्नो दारदूषणः ॥
 दन्तपूर्णमुखं चैव वर्जयेत् कुलनाशनम् ।
 अप्रशस्तेन रूपेण दन्तमूलाद्द्विजोऽधिकः ॥
 निर्गतो यस्य सोऽधस्तात् करिदन्तकुलान्तकृत् ।
 विषमैर्दर्शनैर्वाजी भर्त्तृघ्नः परिकीर्त्तितः ॥

 नो दानाच्चान्नपानस्य युक्तिदन्तस्तुरङ्गमः ।
 अधरेषु करारालेषु क्षुद्भयं स्वामिनो भवेत् ॥
 उत्तरेषु करालेषु भर्त्ता जीयेत शत्रुभिः ।
 वक्त्रजैः पूरितैर्वाजी विज्ञेयो वित्तनाशनः ॥
 एकारतुल्यदन्तोऽश्वो वित्तानन्दावहः स्मृतः ।
 विपरीतात् ततो धान्यं फलं ये शुभवक्त्रजाः ॥
 उष्ट्रे चैवं फलं ज्ञेयं शुभं वाऽत्र शुभेतरत् ।
 होतव्यं पत्तने नित्यमशुभं नाशुभं भवेत् ॥
 दंष्ट्रापतनभङ्गेषु लक्षणं शृणु वाजिषु ।
 राजपत्नीवधं वामे दक्षिणे मन्त्रिदूषणम् ॥
 पक्षयोस्तु विजानीयात् तीर्यग्भागे महद्भयम् ।
 दंष्ट्राणां तिर्यग्नृपध्वसं तेन समादिशेत् ॥
 दंष्ट्राश्चतस्त्रो भ्रष्टन्ते युगपद्यत्र वाजिनाम् ।
 सामात्यस्य सराष्ट्रस्य राज्ञस्तत्र क्षयो भवेत् ॥
 दक्षिणा ह्युत्तरा दंष्ट्रा द्वे चाप्यधरतः समम् ।
 पतन्ति येषां वै भर्त्ता पीड्यते तस्य सान्वयः ॥
 अधस्ताद्दक्षिणा दंष्ट्रा द्वे चाप्यधरतः समम् ।
 पतन्ति यस्य वाहस्य तस्य भर्त्तुर्वधो ध्रुवम् ॥
 वामाधस्ताद्यदा दंष्ट्रा ये चाप्युत्तरतः समम् ।
 राजा च युवराजश्च क्षिप्रं तस्य विनश्यति ॥
 अधरोत्तरदंष्ट्रे तु भ्रष्टेते युगपद्यदा ।
 एकस्यैव तदा राज्ञो वधः क्षिप्रं विधीयते ॥
 यदा तपरिजा दंष्ट्रा दक्षिणस्थैव भ्रष्टते ।

 युवराजवधश्चैव वामे कन्यावधाय च ॥
 यदा चाधरतो दंष्ट्रे भ्रष्टेते सममेव तु ।
 पार्थिवस्याभिषिक्ताया देव्यास्तत्र क्षयो भवेत् ॥
 यदा त्वधरजा दंष्ट्रा भ्रष्टतेऽश्वस्य दक्षिणा ।
 तदा बलक्षयं विद्याद्वामे कोषक्षयो भवेत् ॥
 उत्तराधरजे दंष्ट्रे भ्रष्टेते स्वस्वदक्षिणे ।
 ताभ्यां मन्त्रिक्षयं विद्याद्वामाभ्यां मन्त्रिदूषणम् ॥
 उत्तरा दक्षिणायाता वामा स्यादधरायता ।
 ताभ्यां जनपदः क्षीयेदितराभ्यां पुरक्षयः ॥
 दंष्ट्राभङ्गे फलं कृत्स्नमेतत् तु परिकीर्त्तितम् ।
 पतनेऽप्येवमेव स्याद्दोषः स्पष्टतरस्तु सः ॥
 सदसा चोत्तरा यस्य युगपद्भ्रष्टते यदा ।
 क्षुद्भयं तत्र जानीयात् पुरराष्ट्रस्य दारुणम् ॥
 अमाङ्गल्यस्तु सोऽश्वो वै न योग्यो राजवाहने ।
 विज्ञेयो राष्ट्रनाशश्च मध्यमो यदि भ्रष्टते ॥
 प्रत्यन्तकोपो विज्ञेयो भग्नयोश्च रिपुक्षयः ।
 अधरौ विघर्षतो दंष्ट्रे भग्ने मन्त्र्यग्रदूषणम् ॥
 मध्यमे बलकोषाणां परिभग्ने क्षयाय च ।
 एकैकपतने तेषां विन्यस्तपतनेऽपि वा ॥
 दन्तभङ्गेषु वाहानां दोषाः पादोपजीविनाम् ।
 विन्यस्तपतने वाऽपि दोषास्तु परिचारिणाम् ।
 इत्येषु दन्तभङ्गेषु लक्षणं परिकीर्त्तितम् ।
 योगाश्चेद्द्विपदंष्ट्रासु फलं संपूर्णमिष्यते ॥

 मध्ये मध्यफलं विद्याच्छेदे स्वल्पफलं भवेत् ।
 मूले व्यक्तफलं विद्याद्भङ्गे तुरगदन्तिनाम् ॥
 नाग्राह्यं लक्षणं भङ्गे भक्ष्यार्थदशनस्य वा ।
 दिवसस्य च रात्रेश्च त्वेकान्येन विभावयेत् ॥
 क्षिप्रं मध्यं चिराच्चैव चित्रं दृष्टं फलोदयम् ।
 पूर्वाह्णे क्षिप्रपाकः स्यान्मध्याह्ने तु चिराद्भवेत् ॥
 अपराह्णे च रात्रौ च चिरपाकफलयोदयः ।
 तिथिनक्षत्रयोगेषु दिवसेषु गुरुष्वपि ।
 फलोदयो यथोद्दिष्टः स एवाल्पफलो भवेत् ।
 वारुणे रुद्रदेवत्ये नक्षत्रे सर्वसन्धिषु ॥
 चन्द्रसूर्योपरागेषु दिवसेषु गुरुष्वपि ।
 अविकारि यदाऽश्वस्य दंष्ट्राभङ्गे महत् फलम् ॥
 विकारा जरसा चैवमश्वानां ये भवन्ति तु ।
 न तत्र तैः शुभो ज्ञेयोऽशुभो वा विफलोदयः ॥
 नाभिघातादकस्माच्च पतनं फलदं भवेत् ।
 सुवर्णगोप्रदानैश्च द्विजेभ्यस्तर्पणेन च ॥
 शान्तिः पुण्याहघोषैश्च समयो बलवान्नृप ।
 काले तु दृष्ट्वा उत्पाताँस्तत्र सद्यः फलोदयः ॥
 राज्ञः सबलराष्ट्रस्य तत्र विद्यान्महद्भयम् ।

ऊर्ध्वमधश्च मध्यदन्तचतुष्टयाग्रस्ठौ दन्तौ दृष्ट्वा पराशरः ।
 योऽजातवृषणः कर्णै यस्य कराङ्गुष्टपर्वप्रमाणौ कर्णमलयोः शङ्खे स्यातां सोऽश्वो राष्ट्राद्वहि कार्यः । शालिहोत्रस्तु ।

 मुष्कमूलं समाश्रित्य मूत्रकोशस्य पार्श्वयोः ।
 समौ च संहितौ जातौ गोस्तनाकृतिसंस्थितौ ॥
 प्रवालाङ्कुरसंस्थानौ वटाङ्कुरनिभावपि ।
 चर्मकीलाकृतिसमौ पिटकाकृतिसंस्थितौ ॥
 एवंविधो भवेद्यस्य तमश्वं स्तनितं विदुः ।
 अमङ्गल्यं तु तं विद्याद्राष्ट्रभर्त्तृविनाशनम् ॥
 राजा त्यजेत् तु तं शीघ्रं तादृशं पापलक्षणम् ।
 गोविषाणाग्रसंस्थानं कुटशृङ्गाग्रसंस्थितम् ॥
 गोस्तनाकृतिसंस्थानं करीराग्रोपमं सथा ।
 चर्मकीलाकृति तथा पिटकाकृति चैव वा ॥
 कराङ्गुलनिभं वाऽपि स्थूलं वा यदि वा कृशम् ।
 दीर्घं ह्रस्वं खुरं श्लक्ष्णं कठिनं मृदु चैव वा ॥
 सटामध्ये तु वा बालं ललाटे मधुकेऽपि वा ।
 यस्य तं शृङ्गिणं विद्याद्राज्ञो राष्ट्रविनाशनम् ॥
 यस्मिन् देशे च वसति स च देशो विनश्यति ।
 तस्मात् तं तु रिपोर्देशे त्यक्त्वा शान्तिं प्रयोजयेत्
 अधःस्तनी च शृङ्गी च द्वावेतौ राष्ट्रनाशनौ ।
 वर्जितौ सर्वकालेषु कालचक्रे यमौ तु तौ ॥
 हयाश्च द्विखुरा ये च शृङ्गिणः स्तनिनोऽपि च ।
 त्रिकर्णा: सविषाणाश्च सपुष्पाः सद्विजास्तथा ॥
 ये चान्यूनाधिकाङ्गाश्च जायन्ते तु सदंष्ट्रिणः ।
 यच्चान्यदीदृशं किञ्चित् सर्वमुत्पातलक्षणम् ॥

 यस्मिन्नेतादृशं तस्मिन् पुरे जनपदेऽपि वा ।
 राज्ञस्तु व्यसनं विद्यात् स च देशो विनश्यति ॥
 तस्मादेवंविधानश्वान् परदेशे निवेशयेत् ।
 उत्पांतानीदृशान् दृष्ट्वा शान्तिकर्माणि कारयेत् ॥
 पुण्याहघोषैर्होमैश्च देवब्राह्मणपूजनैः ।
 नियमैर्मेदिनीदानैः शान्तिर्भवति तद्विधैः ॥
 यस्यावर्त्तस्तु ककुदि स च वा व्यसनार्दितः ।
 भर्त्तारं सान्वयं हन्याद्यच्च भर्त्तुः कुलोत्तमम् ॥
 न तं शालासु वध्नीयाद्भयं चैव विगर्हितम् ।
 वाहनश्च विनाशाय राज्ञे राष्ट्रवधाय च ॥
 सर्वार्थनाशनं रौद्रं जातमात्रं विनाशयेत् ।
 अवतीर्य च संग्रामे स्वस्तिमान् न निवर्त्तते ॥
 हस्तस्पर्शेन चक्षुर्भ्यां दूरतः परिवर्जयेत् ।
 यत्नेन याति संग्रामं स जीवन् न निवर्त्तते ॥
 एष चैवानुरूपेण धूमकेतुरिवोत्थितः ।
 यत्र तिष्ठत्यसौ वाजी देशे जनपदेऽपि वा ॥
 राजा च म्रियते तत्र क्षुद्भयं तत्र जायते ।
 न च वर्षति पर्यन्यः काकुदी यत्र तिष्ठति ॥
 दृष्ट्वा सूर्यं प्रपश्येत् तु स्पृष्ट्वा स्नानं सवाससा ।
 द्विजेभ्यो वा प्रदातव्यः परराष्ट्रेऽपि वा त्यजेत् ॥
 तस्मात् तं तु रिपोर्देशे त्यक्त्वा शान्ति समाचरेत् ।

 अत्रानुक्तविशेषशान्तिषु हयोत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरेऽश्वाद्भुतावर्त्तः ।

तत्र गर्गः ।

 शिवाय स्वामिनो रात्रौ बलीवर्दो नदन् भवेत् ।
 उत्स्सृष्टवृषभो राज्ञो विजयं संप्रयच्छति ॥

पराशरः ।
 बलीवर्दोऽक्षतश्च योऽनिमित्ततो वित्रस्तः प्रणदन्नावेदयति भयम् । दक्षिणेन यदा भूर्यन्नहृष्टरूपमुत्क्राम्य जघनचरणान् धूनयत्यनर्थः । अन्यदेशाक्रामणं भिन्नवृत्तिस्तद्वसुभृतः ।
वसन्तराजस्तु ।

 प्रशस्यते दक्षिणतश्च चेष्टा तथा निशीथे निनदो वृषस्य ।
 वामे च भागे गमनं वृषस्य चेष्टा च वामा महतां हिताय ॥

श्रीभागवते कृष्णोत्क्रान्तिनिमित्तम् ।

"नाहन्यन् वृषभा व्रजे"[८]

मयूरचित्रे ।

 मुह्यन्ति वृषभा यत्र निबद्धा गृह एव च ।
 माद्यं वाऽपि भवेद्गेहे धनहानिश्च जायते ॥
 हव्यमष्टोत्तरं तत्र त्र्यम्बकेनाम्बुपत्रकम् ।
 सहस्रं दक्षिणा गोस्तु ब्राह्मणाय शुभं तथा ॥

वसन्तराजः ।

अर्धाय नाशाय च तुल्यकाले पार्श्वद्वयस्थौ महिषौ भवताम् ।

औशनसे ।

 यस्य राज्ञो जनपदे नित्यमेव गवां क्षयः ।
 भयं तत्र विजानीयादचिरात् समुपस्थितम् ॥


नारदः ।

 रुधिरं प्रसवेद्यत्र दुह्यमानासु धेनुषु ।
 प्रभुश्व म्रियते तत्र धनहानिर्न संशयः ॥

भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् ।
 ता गाव: प्रस्रुता वत्सैः शोणितं प्रक्षरन्त्युत"[९]

भागवते जगदुद्वेजकहिरण्याक्षोत्पत्तौ ।

 "गावोऽत्रसन्नसृग्दोहाः"[१०]

रोधिरदोहे तु शान्तिमाह नारदः ।

 दधिमधुघृताक्तायाः पालाश्याः समिधोऽयुतम् ।

मयूरचित्रे तु ।

 गवां रक्तत्य संदोहे राजा स्याद्रिपुगोचरः ।
 दुह्यन्ते रुधिरं गावस्तण्डुला अकुरन्ति वै ॥
 अर्वाक् स वत्सरं नश्येत् प्रभुर्देशो भवेद्वनम् ।
 अष्टोत्तरसहस्रं तु महाव्याहृतिभिः शुचि ॥
 उदुम्बरसमिद्धेऽग्नौ दानं गोर्द्विजभोजनम् ।

तत्रैव ।

 धेन्वाः संदुह्यमानायाः कृमयः संभवन्ति च ।
 ऐन्द्रीं शान्तिं ततः कुर्यात् सहस्रं जुहुयादथ ॥
 त्रातारमण्डलमिति मत्रेणाष्टोत्तरं शुचि ।
 चरुकर्माशनं चास्य ब्राह्मणाँस्तर्पयेत् ततः ॥
 पायसैर्मधुसंयुक्तैर्दधिक्षीरगुडोदनैः ।
 महोत्पातोपशान्त्यर्थं हुतान्ते बहुदक्षिणाः ॥

गर्गः

 धेनुर्धेनुं पिबेद्यत्र ह्यनड्वाननुडुहस्तथा ।


 स्वयमेवाथ पिबते धेनुः स्वाङ्गमथापि वा ॥
 प्राप्तेषु त्रिषु मासेषु परचक्रागमं वदेत् ।

गार्गीये ।

 यथा वृषोऽतिबलवाञ्छृङ्गाभ्यामुत्किरेन्महीम् ।
 नर्दते च तथा गौर्वा स्वामितो मरणं भवेत् ॥

मयूरचित्रे ।

 स्त्री गवी नर्दते यत्र मृत्युः षण्मासतो भवेत् ।
 जातवेदसमन्त्रेण जुहुयादयुतं शुचि ॥
 अपामार्गस्य समिधो होतव्या गौश्च दक्षिणा ।

नारदस्तु ।

 स्त्री गवी नर्दते यत्र दोषं तत्र विनिर्दिशेत् ।
 कुलोत्सादो भवेत् तत्र धनहानिश्च जायते ॥
 धान्यानामयुतं तत्र घृताक्तानां समारभेत् ।
 श्रीश्च ते इति मन्त्रेण धेनुं दद्याच्च दक्षिणाम् ॥
 एवं निवर्त्तिते होमे ततः सम्पद्यते शुभम् ।

वैजवायः ।

 गोस्तथोलूषलघ्राणे प्रयत्नविधृतेऽपि वा ।

रौद्री शान्तिरिति शेषः ।
विष्णुधर्मेत्तरे ।

 भूमिं पादैर्विनिघ्नन्त्यो दीना भीता अकारणम् ।
 अन्योन्यलग्नपुच्छाश्च गावो भयकरा मताः ॥
 अभक्ष्यं भक्षयन्त्यश्च गावो दन्ताँस्तथा स्वकान् ।
 त्यक्तस्नेहाश्च वत्सेषु चार्भक्षयकरा मताः ॥
 भयाय स्वामिनो ज्ञेयमनिमित्तं रुतं गवाम् ।
 निशि चौरभयाय स्याद्विकृतिर्मृत्यवे तथा ॥

वराहसंहियाम् ।

गावो दीनाः पार्थिवस्याशिवाय पादैर्भूमिं कुट्टयन्त्यश्च रोगान् ।
मृत्युं कुर्वन्त्यश्रुपूर्णायताक्ष्यः पत्युर्भीतास्तस्करानारुवन्त्यः ॥

भागवते कृष्णोत्क्रान्तिनिमित्तम् ।

 "रुदन्त्यश्रुमुखा गावः"[११]

पराशरः ।

 धेनुकानामनिमित्तमुत्क्रामः प्रकृत्यारोग्यम् ।

वसन्तराजः ।

हम्भारवो वा समभीष्टसिद्ध्यै गवां तथा स्युर्निशि हुङ्कृतानि ।
गावो निशीथे सरवा भयाय जयाय राज्ञे दिवसे रटन्त्यः ॥
भृशं विरुद्धा यदि मक्षिकाभिस्तदाऽऽशु वृष्टिं सरमात्मजै[१२]र्वा ।
हम्भारवोन्मिश्रितहुँकृता या वत्सोत्सुका हर्षपरीतचित्ताः ॥
ज्ञेयाः सुरभ्यः शुभदाः सदैव गोभिः समानाः शकुने महिष्यः ।

वराहसंहितायाम् ।

आगच्छन्त्यो वेश्म हम्भारवेण संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः।
आर्द्राङ्ग्यो वा हृष्टरोमाः प्रहृष्टा धन्या गावः स्युर्महिष्योऽपि चैवम् ॥

विष्णुधर्मोत्तरे तु ।

 आर्द्राङ्गयो हृष्टरोमाश्च प्रविशन्त्यस्तथा गृहम् ।
 सिंहलग्नमृगा[१३] वाऽपि विज्ञेयाः स्वामिवृद्धये ॥
 महिष्यादिषु चाप्येतत् सर्वं वाच्यं विज्ञानता ।

वसन्तराजः ।

अजा निशीथे यदि रौति तेन सर्वाणि गेहे लभते सुखानि ।

अत्रानुक्तविशेषशान्तिषु वृषाद्युत्पातेषु सावित्रीमव्रकलक्षहो-


मादिका सामान्यशान्तिर्मृगपक्षिविकारविहितौत्पातिकफलगुरुलघवमवगम्य कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वृषमहिषाद्यद्भुतावर्त्तः ।
अथ विडालाद्यद्भुतावर्त्तः ।

तत्र वसन्तराजः ।

 शस्तो रुदन्नामिषपूर्णवक्त्रो रक्ताननो नादकृदप्रशस्तः ।
 नानाप्रकारैर्विरुतैः समेतो निन्द्यो विडालः खलु युध्यमानः ॥

यात्रापरमेतत् ।
पराशरः ।
 अथ विडालो दीप्तायामेकस्वरो व्याहरन् शस्त्रकोपं भयं च करोति । दीप्तायां भयमेवाशु । मुक्तः कान्तारे तु स्त्रीजनक्षयाय । खरोऽनुप्रधावन् ग्राममध्ये घोरस्वरो भयाय । उच्चैर्नदन् भैरवं नर्दत्यकस्माच्छ्रेष्ठभयाय महते ।
 अत्रानुक्तविशेषशान्तिषु विडालोत्पातेषु सावित्रीमन्त्रकलक्षहोमादिका शान्तिर्मृगपक्षिविहितौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
हरिवंशे बाणपराजयनिमित्तम् ।

 "ननादान्तर्हितो रात्रौ वृषदंशो जगर्ज च"[१४]

महाभारते भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 “अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः ।
 प्रणादं युध्यतो रात्रौ घोरौ नित्यौ पुरक्षये”[१५]

अत्र वातजोयस्कारवैकृत[१६] विहिता शान्तिः कर्त्तव्या ।

इति
श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे विडालाद्भुतावर्त्तः ।


तत्र पराशरः ।

 अथ श्वा श्वेतलोहितपीतकृष्णो ब्राह्मणक्षत्रियवैश्यशूद्राणां क्रमशो निमित्तमभिदधाति ।
वसन्तराजः ।

श्वेता द्विजाः क्षत्रियकाश्च रक्ताः पीताश्च वैश्या असिताश्च शूद्राः ।
विमिश्रवर्णाः शुनकास्तथेह भवन्ति नानाविधकानुसंज्ञाः ॥
स्वजातिरूपेण विशेषतोऽमी सर्वे समस्तैरपि वा गवेष्याः ।
कौलेयकास्तेषु वदन्ति शस्तं कार्येषु सर्वेष्वपि कृष्णवर्णम् ॥
दृष्ट्वा शशाङ्कं यदि निर्विशङ्कः करोति शब्दं मुदितान्तरात्मा ।
तज्जागरूको विदधाति सौख्यं जनस्य सर्वं दुरितं निहन्ति ॥

वराहसंहितायाम् ।

गोभिः सार्धं क्रीडमानः सुभिक्षं क्षेमारोग्यं वाऽभिधत्ते मुदं च ।

वसन्तराजः ।

 उपस्थितप्राक्तनपुण्यपाकात् पुरः स्थितो दक्षिणपाणिना श्वा ।
 शिरः स्पृशन्नुल्लसितान्तरात्मा यो मण्डलो मण्डललाभदोऽसौ ॥
 क्रीडां विधत्ते शुभवेषितो यः सोऽभीष्टयोगं विदधाति पक्षः ।
 पक्षो हरिद्रामिषगैरिकाद्यैः पूर्णाननो वक्ति सुवर्णलाभम् ॥
 दृष्टिं पुरः पुष्पफलाङ्कुरेषु चिरं दधानो निधिलाभकारी ।
 यः पल्लवैः क्रीडति वृक्षमूलं तथेक्षतेऽसौ वदतीति सौख्यम् ॥
 रक्ताक्तमूर्धाभिमुखं समेति यो मण्डलः सोऽवनिलाभहेतुः ।
 स्थितो न तेषां यदि च प्रदेशे पादेन कण्डूयति दक्षिणेन ॥
 शिरःप्रदेशं नयने चरस्य तद्वित्तलाभं विदधाति सद्यः ।

 स्थाने मनोज्ञे विदधाति मूत्रं संतुष्टवेषः शुभवेषितः श्वा ॥
 रम्यस्वनो यः सरमासुतोऽसौ करोत्यभिप्रेत्ययथार्थलाभम् ।
 सिद्धान्नविद्याफलमांसवक्त्रो लाभाय पक्षोऽभिमुखः सदैव ॥
 सहस्रपादादिकलादिकस्तु स्तोकैर्दिनैः स्यान्महते भयाय ।
 दक्षिणां यदि करोति चेष्टितं दक्षिणेन चरणेन मण्डलः ॥
 लाभदो यदि यदा तदा भवेद्वामकेन खलु तत्र लाभदः ।
 कण्डनीमुशलकाञ्जिकधानीसूर्पकैर्विकृतदक्षिणचेष्टम् ॥
 लभ्यते बहुधनं शुनि मूत्रं तेषु कुर्वति तु भोज्यमभीष्टम् ।
 अङ्कूरिते पल्लविते सपुष्पे फलान्विते भूरुहे सारमेयः ॥
 पुष्पे फले क्षीरितरौ च पङ्के सम्पूर्णकुम्भेऽम्भसि गोमये च ।
 केदारमृत्स्नामणिकेष्टकासु प्रासादकुण्ड्योपानत्पादुकेषु ॥
 स्थानेषु वस्तुष्वपि शोभनेषु भूम्यादिलाभाय करोति मूत्रम् ।
 शय्यासनच्छत्र हुताशनेषु च्छिद्रेषु धूलीनिवर्हेषु पक्षः ॥
 स्थानेषु मूत्रं विसृजत्ययत्नः स्यादर्थलाभाभिमतो नराणाम ।
 मूत्रं विधायाभिमुखं प्रयाति यो जागरूकः शुभदः स पुंसाम् ॥
 कार्येषु सर्वेष्वपि सर्वकालं न मूत्रयन्त्री शुनकी प्रशस्ती ।
 यस्येक्ष्यते वेश्मनि सारमेयः किरन्नसौ गोमयमांसविष्ठाः ॥
 रामां मनोज्ञां द्रविणं प्रभूतं प्राप्नोत्यसौ सौख्यमनश्वरं च ।
 द्वारप्रदेशे जघनं निघृष्य तत् स्वागताभ्यागमनाय पक्षः ॥
 करोति तत्रोपविशँश्च पुंसां समं जनेनाभिमतेन सार्धम् ।
 प्रविशद्गेहे रभसेन पक्षः स्तम्भं समालिङ्गति योऽथ वाऽपि ॥
 चुल्लीं समारोहति स ब्रवीति समागमं स्निग्धजनेन सार्धम् ।

पराशरः ।

 किञ्चिद्भक्षयन् परस्य गृहं प्रविशेत् तस्य वृद्धये ।

वसन्तराजः ।

फलं गृहीत्वा सहसा निवासं पक्षो विशन् जल्पति पुत्रलाभम् ।

पराशरः ।

 आर्द्रामिषमादाय विशेच्चान्नपानलाभाय ।

वसन्तराजः ।

लिप्तपूरितचतुष्कविशेषे प्राङ्गणे श्वनिवहो रममाणः ।
सम्पदं प्रवितरत्यतिबह्वीं तत्क्षणं न पुनरर्थकरोऽसौ ॥
उच्चावचे दक्षिणमक्षि लेढि नारीं स्वकीयामथ वाऽधिरूढः ।
शेते गृहस्योपरि जागरूकस्तदा यदाऽम्बु क्षिपति प्रभूतम् ॥
उच्चप्रदेशं भषणोऽधिरुह्य भवत्यभीक्ष्णं रविमीक्षमाणः ।
यदा तदा नाम चिरेण वृष्टिरम्भोदमुक्ता भवति प्रभूता ॥
वर्षासु वृष्टिं सलिलेन मग्नां कुर्वन्ति चक्रभ्रमणं विशेषात् ।
अथो विधुन्वन्ति पिबन्ति तोयं पक्षा यदाऽन्यत्र जलागमाय ॥
निर्गत्य तोयादभिरुह्य पालिं कौलेयकश्चेद्विधुनोति कायम् ।
तन्निश्चितं प्रावृषि वृष्टिमब्द: कृषिबलप्रीतिकरीं करोति ॥
जृम्भां प्रकुर्वन् गगनं विलोक्य यो जागरूकः कुरुतेऽंशुघाते ।
संचाल्य पार्श्वं वृषमम्बुपूरप्लुप्ताक्षिभिः सर्वसमृद्धिशस्याम् ॥
उच्चै रुवद्भिः सह कूटगेहप्रासादसंस्थैः श्वभिरुक्तकाले ।
अत्राल्पवर्षान्नजलप्रदास्ते भवन्ति रोगाग्निगृहप्रणाशाः ॥
गोष्ठे यदा श्वा विधुनोति कायं तद्गोपुरं वाऽपि पुरस्य पीडा ।
शय्यासु शय्यापतिभीतिरुच्चैर्भीतिस्तथाऽन्यस्य गृहस्य मध्ये ॥

वराहसंहितायाम् ।

उच्चैः स्वराः स्युस्तृणकूटसंस्थाः प्रासादवेश्मोत्तमसंस्थिता वा ।

वर्षासु वृष्टिं कथयन्ति तीव्रामन्यत्र मृत्युं दहनं रुजश्च ॥
प्रावृट्कालेऽवग्रहेऽम्भोऽवगाह्य प्रत्यावर्त्तैरेचकैश्चाप्यभीक्ष्णम् ।
आधुन्वन्तो वा पिबन्तश्च तोयं वृष्टिं कुर्वन्त्यन्तरे द्वादशाहात् ॥
वृक्षोपगे क्रोशति तोयपातः स्यादिन्द्रकीले सचिवस्य पीडा ।
वायोर्गृहे शस्यभयं गृहान्तः पीडां पुरस्यैव तु गोपुरस्थः ॥
भयं च शय्यासु तदीश्वराणां याने भषन्तो भयदाश्च पश्चात् ।
अथापसव्या जनसंनिवेशे भयं भषन्तः कथयन्त्यरीणाम् ॥

विष्णुधर्मोत्तरे ।

 स्कन्धावारुह्य सव्यस्थाः श्वानो रिपुविनाशकाः ।
 इन्द्रस्थाने नरेन्द्रस्य पुरेशस्य तु गोपुरे ॥

वसन्तराज:।

भवेद्गृहस्योपरि वातभीत्यै पश्चाद्भयं भीतिकरः प्रयाणे ।
यश्चापसव्यं जनसंनिवेशे भयं भवत्याशु सवैरभीति ॥
भयं त्वभीक्ष्णं भवने स्थितानामावेष्टनं चेत् कुरुते कदा चित् ।
कौलेयकोऽवश्यमुपस्थितं तु ज्ञेयं भयं बन्धनजं प्रवृत्तम् ॥

पराशरः ।
 गृहं समारुह्य लिखति पुरुषक्षयं गृहस्वामिनः । कलहायमानः श्वाऽनिमित्तकलहाय । संदधत् सन्धये । द्वारि चैलं गृहीत्वा परिक्रीडन् परिक्लेशाय ।
वसन्तराजः ।

कृत्वा शिरो द्वारि बहिर्गतश्चेच्छ्वा रौति दीर्घं गृहिणीं प्रपश्यन् ।
तद्रोगदो वक्ति च बन्धकीं तां बहिर्मुखोऽभ्यन्तरकायभागः ॥

वराहसंहितायाम् ।

द्वारे शिरोऽन्यस्य बहिःशरीरो रोरूयते श्वा गृहीणीं विलोक्य ।
रोगप्रदः स्यादथ मन्दिरान्तर्बहिर्मुखः शंसति बन्धकीं ताम् ॥

एकेनाक्ष्णा साश्रुणा दीनदृष्टिर्मन्दाहारो दुःखकृत् तद्गृहस्य ।
गोभिः सार्धं क्रीडमानः सुभिक्षं क्षेमारोग्यं वाऽभिधत्ते मुदं वा ॥

नृतुरगफंरिकुम्भपर्याणसक्षीरवृक्षेष्टकासञ्चयच्छस्त्रशय्यासनोलूखलानि ध्वजं चामरं शाद्वलं पुष्पितं वा प्रदेशं यदा श्वाऽवमूत्र्याग्रतो याति यातुस्तदा कार्यसिद्धिर्भवेदार्द्रके गोमये मिष्टभोज्यागमः शुष्कसम्मूत्रणे शुष्कमन्नं गुडो मोदकावाप्तिरेवाथ वा । अथ विषतरुकण्टकीकाष्ठपाषाणशुष्कद्रुमास्थिश्मशानानि मूत्र्यावहत्याथ वा यायिनोऽग्रेसरोऽनिष्टमाख्याति शय्याकुलालादिभाण्डान्यभुक्तान्यभिन्नानि वा मूत्रयन् कन्यकादोषकद्भुज्यमानानि चेद्दुष्टतां तद्गृहिण्यास्तथा स्यादुपानत्फलं गोस्तु सम्मूत्रणेऽवर्णजः सङ्करः ॥ गमनमुखमुपानहं सम्प्रगृह्योपतिष्ठेद्यदा स्यात् तदा सिद्धये मांसपूर्णा-ननोऽर्थाप्तिरार्द्रेणचास्था शुभं साग्न्यलातेन शुष्केण चास्था गृहीतेन मृत्युः प्रशान्तोल्युकेनाभिघातोऽथ पुंसः शिरोहस्तपादादिवक्लेभुवोऽभ्यागमो वस्त्रचोरादिभिर्व्यापदः केचिदाहुः सवस्त्रे शुभम् । प्रविशति तु गृहं सशुष्कास्थिवक्त्रे प्रधानस्य तस्मिन् वधः शृङ्खलाशीर्णवल्लीवरत्रादि वा बन्धनं चोपगृह्योपतिष्ठेद्यदा स्यात् तदा बन्धनं लेढि पादौ विधुन्वन्स्वकर्णावुपर्याक्रमँश्चापि विघ्नाय यातुर्विरोधे विरोधस्तथा स्वाङ्गकण्डूयने स्यात् स्वपँश्चोर्ध्वपादः सदा दोषकृत् ॥
विष्णुधर्मोत्तरे ।

 अन्तर्गृहे गृहेशस्य मरणाय भवेद्भयम् ।

पराशर ।
 वस्त्रखण्डं रञ्जुं वा नयत्यग्निभयम् । चेल्लवणं वा धनक्षयम् । दधि तु भार्यायाः। पलायमान उपानहं प्रेष्यायाः। आनयने तु फलादिष्वेतेषु लाभम् ।


वसन्तराजः ।

श्वा याति कस्थो[१७] विदधाति धर्म यद्युत्कटेन स्थितिमानसेन । उत्पादत्याशु विरोधमुग्रं तज्जागरूकः सुहृदाऽपि साकम् ॥

पराशरः ।

 कण्ठपानं श्वाऽऽरोहेद्भयम् ।

वसन्तराजः ।

उद्धूलिकोऽस्मादिति पूर्णवक्त्रो भयं पुरश्चौरभयाय पक्षः ।
यस्याग्रतः श्वाऽस्थि शवं गृहीत्वा नयत्यसौ याति पुरीं यमस्य ॥
निमर्थ्य तोये स्ववपुर्विधुन्वन् कौलेयकश्चौरभयं करोति ।
भयं त्वभीक्ष्णं पथि मन्दिरे वा ग्रीष्मेऽथ वा चौरभयाय भूमेः ॥
मांसास्थ्यभक्ष्याणि च भस्ममध्ये स्याद्वोपयत्यग्निभयं प्रभूतम् ।

पराशरः ।
 शुष्कमल्पफलं कण्ट किनं स्वक्षीरं वा वृक्षमवमूत्रयत्यरिप्रादुर्भावम् । अतो विपरीते धनलाभम् । तमेव खनति धनलाभम्। नवामन्नपूर्णां वा स्थालीमवसूत्रयति कन्याप्रदः । पुराणं स्त्रियाः । शय्यां भार्याया अथवा कुटुम्बिन्या मृत्युम् । शिरस्त्राणं स्त्रियं नरं वा तस्यैव धनलाभं सौभाग्यं वा । दधिपूर्णं कलशं चौरमुपस्थितं वा उदकुम्भं चौरमेव च । नवं चेच्छकटं कम्पयन् यानोद्यच्छकटं याति यानोपयुक्तं वा स्वामिनो वधम् ग्राममध्ये ऊर्ध्वमुखो नदन् नखैर्भूमिं च लिखेद्भयम् ।
वसन्तराजः ।

 अत्यर्थनादं यदि वाऽतिदीनं दृष्ट्वा दिने संभषणं बहूनाम् ।
 कौलेयकानां विमलं विजृम्भं नदन्ति मूर्धस्वरकाः सकम्पम् ॥
 विनाऽऽमिषं यत्र च जागरूकाः कुर्वन्ति शब्दं बहवो मिलित्वा ।
 उत्पद्यते विग्रहनेव भूतेष्वत्राचिराद्विग्रहमग्रभूतम् ॥


वराहसंहितायाम् ।

स्वेखेति चोच्चैश्च मुहुर्मुहुर्ये रुदन्ति दण्डैरिव ताड्यमानाः ।
श्वानोऽभिधावन्ति च मण्डलेन पैशून्यतां मृत्युभयं च कुर्युः ॥

पराशरः ।

 तूर्णम्भूतं धावेयुरभीक्ष्णमुपद्रवम् ।

भागवते जगदुद्वेजकरावणोत्पत्तौ ।

 "कुकुरा रभसा मत्ता धावन्त इव यूथशः"[१८]

भागवते हिरण्याक्षौत्पत्तौ ।

 “सङ्गीतवद्रोदनवदुन्नमय्य शिरोधरान् ।
 व्यमुञ्चन् विविधा वाचो ग्रामसिंहास्ततस्ततः"[१९]

पराशरः ।

 निशि शुनां सङ्घशः सततमभिक्रन्दनं पुरविनाशाय ।

वसन्तराजः ।

ग्रामं निशायां खलुः सारमेयाः शून्यं विधातुं सहिता रटन्ति ।
ग्रामे मिलित्वा भषणाः श्मशाने भवन्ति नाशाय च मुख्यपुंसः ॥
ग्रामस्य मध्ये बहवो मिलित्वा श्वानो मुहुः क्रूररवा रटन्तः ।
मुख्यस्य पुंसः कथयन्त्यसौख्यं श्वाऽरण्यगः स्यात् सदृशो मृगेण ॥

पराशरः ।
 बहुषु पथिषु नदत्सु परचक्रेणशरीरयाताः समेत्यैकश्चेद्वहुशः पांशुं नयद्भिः क्षिप्त्वा वैकस्मिन् जलपात्रे क्षिपत्यविषममेव च भूमिं लिखत्यन्येषु च तृणैराच्छाद्यावतिष्ठमानेष्वम्भोभयम् । पर्वसु भूमिं पत्थानमूर्ध्वं वा प्रेक्षमाणेषु राहुदर्शनाद्ग्राममध्ये ऊर्धमुखो नदन्मुखैर्भूमिं विलिखेद्भयम् । ग्रामाद्बालकान् वा समादाय गच्छेद्भयं विन्द्यात् ।


मत्स्यपुराणे ।

 काष्ठोन्मुखास्थिशृङ्गास्याः श्वानो मरकवेदकाः ।

भागवते वृष्टिवंशक्षयनिमित्तम् ।

 "ममाग्रे सारमेयोऽयं महीमाहत्य भीतवत् ।
 शब्दं कुर्वन्निमं सव्यं दक्षिणं च गवेषति"[२०]

पराशरः ।
 सूर्योदये प्राङ्मुखं नर्दत्यग्निभयम् । अपरसन्ध्यायां गवेडकप्रवेशे वा रथ्यासु धावन्तः सारमेयाः सन्ध्ययोरूर्ध्वमुखा बहवः समं नदेयुर्भयाय ।
वराहसंहितायाम् ।

सूर्योदयेऽर्काभिमुखो विरौति ग्रामस्य मध्ये यदि सारमेयः ।
एको यदा वा बहवः समेता शंसन्ति देशाधिपमन्यमाशु ॥

वसन्तराजः ।

दिनकराभिमुखोऽस्तमये भयं निगदिताः खलु कर्षकभीतयः ।
पवनदिङ्निनदस्तु निशामुखे भवति चेत् स समीरणभीतिदः ॥

 अत्रानुक्तविशेषशान्तिषु शुनकोत्पातेषु सावित्रीमब्रकलक्षहोमादिका शान्तिर्मृगपक्षिविकारविहिता वा शान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे शुनकाद्भुतावर्त्तः ।
अथ शृगालाद्भुतावर्त्तः ।

विष्णुधर्मोत्तरे ।

 श्ववच्च राम विज्ञेयास्तथा वै जम्बुकादयः ।


वराहसंहितायाम् ।

श्वभिः शृगालाः सदृशाः फलेन विशेष एषां शिशिरे मदाप्तिः ।
हूहूकृतान्ते परतश्च टाटा-पूर्णः स्वरोऽन्ये कथिताः प्रदीप्ताः ॥

वसन्तराजश्च ।

हुवा हुवेति प्रथमं ततस्तु टाटेति दीर्घः सुतरां रवो यः ।
स्याज्जम्बुकानां स्वनतां प्रशान्तस्तदन्यशब्दः कथितः प्रदीप्तः ॥
शृगालशब्दो भवने निशायामुच्चाटनार्थं दिशि पश्चिमायाम् ।
प्राच्यां भयायोत्तरतः शिवाय याम्ये विभागे भयनाशनाय ॥
अनर्थहेतुर्गतिशब्दहीनः सदा शृगालः खलु दृश्यमानः ।
शस्तोऽह्निवामागतिरस्यशब्दोवामेऽतिदानो निशियो बहूनाम् ॥
विहाय वामां दिशमन्यदिक्षु शब्दायमाना न शुभाः शृगालाः ।
गत्यारवो ग्रामपुरप्रवेशे शस्तो रवो नो मृगधूर्त्तकानाम् ॥

रामायणेऽरण्यकाण्डे सीताहरणनिमित्तं मारीचवधानन्तरमागच्छतो रामस्य ।

 "क्रूरस्वरो भयकरो गोमायुः पृष्ठतो नदन् ।
 रामस्य पृष्ठतः.............."[२१]

वनपर्वणि द्रौपदीहरणनिमित्तम् ।

"तेषां च गोमायुरनल्पघोरो निवर्त्ततां वाममुपेत्य पार्श्वम् ।
प्रत्याहरत् तत् प्रविमृश्य राजा प्रोवाच भीमं च धनञ्जयं च ॥
यथा वदत्येष विहीनयोनिः शालामृगो वाममुपेत्य पार्श्वम् ।
सुव्यक्तमस्मानवमन्य पापैः कृतोऽभिमर्दः कुरुभिः प्रसह्य"[२२]


बार्हस्पत्ये ।

 ग्राममध्ये न वाशेत वनादागत्य जम्बुकः ।
 तीक्ष्णस्वरेण महता दृष्टो ग्रामवधाय सः ॥

गार्गीये ।

 दिवा गृहं प्रविशति जम्बूको यस्य निर्भयः ।
 ध्रुवं गृहपतेस्तत्र विनाशः क्षिप्रमुच्यते ॥

औशनसे तु ।

 परित्यज्य स्वकां वाचं यत्र गोमायुरन्यथा ।
 वाचं वदेज्जन्तुभयं गोमायुवदनं स्मृतम् ॥
 युगपद्यत्र गोमायू वाशेते विस्वरं क्व चित् ।
 तत्र के चिद्भयं प्राहुर्गर्गर्षिवचनश्रुतेः ॥
 ऐन्द्राग्निस्तत्र दीप्ता स्यादिन्द्राग्निर्वाऽत्र मन्त्रिका ।
 यं गोमायुः प्रवदति इति प्रभृति कर्म च ॥

अथ लोममिका । तत्र वसन्तराजः ।

सिद्धै सदा सर्वसमीहितानां स्याल्लोमसीदर्शनमग्रतस्तु ।
राजप्रसादं कथयन्त्ययुग्मां दृष्ट्वा ध्रुवं लोमसिकां च पृष्ठे ॥
सव्याय सव्या च गतिः सदाऽऽमां नृपादरस्त्रीधनलाभहेतुः ।
खीखीति शब्दादपरो विरावो दीप्तो भवेल्लोमसिकासमुत्थः ॥

वराहसंहितायाम् ।

लोमासिकायाः खलु ककशब्दः पूर्णः स्वभावप्रभवः स तस्याः ।
येऽन्ये स्वरास्ते प्रकृतेर्व्यपेताः सर्वे प्रदीप्ता इति संप्रदिष्टाः ॥

अथ शिवा । तत्र वसन्तराजः ।

शोभना शुभफलाप्तिसूचकं कथ्यते कलिभयं शिवारुतम् ।
शान्तदीप्तककुभां विभागतो ज्ञानमत्र च सदा प्रयुज्यते ॥

वरासंहितायाम् ।

 मौनं गता प्रतिरुते नरद्विरदवाजिभिः ।
 या शिवा सा शिवं सैन्ये पुरे वा संप्रच्छति ॥
उच्चैर्घोरं वर्णमुच्चार्य पूर्व पश्चात् क्रोशेत् क्रोष्टुकस्यानुरूपम् ।
या सा क्षेमं प्राह वित्तस्य चाप्तिं संयोगं वा प्रोषितेन प्रियेण ॥
 पुरे सैन्येऽपसव्या च कष्टा सूर्योन्मुखी शिवा ।
 ...........सज्वाला देशनाशिनी ॥

काश्यपस्तु ।

 नैव दारुणता तस्याः सज्वालायाः स्वभावतः
 ज्वालया साग्निकं वक्त्रं वमन्ती साऽशुभा शिवा

लङ्काकाण्डे वज्रदंष्ट्रवधनिमित्तम् ।

 "वसन्ति स्म शिखिज्वालाः शिवा घोराश्च पश्यतः”[२३]

तत्रैव कुम्भकर्णवधनिमित्तम् ।

 "घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः"[२४]

आरण्यकाण्डे रावणवधनिमित्तम् ।

 “रुरुदुः सङ्घशो घोरा यावकोद्गारिभिर्मुखैः”[२५]

उत्तरकाण्डे जगदुद्वेजकरावणोत्पत्तौ ।

 “सज्वालकवलाः शिवाः”[२६]

मण्डलानि प्रचक्रमुः-इति सम्बन्धः ।</ब्र्> अग्निपुराणे शक्रपराजयनिमित्तम् ।

 वमन्त्यः पावकं घोरं शिवाश्चैव ववाशिरे ।


विष्णुधर्मेत्तरे ।

 नृणां रोमाञ्चजननी वाहनानां भयप्रदा ।
 ज्वालानना सूर्यमुखी विज्ञेया भयवर्धनी ॥

वराहसंहितायाम् ।

 या रोमाञ्चं मनुष्याणां शकृन्मूत्रं च वाजिनाम् ।
 रावात् त्रासं न जनयेत् सा शिवा न शिवप्रदा ॥

वसन्तगजस्तु ।

  रोप्तोद्गमं जनयत्यकस्मात् फे-इत्यतिक्रूररवा नराणाम् ।
 xx पुरीषं च तुरङ्गमाणां सा सर्वदा स्यादशिवा शिवेह ॥
 ज्वालां विमुञ्चत्यतिरौद्रनादा समाकुला यातुरिवासमन्तात् ।
 रोमाञ्चकं वै जयकस्माद कुर्वाच्छिवा सा पुरराजघातम्

घनपर्वण्यजगरग्रस्तं भीमे युधिष्ठिरादीनामुत्पातदर्शनम् ।

 "दारुणं ह्यशिवं नादं शिवा दक्षिणः स्थिता ।
 दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह[२७]

भागवते हिरण्याक्षो पत्ती !

 "अन्तर्ग्रामेषु मुखयो वमन्त्यो वह्निमुल्वणम् ।
 शृगाला अपि टङ्कारैः प्रणेदुरशिवाः शिवाः"[२८]

तत्रैव वृष्णीनामन्योन्ययुद्धनिमित्तम् ।

 "शिवैपेत्युत्तरामाश्रित्याभिरौत्यनलानना"[२९]

वराहसंहितायाम् ।

 अक्षोभः श्रवणं चेष्टं धनप्राप्तिः प्रियागमः ।
 क्षोभः प्रधानभेदश्च वाहनानां च सम्पदः ॥
 फलमासप्तमादेतदग्राह्यं परतो रुलम् ।
 याम्यायां तद्विर्यस्तं फलं षट्पञ्चमादृते ॥


हरिवंशे तु कंशवधनिमित्तम् ।

 "शिवा श्मशानान्निर्गम्य निःश्वासाङ्गारवर्षिणी ।
 उभे सन्ध्ये पुरीं धोगं पर्यति बहु वाशती[३०]

वराहसंहितायाम् ।

याहीत्यन्निभयं शास्ति टाटेनि मृतिवेदिका ।
धिग्धिग्दृष्कृतिमाचष्टे...............॥
भिभेति शिवा भयङ्करी xxxxxxxxx सा ।
मृतिबन्धनिवेदिनो xxxxxxxxxx शिवा स्वरे ॥
शान्ता त्ववर्णात् परमारुवन्ती xxxxxx वाद्व्यमाना ।
टेटे च पूर्वं परतश्च येथे तयाः स्वदुष्टिप्रभवं रुतं तत् ॥

पराशरः ।
 दीप्ता वा काकलीस्वरा सद्यः संग्रामिकस्य भयाय आसप्तरात्रान्मरकोनुवन्धिनी च । स्वरुलं वदलं कुर्याद्राजमृत्युम् ।
वसन्तराजः ।

 तरङ्गिणीरोधसि सौम्यरूपात्रीन्पञ्च वा मुञ्चति रौति नादान् ।
 शिवाऽशिवा तां नृपतिस्तदानीं देवीमभिनन्दनीयाम् ॥
 ग्रामस्य मध्यं समवाप्य यस्य ज्वालामुखी मुञ्चति फेत्कृतानि ।
 विशून्यतां गच्छति निश्चयेन लोकस्य वा स्यादसुखं प्रभूतम् ॥

पराशरः ।
 शकटमारुह्य वाश्यमानायां विघनाय । खट्वामारुह्य स्त्रीमृत्यवे । देवागारं चैत्यं वाऽमात्यश्रेष्ठविधानाय वर्षं गोहरणं भयं वा विद्यात् । इन्द्रकीलमारुह्य चेद्वर्षाय स्यादनृताववर्षाय ।
मयूरचित्रे तु ।

 प्राकारे नगरे द्वारे राजगेहे चतुष्पथे ।


 स्थानेष्वेषु शिवाकन्दो देशभङ्गकरः स्मृतः ॥

वसन्तराजः |

स्मशानभूमौ दिनमध्यभागे मध्येजनं चेत् तु गृहप्रवेशे ।
या रौति तस्यै वलिमर्घयुक्तं भक्त्या प्रदद्याद्यदि भद्रमिच्छेत् ।

अथ दिक्फलं वराहसंहितायाम् ।

 पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता ।
 धूमिताऽभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान् ॥

सर्वशाकुनाद्भुतादत्तेऽपि लिखिता।

 अन्यत्राभिरुता या स्यात् सा बन्धमृतिसंशिनी ।
 वारुण्यां विरुता सैव संशते सलिलागमम् ॥

पराशरः ।
 अथ प्राच्यादिदिक्षु दीप्तासु शिवा व्याहरन्ती स्त्रीहरणं कुर्यात् । पूर्वदक्षिणम्यां दिशि गृहपतेर्घातिमग्निदाहं वा । दक्षिणस्यां वैश्यवधमागन्तुं वधं वा दक्षिणपश्चिमस्यां राजतो भयं शत्रोर्गणस्य च । पश्चिमायां सलिलघातं शूद्रोपद्रवं च । पश्चिमोत्तरस्यां दीर्घार्तिं ब्राह्मस्य पीडां वा । उत्तरस्यां व्याधिम् उत्तरपूर्वस्यां दृष्टपुंसः प्रवेशनम्। नैर्ऋत्यांवायव्यां वारुण्यां च व्याहरेच्छरीरघातः स्यात् । दक्षिणतो मेघसंतादा कष्टाय । पश्चिमतः श्रेष्ठामात्यवधाय । भेरीमृदङ्गघोषाभा चेदुत्तरतो द्विर्वर्हेद्भूमिकम्पाय । त्रिर्महोल्काभयाय । फेरुण्डकस्य त्रिचतुःषट्सप्तकृत्व इति रुतेष्वानुपूर्व्यात् फलं विद्यात् । प्राच्यां तावद्दिशि कन्याहरणमग्न्युत्पातं क्षत्रियसन्नाहं ग्रहस्य केतोरुदयमिति । दक्षिणपूर्वस्यां दिशि गोयुगप्रणाशं गवां च सह पालैभात्मघातं महद्भयमग्न्युत्पातमिति । दक्षिणस्यां पलायनं राजदण्डयोगं स्वचक्रदोषं मरकमिति। नैर्ऋत्यां फेरुण्डकक्रीडितं न गुणाय केनचित् कस्य चिद्वृकाद्यारोहणं व्रृयादुद्धरणं च । तथैव चतुष्पदकौटानां वचनशून्यस्य शूलादवपतनं मृतस्य चिन्ता कार्यादुद्धरणम् । वारुण्यां केन चित् कस्य चित् हर्षविनोददानं हस्तग्राहं पुंसो वयं तथा श्रेणीशानग्रहणनैगमैर्वन्धनं भेदनं वातोद्भ्रमणमिति । वायव्यां राहुणा चन्द्रग्रहणमनिलप्रादुर्भावं जगमरणमुल्काप्रपतनं राष्ट्रस्यानयमिति । उत्तरस्यां दुष्टपुंसो निग्रहणं सन्धिच्छेदं ग्रामघातं पुररोधं स्त्रीहरणमिति । ब्राह्म्यां वर्षाश्मपाताशनिप्रादुर्भावं महार्घवर्षभूचलनदुर्भिक्षमिति । अष्टकृत्वः प्रतिसर्वतो वाशितं योगक्षेमाय ।
वसन्तराजस्तु ।

एकादिकानां विकलायमानशिवारुतानामधुना यथार्थम् ।
प्राच्यादिकास्वष्टसु दिक्ष्वशेषं यद्यत् फलं तत्तदुदीरयामः ॥
ऐन्द्राग्निनादे प्रथमेऽर्थलाभो भवेद्द्वीतीये निधिदर्शनं च ।
कन्यां तृतीये लभते चतुर्थे वध्वागमः पञ्चमकेऽर्थसिद्धिः ॥
षष्ठे रवे कुप्यति भूमिनाथो भीः सप्तमे स्याद्विफलोऽष्टमस्तु ।
त्रासोऽग्निभागे प्रथमे द्वितीये नराधिपः कृप्यति भीस्तृतीये ॥
घातश्चतुर्थे नगरस्य शब्दे शिवारुते पञ्चमके च युद्धम् ।
वदन्ति तज्ज्ञाः कलहं न षष्ठो भोः सप्तमे स्याद्विफलोऽष्टमस्तु ॥
आद्ये शुभं स्यादशुभे द्वितीये याम्ये महाव्याधिभयं तृतीये।
स्वरे चतुर्थे स्वजनागमः स्यात् पुत्रो भवेत् पञ्चसु फेत्कृतेषु ॥
जायेत कन्या रटिते च षष्टे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ।
ग्रामस्य पातो दिशि राक्षसानामाद्ये द्वितीयेऽपि च गोकुलस्य ॥
मृत्युस्तृतीये द्विचतुष्पदानां हानिश्चतुर्थे ह्यथ पञ्चमे च ।
चौराद्भयं राजभयं च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥

शब्दः शिवाया वरुणस्य भागे आद्ये भयं हानिरथो द्वितीये ।
स्याद्राजदूतागमनं तृतीये दाहश्चतुर्थे खलु चौरभीतिः ॥
स्यात् पञ्चमे राजभयं च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ।
वायव्यभागे भयमेकमब्दं भयातिरेको भवति द्वितीये ॥
वृष्टिस्तृतीये महती चतुर्थे मेघागमो वर्षति पञ्चमे च ।
क्रोधं विधत्ते नृपतिश्च षष्टे भीः सतमे स्याद्विफलोऽष्टमस्तु ॥
दिश्युत्तरस्यां विहिते विरावे म्रियेत कश्चित् प्रथमे द्वितीये ।
महाभयं विप्रवधस्तृतीये क्षत्रं चतुर्थे खलु हन्यते च ॥
विषं वमेत् षष्ठरवे च शृदो भीः सप्तमे स्याद्विफलोऽष्टमस्तु ।
आद्ये भवेद्दुर्दिनमेव देशे वृष्टिर्द्वितीये च रवे शिवायाः ॥
वातस्तृतीये त्वशनिश्चतुर्थे म्रियेत कश्चित् खलु पञ्चमे च ।
लभ्येत पृथ्वी निनदे च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥
ज्वराग्निमिष्टाप्तिरभीष्टलाभं लभेत् ततोऽर्थस्य फलं शुभं च ।
भव्यप्रणाशः सकलं च सौख्यमेकादिशब्दैः कुरुते प्रशान्ते ॥
भयाद्यनिष्टश्रुतिरर्थहानिरिष्टैर्वियोगैर्महती च हानिः ॥
स्याद्वृष्टिराप्तिर्मरकं च दीप्ते त्वेकादिना फेत्कृतसप्तकेन ।

गदापर्वणि दुर्योधनपराजयनिमित्तम् ।

 “दीप्ताः शिवाश्चाप्यनदन् घोररूपाः सुदारुणाः ।
 दीप्तायां दिशि राजेन्द्र शृगालाः शुभवेदिनः"[३१]

वसन्तराजः ।

स्थित्वा प्रदीप्ते ककुभो विभागे ज्वालामुखी फेत् कुरुतेऽतिरौद्रम् ।
ग्रामस्य तस्य प्रकरोति नाशं तस्याथ वाऽनिष्टशिवस्य मध्ये ॥


पराशरः ।

 सर्वत्र घोरप्रणादिनी सर्वतो ग्रामं परिगच्छन्ती च शस्त्रोत्पातान् । भृशं स्वरे ह्युद्घुष्टकान्यभिधाय पीडाशस्त्राभिघाताय प्रमाणीकुर्यात् ।
वसन्तराजः ।

दिक्ष्वारुदन्ती सकलासु रौद्रं भ्राम्यत्यखिन्ना परितः पुरं चेत् ।
शृगालजाया खलु तद्ब्रवीति युद्धं महच्चैव तथा विघातम् ॥
करोति फेफे इति सर्वदिक्षु यदा तदा स्थानविघातयुद्धे ।
शिवाऽभिधत्ते क्षुधिता त्वसंख्यान् रौद्रस्वरान् मुञ्चति चेदुपेक्ष्या॥
 सर्वदिक्षु शुभा दीप्ता विशेषेणाथ शोभना ।
 पुरे सैन्येऽथ सव्या या काष्टा सूर्योन्मुखी शिवा ॥

मत्स्यपुराणे ।

 अर्कोदयेऽर्काभिमुखी शिवा यमभयं वदेत् ।

वराहसंहितायां तु ।

“शिवोदये यत्र दिवाकरस्य भोमारवा चोर्ध्वमुखी विमुञ्चेत् ।
समागता वायसगृध्रसङ्घैस्तदा भयं वेदविदो वदन्ति”[३२]

पराशरः ।

 सन्ध्यायां मनुष्यवधाय ।

सुन्दरकाण्डे रावणवधनिमित्तम् ।

 "उपरक्ते च सन्ध्ये द्वे व्याहरत्यशिवं शिवा”[३३]

वसन्तराजः ।

आद्ये दिनस्य प्रहरे प्रवृत्ते महेशदेवेशहुताशदिक्षु ।
शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
अह्नो द्वितीये प्रहरस्य भागे सहस्रनेत्रानलकालदिक्षु ।


 शिवा रहन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
 प्राप्ते तृतीये प्रहरे दिनस्य हुताशकालासुरराजदिक्षु ।
 शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
 समागतेऽह्नः प्रहरे चतुर्थे प्रेतेशदैत्येशजलेशदिक्षु ।
 शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
 आद्ये निशायाः प्रहरे प्रवृत्ते रक्षोधिपाम्भः पतिवायुदिक्षु ।
 शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
 ततो द्वितीये प्रहरे निशायास्तोयाधिनाथानिलसोमदिक्षु ।
 शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
 यामे तृतीयेऽपि हि यामवत्याः समीरदोषाकरशम्भुदिक्षु ।
 शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
 समागते रात्रितुरीययामे निशाकरेशानसुरेशदिक्षु ।
 शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥

इति दिक्षु यामप्रकरणम् ।
अथ दिक्चक्रयामप्रकरणं बार्हस्पत्ये।

कृतान्तरक्षोवरुणानिलेन्दुदिक्ष्वाद्ययामे रटितैः शृगाल्याः ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
रक्षःप्रचेतोऽनिलसोमशम्भुदिक्षु द्वितीये प्रहरे रवेण ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
जलेशवातेन्दुमहेशशक्रदिक्ष्वारवेण प्रहरे तृतीये ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
समीरसोमेशसुरेशवह्रिदिक्षु स्वरेण प्रहरे चतुर्थे ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥

शशाङ्करुद्रेन्द्रहुताशकालदिक्ष्वारवैः पञ्चमयामभागे ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
ईशानशक्राग्निकृतान्तरक्षोदिक्षु स्वरेण प्रहरे च षष्ठे ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
इन्द्राग्निकालासुरपाशपाणिदिक्ष्वारवे सप्तमयामकाले ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
वह्न्यन्तन्नैर्ऋतपाशिवातदिक्ष्वष्टमे च प्रहरे स्वरेण ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
मध्यन्दिनो यावदहानि पञ्च शिवा समीपे नगरस्य यस्य ।
विरौति घातं विदधाति तस्य भयं च वह्निवभवं प्रभूतम् ॥
या पञ्चरात्राणि कथञ्चिदेवं क्रूरारवा व्याहरते श्रृगाली ।
यस्यांन्तिके तं बहवो हयेन मुष्णन्ति चौरा जनसञ्जिवेशम् ॥
स्थानस्य यम्योपगता समीपं दिनानि या चोच्चरति प्रभाते ।
स्वरेण रौद्रेण शृगालभार्या स्यात् तत्र हानिर्महती नराणाम् ॥
सुरक्षितस्यापि मनुष्यलक्षैर्द्याप्तस्य शीघ्रग्रहणं विधत्ते ।
त्रयं दिनानां दिवसावसानं शिवा रटन्तो परुषस्वरेण ॥

 अत्रानुक्तविशेषशान्तिषु शृगालोत्पातेषु सावित्रीमन्त्रकलक्षहोमादिका शान्तिर्मृगपक्षिविकारविहिता वा शान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
नारदः ।

 मध्याह्ने चार्धरात्रे च उदयेऽस्तमयेऽथ वा ।
 ग्राममध्ये यदा विप्र फेत्कारं कुरुते शिवा ॥
 प्रामदाहो भवेत् तत्र राज्ञो वा मरणं भवेत् ।
 अतः शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् ॥

 दधिमधुसमायुक्तं सिद्धार्थं घृतमिश्रितम् ।
 चरुं वै वैश्वदैवत्यं कृत्वा चैव विधानतः ॥
 जुहुयात् पञ्चसाहस्रं जातवेदसि मन्त्रवित् ।
 धेनुं च दक्षिणां दद्यात् सुवर्णं धान्यमेव च ॥
 अस्मिन्नाशु कृते शान्तिः शुभं ग्रामस्य वै भवेत् ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे शृगालाद्भुतावर्त्तः ।
अथ गृहगोधिकाद्भुतावर्त्तः ।

तत्र वसन्तराजः ।

कुड्यमत्स्य इति याऽभिधीयते पल्लिकेति गृहगोधिकेति च ।
कालदिक्क्रमवशेन निश्चितं तत्र शाकुनमुदीर्यतेऽधुना ॥
समागमात् संगममाह पल्ली युद्धेन युद्धं विरहं वियोगात् ।
यच्छत्यवश्य सुरतप्रसक्ता पुंसां वरस्त्रीबहुकेलिलाभम् ॥
सूर्योदये पूर्वदिशि ब्रुवाणा पल्ली भयं जल्पति भूमिपालात् ।
हुताशभीतिं च विहारदेशे मध्यन्दिने दूतमुत्वेन वार्ताम् ॥
धनागमः स्यादपराह्णकाले दिनावसानेऽपि फलं तदेव ।
आहारकाले विहितस्वरायां पुर्या भवेदागमतं नृपस्य ॥
निधातलाभं दिनपूर्वयामे द्वितीययामेऽभिमतार्थसिद्धिः ।
भवत्यवाप्तिस्तु तृतीययामे तुर्येऽर्थहानिर्विरुतेन पल्ल्याः ॥
आद्ये दिनस्य प्रहरेऽग्निभाग प्रसादवार्त्ता प्रहरे द्वितीये ।
मिष्टार्वलाभो गृहगोधिकाया रुतेन लाभो वपुतोऽपराह्णे ॥
सुखं दिनान्ते विरूतेन पल्ल्या आहारकालेऽभिमतार्थलाभः ।

स्यादग्निभीतिः प्रहरे द्वितीये यामे तृतीये द्रविणस्य लाभः ॥
यामे चतुर्थे दिशि पावकस्य कृतस्वरः किंचिदपूर्वरूपम् ।
नैमित्तिकातामिह कुड्यमत्स्यः कुतूहलं दर्शयति क्षणेन ॥
प्रभातकाले दिशि दक्षिणस्यां कार्यं शुभं स्याद्विरुतेन पल्ल्याः ।
बन्ध्वागमः स्यात् प्रहरे दिनस्य मध्यन्दिने पुण्यसमागमः स्यात् ॥
योषाऽपराह्णे समुपैति काऽपि दिनावसाने परदारसङ्गः ।
आहारकाले सुचिरं गतस्य स्यात् क्षेमवार्त्ता प्रियसङ्गमस्य ॥
यामे द्वितीय स्वजनैर्विरोधं तृतीययामे द्रविणस्य लाभम् ।
कृतस्वरो जल्पति कुडयमत्स्यो यामे चतुर्थे कलहं महान्तम् ॥
पल्ली दिनादौ दिशि राक्षसानां कृत्वस्वरा संशति कार्यसिद्धिम् ।
विप्रागमं प्राक्तनयामभागं दूतागमं वाऽपि दिनस्य मध्ये ॥
रक्षां तृतीये प्रहरे दिनस्य दितावसानेन विशेषवार्ता ।
प्रस्वापकाले कलहं रटन्ती यामे च पान्थागमनं ब्रवीति ॥
द्वितीययामे रुधिरप्रपातो मृत्युस्तृतीये प्रहरे निशायाः ।
व्याधिश्चतुर्थे प्रहरे निशायाः कृतस्वरायां गृहगोधिकायाम् ॥
प्रभातकाले ककुभि प्रतीच्यामाचार्यवर्यः समुति पूर्वम् ।
शान्ति दिनस्य प्रहरे द्वितीये परल्या रुतैर्मव्य दिनेऽर्थ हानिः ॥
आयाति रौद्रः पुरुषोऽपराह्णे कुमारिकाऽभ्यति विवासकामा ।
भुक्तिक्रियायां नृपतिप्रसादः पीरुतं वह्निभयं प्रदोषे ॥
यामे द्वितीये पृथिवीशवार्त्ता विधानलाभः प्रहरे तृतीये ।
स्यात्कुडयमत्स्येरटतिप्रतीच्यां निशावसाने वपुषोऽवसानम् ॥
स्याच्चौरवार्ता दिशि मारुतस्य रुतैः प्रभाते गृहगोधिकायाः ।
अभ्येति मृत्युः प्रहरे प्रवृत्ते मध्यन्दिने भूपतिरभ्युपैति ॥

विद्वान् समभ्येत्यपराह्णकाले विद्यात् परं दूतमुपैति साये ।
वृद्धिः प्रदोषे प्रहरे द्वितीये सिध्ययभीष्ट रटितेन पल्ल्याः ॥
यामे तृतीये नियतं निशायाः शुभावहा काऽव्युपयाति वार्ता ।
निशावसानेऽभिमतार्थलाभः स्यात् कुड्यमत्स्यारटितेन पुंसाम् ॥
दिश्युत्तरस्यामुदिते दिवेशे पल्ली रटन्ती द्रविणागमाय ।
मित्रागमाय प्रथमे च यामे हुताशभीत्यै दिवसस्य मध्ये ॥
अर्थोऽपराह्णेऽभिमतोऽभ्युपैति प्रियो जनोऽभ्येति च वासरान्ते ।
निशामुखे शिष्टसमागमः स्याद्यामे कलिः स्याद्विरुतेन पल्ल्याः ॥
निधानलाभः प्रहरे द्वितीये स्थाच्चौरमीतिः प्रहरे तृतीये ।
निशावसानेऽपि च भाषप्राणे स्यात् कुड्यमत्स्ये विपुला समृद्धिः ॥
प्रातर्दिगीशाननिषेवितायाः पल्ल्या रुतैः सिध्यति चिन्तितोऽर्थः ।
दिनाद्ययामे स्वजनोऽभ्युपैति वृद्धिर्भवेद्वासरमध्यभागे ॥
रक्षाऽपराह्णेऽस्तमयेऽभ्युपैति कन्यार्थलाभोऽभ्यवहारमध्ये
वृद्धिस्तथाऽऽद्ये प्रहरे निशायाः कन्यागमः स्यात् प्रहरे द्वितीये ॥
भयं तृतीये प्रहरे निशान्ते रौद्रं भवत्यारटितेन पल्ल्याः ।
दिनस्य मध्ये कलहाय नादः स्यादर्थलाभाय तथाऽपराह्णे ॥
विप्रागमायाभ्यवहारकाले प्रनष्टलाभाय च पूर्वयामे
मध्ये चमूपस्य रणाय रात्रेस्तूल्काप्रपाताय तृतीययामे ॥
ब्रह्मप्रदेशे प्रहरे चतुर्थे शुभाय शब्दो गृहगोधिकायाः ।
शुभावहा शान्तदिशि प्रशान्ता दीप्ता प्रदीप्ते शुभदा न पल्ली ॥
 अत्रानुक्तविशेषशान्तिषु गृहगोधिकोत्पातेषु गोत्रदानादिका
सामान्या शान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे गृहगोधिकाद्भुतावर्त्तः ।

तत्र वसन्तराजः ।

स्थूलास्तथायाः कपिलाः कदाचिदृगोचरं यान्ति घृतेण्डिकाख्याः ।
विज्ञेन तासां शकुनं गवेष्यं पिपीलिकानामिह नापरासाम् ॥
अत्यर्थपूर्णेऽञ्जतकुङ्कुमाभ्यां ग्राह्यं गृहे नेष्टमथापराणाम् ।
स्तोकस्थितावस्करनीरदेशे पिपीलिकानां शकुनं गवेष्यम् ॥
स्वर्णरत्नधनमध्यतो यदा संभवन्ति सुकृतप्रचोदिताः ।
स्वर्णरत्नधनवृद्धिहेतवस्तद्भवन्ति कपिलाः पिपीलिकाः ॥
तोयपूर्णकलशाजिरान्तगा भक्तपूर्णपिठराश्च निर्गताः ।
निर्दिशन्ति कपिलाः पिपीलिका द्रव्यवृद्धिमचिरेण भूयसीम् ॥
आरनालघटमूलगाः शुभा धान्यवृद्धिमपि धान्यमध्यगाः ।
सूचयन्ति च महानसोद्गता गेहदाहमचिराद्घृतेण्डिकाः ॥
यदि प्रविश्याज्यघटे घृतेण्ड्यस्तिष्ठन्त्यहोरात्रकृताधिवासाः ।
स्वल्पैरहोभिः कृतसन्निपाता मुष्णन्ति चौरा भवनं तदानीम् ॥
तुल्या निदाघेन भवन्ति वर्षा[३४]विनिर्गतास्वम्बुघटस्य मूलात् ।
धान्यस्य मध्यात् पुनरुद्गतासु धान्यार्घपातो[३५]वनकीटकासु ॥
स्वल्पाश्रयाः स्वल्पवतोघृतेण्डयो मृत्युं रुजं वा जनयन्ति दीर्घाम् ।
उत्पत्तयेऽनर्थपरं परा याः स्युर्देहलीदेशविलोक्यमानाः ॥
बह्वो गृहस्योपरि निःसरन्ति रक्ताः पिपील्यो यदि सर्वमर्थम् ।
हरन्ति चौरा मरणं भयं च तज्जायतेऽवश्यमहोभिरल्पैः ॥
केदाररथ्यानृपदेवगेहचैत्यद्रुमद्यूतसभान्तरेषु ।


दृष्टा घृतेण्डयः खलु चत्वारादौ देशस्य भङ्गं जनयन्त्यवश्यम् ॥
विनिर्गताः प्राकूगृहगर्भभूमेः कुर्वन्ति शून्यं भवनं घृतेण्ड्यः ।
अग्नेर्विभागे स्वजनागमाय भवन्ति वृद्ध्यै दिशि दक्षिणस्याम् ॥
पयोधरो वर्षति यातुधान्यां योषिद्धनाप्तिर्दिशि पश्चिमायाम् ।
विहाय गेहं गृहिणी प्रयाति विनिर्गताभिर्दिशि मारुतस्य ॥
कुर्वन्ति ताः सम्पदमुत्तरस्यां देशस्य भङ्गं ककुभीशवत्याम् ।
ब्रह्मप्रदेशे दिनसप्तकेन लाभं पृथिव्या उपयोगसिद्धम् ॥

भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "अरुणोदये प्रदृश्यन्ते पतङ्गाः शलभव्रजाः"[३६]

पराशरस्तु ।
 अथेन्द्रादिदिक्पतङ्गावरोधने राजापनयबलप्रकोपरोगपरचक्रागमगोपवधशस्यक्षयरोगगोगजवधमादिशेत् ।
मयूरचित्रे ।

 ग्रामे पिपीलिका यत्र नगरेषु पुरेषु च ।
 अतिमात्रं प्रदृश्यन्ते तत्राप्युत्सादनं भवेत् ॥
 उड्डिका मक्षिका दंशाः शलभा मशका अपि ।
 भयरोगकरं प्राहुर्द्रव्यनाशं रिपूदयम् ॥
 अनग्निज्वलनप्रोक्ता तत्राग्नेयी द्वीतीयका ।
 शान्तिरन्याऽथ वाऽमुष्मिन् विश्वामित्रोदितोच्यते ॥
 औदुम्बरीणां समिधां सहस्रं जुहुयाच्छुचिः ।
 अष्टोत्तरमथाग्नयैर्मन्त्रैः समधुसर्पिषा ॥
 दासीदाससमायुक्तगृहं दद्याद्द्विजाय च ।
 कृष्णा धेनुस्तिलप्रस्थो दातव्यो हितमिच्छता ॥


वसन्तराजः ।

अश्वादिलाभं जघनोरुभागे कण्ठं च भोज्याभरणादिलाभम् ।
मुखे तु लक्ष्मीः मोः शिरसि त्वभीष्टमारोहणं मर्कटिका करोति ॥
पुंसां समारोहति यद्यदङ्गं शुभार्थिनो मर्कटिका सदैव ।
फलानि तेषामुपभोगभाञ्जि भवन्त्यवश्यं सुमनोहराणि ॥
श्रूयेत वामे यदि मञ्जु गुञ्जन् दृश्येत वा वामदिशि प्रसर्पन् ।
आस्वादयन् वा कुसुमं प्रशस्तं भृङ्गस्तदा स्यात् तु महान् प्रमोदः ॥

पराशरः ।
 भेका अतिपीताभाः सुभिक्षाय। अतीव नदन्तो वर्षाय। स एवानावृष्टिभयं ब्रूयाद्बहुशीर्षादिदर्शने ।
 अत्रानुक्तविशेषशान्तिषु पिपीलिकाद्युत्पातेषु सावित्रीमन्त्रकलक्षहोमादिका सामान्या शान्तिरौत्पातिककलगुरुलाघवमवगम्य कर्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे पिपीलिकाद्यद्भुतावर्त्तः ।



अथ खञ्जरीटदर्शनाद्भुतावर्त्तः ।

तत्र पराशरः ।
 अथ शार्ङ्गकः । तद्यथा । समन्तभद्रः प्रभद्रश्चानुद्रभद्र आकाशभद्रश्चेति भेदाः । यस्योरःशिरोग्रीवा अञ्जनाभास्तं समन्तभद्रं विद्यात् । शिरउरसी यस्य कृष्णे तं प्रभद्रम् । कण्ठोरसी यस्य तमनुभद्रम् । कण्ठगतमात्रं यस्य तमाकाशभद्रमिति ।
वसन्तराजः ।

समन्तभद्रश्च ततः प्रभवस्ततोऽनुभद्राम्बरभद्रसंज्ञौ ।
एषां चतुर्णामपि खञ्जनानामावक्ष्महे संप्रति लक्षणानि ॥

यः कन्धरोरःशिरसां समन्ताद्बिभर्त्ति कार्ष्ण्यं स समन्तभद्रः ।
कृष्णेन युक्तः शिरसोरसा तु भवेत् प्रभद्रः शितकन्धरास्यः ॥
कृष्णोरसी यस्य तु खञ्जनस्य कृष्णे भवेतां स मृतोऽनुभद्रः ।
कृष्णा भवेत् कण्ठगतैव रेखा यस्य त्वसावम्बरभद्रनामा ॥
मध्यादमीषां शुभकार्यसिद्ध्यै यो यो भवेत् पूर्वतरः स मुख्यः ।

एते च वर्णक्रमेण शुभसूचकाः ।
यथाऽऽह पराशरः ।
 अगस्त्योदयादिशरद्येते दृष्टाः क्रमाद्ब्राह्मणादीनां शुभाशुभमाविदयन्ति सर्वेषां वा समन्तभद्र इति ।
काश्यपो भद्रसम्पूर्णयोर्लक्षणमाह । तद्यथा ।

 स्थूलोऽभ्युन्नतकण्ठो यो भद्रकृष्णगलः स्मृतः ।
 कृष्णमूर्धगलान्तो यः स संपूर्ण इति स्मृतः ॥
 नामानुरूपेण फलं विहङ्गानां विनिर्दिशेत् ।

वराहसंहितायां च ।

 स्थूलोऽभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः ।
 आकण्ठमुखात् कृष्णः संपूर्ण: पूरयत्याशाम् ॥

तथा च वसन्तराजः ।

आकाशभद्रो गलमात्रकृष्णः शिताननः कार्यविनाशनाय ।

अयमेव रिक्त इत्युक्तं वराहसंहितायाम् ।
तद्यथा ।

 कृष्णो गलेऽस्य विन्दुः शितकरटान्तः स रिक्तकृद्रितः
 पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः ॥

वसन्तराजेन तु गोमूत्र इत्यस्य संज्ञा कृता ।
तद्यथा ।

स्याद्यो हरिद्रारससंनिकाशो गोमत्रनामा स तु खञ्जरीटः ।

निरीक्षितः प्राग्दिवसे प्रभूतं दुःखोद्भवं संशति यावदब्दम् ॥

वटकणिकायाम् ।

 खञ्जनकः पूर्वाह्णे श्रीमति देशे शुचौ बृहत्कायः ।
 कृष्णगलश्चेति शुभः पापोऽतोऽन्योऽतिपीतश्च ॥

विष्णुधर्मोत्तरे ।

 प्रथमं शार्ङ्गके दृष्टे शुभे देशे शुभं वदेत् ।
 संवत्सरं मनुष्यस्य अशुभं वा शुभं वदेत् ॥

अथ शुभस्थानि। तत्र पराशरः ।
 तडागोदपाननदीतीरक्षीरपुष्पवृक्षाग्रतोरणनगगोपुरारामाट्टालकशयनासनवनपद्मोत्पलकुसुमामरभवनगोमयकरीषदूर्वासुस्थितंप्रहृष्टं भक्षयन्तं खञ्जनकमभिसमीक्ष्यान्नपानप्रियगोऽश्ववस्त्रप्रियाप्तिं च विन्द्यात् ।
वसन्तराजः ।

नद्यादितीरब्रजगोपुरीषगोपुच्छदूर्वानृपमन्दिरेषु ।
अट्टालजम्बालफलप्रवालक्षीग्द्रुमोपस्कृततोरणेषु ॥
एतेषु चाद्येऽहनि खञ्जरीटो दृष्टोऽतिहृष्टः सहसोपविष्टः ।
भोज्यान्नपातप्रियगोऽश्ववस्त्रलाभाय रोगोपशमाय विष्टः ॥
गजाश्वशालोपवनान्तरेषु प्रासादहर्म्याग्रसिताम्बरेषु ।
दध्यादिभाण्डेष्वथ लिप्तभूमौ सुवर्णराजान्तिकचामरेषु ॥
सच्छायहृद्याम्बरयुग्मपत्रफलावनम्रेषु शुभद्रुमेषु ।
येनोपविष्टः प्रथमेऽह्नि दृष्टस्तस्य श्रियं खञ्जनको ददाति ॥

वराहसंहितायां तु ।

 अथ मधुरसुरभिफलकुसुमहनेषु सलिलाशयेषु पुण्येषु ।
 करितुरगभुजगमूर्ध्नि प्रासादोद्यातहर्म्येषु ॥
 गोगोष्ठसत्समागमयज्ञोत्सवपार्थिवद्विजसमीपेषु
 हस्तितुरङ्गमशालाच्छत्रध्वजचामराद्येषु ॥

 हेमसमीपसिताम्बरकमलोत्पलपूजितोपलिप्तेषु ।
 दधिपात्रधान्यकूटेषु च श्रियं खञ्जनः कुरुते ॥
 पङ्के स्वाद्वन्नाप्तिर्गोरससम्पच्च गोमयोपगते ।
 शाद्वलगे वस्त्राप्तिः...........॥

वसन्तराजः ।

स्याद्गोमये गोरसलाभहेतुर्वस्त्रस्य लाभाय च शाद्वलादौ ।
खादन् पिबन् भोजनपानलब्ध्यै लाभाय गेहस्य च नावि दृष्टः ॥

पराशरः ।
 पिबत्यम्भः पानागमं गोष्ठमध्ये गृहलाभं परसंदर्शितेऽन्यस्त्रीसमागमं फलविलिखिते क्षेत्रे पाणिग्रहणम्-इति ।
वसन्तराजः ।

संदर्शितेऽन्येन च खञ्जरीटे स्यादन्यनार्या सह सङ्गलाभः ।
विवाहलाभो हलखातभूमौ धान्यस्य राशावपि धान्यलाभः ॥

वराहसंहितायाम् ।

मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः ।
धनकृदभिविलीयमानको वियति च बन्धुसमागमप्रदः ॥
पृष्ठे त्वजाविकानां प्रियसंगममावहत्याशुं ।

वसन्तराजस्तु ।

 धान्यार्थलब्ध्यै महिषाव्यजादौ -उपरि पृष्ठ इत्यर्थ: ।

तथा च पराशरः ।
 गोश्वाजाविकमहिषपृष्ठे पृथ्वीधनधान्यागम इति । महिषीपृष्ठव्यतिरिक्तान्यावयवेष्वशोभनं तत्फलमशुभदेशे प्रशस्तमिति वक्ष्यामः -इति ।
वसन्तराजः ।

 तुरङ्गमातङ्गमहोरगेषु सरोजगोछत्रवृषेषु येन ।
 पर्वत्र दृष्टोऽहनि खञ्जरीटो निःसंशयं तस्य भवेन्नृपत्वम् ॥

वृषककुदि विशेषमाह पराशरः ।

वृषभककुदि सेनापत्यं गजशिरस्यातपत्रे राज्यागमम् ।

सर्पशिरसि विशेषो विष्णुधर्मोत्तरे |

 शार्ङ्गकं तु नरो दृष्ट्वा भुजङ्गमशिरोगतम् ।
 अवश्यं तदवाप्नोति यत्किञ्चिन्मनसेप्सितम् ॥

कृष्णसर्पशिरसिं तु विशेषमाह पराशरः ।

कृष्णभुजङ्गममस्तकारूढो महदविकलं सकलवसुधाधिपत्यम्-इति ।

राज्यं भूमानापेक्षया बोद्धव्यम् ।
यदाह वसन्तराजः ।

क्षेत्रे ग्रामो ग्रामकत्वे पुरं स्यात् पुर्यां सत्यां मण्डलं मण्डलेषु ।
सर्वाऽप्युर्वीत्येवमत्रातिमात्रो यो लामस्तं राज्यमित्यालपन्ति ॥
एवं प्रकारेषु मनोरमेषु स्थानान्तरेष्वेषु फलान्तराणि ।
इच्छानुरूपाणि ददात्यवश्यं पूर्वत्र दृष्टोऽहनि खञ्जरीटः ॥

पराशरः[३७]

अपां समीपे गजमस्तके वा सूर्योदये ब्राह्मणसन्निधौ वा ।
पुण्येऽवकाशे गहने वने वा पश्येत् तु यः खञ्जनकं स धन्यः ॥

वराहसंहितायाम् ।

सूर्योदये प्रशस्तो नेष्टफलः खञ्जनोऽस्तमयेऽतीव ।
नृपतिरपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात् ॥
सुरभिकुसुमधूपयुक्तमर्धं शुभमभिनन्दितमेवमेति वृद्धिम् ।

वसन्तराजः ।

दृष्ट्वोदितेऽगस्त्यमुनौ सुदेशे सुवेष्टितं खञ्जनकं विदध्यात् ।
मन्त्रेण पूजां शिरसा प्रणामं तत्सूचितस्येष्टफलस्य वृद्ध्यै ॥
त्वं योगयुक्तो मुनिपुत्रकस्त्वमदृश्यतामेति शिखोद्गमेन ।
विलोच्यसे प्रावृषि निर्गतायां त्वं खजनाश्चर्यमयो नमस्ते[३८]


अथाशुभस्थानानि । तत्र पराशरः ।

 शुष्ककाष्ठपलालदग्धास्थिभस्मतृणतुषाङ्गारभग्नगृहयूपशङ्कु-शून्यकुम्भकण्टकिवल्लीशकटस्तम्भप्राकारशिखरपाषाणसिकतास्वप्रहष्टं दृष्ट्वा व्याधिकलहानर्थागमान् विन्द्यात् ।
वसन्तराजः ।

वल्लीदृषत्कण्टकिशुष्कवृक्षदग्धास्थिशूलाकृतभाजनेषु ।
शून्यालये लोमसु गेहकोणे बुने पलाले सिकतासु यूपे ॥
एषु प्रदेशेष्वथ वा पुरेषु यदीदृशेषूपतेषु दृष्टः ।
कुमूर्त्तिचेष्टः स तदा करोति न्यक्कारभीरुः कलहाद्यनार्थान् ॥

वराहसंहितायाम् ।

 गृहपटलेऽर्थभ्रंशो बध्ने बन्धोऽशुचौ भवति रोगः
 पक्षौ धुन्वन्नशुभः शकटस्थे देशविभ्रंशः[३९]

वधूश्चर्मरज्जुः । तथा च वसन्तराजः ।

बध्नीवरत्रास्वशुचौ च रोगो गृहच्छदे स्याद्रविणस्य नाशः ।
निरीक्ष्यते वा निशि देशभङ्गो निद्राभिभूतं च भवन्ति रोगाः ॥

पराशरः ।
 मृते मरणम् । बध्रे बन्धम् । अशुचौ व्याधिम् । स्वरकरभपृष्ठे मरणं प्रवासं वा । युध्यमाने कलहम् । पक्षपातने मृत्युं स्मशाने वा ।
वराहसंहितायाम् ।

 महिषोष्ट्रगर्दभास्थिश्मशानगृहकोणशर्कराट्टस्थः ।

वसन्तराजः ।

श्वानोष्ट्रवालेयकष्टपातस्थितः स्वपत्युर्विदधाति मृत्युम् ।
पक्षौ च धुन्वन् दिवसस्य चान्ते वृद्धो मृतो वानशुभः कदा चित् ।

वराहसंहितायाम् ।

 मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः ।


पराशरः ।

 येन येन प्रकारेण नरः पश्यति शार्ङ्गकं स स प्रकारो विज्ञेयो यथा तस्य तथाऽऽत्मनि ।
विष्णुधर्मोत्तरे ।

 यथाविधं नरः पश्येत् शार्ङ्गकं प्रथमेऽहनि ।
 आत्मनश्च तथा तेन ज्ञातव्यं वत्सरं फलम् ॥

वसन्तराजः ।

यादृग्व्यवस्था शकुनैरमुष्य शुभाशुभत्वं प्रथमेऽह्नि दृष्टम् ।
स्वस्यापि तादृग् ह्यु लक्षणीयं तद्विस्तरेणान्यमिहापरेण ॥

फलानि चात्र दर्शितान्येव ।
वराहसंहितायाम् ।

खञ्जनको नामायं यो विहगस्तस्य दर्शने प्रथमे ।
प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि ॥

काश्यपः ।

 दर्शने पाकमावर्षात् प्रथमे प्रवदेद्बुधः ।
 प्रतिदिवसके वाच्यं दर्शनेऽस्तमये फलम् ॥

वराहसंहितायाम् ।

 आवर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु दिनशेषे ।
 दिक्स्थानमूर्त्तिलग्नशान्तिदीप्तादिभिश्चोह्यम् ॥

अथाशुभशान्तिर्वराहसंहितायाम् ।

अशुभमपि विलोक्य खञ्जनं द्विजगुरुसाधुसुरार्चने रतः ।
न नृपतिरशुभं समाप्नुयाद्यदि न दिनानि च सप्तामांसभुक् ॥

वसन्तराजः ।

कुचेष्टितोऽन्यः कुवयाः कुवेषो निरीक्ष्यते खञ्जनकः कदा चित् ।
दृष्टो विशेषात् परितोषयेत् तं घाताय तत्सूचितदुष्कृतस्य ॥
मांसं न भुञ्जीत शयीत भूमौ स्त्रियं न सेवेत दिनानि सप्त ।
स्नायाजपेत् संजुहुयाद्विधाय पैष्टं पुमान् खञ्जनमर्च्चयेच्च ॥

पराशरः ।

 सर्वोषधैः सर्वबीजैः सर्वगन्धैश्च मानवः ।
 अहोरात्रोषितः स्नातो रत्नाधरेण वारिणा ॥
 देवद्विजातिपूजाभिराशीर्भिर्गतकिल्बिषः ।
 खञ्जरीटकृताद्दोषान्मुच्यते महतोऽप्यसौ ॥

वसन्तराजः ।

पूर्वोक्तमेतच्छकुनं समस्तं यात्रादिकालेष्वपि तुल्यमाहुः ।
खञ्जनस्य परिकीर्त्तितं शुभं दर्शनं भवति मङ्गलप्रदम् ॥
यात्यसौ यदि पुनः प्रदक्षिणं तत् करोति कथितस्य वाञ्छितम् ।

वराहसंहितायाम् ।

 नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम् ।
 पश्येत् तया गतस्य क्षिप्रमरातिर्वशमुपैति ॥

वसन्तराजः ।

प्रत्यक्षमाश्चर्यमिदं विहाय सर्वो जनः पश्यतु खञ्जनस्य ।
अङ्गारखण्डः किल भूमिभागे तस्मिन् भवेद्यत्र करोति विष्ठाम् ॥
यत्रावनौ मैथुनमभ्युपैति सत्यं भवेत् तत्र महानिधानम् ।

कश्यपस्तु ।

 मैथुनं कुरुते यत्र तत्राधः काञ्चनं दिशेत् ।

वराहसंहितायाम् ।

  तस्मिन् निधिर्भवति मैथुनमेति यस्मिन्
 तस्मिन् समुद्गिरति तत्र तलेऽस्ति काचः ।
  अङ्गारमप्युपदिशेच्च पुरीषणेऽस्य
 तत्कौतुकापनयनाय खनेद्धरित्रीम् ॥

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे खञ्जनाद्भुतावर्त्तः ।

तत्र वसन्तराजः ।

ग्रामेण तुल्यः स्वकटेन नीलो योऽसौ पुमान् पाण्डुरगण्डयुग्मः ।
लघ्वी ततो धूमनिभा च नारी तत्पोतकी युग्ममुदाहरन्ति ॥
कण्डूयमाना चरणौ नराणां विदेशयानं कुरुते कुमारी ।
मुखस्य काष्ठादिषु घर्षणेन कष्टं कुमारी वितरत्यनन्तम् ॥
वामेन यान्ती विमला विशन्ती प्रस्थापयत्यन्त्यजसंनिवेशम् ।
केशास्थिवक्त्राऽऽभरणं नराणां काष्ठानना वस्त्रमुपादधाति ॥
अङ्गारवक्त्रा क्षयकृत् कुलस्य बन्धं भयं जल्पति रज्जुवक्त्रा।
स्नानेन धूल्यां विपदं विचेष्टोद्भ्रान्ती जलस्नानमनिष्टमाह ॥
पङ्के रुजं भस्मनि जीवनाशं शश्वत् परिभ्राजकतां विधत्ते ।
निश्चेष्टका या परतन्त्रभावमूर्ध्वानना प्रेतपुरीनिवासम् ॥
वृक्षावतीर्णा द्रविणप्रणाशं स्थानाविघातं कुरुते प्रसुप्ता ।
रोगाभिघातं तनुवर्धनने तिरोहितत्वेन भयं प्रसूता ॥
प्रसारणात् पक्षयुगस्य देव्याः कलिः कुटुम्बस्य परस्परं स्यात् ।
गुणाश्च दोषाश्च यदा विमिश्रा निरूप्यमाणे शकुने भवन्ति ॥
ग्राह्यास्तदा तेष्विह भूरयो ये तान् पोतकी संविदधाति पश्चात् ।

 अत्रानुक्तविशेषशान्तिषु पोतक्यद्भुतावर्त्तेषु मृगपक्षिविकारविहिता शान्तिः किमिच्छकदानादिका वा सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे पोतक्यद्भुतावर्त्तः ।

तत्र वसन्तराजः ।

प्रभूतपुष्पे परमप्रमोदो व्याधिर्व्यथाऽनर्थ रुजस्तु लाभः ।
अत्यर्थलाभं फलशोभिशाखे वृक्षे भवेत् क्षीरिणि भूमिलाभः ।
स्वस्थानलाभः सुतरौ सुचेष्टे धान्यानि सौख्यानि पुनः सुभूमौ ।
भक्ष्यपूर्णवदनः शुभशब्दो यत्प्रदेशनिरतो विहङ्गमः ॥
सम्पदं प्रवितरत्यतिबह्वीं तां निहन्ति पुनरुत्थितवक्षाः ।

वराहसंहितायाम् ।

 चिरिल्विरिल्विभिः स्वनैः शुभं करोति पिङ्गला ।
 अतोऽपरे तु ये स्वराः प्रदीप्तप्तंज्ञितास्तु ते ॥

वसन्तराजः ।

मध्ये घनाऽथो महती च शाखा शुभाय तस्यां शुभशब्दकारी ।
प्रान्ते च लाभो वदनावलम्बी स्यादन्तरस्यां शुभदो न पिङ्गः ॥
भूरिकोटरयुते परिशुष्के पादपे रटति मोटितशाखे ।
अम्बरे च कुरुते यदि शब्दं मृत्युदस्तदचिरंण पतत्री ॥
उन्मूलिते भूरुहि दुष्टशब्दे नष्टावशेषेऽपि विनश्यतीर्थः ।
प्रलम्बमानः सकलं विनाशमसंशयं शंसति खेचरोऽयम् ॥
अधिष्ठितः कीकसकाष्ठशूलान्यङ्गारवद्भस्मितवामलूरान् ।
शान्तस्वरो वाञ्छितकार्यनाशं दीप्तारवो वक्ति मृतिं विहङ्गः ॥
कण्डूयमानः खग उत्तमाङ्गं पुष्पाप्तयेऽभीप्सितलब्धये च ।
कण्डूयमानोऽक्षि हितेक्षणाय महार्थलाभाय च संप्रदिष्टः ॥
कर्णस्य कण्डूयनतो नराणां गीतेषु वार्त्ताश्रवणे भवेताम् ।
कण्ठस्य कण्ठाभरणाप्तियुक्तिः स्कन्धे करीन्द्रस्य तथैव रोहः ॥

मुखे च कण्डूतिरभीष्टभोज्यमालिङ्गन वक्षसि बान्धवस्य ।
लाभः प्रियाया युवतेविशेषाद्बाह्वोः पशून् वाञ्छति पिङ्गलायाः ॥
कक्षप्रदेशे धनपुत्रलब्धी कुक्षावपि स्यात् सुतसङ्गमाय ।
पार्श्वे प्रियायाः परिरम्भणाय स्थानाय सम्यक् सुखलब्धये न ॥
भर्त्तृव्ययौ बन्धनधान्यलाभौ कण्डूयमाना जठरं ददाति ।
कटीपुरस्तात् कटिसूत्रवस्त्रपुत्राप्तये पिङ्गलिका नराणाम् ॥
भवेन्नितम्बेऽम्बरयोषिदाप्तिर्जालूरुभागे रिपुतो जयः स्यात् ।
कण्डूयतेऽधस्तदलङ्कृतीनां लाभोऽल्पदेशाह्रविणागमश्च ॥
सुगन्धिवस्तूनि वसु प्रभूतं घोणाग्रकण्डूयनतो ददाति ।
ललाटकण्डूयनतो नरस्य स्यात् पट्टजन्वो महती च कीर्त्तिः ॥
मुदं विहङ्गोऽऽङ्गविलोकेन स्पर्शेन गल्लन्य सुखं मुखस्य ।
भद्राणि वक्षोग्रहणात् फलानि क्रीडासुखं क्रीडनके ददाति ॥
निरीक्ष्य वक्षो यदि वामभागं स्पृशेत् तदा सङ्गमत् प्रियाभिः ।
यदा पुनः पश्यति वक्ष एव खगस्तदा मित्रसमागमाय ॥
महार्थलाभोऽरिपराजयश्च पक्षद्वये मुर्ध्नि कृते भवेताम् ।
एकत्र पक्षद्वितयेऽथ वा स्यात् विस्तरिते पिङ्गलया धनर्द्धिः ॥
महद्धनं देहजपक्षपुच्छप्रसारणात् त्रोटिपुटेन पुंसाम् ।
भवत्यभीक्ष्णं शुभमाभिमुख्ये सङ्गो विहङ्गद्वयसंनिकर्षे ॥
रतौ रताप्तिः खलु पिङ्गलायाः परस्परं प्रेप्त च पुच्छकम्पे ।
लीलाविलासं कुरुते सलीलमन्योन्यकण्डूयनतः प्रियाणि ॥
अन्योन्यकर्णाननचुम्बनार्थविहङ्गमो सङ्गमभोज्यहेतुः ।
एवंविधाः शोभनकायचेष्टाः स्युः पिङ्गलायाः शुभदाः सदैव ॥
पिको व्रजित्वा यदि दक्षिणेव स्थित्वा च शान्ते शुभदं निनादम् ।

कुर्यात् तदर्द्धिं महतीं ददाति गाहत्यशास्त्रस्वरचेष्टिताऽसौ
अवामपादोच्छ्रयणेन सौख्यमाख्याति वामोच्छ्रयणादसौख्यम् ।
धूत्वा शिरोऽङ्गान्यथ वा विहङ्गः शुभस्वरो रोगमुपाददाति ॥
अशास्त्रशब्दस्तु ददात्यसाध्यं वाधावहं दुस्तरदुःखदाहम् ।
त्वचं समुच्छिद्य तरोरधस्तात् पत्राणि पुष्पाणि फलानि वाऽपि ॥
पक्षी क्षिपन् देहभृतां सपक्षं क्षिप्रं च लक्ष्मीं क्षिपयत्यवश्याम् ।
अर्धं पदा वा यदि वा समग्रं कण्डूयतेऽसौ शुभदा न चेष्टा ॥
स्याद्दक्षिणस्यास्य कलेवरस्य कण्डूयनं वामपदा न भद्रम् ।
स्थानप्रदीप्तेर्वसतेर्विनाशः काष्टाप्रदीप्तेस्तु कलेवरस्य ॥
निनाददीप्तेस्तु भवेद्व्रतस्य दीप्तित्रये स्थानवपुर्धनानाम् ।
दिक्पालचेष्टाभिरनिष्टमिष्टं यत् पिङ्गलायाः फलमामनन्ति ॥
तथैव तादृक् सुधिया समस्तं खगान्तरेभ्योऽप्युपलक्षणीयम् ।

 अत्रानुक्तविशेषशान्तिषु कृष्णपेचिकोत्पातेषु मृगपक्षिविकारविहिता शान्तिः किमिच्छकदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे कृष्णपेचिकाद्भुतावर्त्तः ।
अथ वायसद्भुतावर्त्तः ।

तत्र वसन्तराजः ।

अथोच्यते काकरुतं रुतानां मूर्ध्नि स्थितं शाकुनभाषितानाम् ।
अचिन्तिताचिन्तितभूरिकार्यं पूर्वादिकाष्ठाप्रहरक्रमेण ॥
ये ब्राह्मणक्षत्रियवैश्यशूद्राः काका भवन्त्यन्त्यजपञ्चमास्ते ।
वर्णाकृतिभ्यामृषिभाषिताभ्यां सदैव युक्तैरुपलक्षणीयाः ॥

विष्णुधर्मोत्तरे ।

 प्रोषितागमनं काकः कुर्वन् द्वारि गतागतम् ।

पराशरः ।
 गृहद्वारि चेद्गतागतं कुर्यादागन्तूनां समागमं कुर्यात् । यस्य वेश्मन्यार्द्रलेखं पातयेत् तस्य विद्यागमो भवेत् । आर्द्रकाष्ठलाभाय आर्द्रपक्षो वाऽन्नमुखोऽप्यतिश्रीलाभाय । चैलं परामृष्य गृहे तिष्ठन् क्षेमाय । तुण्डेन व्रीहीन् गोऽश्वकुञ्जरवेश्मसुपुत्रलाभाय ।
पातयेदिति सम्बन्धः ।
वराहसंहितायाम् ।

 शस्योपेते क्षेत्रे विरुवति शान्ते सशस्यभूलब्धिः ।
 पुरतो जनस्य महतो वधमभिधत्ते तदा बलिभुक् ॥
 अन्योन्यभक्षनंक्रामितानने तुष्टिरुत्तमा भवति ।
 विज्ञेयः स्त्रीलाभो दम्पत्योर्वाशतो युगपत् ॥
 प्रमदाशिर उपगतपूर्णकुम्भसंस्थेऽङ्गनार्थसम्प्राप्तिः ।
 घटकुट्टने सुतविपद्घटोपहदनेऽन्नर्थसंप्राप्तिः ॥

पराशरस्तु ।
 पक्षानुत्सार्वालुनीय पुच्छमञ्जसा रुतिं कुर्वन्तस्तुण्डैर्वाऽन्योन्यं स्पृशेयुः स्त्रीलाभः स्यात् । परस्परमारोहयेयुः पूर्वेण भूमिलाभ स्यात् ।
वराहसंहितायाम् ।

 सुस्निग्धपत्रपल्लवकुसुमकलानम्रसुरभिमधुरेषु ।
 सक्षीराव्रणसंस्थिनमनोज्ञवृक्षेषु चार्थसिद्धिकरः ॥
 निष्पन्नशस्यशाद्वलभवनप्रासादहर्म्यहरितेषु ।
 हर्म्योच्छ्रयमङ्गल्येषु[४०] चैव विरुवन् धनागमदः ॥


वसन्तराजः ।

विरौति कुम्भे मणिकेऽथ वा यः स गर्भवत्याः शुभजन्महेतुः ।
उड्डीयते कण्टकिनां च शाखामादाय राजागमनाय काकः ॥
छायार्थलाभं भूवि भूमिलाभं विघ्नं जले ग्रावणि कार्यनाशम् ।
करोति काको विरुवन् नरस्य प्रस्थापिनः स्थानगतस्य वाऽपि ॥

वराहसंहितायाम् ।

 सक्षीरार्जुनवञ्जुलकूलद्वयपुलिनगा रुवन्तश्च ।
 प्रावृषि वृष्टिं दुर्दिनमनृतौ स्नाताश्च पांशुजलैः ॥
 सलिलमवलोक्य विरुवन् वृष्टिकरोऽब्दानुकारी च ।

विष्णुधर्मोत्तरे ।

 शास्त्राङ्गवाहनोपानच्छस्त्रवस्त्रादिकुट्टने ।
 मृत्युस्तत्पूजने पूजा तद्वद्विष्ठाकरं शुभम् ॥

बृहद्यात्रायां वराहः ।

 उपानच्छ्स्त्रयानाङ्गच्छत्रच्छायावकुट्टने ।
 मृत्युं तत्स्वामिनो विद्यात् पूजा स्यात् तस्य पूजने ॥

संहितायां तु विशेषः ।

 वाहनशस्त्रोपातच्छत्रच्छायाङ्गकुट्टने मरणम् ।
 तत्पूजायां विष्ठा पूजाकरणेऽन्नसंप्राप्तिः ॥

पराशरः ।
 अनामिषं छत्रमुपानहौ वा तुण्डैरवकुट्टयन् स महाभयाय । शयने शरकाण्डं विनाशाय । दूर्वाकेशाँश्च कुलविनाशाय । तालपत्रमशीवल्कलश्रेष्ठचर्माक्तप्रदेशाँश्चतुष्पदान् शयने विलिखन् नाशाय एव । शुष्ककाष्ठजीर्णचैलं विनाशाय । यस्य शयनमवमूत्रयेत् तस्य भार्या दुष्टां विद्यात् ।
बृहद्यात्रायां वराहः ।

 हरेदुपलभेट्वाऽपि यद्द्रव्यं वायसोऽग्रतः ।

 तत्प्राप्तिनाशौ विज्ञेयौ हेमपीते विनिर्दिशेत् ॥

इतस्य नाश उपनीतस्य प्राप्तिः ।
यदाह वराहसंहितायाम् ।

यद्द्रव्यमुपनयेत् तस्य लब्धिरपहरति चेत् प्रणाशः स्यात् ।
पीतद्रव्यैः कनकं वस्त्रं कार्पासिके सितै रूप्यम्

विष्णुधर्मोत्तरे ।

 यच्चैवोपनयेद्द्रव्यं तस्य लब्धिं विनिर्दिशेत् ।
 द्रव्यं वाऽपनयेद्यस्तु तस्य हानिर्द्विजोत्तम ॥
 पीतं शुक्लं तथा रूक्षं रूप्यमेव तु भार्गव ।

वसन्तराजश्च ।

द्रव्यं हरन् वा हरतीह यादृक् प्रणाशलाभावपि तादृशस्य ।
रूक्षस्य पीते रजतस्य शुक्ले चैलस्य कार्पासमये भवेताम् ॥

पराशरः ।
 शुष्कगोमयराशौ पादौ विलिखेन्नवपालाशभूर्यपत्रं वा गृहीत्वोपसर्पेत् तस्य वस्त्राणां लाभः स्यात् । यस्य कर्षेत् नाशस्तेषामेव ।
वराहसंहितायाम् ।

 पूर्णाननेऽर्थलाभः सिकताधान्यार्द्रमृत्कुसुमपूर्वैः ।
 भयदो जनसंघात[४१]द्यदि भाण्डान्यपनयेत् काकः ॥

पराशरः ।
 प्रेष्ये चेत् प्रेष्यमाणे दृषदि काको निपतेत् तस्य व्याधिभयं मरणभयं वा ब्रूयात् ।
यदर्थं तत् प्रेष्यते ।
वराहः ।

 [४२]स्कन्धावारादीनां निवेशसमये रुवँश्चलत्पक्षः।
 सूयतेऽन्यत् स्थानं निश्चलपक्षस्तु भयमात्रम् ॥


 प्रविशद्भिः सैन्यादीन् सगृध्रकङ्कैर्विनाऽऽमिषं ध्वाङ्क्षैः ।
 अविरुद्धैस्तैः प्रीतिर्द्विषतां युद्धं विरुद्धैश्च ॥
 विरुद्धस्याग्रतः पक्षौ धुन्वन् ध्वाङ्क्षो भयप्रदः ।
 मृत्युरभ्युपसर्पँश्च संस्पृशँश्च तथा भवेत् ॥

वसन्तराजः ।

भ्रमन्नधो द्वौ परिधूय पक्षौ काकः कुनादः प्रलयं करोति ।
क्रुद्धोऽधिरूढः करटातुरश्च रोगेण मृत्युं कुरुते नराणाम् ॥
द्वारप्रदेशे रुधिरानुलिप्तो विरौति काकः शिशुनाशनाय ।
पक्षौ विधुन्वन् विरुवन् विरुक्षः शान्ते प्रदीप्ते च भवेन्नशस्तः ॥
रुवँस्तु दृष्टस्तृणपर्णवक्त्रो हुताशभीतिं करटः करोति ।
स्यात् प्रस्थितस्याप्यथ वा स्थितस्य दुःखं प्रभूतं दिवसत्रयेण ॥

पराशरः ।
 सुमनोदामवेष्टनं वस्त्राणि वा हरन् प्रदक्षिणीकुर्वन् कामाप्तिम् । यस्याग्रतो भुवि रज्जुं पातयेत् तस्य सर्पचौरागमाय । पथि सपत्रां शाखां वेलयन् नाशाय । रज्जुमग्रतो विकर्षन् सर्पतस्तस्करेभ्यः -इति । भयमावेदयतीति सम्बन्धः । अस्त्रमुपभुक्तां शाखां शस्यं वा ग्रामस्य निष्क्रामथाताय ।
विष्णुधर्मोत्तरे ।

 न्यसेद्रज्जुं पुरस्ताच्चेन्निवेदयति बन्धनम् ।

वराहसंहितायाम् ।

 यदि शृङ्खलां वरत्रां वल्लीं वाऽऽदाय वाशते बन्धः ।
 पाषाणस्थे च भयं क्लिष्टापूर्वाध्वगयुतिश्च ॥

विष्णुधर्मोत्तरे ।

 रक्तद्रव्यं गृहे दग्धं क्षिपन् वह्निनिवेदकः ।

वराहसंहितायाम् ।

 दीप्तोद्विग्नो विटिपेऽवकुट्टयन् वह्निकृद्विधुतपक्षः ।
 रक्तद्रव्यं दग्धं तृणकाष्ठं वा गृहे विदधत् ॥

पराशरस्तु ।
 शिरो विकम्पयन्तो वाशमानाः सशर्करदीप्तस्थानाद्गणशो ग्रामाभिमुखं धावन्तोऽग्निमाशंसन्ति । तृणरज्जुकार्पासतन्तृँश्चाग्निभयाय । शुष्ककाष्ठं चौरभयाय विततपक्षा गृहे किञ्चिद्विलिखेयुर्भवेत् कटुम्बिनी दुष्टा । वामेन मण्डले नीलीयमानास्तदा सैव विधवा । बहवश्चेत् परस्परं भ्रमेयुः स्त्रीविनाशाय स्युः । परस्परमाहन्युः स्वजनो दुष्येत् । गृहेषु पुनरुत्पतेयू राजगमनम्। अथैकश्चेज्जीवन्तमाखुमादाय गृहे निपातयेच्छ्रीनाशाय । तमेव मृतं कलहाय । प्रतिवाश्य पुच्छं प्रचालयन् सर्वस्वहरणाय ।
वराहसंहितायाम् ।

 प्रतिवाश्य पृष्ठतो दक्षिणेन यायाद्भुतं क्षतजकारी ।
 एकचरणोऽर्कमीक्षन् विरुवँश्च पुरो रुधिरहेतुः ॥
 दृष्ट्वाऽर्कमेकपादस्तुण्डेन लिखेद्यदा स्खपिच्छानि ।
 पुरतो जनस्य महतो वधमनिधत्ते तदा बलिभुक् ॥

पराशरस्तु ।

 सूर्योदये जन्तुं तुण्डेन दारयेयू राज्ञोऽमात्यस्य वा वधः।

वराहः ।

 [४३]मृतपुरुषाङ्गावयवे स्थित्वाऽभिस्वँश्च मृत्युकरः ।
 भुञ्जन्नस्थि च चञ्च्वा यदा रुवत्यस्थिभङ्गाय च ॥
 रज्जवस्थिकाष्ठकण्टकिनिःसारशिरोरुहानने रुवति ।
 भुजगगददंष्टितस्करशस्त्राग्निभयान्यनुक्रमशः ॥


 ऊर्ध्वमुखाश्चलपक्षाः पथि भयदाः क्षुद्भयाय धान्यमुखाः ।
 सेनाङ्गस्था युद्धं परिमोषं चान्यभृतपक्षाः ॥
 काष्ठरज्ज्वस्थिनिःसारकेशकण्टकिभृद्रुवन् ।
 व्यालाहिव्याधिशस्त्राग्नितस्करेभ्यो भयङ्करः ॥
 युद्धं सेनाङ्गसंस्थे तु मोषकृत् स्वविलेखने ।
 चरन् निशि विनाशाय दुर्भिक्षं धान्यमोषकृत् ॥

विलेखनमङ्गादिविलेखनम् ।
पराशरस्तु ।
 निश्यन्तरिक्षे सङ्कशः सशब्दं चरेयुर्नृपजनपदयोर्भयम् । सन्ध्यायां सर्व उपरिक्रम्य निलीना अन्नभयम् ।
मत्स्यपुराणे ।

 "दुर्भिक्षावेदिनो ज्ञेयाः काका धन्यमुखा यदि ।
 जनानभिभवन्तीह निर्भया रणवेदकाः"[४४]

पराशरस्तु ।

धान्ये शिरो निधाय कंम्पयन् पुरीषं वा भक्षयन् दुर्भिक्षाय ।

वराहः ।

 [४५]अकार्यसंहतैर्भेदो रोधश्चक्राकृतिस्थितैः ।
 वर्गगैश्चाभिघातः स्याद्रिपुवृद्धिश्च निर्भयैः ॥
 अनिमित्तसंहतैर्ग्राममध्यगैः क्षुद्भयं प्रवाशद्भिः ।
 रोधश्चक्राकारैरभिघातो वर्गवर्गस्यैः ॥
 अभयांश्च तुण्डपक्षैश्वरणविघातैर्जनानभिभवन्तः ।
 कुर्वन्ति शत्रुवृद्धिं निशि विचरन्तो जिनविनाशम् ॥
 सव्येन खे भ्रमद्भिः स्वभयं विपरीतमण्डलैश्च परात् ।
 अत्याकुलं भ्रमद्भिर्वातोद्भ्रान्तिर्भवति काकैः ॥


विष्णुधर्मोत्तरे ।

 अपसव्यं भ्रमन्तश्च मण्डले रणवेदिनः ।

भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "वायसाश्च रुदन्त्युग्रं वामं मण्डलमाश्रिताः"[४६]

वसन्तराजः ।

निष्कारणं संमिलिता रुवन्तो ग्रामस्य नाशाय भवन्ति काकाः ।
रोधं च चक्राकृतयो वदन्ति सव्यापसव्यभ्रमणाद्भयं च ॥
विघातमाहुर्बहुवर्गसंस्था रात्रौ रुवन्तो जनताविनाशम् ।
लोकं च चञ्चूवरणप्रहारैरुट्वेजयन्तः परचक्रवृद्धिम् ॥

सुन्दरकाण्डे रावणवधनिमित्तम् ।

 "वायसाः सङ्घशः क्रूरा व्याहरन्ति इतस्ततः ।
 समवेताश्च दृश्यन्ते विमानायेषु संप्रति"[४७]

पराशरः ।

 वित्रस्तत्वात् तत्सधूमास्तु उड्डीनाश्चोर्ध्वं वायसाः क्रोशन्त्यारुवन्तः सर्वे सव्या युद्धागमाय च । अथ वाश्यमानोऽग्निगेहस्थो रूक्षं वाहरेत् कुलश्रेष्ठविनाशं विन्द्यात् । प्राकारेषु कुलश्रेष्ठविनाशम् । शयने कुटुम्बविनाशम् । घटस्थे कुटुम्बिनीं दुष्टाम्। लोहितद्रव्ये ताम्रागमम् । कृष्णे आयसः । श्वेते रजतस्य इन्द्रध्वजपताकावाहनायुधेषु दीनस्वरैस्तिष्ठेयुश्चमूवधः । परस्परं पक्षान् योजयेयुर्वस्त्रागमम् । दक्षिणमण्डलानि कुर्युः स्वपक्षागमम् । वामान् परचक्रागमम् वृक्षपत्राणि लक्षयेदुर्भक्ष्यानुबन्धः मध्याह्ने शिरोग्रीवामूर्धतोव्याहरेयुः शस्त्रोत्पातः । परिवृत्तेऽह्नि पुराट्टालकेषु व्याहरेयुः पुरनाशः । दीप्ता दीप्तस्वराः पुरत उड्डीयेरन् सेनाग्रामसामर्थ्यघातम् । आग्नेय्यामग्भनियम् । याम्यायां मरकभवम् । नैर्ऋत्यां वारुण्यां


च भयम् । वायव्यां वातवेगम् । उदीच्यां शस्त्रकोपम् । ऐशान्यां वर्षम् । दीप्तायां दिशि मण्डलानि कुर्वन्त आगच्छेयुर्यथादिशं वर्णोपद्रवः । ऊर्ध्वमुखा मण्डलिनो निलीयेरन् वातोद्भवो वा वर्षं वा । पुरुषादूर्ध्वमन्तरिक्षगतानां व्याहरतां चेष्टां न प्रमाणीकुर्यात् ।

वराहसंहितायाम् ।

 ऐन्द्रादिदिगवलोकी सूर्याभिमुखो रुवन् गृहे गृहिणः ।
 राजभयचौरबन्धनकलहाः स्युः पशुभयं चेति ॥
 शान्तामैन्द्रीमवलोकयन् रुवन् राजपुरुषमित्राप्तिः ।
 भवति च सुवर्णलब्धिः शाल्यन्नगुडाशनाप्तिश्च ॥
 आग्नेय्यामनलाजीविकयुवतिप्रवरधातुलाभश्च ।
 याम्ये माषकुलूत्थाभोज्यं गान्धर्विकैर्योगः ॥
 नैर्ऋत्यां दूताश्वोपकरणदधितैलभोज्याप्तिः ।
 वायव्यां मांससुरावधान्यसमुद्ररत्नाप्तिः ॥
 मारुत्यां शस्त्रायुधशरोजवल्लीफलासनावाप्तिः ।
 सौम्यायां परमान्नाशनं तुरङ्गाम्बरप्राप्तिः ॥
 एशान्यां संप्राप्तिर्घृतपूर्णानां भवेदनडुहश्च ।
 एवं फलं गृहपतेर्गृहपृष्ठसमाश्रिते भवति ॥

वसन्तराजः ।

सूर्योदय पुर्वदिशि प्रशस्ते स्थाने स्थितोऽसौ मधुरं विरौति ।
नाशं रिपोश्चिन्तितकार्यसिद्धिं स्त्रीरत्नलाभं स करोति काकः ॥
ध्वाङ्क्षः प्रभाते यदि वह्निभागे विरौति तिष्ठन् रमणीयदेशे ।
शत्रुः प्रणयत्यथ वा न सत्वं प्रयाति योषित् समवाप्यते च ॥
रुवन् प्रभाते यदि दक्षिणस्यां काकः समावेदयतेऽतिदुःखम् ।
रोगार्त्तिमृत्यं परुषस्वरेण रम्येण चेष्टागमयोपिदाप्तिः ॥

नैर्ऋत्यभागे च यदि प्रभाते करोति काकः सहसा विरावम् ।
क्रूरं ततः कर्म किमभ्युपैति दूतागमो मध्यमिका च सिद्धिः ॥
प्रातः प्रतीच्यां यदि रौति काको ध्रुवं तदा वर्षति वारिवाहः ॥
स्त्रीरत्नभूभृत्पुरुषागमश्च कलिः कलत्रेण समं तथा स्यात् ॥
ध्वाङ्क्षे सशब्दे पवनालयस्थे वस्त्रागमं च स्वजनस्य लाभः ।
पान्थागमो ब्राह्मणवृत्तिनाशः स्यादन्यदेशे गमनं स्वदेशात् ॥
दिश्युत्तरस्यां सरवः प्रभाते निरीक्षमाणो बलिभुग्नराणाम् ।
ददाति दुःखं भुजगाच्च भीतिं दरिद्रतां नष्टधनेष्टलाभौ ॥
दिशीशवत्यां यदि रौति काक आगच्छतस्तद्वविजाऽन्त्यजातिः ।
व्याधिं च धत्ते निवस्तुलाभं भवेन्न वा रोगवतोऽवसानम् ॥
ब्रह्मप्रदेशस्थितवायसस्य प्रभातकाले मधुरस्वरेण ।
अभीप्सिताभ्यागमनं ध्रुवं स्यात् स्वामिप्रसादो द्रविणस्य लाभः ॥

चक्रदिक्प्रकरणे सूर्योदयः ।

प्राच्यां च यामे प्रथमे सुशब्दः काको भवेच्चेष्टितकार्यसिद्ध्यै ।
अभीष्टलोकागमनं तथा स्यादिष्टार्थलाभो नियतं नराणाम् ॥
आग्नेयभागे प्रथमे च यामे स्त्रीलाभविद्वेषिवधौ भवेताम् ।
कृतान्तभागे वलिभुग्विरावः स्त्रीलाभसौख्यं प्रियसङ्गमाय ॥
नैर्ऋत्यभागे प्रिययोषिदाप्तिर्मिष्टाशनं सिध्यति चिन्तितोऽर्थः ।
दिशि प्रतीच्यां विरुतैर्भवेतामत्यर्थतोयागमनाल्पवृष्टी ।
वायव्यकोणे विटसङ्गतिः स्यान्नृपप्रसादोऽध्वरदर्शनं च ।
सौम्ये च भीस्तस्करशोकवार्त्ता स्निग्धा च वार्ता धनलाभवार्त्ता ॥
ईशानभागेऽभिमतेन सङ्गस्त्रासो हुताशाद्बहुलोकभङ्गः ।
सम्मानसम्यग्द्रविणेष्टसिद्धिः ब्रह्मप्रदेशे सुखकामभोगः ॥

इति दिक्चक्रप्रकरणे प्रथमः प्रहरः ।

प्राच्यां द्वितीये प्रहरे विरावैः काकस्य कश्चित् पथिकोऽभ्युपैति ।
चौराद्भयं व्याकुलता च बह्वी जायेत का चिन्महती च शङ्का ॥
आग्नेयभागे नियतः कलिः स्यात् प्रियासमाकर्णनयोषिदाप्तिः ।
याम्ये च भीतिर्महती च वृद्धिः प्रियस्य वैश्यस्य तथाऽऽगमः स्यात् ॥
रक्षोदिशि प्राणभयं तथा स्युः स्त्रीभोज्यलाभाखिलभक्ष्यनाशाः ।
भवेत् प्रतीच्यां प्रवलावलाप्तिर्योषागमो दृष्टिसुवर्षणं च ॥
समीरभागेऽध्वगचौरसङ्गो हृतागमः स्त्रीपिशितान्नलाभः ।
सौम्ये धनेष्टागमनं जयश्च रम्ये रवे चौरभयं त्वरण्ये ॥
महेश्वराशाधिगतश्च काकश्चौराग्निसंत्रासविरुद्धवार्ता ।
ब्रवीति रूक्षै रटितैररूक्षैः सभार्यगुर्वागमनं जयश्च ॥
ब्रह्मप्रदेशे प्रहरे द्वितीये काकः सुशब्दो नृपतिप्रसादम् ।
मिष्टान्नभोज्यं च ददाति पुंसां करोत्यसौ चौरभयं कुशब्दः ॥

इति दिक्चक्रप्रकरणे द्वितीयः प्रहरः ।

ऐन्द्र्यां विरुक्षः प्रहरे तृतीये वृष्टिं तथा चौरभयं ब्रवीति ।
हृष्टिं तु राजागमनं जयं च करोति यात्रासु च कार्यसिद्धिम् ॥
आग्नेयभागेऽग्निभयं कलिश्च विरुद्धवार्ता विफला च यात्रा ।
भवेद्विरुद्धैर्बलिभुग्विरावैर्जयादिवार्त्ता च भवेद्विशुद्धैः ॥
याम्यप्रदेशे कुरुतेऽतितूर्णं रोगं तथाऽऽप्तागमनं विहङ्गः ।
क्षुद्राणि कार्याणि च यान्ति सिद्धिं सर्वाणि तन्मुख्यतया नराणाम्।
नैर्ऋत्यकोणे जलदागमश्च मिष्टान्नलाभो रिपवो नमन्ति ।
शूद्रागमख्याप्तिविरूपवार्त्ता भवन्ति यात्राशुभकार्यनाशः ॥
स्यात् पश्चिमे नष्टधनस्य लाभो दूताध्वयानं सुहृदागमश्च ।
पोषागमाभीष्टजयादिवार्ता यात्रासु रम्ये रटितेऽर्थसिद्धिः ॥

वातालये दुर्दिनवातमेघाश्चौराप्तिनष्टार्थसमागमौ च ।
सन्तोषवार्त्ता वरयोविदाप्तिवार्त्ता रवे स्थान्मधुरे प्रशस्ता ॥
यामे तृतीये विरुवत्युदीच्यां काकेऽर्थलाभो नृपसेवकानाम् ।
भोज्यार्थवृद्धिः शुभदा च वार्ता प्रयाणके वैश्यसमागमश्च ॥
ईशानदेशे तिलतण्डुलाभ्यां भोज्यं सताम्बूलमुपाददाति ।

इति दिक्चक्रप्रकरणे तृतीयः प्रहरः ।

ऐन्द्र्यां तुरीये प्रहरार्थलाभो भूमीशपूजाभयवृद्धिरोगाः ।
वह्नेर्विभागे भयवृद्धिरोगाः शिष्टागमो वायसभाषितेन ॥
याम्ये रवे तस्करचौरभीती स्यातां विशिष्टागमरोगमृत्युः ।
नैर्ऋत्यकोणे महती प्रवृद्धिः स्यादिष्टसिद्धिः पथि चौरयुद्धम् ॥
दिशि प्रतीच्यां प्रहरे चतुर्थे द्विजातिरभ्येति ततोऽर्थलाभः ।
आयाति योषिद्विजयोऽम्बुवृद्धिः सिद्धिः प्रयाणे नृपविद्रवश्च ॥
वायव्यभागे करटस्य शब्दैरायाति योषित् प्रियमाननीया ।
ध्रुवं प्रसादो दिनसप्तकेन शिष्टागमः स्याद्गमने कृते च ॥
कुवेरभागे पथिकः समेति ताम्रादिलाभेन सत्रं तु शीघ्रम् ।
वैश्याध्वगाप्तिस्तुरगादिरूढा यात्रा विभूत्यै म्रियते च रोगैः ॥
ईशानभागे वलिभुग्विरावः सुवर्णवार्त्ता सरुजो विनाशः ।
ब्रह्मप्रदेशे प्रहरे तुरीये वार्ता भवेन्मध्यमकेष्टसिद्धिः ॥

इति दिक्चक्रप्रकरणे चतुर्थः प्रहरः ।

यद्भाषितं शाकुनिकैर्विमिश्रं शुभाशुभं दिक्प्रहरक्रमेण
तत्राशुभं यच्छति दीप्तशब्दः श्रेयस्करः शान्तरवस्तु काकः ॥
शान्ते प्रदीप्ते च शमं विहङ्गः शुभप्रदो दीप्तपराङ्मुखः सन् ।
न क्वापि रौद्रारटितः प्रशस्तः सर्वत्र शस्तो मधुरस्वरस्तु ॥

काको रुवन् दीप्तककुब्विभागे फलानि शस्तानि ददाति सम्यक् ।
तान्येव तुच्छानि ददात्यसौ चेद्दीप्तां दिशं पश्यति दीप्तसंस्थः ॥
यच्चोपदिष्टं फलमत्र दुष्टं तथैव तद्दीप्तदिशि स्थितः सन् ।
ध्वाङ्क्षो विरुक्षं विरुवन् करोति निरीक्षमाणः ककुभं प्रदीप्ताम् ॥
काकः प्रशस्ताभिमुखोऽतितुल्यं दीप्ताश्रितो दुष्टफलं ददाति ।
शान्ताश्रितः शान्तदिगीक्षणेन रूक्षारत्रोऽल्पं कथयत्यनिष्टम् ॥
शान्तारवः शान्तककुष्प्रदेशे तिष्ठन् प्रदीप्तां ककुभं च पश्यन् ।
ददात्यभीष्टं फलमल्पमेव दीप्तारवो यस्तु तदेव पूर्णम ।
आकारचेष्टारवभावविज्ञा दग्धादिकाष्ठादिनयोः प्रमाणे ॥
सदाऽभियुक्ताश्च निरूपयन्ति विदन्ति ते काकरुते मनुष्याः ।

पराशरस्तु ।
 पुरस्तात् पूर्वेण क्षीरपुष्पकलावहवृक्षेषु नीडीकरणं क्षत्रियजयाय शुष्कविपरीतषु पराजयाय ।
 एतेन वैश्यशूद्रब्राह्मणानां तथा तत्स्त्रीणां दिग्विदिक्षु यथाक्रमं क्षेमाक्षेनं व्याप्यातम् ।
वराहसंहितायाम् ।

 वैशाखे निरुपहते वृक्षे नीडः सुभिक्षशिवदाता ।
 निन्दितकण्टकिशुष्केष्वसुभिक्षभयानि तद्देशे ॥
 नीडे प्राक्शाखायां शरदि भवेत् प्रथमवृष्टिरपरस्याम् ।
 याम्यन्तरयोर्मध्ये प्रधानवृष्टिस्तयोरुपरि ॥

बृहद्यात्रायाम् ।

 शस्तो नीडस्तु वैशाखे पादपे निरुपद्रुते ।
 देशोत्सादस्तु वल्मीके चैत्यधान्यगृहादिषु ॥

वसन्तराजः ।

वैशाखमासे निरुपद्रतेषु स्थानेषु काकस्य शुभाय नीडः ।

 निन्द्येषु शुष्केषु च कण्टकेषु वृक्षेषु दुर्भिक्षभयादिहेतुः ॥
 प्रशस्तवृक्षे यदि पूर्वशाखामाश्रित्य काकेन कृतः कुलायः ।
 तद्वृष्टिरिष्टा कुशलं प्रमोदो नीरोगता स्याद्विजयश्च राज्ञाम् ॥
 आग्नेयशाखारचिते सुनीडे स्याद्वृष्टिरल्पाऽग्निभयं कलिश्च ।
 दुर्भिक्षशत्रूद्भवदेशभङ्गाद्भवन्ति रोगाश्च चतुष्पदानाम् ॥
 याभ्यासु शाखासु च वायसेन नीडे कृतेऽल्पं जलपातमाहुः ।
 व्याधिप्रकोपं मरकं समन्तादन्नक्षयं राजविरोधितां च ॥
 नैर्ऋत्यशाखारचिते सुनीडे पश्चाद्घनो वर्षति वर्षकाले ।
 पीडा नृणां विह्वलचौरनीतिदुर्भिक्षयुद्धानि भवन्त्यवश्यम् ॥
 नीडे कृते पश्चिमवृक्षशाखामाश्रित्य काकैः कथिता च वृष्टिः ।
 नीरोगता क्षेमसुभिक्षवृद्धिः सम्यक्प्रमोदाश्च भवन्ति लोकाः ॥
 वायव्यशाखासु कृते च नीडे प्रभूतवार्ताऽल्पजलाः पयोदाः ।
 स्युर्मूषिकोपद्रवशस्यनाशपशुक्षयोद्वेगमहाविरोधाः ॥
 कुवेरशाखामधिकृत्य नीडे कृते भवेत् प्रावृषि वृष्टिरिष्टा ।
 भवन्ति वृक्षे च सुभिक्षसौख्यनीरोगतावृद्धिसमृद्धयोऽस्मिन् ॥
 ईशानशाखासु च वृष्टिरल्पा वैरं प्रजानामुपसर्गदोषः ।
 स्याद्बान्धवानां कलहप्रवृत्तिर्मर्यादया दीयत एव लोकः ॥
 वृक्षाग्रनीडे त्वतिवर्षकाले मध्ये तरोर्मध्यमतोयपातः ।
 तुच्छाऽपिवृष्टिर्न भवत्यधस्तात् स्फुटं यथोक्तं प्रदिशोऽस्फुटत्वात्।

सर्षशाकुने तु पराशरः ।
 बाहुल्यात् प्राच्यां नीडीकरणं क्षेमं सुभिक्षाय । आग्नेय्यां चाल्पवृष्टये । दुर्भिक्षं दक्षिणस्यां विद्यात् । नैर्ऋत्यां व्याधिं योगक्षेमं च । वारुण्यामवर्षणम् । वायव्यां कालोपद्रवमतिवर्षं च । ब्राहृयाम- च्चेषु वर्षे निम्नेष्ववर्षमेव । मृदुदुष्टेषु च प्रावृट्सम्पच्छस्यसम्पच्च विपर्ययमसारेषु च । पूर्वोत्तरेण क्षीरवृक्षेषु निवसन्तः क्षेमाय । वराहसंहितायाम् ।

 शरदर्भगुल्मवल्लीधान्यप्रासादगेहनिम्नेषु ।
 शून्यो भवति स देशः चौरानावृष्टिरोगार्त्तः ॥

नीडेष्यिति सम्बन्धः ।
वसन्तराजः ।

 निम्नप्रदेशे तरुकोटरे वा वल्मीकवल्लीव्रततीप्रकीर्णे ।
 काकस्य नीडे रुगवृष्टिदोषाद्भवन्ति शून्यो नियमेन देशः ॥
 अवृष्टिरोगारिभयादिवृद्धिं विद्यादभूमौ बलिभुक्कुलाये ।
 शुष्के च वृक्षे द्रुमपत्रराशौ प्राकाररन्ध्रेऽरिभयं प्रभूतम् ॥

पराशरस्तु ।
 प्रासादाट्टालध्वजक्षेत्रेषु नीडानि चेत् कुयुस्तत्स्वामिनो विनाशं विद्यात् । वृक्षकोटरस्थलेषु वर्षाः ।
विष्णुधर्मोत्तरे ।

 एकाण्डता तु काकानां यदि चैवाप्यनण्डता ।
 निम्नेषु सन्निवेशेषु देशनाशकरः स्मृतः ॥

वराहः ।

 अण्डावकिरणमेकाण्डजा प्रसूतिश्च न शिवाय ।

 बहुष्वण्डेषु जातेषु यद्येकाण्ड एव शिष्यते तदैकाण्डता शुभाय भवति । एक एव जायते स वारुणः शुभो भवति ।
तथा च वसन्तराजः ।

 एकं भवेद्वारुणमग्निसंज्ञं द्वितीयकं मारुतजं तृतीयम् ।
 ऐन्द्रं तथा नाम चतुर्थमेवमण्डानि काक्याः परिकीर्त्तितानि ॥
 काक्या भवेद्वारुणमण्डकं चेत् पृथ्वी तदा नन्दति सर्वशस्यैः ।
 मन्दप्रवर्षेऽनलसंजैकाण्डे नोप्तस्य बीजस्य भवेत् प्ररोहः ॥

जानातिशप्त्यानि सन्नीग्जेऽण्डे खादन्ति कीटाः शलभाः शुकाद्याः ।
क्षेमं मुभिक्षं सुखिता धरित्री स्यादिन्द्रजेऽण्डेऽभिमतार्थसिद्धिः ॥

पराशरः ।

 द्वित्रिचतुःशावप्रादुर्भावे योगक्षेमम् । एकशावतायां निरपत्यतायां च दुर्भिक्षम् ।

वराहसंहितायाम् ।

 द्वित्रिचतुःशावत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम् ।

 चतुर्ष्वण्डेषु जातेषु द्वित्रिचतुःशावत्वमपि सुभिक्षदम् । अथ वा द्वियोरण्डयो शुभयोरपि त्रिशावत्यं सुभिक्षदम् । नाप्यवश्यं द्विमात्राण्डसम्भवे द्वित्रिशावत्वं भवति ।

बृहद्यात्रायां वराहः ।

 काकानां श्रवणे द्वित्रिचतुःशावाः शुभावहाः ।
 चोरकश्वेतचित्राश्च वर्णाश्चौराग्निमृत्युदाः ॥
 अण्डावकिरणे ध्वाङ्क्षा दुर्भिक्षमरकाबुभौ ।
 शावानां विकलत्वे वा निःशावास्त्वेकशावकाः ॥

बृहत्संहितायाम् ।

 चोरकवर्णैश्चराचिनैर्मृत्युः सितैश्च वह्निभयम् ।
 विकलैर्दुर्भिक्षभयं काकानां निर्दिशेच्छिशुभिः ॥

चोरको गन्धद्रयविशेष इत्युत्पलेन व्याख्यातम् ।

 अत्रानुक्तविशेषशान्तिषु वायसोत्पातेषु मृगपक्षिविकारविहिता शान्तिः किमिच्छकदानादिका वा सामान्यशान्तिरौत्पातिकफलxxxxxवमवगम्य कर्त्तव्या ।

पराशरस्तु ।

सर्वश्चेतः सामुद्रः सर्वजनपदे दृश्यतेऽयोगक्षेमाय स्यात् ।

मत्स्यपुराजे ।

 “काको मैथुनशक्तश्च श्वेतश्च यदि दृश्यते ।
 रज्ज्वा वा म्रियते तत्र स वा देशो विनश्यति"[४८]


वसन्तराजस्तु ।

 इदं त्विहोत्पातयुगं पृथिव्यां महाभयं शाकुनिका वदन्ति ।
 यद्वायसौ मैथुनसन्निविष्टो दृश्येत यद्वा धवलः कदा चित् ॥
 उद्वेगविद्वेषभयप्रवासबन्धुक्षयव्याधिधनापहाराः ।
 वृद्धिक्षयो व्याकुलता नराणां शीघ्रं भवेदद्भुतदर्शनेऽस्मिन् ॥
 शमाय तत्सूचितदुःखराशेः स्नानं बहिस्तत्क्षणमेव कुर्यात् ।
 आत्मीयशक्त्या च सदक्षिणाभिर्द्विजाय दद्याद्वसनाशनानि ॥
 नयेदहः शेषमपुण्यहत्या शयीत भूमात्रकृतान्नभक्षः ।
 स्नात्वा प्रभाते विदधीत शान्तिं दद्यात् स्वशक्त्या द्रविणं गुरुभ्यः ॥
 हविष्यभोजी न भजेच्च नारीं दिनानि सप्तत्रिगुणानि यावत् ।
 अकाकघातब्रतमादधीत बलिं च दद्याद्वलिभोजनेभ्यः ॥
 देशे च यत्राद्भुतमेतदुग्रमालोच्यते तत्र समापतन्ति ।
 अवृष्टिदुर्भिक्षपयोपसर्गचौराग्निशत्रूद्भवधर्मनाशाः ॥
 कर्माणि तस्योपशमाय राजा प्रवर्त्तयेच्छान्तिक पौष्टिकानि ।
 अन्नार्थगोभूमिवसूनि दद्याद्युद्धं विदध्यान्न यावदब्दम् ॥

 

इति महाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वायसाद्भुतावर्त्तः ।

अथ मिश्रकाद्भुतावर्त्तः ।

औशनसे ।

 उत्पाता विविधात्मानो दृश्यन्ते यत्र तत्र वै ।
 देशे भवति शीघ्रं वै षण्मासाद्भयमुत्तमम् ॥

अथ दिव्यमिश्रकामयूरचित्रे ।

 पतने तारकाणां च तारां पश्येदरुन्धतीम् ।

 त्रिशङ्कुं च ध्रुवं चैव भ्रमन्तश्चक्रवद्यदि ॥
 ऋषयो व्योम्नि दृश्यन्ते तदा युद्धमहद्भयम् ।

अयोध्याकाण्डे दशरथमरणनिमित्तम् ।

 "बृहस्पतिर्बुधः केतुः सौराङ्गारकभार्गवाः ।
 दारुणाः समपद्यन्त ग्रहाः सर्वे प्रदक्षिणाः ॥
 नक्षत्राणि हता भान्ति ग्रहाश्चोपहतानि च ।
 विशिखाश्च विधूमाश्च नभसि प्रचकाशिरे”[४९]

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 "ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षयम् ।
 अहोरात्रं मया दृष्टं तद्भयाय भविष्यति"[५०]

तथा ।

 "प्रदीप्यमानाः संपेतुर्दिवि सप्त महाग्रहाः"[५१]

अथ दिव्यनाभसमिश्रकाः । तत्र पराशरः ।
 तत्र राहोरदर्शनं केतोश्च मघासु च वक्रातिपीडनं ब्रह्मराशिभेदः केतूल्काग्रहभेदश्न रोहिणीनां सौरेण सप्तर्षिध्रुवेन्दु पीडनं केतोर्वा मरकदर्भिक्षशस्त्रवृष्टिभिः प्रजाक्षयाय ।
भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः"[५२]

भार्गवीये ।

 वित्रर्णे परिघे वाऽपि त्रिवर्णे वा वलाहके ।
 उदयास्तमनं कुर्याद्यदि सूर्यः कदाचन ॥
 पृथिव्यां राजवंश्यानां महद्भयमुपस्थितम् ।
 लोकक्षयकरं विद्याद्यदि देवो न वर्षति ॥


मयूरचित्रे ।

 आदित्ये छिद्रमालोक्य दिवोल्कपातदर्शनम् ।
 अपर्वराहुग्रहणे कुर्यात् सौर्यं चरुं द्विजः ॥

अथ नाभसकमिश्रको बार्हस्पत्ये ।

द्यौः स्याद्यदा नष्टदिवाकरप्रभा सरेणुवर्षा द्विजधूमदर्शनाः ।
तथाऽतिरौद्रा ज्वलिताग्निसप्रभा न तत्र वासं विषये विदध्युः ॥

तथा ।

 अनस्ततानतं यत्र नभो गुलगुलायते ।
 क्षिप्रं तद्रवते राष्ट्रं दश वर्षाणि पञ्च च ॥

हरिवंशमत्स्यपुराणपद्मपुराणेषु तारकासुरयुद्धे देवपराजय निमित्तम् ।

 “दीप्ततोयाशनीपातैर्वज्रवेगानिलाकुलैः ।
 ररास घौरैरुत्पातैर्दह्यमानमिवाम्बरम्”[५३]

बार्हस्पत्ये ।

 अनभ्रे पतते विद्युदशनिर्वा घनैर्विना ।
 अनभ्रे वा भवेद्वर्षं राजा राष्ट्रं च नश्यति ॥

उद्योगपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।

 "अनभ्रेऽशनिनिर्घोषः सविद्युत् समजायत ।
 विपरीता दिशः सर्वा न प्राज्ञायत किञ्चन"[५४]

मत्स्यपुराणे ।

 "अनभ्रे वा तथा रात्रौ श्वेतं याम्योत्तरेण तु ।
 इन्द्रायुधं ततो दृष्ट्वा चोल्कापातं तथैव च" ॥


 दिग्दाहपरिवेषौ च गन्धर्वनगरं तथा ।
 परचक्रभयं विद्यादेशोपद्रवमेव च "[५५]

स्कन्दपुराणे ।

 ततः सर्वा दिशो व्याप्ता वह्निकुण्डनिभा भुवि ।
 शब्दश्च सुमहानासीयुगान्ताम्बुदसंनिभः ॥

गदावर्वणिदुर्योधनवधनिमित्तम्।

 “जज्ञे घोरतरः शब्दो बहूनां सर्वतो दिशम्"[५६] । ।

भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "रजश्वोद्धूयत महत् तम आच्छादयज्जगत्"[५७]

मयूरचित्रे ।

 प्रसादे भवने क्षेत्रे ग्राममध्ये तथा गवि ।
 निर्घातोऽशनिरुल्का च पतन्ति यदि सन्ध्ययोः ॥
 रात्रौ शक्रधनुर्व्याम्नि भूपदेशक्षयावहः ।
 विश्वावर्त्तीति वायुश्च तीव्रो वा ग्रह एव च ॥
 पतेदुल्का तथा तस्मिन् वायव्यः पच्यते चरुः ।
 अप्रसूतौ प्रसूतानां स्त्रीणां यः स्मर्यते बुधैः ॥
 उल्कापाते सदिग्दाहे दिशां दाहे यथाक्रमम् ।
 प्रवर्त्तिते तु संग्रामे रोगोपद्रव एव च ॥

दिशां दाह इति सकल दिग्दाहपरम् ।

 शान्तिमत्र प्रवक्ष्यामि सर्वोत्पात निवर्हणीम् ।
 इमा रुद्रेति मन्त्रेण समिधः कनकस्य तु ॥
 अष्टोत्तरसहस्रं तु घृताक्ता जुहुयाच्छुचिः ।
 रुद्रैकादशकं जप्यं माहिषो बलिरेव च ॥


 कुर्याच्छिवोत्सवं चैव भूमिदोहसमं ततः ।
 ग्रामे वा नगरे चैव गोष्ठे च शिवसंनिधौ ॥
 शान्तिकर्माणि कुर्वीत नृपादेशो द्विजातिकः ।
 चरुः कार्योऽशनं तस्य पूजयित्वा द्विजाँस्तथा ॥
 पायसं मधुसंयुक्तं दधिसर्पिःपयोयुतम् ।
 शतमष्टाधिकं चैव जपेद्रुद्रं समाहितः ॥
 सुवर्णं रजतं कांस्यं मणिरत्नविभूषितम् ।
 ब्राह्मणाय तथा दद्याद्द्रतान्ते चैव मेदिनीम् ॥
 अङ्गारवृष्ट्यां दिग्दाहे महाभयमुदाहरेत् ।
 अप्रसूतौ तु या प्रोक्ता वायव्यः पच्यते चरुः ॥
 वज्रोल्कापतनविद्युद्दिग्दाहाः प्रभवन्ति चेत् ।
 श्वेताः पीतास्तथा रक्ताः कृष्णा विप्रादिनाशनाः ॥
 श्यामा रुक्षास्तथा ध्वस्ताः शस्यपीडावहाः स्मृताः ।
 लाङ्गूलाकृतयस्तास्तु शिखिकण्ठसमत्विषः ॥
 अमात्यान् नैगमाँश्चैव घ्नन्ति वै कर्षकाँस्तथा ।
 एषा साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।
 निर्घातश्चाशनिर्घोरा दिग्दाहश्चैव नित्यशः ।
 देशभ्रंशाय बोद्धव्याः पराभूत्यै नृपस्य च ॥
 अत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।

अथ भौममिश्रकाः । तत्र पराशरः ।
 चैत्यप्रसादतोरणशिखरिशिखराद्रीणामकस्मात् प्रपतनं देवध्वजेन्द्रष्टयक्षितिपातः पत्रच्छेदनमवनिपतेर्विनाशाय । बार्हस्पत्ये ।

शिलोच्चयानां च शिलाप्रपातो वनद्विपानां च विषाणपातः ।
चैत्यद्रुमाणां न तथैव पातो भयानि राज्ञः प्रतिवेदयन्ति ॥
महोरगाणां च विवर्त्तितानि हुताशनस्य ज्वलनं च तोयात् ।
शक्रध्वजानां च तथैव पातो भयं तु राज्ञः प्रतिवेदयन्ति ॥

  प्रासादगोपतिमहीपतिवारणाना-
 मिन्द्रध्वजोच्छ्रितवनस्पतिवाजिनां च ।
  नैषां भवन्ति पतनानि शुभावहानि
 यस्यां दिशि प्रतिभयानि तथोत्तराणि ॥

वराहसंहितायाम् ।

 “शक्रध्वजेन्द्रकीलस्तम्भद्वारप्रपातभङ्गेषु ।
 तद्वत् कपाटतोरणकेतूनां नरपतेर्मरणम्”[५८]

औशनसे ।

 नमन्ति यस्य प्रासादाः प्रज्वलन्ति च यस्य वै
 दृढानि प्रतिशीर्यन्तं यस्य स म्रियतेऽचिरात् ॥
 इन्द्रयष्टिर्भ्रष्टते नाविशस्तो वायुरुद्वजेत् ।
 यदा तदा विजानीयाद्राज्ञः पीडामुपस्थिताम् ॥
 स्तम्भवृक्षध्वजा यत्र स्रवेयू रुधिरं वसाम् ।
 धूमा येषु ज्वलेयुर्वा मन्त्रिणो मृत्युरेव च ॥

बार्हस्पत्ये ।

गिरिवरपतनं सभूमिचालं प्रतिभविता शयनस्थितान् मनुष्यान् ।
मृगशकुनिगणाश्च दीप्तवाची महति भये सुसमुपस्थिते भवन्ति ।।

 आबालवत्सा पुरचत्वरेषु गावो यदा दीष्ठरवा भवन्ति ।
 शृगालनादाश्च भवन्ति दीप्ता तदा भयं वेदविदो वदन्ति ॥


औशनसे ।

 गोमायुर्वाशते यत्र यूपं वाऽपि प्ररोहति ।
 दृश्यन्ते मक्षिका नीलास्तत्र विद्यान्महद्भयम् ॥

बार्हस्पत्ये ।

आरण्यो ग्रामवासी मृगशकुनिगणो ग्रामवासे वनान्ते
 गृध्राणां सन्निपाता नरपतिभवने गोपुरे वा पुरे वा ।
गर्भे वा मानुषीणां खरकरभमुखाऽनेकरूपा प्रसूति-
 र्देशानां विद्रवार्थे स्थितिरिति नियता देवतानां च पातः ॥
 वायसानां समाजे तु शुनां नादस्तथैव च ।
 अनिशं श्रूयते यत्र तत्रापि सुमहद्भयम् ॥
 काकाः पुरोत्तमगृहेषु वसं प्रविष्टाः
  सूर्योदये खलु शिवाहतमुक्तनादाः ।
 गृध्राश्च मण्डलसमुत्पतिता भ्रमन्ति
  प्राप्तं भयं जनपदस्य निवेदयन्ति ।
मुञ्चन्ति नागा रुधिरं कराग्रैर्लोमानि दीप्यन्ति तुरङ्गमाणाम् ।
दीप्यन्ति खड्गाश्च विकोशमुक्ता भयानि राज्ञः प्रतिवेदयन्ति ॥

औशनसे ।

 वाजिवारणमुख्यानामकस्मान्मरणं भवेत् ।
 इतरक्ष्मापतेस्तत्र विज्ञेया सत्वरा गतिः ॥

बार्हस्पत्ये ।

रुवन्ति नागाः सुविमुक्तहस्ताः प्रकीर्णकेशास्तुरगा नदन्ति ।
समागता यत्र वदन्ति नार्यस्तदा भयं वेदविदो वदन्ति ॥

वराहसंहितायाम् ।

 पशुशस्त्रव्याहारे नृपमृत्युर्मुनिवनश्चेदम् ।

पराशरः ।

 धेनोरनडुहां शुनां चान्ययोतिष्वाधानमन्योन्यं च स्त्रीणां परचक्रागमाय ।
गार्गीये ।

 संयुज्यन्ते विकारैश्चेद्वापीकूपजलाशयाः ।
 दीर्घादेवकुलादीनि तदा स्वामिवधो भवेत् ॥
 अभावे स्वामिनस्तत्र दोषो राजानमृच्छति ।
 अयत्नं यत्र दूष्येत तद्देशानां विपर्ययः ॥

बार्हस्पत्ये ।

 अताड्यमानाः पटहा निःस्वनन्ति मुहुर्मुहुः।
 शस्त्राणि वाहिनीनां च ज्वलन्त्यद्भुतदर्शने ॥
 कुलजं लक्षणोपेतं विद्वांसं च पुरोहितम् ।
 दीक्षयित्वा नृपो होमाञ्छान्तिकर्म च कारयेत् ॥

मयूरचित्रे ।

 यत्र प्रसूयते कन्या द्वे धेनुं चावरोहति ।
 मानुषाः क्षोभमायान्ति क्षयवृद्धिश्च शस्यते ॥
 तत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।

तथा ।

 अदन्ताश्च सदन्ताश्च प्रथमं चोपरि द्विजाः ।
 जायन्ते मानुषा यत्र तत्र ब्रूयुरमानुषाः ॥
 गावः फलन्ति शीर्यन्ते वारणा वाजिनस्तथा ।
 छत्रशक्रध्वजं चैव पताकाः संपतन्ति च ॥
 ज्वलन्ति चात्र वै कुर्यादिन्द्रहोमं विशेषतः ।

 इन्द्राय स्वाहा । इन्द्र इदं शमयतु स्वाहा । शतक्रतवे स्वाहा । पतदिन्द्रम् -इति द्वे आहुती उपरि सर्पिषा सावित्र्या जुहुयात् ।

 हुतान्ते दक्षिणां दद्याद्धेनुं हेमाम्बराण्यथ ।
 धान्यं रत्नं च दातव्यं सर्वदा शुभमिच्छता ।
 अपहारे हिरण्यस्य प्रदाहे भवनस्य च ।
 शालामण्डपदाहे च दाहे देवकुलस्य च ॥
 देशदाहेऽथ देवानां नृत्ये हसितकम्पयोः ।
 याने धूमायने स्वेदे क्रीडने ज्वलनेऽपि च ॥
 रक्तधाराश्रुतौ चैव दाहे चाहतवाससः ।
 कुटुम्बस्य क्षये विद्वानिदं कर्म समारभेत् ॥

अग्नेयस्थालीपाकं श्रपयित्वा ।

 अग्नये स्वाहा । अग्निरिदं शमय तु स्वाहा। भूताधिपतये स्वाहा । अग्निर्मूर्द्धानम्-इति द्वे आहुती सावित्र्या त्रिरुपरिष्टदाज्येन जुहुयात् ।

 दक्षिणां त्रिविधां दद्यात् स्वर्णं ताम्रं च रूप्यकम् ।

तथा ।

 लाङ्गलस्य भवेद्भेदो निर्जले च जलोदयः ।
 जलाधारे जलाभावो जलवृष्टिरकालजा ॥
 भेकस्याकालनिध्वानं गृहात् कर्कटिका पतेत् ।
 क्रौञ्चभृङ्गौ तथा भूमावुड्डिका गृह एव वा ॥
 स्विद्यते घृतकुम्भश्न पयस्तैलघटस्तथा ।
 दृषद्वत्यौ च शीर्येते स्थूणा स्विद्यति रोहति ॥
 ज्वलत्यसृक् स्रबत्येव शाखायष्टिश्च भिद्यते ।
 हस्तिनो भिद्यते दन्तो हस्तिनी चैव माद्यति ॥
 गवां शृङ्गाणि भिद्यन्ते हस्ती माद्यत्यकालतः ।

 गावः प्रसुवते भाद्रे हस्तिन्याः कटकोऽपि वा ॥
 बालः फलति वृक्षो वा फलं बध्नाति चाप्यसौ ।
 रुदन्ति वृक्षा भयतो वारुणं साधयेच्चरुम् ॥
 वरुणाय स्वाहा । वरुण इदं शमयतु स्वाहा । अद्भ्यः स्वाहा
 उदुत्तमं वेति ऋचा सावित्र्या च घृताहुतीः ।
 यथार्हं दक्षिणां दद्यात् ततः शान्तिः प्रपद्यते ॥

तथा ।

 कुमुदोत्पलपत्रं च नदीस्त्रोत्रसि जायते ।
 कृत्तवृक्षाश्च यूपाय क्लेदं मुञ्चन्ति नाक्षताः ॥
 अताडिताः पतन्त्येते छिन्नभिन्नप्ररोहणाः ।
 पूयशोणितगन्धाश्च देशविद्रवकारणम् ॥
 जनक्षयकराश्चैव राजामात्यस्य विभ्रमः ।
 पुरोहितवधार्थं न शान्तिराङ्गिरसो मता ॥
 वानस्पत्येन मन्त्रेण ब्रह्मचारी जितेन्द्रियः ।
 त्रिरात्रोपोषितो भूत्वा हविष्याशी पुरोहितः ॥
 उदुम्बराणां समिधां सहस्रं जुहुयाच्छुचिः ।
 अष्टोत्तरं द्विजेभ्यश्च भूर्देया भूरिदक्षिणा ॥
 क्षीरशान्तिश्च कर्त्तव्या परमान्नं च भोजयेत् ।

अथ नाभमभौममिश्रकाः । आग्नेय पुराणे वामनोत्पत्तौ ।

 ववुर्वाताः सुखस्पर्शाः सुनिर्मलमभून्नभः ।
 धर्मे च सर्वे भूतानां तदा मतिरजायत ।
 नोद्वेगता भवेद्देहे कस्य चिन्नारतिस्तथा ।

बार्हस्पत्ये ।

चैत्यद्रुमाणां रुधिरप्रसेकाः कबन्धरूपाश्च घना भवन्ति ।
रक्ता च सन्ध्या रुधिरप्रदिग्धा भयानि राज्ञः परिवेदयन्ति ॥

पराशरः ।

खद्योतैः परिविध्यते दिनकरः सन्ध्यागतो मण्डलै
 रक्तैः कृष्णमहेन्द्रचापसदृशैः खे पूरयद्भिर्यदा ।
गावो यत्र सपूयशोणितमुरोदिग्धा भवेयुः क्व चित्
 विद्यात् तत्र विमर्षणं परवलैर्भेदं स्वराष्ट्रस्य वा ॥

बृहद्यात्रायां वराहः ।

मृगपतिरासभवाजिगजानां पिबति मिथो न चिराद्भयदाता ।
विबुधपतिध्वजतोरणखातैः फलमिदमेव करोति नृपाणाम् ॥

औशनसे ।

 वृष्टिविद्युत्स्वने व्यभ्रे चरस्थिरविवर्जिते ।
 दिवोल्कायां न पीड्यन्ते जना नृपतिभिः सह ॥
 सन्ध्याद्वयेऽभिदीप्तिर्धूमोत्पत्तिश्च काननेऽनग्नौ ।
 छिद्राभावे भूमेर्दरणं कम्पश्च शान्तकरिगर्जः ॥
 अनैशानि तमांसि स्युराशाधूमाः सपांशवः ।
 आनग्नेयो यत्र धूमस्तत्र विद्यान्महद्भयम् ॥

बार्हस्पत्ये ।

 आनर्त्तवं पुष्पकलमकाले दुर्दिनं महत् ।
 सधूमाश्च दिशो यत्र विद्याद्भयमुपस्थितम् ॥

स्कन्दपुराणे दैत्यपराजयनिमित्तम् ।

 ररास परुषं व्योम चचाल च वसुन्धरा ।

भागवते जगदुद्वेजरुहिरण्यकशिपुत्पत्तौ ।

 “गावोऽत्रसन्नस्सृग्दोहास्तोयदाः पूयवर्षिणः ।
 व्यरुदन् दैवलिङ्गानि द्रुमाः पेतुर्विनाऽनिलम्”[५९]

वनपर्वणि भीमपराजयनिमित्तम् ।

 "सलोहिता दिशश्चासन् खरवाचो मृगद्विजाः"[६०]


 “तुमुलाश्च ववुर्वाता जज्वलुर्न च पावकाः ॥
 प्रतिस्रोतो ययुर्नद्यो दिशश्चैव प्रधूमिताः ।
 उल्काः पतेयुरुद्धूता निर्घाताश्च पतन्त्युत"[६१]

स्कन्दपुराणे हिरण्याक्षवधनिमित्तम् ।

 सिद्धाः पेतुरथादित्यादृेवाश्च भयमाविशन् ।
 सागराश्च चुक्षुभिरे विरेजुर्नगपक्षिणः ॥
 भयत्रस्तानि भूतानि उल्का: पेतुर्नभस्तलात् ।

मौशले वृष्णिक्षयनिमित्तम् ।

 "प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः”[६२]

भागवते कृष्णोत्क्रान्तिनिमित्तम् ।

 "धूमा दीप्ताः सपरिघाः कम्पते भूस्तलादिभिः ।
 निर्घातस्तु महाँस्तात साकं च स्तनयित्नुभिः ॥
 सभूतलं भूतगणैर्ज्वलिते इव रोदसी"[६३]

सभापर्वणि पाण्डववनप्रवेशे कुरुक्षयनिमित्तम् ।

 "अनभ्रे विद्युतश्चासन् भूमिश्च समकम्पयत्"[६४]

उद्योगपर्वणि भीष्माभिषेके भीष्मवधनिमित्तम् ।

 “निर्घाताः पृथ्वीकम्पो गजबृंहितनिस्वनाः ।
 आसँश्च सर्वयोधानां पातयन्तो मनांस्युत ॥
 वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे”[६५]

मयूरचित्रे ।

 गोधा च नकुलश्चैव सर्पो वनपशुस्तथा ।
 विशन्ति भवने यत्र युध्यन्ति वृषभास्तथा ॥
 बालाश्चैव विनश्यन्ति वृष्टिः सिन्दूरवर्णवत् ।


 कारयेत् तत्र याम्यं तु स्थालीपाकं समाहितः ॥
यमाय स्वाहा । यम इदं शमयतु स्वाहा । वैवस्वताय स्वाहा ।

यमो धारयते पृथिवीम्-इति द्वे हुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहुयात् ।

 स्वर्णं च रजतं कांस्य ताम्रं दद्याच्च दक्षिणाम् ।

अथ दिव्यनाभसभौममिश्रकः । तत्र पराशरः ।

 विगततमसस्तोयप्रख्याः प्रशान्तमृगा दिशो
  गगनमपि सौम्यर्क्षं वान्तः शिवा मृदवोऽनिलाः
 विमलहविषा जाताः स्निग्धा गृहे विस्तृतत्विषः
  प्रशमरतयो नष्टातङ्का भवन्त्यवनीश्वराः ॥

बार्हस्पत्ये ।

 इन्द्राशनिः पतति यत्र भवेत् स्फुलिङ्गो
  भूः कम्पते दिनकरस्य करप्रशान्ति
 मांसं समापतति राशिकृतं तु यत्र
  तत्रापि राजभयमापतितं वदन्ति ।
अग्न्याभासाः प्रदोषाः पतिभयजनना दोप्यमाना दिश
 मध्याह्ने चान्तरिक्षग्रहणमुपचितं गृध्रसङ्घैः प्रकीर्णम् ।
निर्घाताः पांशुवर्षं सततमपि तथा भूप्रचालस्तु विज्ञै-
 रादेश्या वै स्वराष्ट्रे नृपतिभयकरा राष्ट्रनाशाय नैव
 वनानि यत्र धूम्यन्ते दिशः सर्वाः समाकुलाः ।
 चन्द्रसूर्यौ न राजेते प्रभ्रष्टौ वीतरश्मिकौ ।
 प्रमृष्टग्रहनक्षत्रा दिशः सर्वाः समाकुलाः ।
 सन्ध्या चोभयथा दीप्ता तत्र विद्यान्महद्भयम् ॥

स्कन्दपुराणे वराहपराजयनिमित्तम् ।

 उद्वेषा नागराश्चासन् भास्करश्चाप्रभोऽभवत् ।

 उल्काः पेतुश्च सर्वत्र भूमिरल्पसुराऽभवत् ॥
 ग्रहाणामभवयुद्धं विमानानि च पेतिरे ।

भागवते जगदुद्वेजकहिरण्याक्षकशिपूत्पत्तौ ।

 "सहाचला भुवश्चेलुः दिशः सर्वाः प्रजज्वलुः ।
 सोल्काश्चाशनयः पेतुः केतवश्चार्त्तिहेतवः"[६६]

लिङ्गपुराणे दक्षपराभवनिमित्तम् ।

 पर्वताश्च व्यशीर्यन्त चकम्पे च वसुन्धरा ।
 मरुतश्चाप्यघूर्णन्त चक्षुभे मकरालयः ॥
 अग्नयो नैव दीप्ताश्च नैव दीप्यति भास्करः ।
 ग्रहाश्च न प्रकाशन्ते देवान् वाधन्ति दानवाः ॥

 अत्रानुक्तविशेषशान्तिषु मिश्रोत्पातेषु प्रभूतकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
मयूरचित्र ।

 लोहितं कपिलं पीतं जलं यत्र विलोक्यते ।
 गन्धर्वनगरं वाऽपि रक्तं वा यदि दृश्यते ॥
 प्राक्सन्ध्यायां सदण्डाभा दृश्यते नागयष्टिका ।
 कालमण्डलकान्यर्क उल्कायुद्धं नभस्तले ॥
 रात्रौ शक्रायुधं चैव चन्द्रमाश्चाप्यपर्वणि ।
 छर्दते रुधिरं वाऽपि प्रतिमा ब्रुवते वचः ॥
 मासोदनं दधि घृतं मुञ्चत्यार्त्तरवं तथा ।
 शीर्यन्ते शान्तिमायान्ति रुधिरं च वमन्त्यथो ॥
 दह्यन्ते च प्रतप्यन्ते नमन्ति शिविकादिषु ।
 आयुक्तान्यभि भाषन्ते पतन्ति च जलाशये ॥


 प्रतिमा यत्र तत्रापि परचक्रागमो भवेत् ।
 राजामात्यजनच्छेदः शान्तिः पैतामही तथा ॥
 औदम्बराणां समिधां सहस्रं जुहुयाच्छुचिः ।
 अष्टोत्तरमुपोष्यैव त्रिरात्रं तु स मन्त्रवित् ॥
 ऐन्द्री रौद्रैश्च मन्त्रैश्च सोपहारैः समन्ततः ।
 देवालयेषु तूर्येण गन्धमाल्यादिभिस्तथा ॥
 स्वस्तिवाच्यं द्विजान् कृत्वा गोसहस्रं प्रदापयेत् ।

बार्हस्पत्ये ।

 रुवन्तश्च विपर्यस्ता भयस्यैव निदर्शनम् ।

पराशरः ।

 अतिमात्रशीतोष्णविपर्ययो महते भयाय ।

तथा च मत्स्यपुराणे ।

 “शीतोष्णताविपर्यासमतीव रिपुजं भयम्" [६७]

द्रव्येष्वप्युष्णशीतविपर्यासे एतदेव फलम् ।
बार्हस्पत्ये ।

 यदा शीते भवेदुष्णमुष्णं शीतमतीव च ।
 अनारोग्यभयं चैव प्रजानामभिनिर्दिशेत् ॥

ओशनसे ।

 यदा शीतं भवेदुष्णमुष्णं शीतमतीव च ।
 परतो नवमान्मासाद्विद्याद्देशेषु च वै भयम् ॥

वराहसंहितायां तु ।

 शीतोष्णविपर्यासे ऋतुषु न सम्यक् वृतेषु कुसुमेषु ।
 षण्मासाद्राष्ट्रभयं रोगभयं देवजनितं च ॥

बार्हस्पत्ये ।

 आनर्त्तवं पुष्पफलमकाले दुर्दिनं महत् ।
 सधूमाश्र दिशो यत्र विद्याद्भयमुपस्थितम् ॥


अत्र मत्स्यपुराणे ।

 सूर्येन्दुपर्यन्यसमीरणानाम्-[६८] इत्यादिका वृष्ट्यद्भुतावर्त्ते लिखिता शान्तिर्विहिता ।
मयूरचित्रे ।

 ऋतूनां च विपर्यासे रौद्रीं शान्तिं समाचरेत् ।
 रुद्रः संपूजितः सम्यग्जगतः शुभकृद्भवेत् ॥

आषाढमासिकरोहिणीचन्द्रयोगे वराहसंहितायाम् ।

प्राजेशमाषाढतमिश्रपक्षे क्षपाकरेणोपगतं समीक्ष्य ।
वक्तव्यमिष्टं जगतोऽशुभं वा शास्त्रोपदेशाग्रहचिन्तकेन ॥

वटकणिकायाम् ।

 आषाढबहुलपक्षे शिशिरकरो रोहिणीसमायुक्तः ।
 यदि तपति गगनममलं प्रसन्नतापः सहस्रांशुः ॥
 सलिलगुरुभारजलधरतडिल्लतालोलरञ्जितदिगन्तः ।
 अतिवहलवालचातकजलदैश्च विमिश्रमाकाशम्[६९]
 क्षितितनयरविजरहितः स्फटिकनिभचन्द्रमा निरुत्पातः ।
 मरुतश्च पूर्वपूर्वोत्तरोत्तराः शान्तमृगविहगाः ॥

पराशरः ।
 रोहिणीयोगे पुनः प्रदक्षिणो मृदुर्मारुतः स्नेहवन्ति चाभ्राणि विद्युच्छक्रचापालङ्कृतानि स्वादुसुरभिविमलशिशिरतावृद्धिश्चान्भसां वृष्टिक्षेमसुभिक्षाय । यावन्तो दिवसान् निमित्तप्रादुर्भावानुबन्धस्तावर्षाणि समिक्षक्षेमम् । आसप्तरात्राद्विलवासिनां विलेभ्यो निष्क्रामणं स्त्रीपुरुषबालानां प्रमोदः पक्षिणां पुष्कललक्ष्मीक्षीरवृक्षसेचनम् ।तरूणामच्छिद्रस्निग्धपत्रता पुरपौरहिता सूर्याचन्द्रमसोः परिवेषणं तद्विपत्तये ।


वराहसंहितायाम् ।

 पूर्वोद्भूतैः शस्यसम्पत्तिरब्दैराग्नेयाशासंभृतैरग्निकोपः ।
 याम्ये शस्यं क्षीयते नैर्ऋतेर्धं पश्चाज्जातैः शोभना वृष्टिरब्दैः ॥
 वायव्योत्थैर्वायुवृष्टिः क्व चिच्च पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः ।
 पुष्टं स्थाणुदिक्प्रसंप्रवृद्धैर्वायुश्चैवं दिक्षु धत्ते फलानि ॥
 उल्कानिपातास्ताडितोऽशनिश्च दिग्दाहनिर्घातमहीप्रकम्पाः ।
 नादा मृगाणां सपतत्रिणां च ग्राह्या यथैवाम्बुधरास्तथैव ॥
 नामाङ्गतैस्तैरुदगादिकुम्भैः प्रदक्षिणं श्रावणमासपूर्वैः ।
 पूर्णैः समासः सलिलस्य दाता स्रुतैरवृष्टिः परिकल्प्यमूनैः ॥

 नामाङ्कितैरित्यनेनैतदुक्तं भवति । रोहिणीप्रवेशसमये उदक्पूर्वदक्षिणपश्चिमासु दिक्षु अव्रणाश्चत्वारो जलपूर्णकुम्भा रोहिणीसमाप्तिं यावत् स्थापयितव्याः । तत उत्तरकुम्भे संपूर्णजले तिष्ठति श्रावणे सम्यग्वृष्टिर्भवति । शुष्के जलेऽनावृष्टिः । मध्येऽनुपातः । एवं पूर्वादिकुम्भैर्भाद्रादिषु वृष्टिर्ज्ञातव्या ।

 अन्यैश्च कुम्भैर्नृपनामचिह्नैर्देशाङ्कितैश्चाप्यपरैस्तथैव ।
 भग्नैः स्रुतैर्न्यूनजलैः सुपूणैर्भाग्यानि वाच्यानि यथानुरूपम् ॥
 गोप्रवेशसमये वृषोऽग्रतो याति कृष्णपशुरेव वा पुरः ।
 भूरि वारि शबले तु मध्यमं नो सितेऽम्बपरिकल्पनाऽपरैः ॥

पराशरस्तु ।

 अथास्तमयवेलायां पुरद्वारमभिगम्य निमित्तान्युपलक्षयेत् । तत्र गोगजाश्वरथप्रथमप्रवेशेषु विजयो वानरखरोष्ट्रनकुलमार्जाराश्वप्रवेशे विद्रवो नेत्रांङ्गहीनेष्वशनिभयम् ।

 नवोद्गीतविधातृणां बहिर्नद्याः पुराद्बहिः ।
 बालानां क्रीडनं यत्र तत्र नास्ति व्यतिक्रमः ॥
 दिव्यान्तरिक्षभौमानामुत्पातानां समुद्भवे ।
 रोहिण्यां चन्द्रयुक्तायां भवेत् तीव्रतरं फलम् ॥

अथाषाढिकस्वात्यार्द्रासु चन्द्रयोगे पराशरः ।

 स्वातियुक्ते चन्द्रमसि घनस्निग्धस्तनितविद्युन्मालिभिरम्भोदैर्नभस उत्सादनं सुभिक्षक्षेमाय । तद्वत् सर्ववातप्रादुर्भाव इति । उल्कानिर्घातकम्पोपघातैश्च तद्विपर्ययः ।

वटकणिकाबृहत्संहितयोः ।

 यद्रोहिणीयोगफलं तदेव स्वातावषाढासहिते च चन्द्रे ।
 आषाढशुक्ले निखिलं विचिन्त्य योऽस्मिन् विशेषस्तमहं प्रवक्ष्ये ॥
 वृष्टेह्निभागे प्रथमेऽतिवृष्टिस्तद्वितीये तु सकीटसर्पा ।
 वृष्टिस्तु मध्याऽपरभागवृष्टे निश्छिद्रष्टिर्द्युनिशं प्रवृष्टे ॥

पराशरस्तु ।

 अह्नः प्रथमभागे वर्षे क्षेमम्। द्वितीये शस्यसरीसृपादिवृद्धिः । मध्ये प्रावृट्कालाप्तवर्षणम् । तृतीये व्याधेर्भयम् । अन्येषु सकलाहोरात्रवर्षणं च सर्वप्रावृदसंपत्तये ।

वटकणिकाबृहत्संहितयोः ।

 स्वातौ निशान्ते प्रथमेऽतिवृष्टेसर्वाणि शस्यानि प्रयान्तिवृद्धिम् ।
 भागे द्वितीये तिलमुद्गमाषा ग्रैष्मं तृतीये[७०] तिलशारदानि ॥

पराशरः ।

 रजन्याः पूर्वभागेऽभिवृष्टे शस्यम् । द्वितीये शिम्बिधान्यानाम् । तृतीये ग्रैष्मसम्पत्तये । चतुर्थभागे सर्वरसस्य विनाशाय ।

वराहसंहितायाम् ।

 सप्तम्यां स्वातियोगे यदि तपति हिमं माघमासान्धकारे
  वायुर्वा चण्डवेगः सजलजलधरो गर्जते वाऽप्यजस्रम् ।
 विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं
  विज्ञेया प्रावृडेषा मुदितजनपदा सर्वशस्यैरुपेता ॥


 तथैव फाल्गुने चैत्रे वैशाखे मासि वाऽपि च ।
 स्वातेर्योगं विजानीयादाषाढे च विशेषतः ॥

श्लोकंद्वयमिदं प्रक्षिप्तमिति प्रसिद्धम् ।
बार्हस्पत्ये तु ।

 याँश्चोवाचाङ्गिराः पूर्वं याँश्च वेदोशनाः कविः ।
 तानहं संप्रवक्ष्यामि उत्पातान् विविधानिह ॥
 विरुद्धयोनिगमनमन्यसत्त्वप्रभूतयः ।
 हस्तपादाक्षिशिरसामधिकानां प्रदर्शनम् ॥
 अवाकच्छिरोऽङ्घ्रिसंयोगे गतिहीनं च चेष्टितम् ।
 विरुद्धानां च सत्त्वानामन्योन्यं मेलनं भवेत् ॥
 प्रतिस्रोतवहा नद्य इषवः प्रतिलोमगाः ।
 दन्तभङ्गस्त्वकर्णश्च वरवारणवाजिनाम् ॥
 छत्रभङ्गः प्रधानस्य इन्द्रवाद्भ्रमो निशि ।
 मांसतैलविपाकाश्च चैत्यतोयपरिस्रवाः ॥
 शक्रध्वजपताकानां भङ्गः क्रव्यादसेवनम् ।
 विडालोलूकयोर्युद्धं नृपप्रासादसन्निधौ ॥
 पांशुना व्यावृतं व्योम रजसा तमसाऽपि वा ।
 लोहिताग्निप्रतीकाशं दीप्ता द्विजमृगास्तथा ॥
 वातवेगोऽस्तसन्ध्यासु स्फुरन्नद्योऽपसव्यगाः ।
 मण्डलानि समन्ताच्च सर्वतो मृगपक्षिणाम् ॥
 ऋव्याद्वराहसंघाश्च व्याकुलाः सर्वतो दिशम् ।
 त्रिरात्रं च परं वृष्टिः प्रनष्टेन्दुदिवाकराः ॥
 अनृतौ संप्रदृश्येत घोरस्तनितदीर्घता ।

 वज्रादयो वा दात्यूहपुत्राः शकुनयस्तथा ॥
 मण्डलाभ्यन्तरस्थाश्च भवन्ति रविसोमयोः ।
 आकाशे वा प्रवृश्यन्ते प्रकम्पन्ति च पर्वताः ॥
 दृश्यते दिवसे वाऽपि त्वभीक्ष्णं तारका तथा ।
 वर्धनं च विडालानां क्षीरवृक्षे निषेव्यते ॥
 स्खरैर्दीर्घैरुलूकैश्च रसद्भिः सह विग्रहः ।
 सिंहासनानि च्छत्राणि भृङ्गारातपनास्तथा ॥
 कम्पन्त्यकस्माद्भिद्यन्ते संसर्पन्त्यारटन्ति च ।
 राज्ञामघकरं सर्वमेतदुत्पातलक्षणम् ॥
 सन्ध्या सदण्डपरिवेषा रजोऽर्कपरिघादयः ।
 मण्डलानां समूहाश्च दिक्षु भीता रणप्रदाः ॥
 क्रव्यादा वानरा द्वारि विस्फुरन्त्यारटन्ति च ।
 तुण्डैश्च वायसा भूमिं कुट्टयन्तो रटन्ति च ॥
 म्लायते माल्यमत्यर्थं गन्धाः कुणपगन्धिनः ।
 वस्त्रेषु भक्ष्यभोज्यं न भवत्युत्पातलक्षणम् ॥
 क्षौद्रं दधि न पूयं च प्रस्रवन्त्यर्चिता द्रुमाः ।
 सारमेयाः श्मशानेषु भाषन्ते विभवन्ति च ॥
 एतदौत्पातिकं ग्रामे यस्मिन् वा दृश्यते पुरे ।
 तस्मिन् ग्रामे पुरे वाऽपि विद्यादरिभयं महत् ॥
 अश्वत्थोदुम्बरप्ललक्षन्यग्रोधकुसुमोद्भवः ।
 श्वेतलोहितपीतानि कृष्णाणोन्द्रायुधानि च ॥
 एवं वर्णगुणानां च पतनं देववेश्मनाम् ।
 ब्राह्मणक्षत्रियविशां विनाशो राजसंवृतः ॥

 भक्ष्ये भवन्त्यभक्ष्याणि तद्भयं सुमहद्भवेत् ।
 घृतक्षीरजलस्त्रावे घृतक्षीराम्भसः क्षयः ॥
 सुरास्रावे मिथोभेदो रुधिरादुष्णविन्दवः ।
 गोवृषाणां च रुधिरस्रुतेर्गोब्राह्मणक्षयः ॥
 फलेऽफलं यदा पश्येत् पुष्पे पुष्पसमावृतम् ।
 गर्भाः स्रवन्ति नारीणां युवराजवधोऽपि च ॥
 एणान् गजाश्च सर्पान् वा मण्डूका अर्थवाचकाः ।
 मण्डूकी ग्रसते यत्र तत्र राजा च हन्यते ॥
 उन्मत्तानां पशूनां च चेष्टितं विकृतं च यत् ।
 स्त्रियश्च यत् प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥
 पूर्वं वदति देवेषु पश्चाच्चरति मानुषे ।
 नाचोदिता वा गृह्णन्ति, सत्ये ह्येषा सरस्वती ॥
 उत्पाताः सर्व एवैते कदा चिद्राजमृत्यवे ।
 जया देशविनाशाय राहोरागमवाचकाः ॥
 कीलाम्बुधिपरीवेषग्रहाणामुदयाय च ।
 स्वचक्रपरचक्रेभ्यो भयं वा समुपस्थितम् ॥
 राष्ट्रे सेनापतौ यत्र पुरे वाऽथ पुरोधसि ।
 अमात्ये वाहने कोशे नृपतौ वा फलन्ति ते ॥
 एतान् समुत्थितान् ज्ञात्वा राजा सबलवाहनः ।
 प्रणिपत्य गुरुं भूयाद्भगवँस्त्वभयोऽस्तु मे ॥
 भयमुत्पातजं सर्वं ब्रूहि किं करवाणि ते ।
 इत्युक्त्वा श्रद्दधानेन राज्ञा वाञ्छितमिच्छता ।
 निमित्तांनि समालोच्य कृत्वा जपनमाहितः ।

 महाशान्तिं प्रयुञ्जीत सर्वोपद्रवनाशनीम् ॥
 सर्वरोगप्रशमनीं सर्वापद्विनिवारिणीम् ।
 रौद्रीं कुर्यान्महाशान्तिं श्रद्धया बहुदक्षिणाम् ॥

कङ्काद्यद्भुतं आथर्वणाद्भुते ।

 काकोलूकवका गृध्रा हंसाः श्येनाः कपोतकाः ।
 गृहे रथे ध्वजे वाऽपि पतन्त्येतेऽप्यकारणात् ॥
 उत्पन्ना मधुवल्मीकवरटाच्छत्रिका तथा ।
 उत्पाट्यतेऽयथाकाले तद्विद्याद्भुतं महत् ॥
 मानुषाणां एतेद्द्गेहे काकी द्वारि कटायते ।
 स्थूणा प्ररोहते यत्र अद्भुतं च महद्भवेत् ॥
 असिराजीवतप्तं तु द्वित्र्यनेकशिरस्तथा ।
 संहताश्चैव युज्यन्ते जातमात्रा हसन्ति च ॥
 अजा गावो महिष्यश्च[७१] दह्यमाना स्रवेदसृक् ।
 सूर्याद्भुतं विजानीयात् पूजयित्वा दिवाकरम् ॥
 दध्याज्यमधुसंयुक्तसमिधस्त्वर्कसंभवाः ।
 मब्रिराजप्रभृतिभिर्जुहुयादाज्यमेव च ॥
 सुवर्णसहितां गां च दद्याद्धोत्रे च दक्षिणाम् ।
 सर्वे दोषाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 सिंहासनं रथं छत्रं चामरं ध्वजमेव च ।
 अकस्माद्भङ्गमाप्नोति विना वातादिदूषणैः ॥
 अनारोहणको राजा पतेत् सिंहासनादपि ।
 वाहना यत्र उद्यन्ते भूमौ विशति कोकिलः ॥


 चन्द्राद्भुतं विजानीयात् स्ववारेण प्रपूजयेत् ।
 पूर्वोक्तेन विधानेन पलाशसमिधो घृतम् ॥
 धेनुं सुवर्णं वस्त्रं च दद्याद्विप्राय दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 व्रीहीणां तण्डुलाश्चैव स्फुटन्ति चोत्पतन्ति च ।
 अनग्नेर्ज्वलनं चैव गृहे रूढ़ोपसर्पते ॥
 मासाष्टप्रसवे स्त्रीणामद्भुतं भौमजं स्मृतम् ।
 पूर्वोक्तमन्त्रसूक्ताभ्यां मधूकसमिधो घृतम् ॥
 अनडुत्कनकं वस्त्रं दद्याद्विप्राय दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 स्त्रीगर्भपतने वाऽपि महिषीमानुषीगवाम् ।
 यमलानि प्रसूयन्ते सिंहादित्येऽप्यथापि गौः ॥
 शरीरं स्फुरते वाममकस्माजायते कृशः ।
 अजा गौर्महिषी मेषी अधेनुः स्रवते पयः ॥
 आत्मनैवात्मनि पिबेद्गौः स्वभावाच्च तृप्यति ।
 महिष्यां शुक्लवत्साश्च जायन्ते ये विवर्णकाः ॥
 बुधाद्भुतं विजानीयात् स्ववारेण प्रपूजयेत् ।
 दर्शोऽस्य दर्शीति वदन् पूर्वोक्तविधया बुधः ॥
 गावो वस्त्रं सुवर्णं च दद्याद्विप्राय दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 रुधिरं पतते भूमौ वत्स आरोहते गृहम् ।
 गौर्वोपस्करते यत्र नर्दते स्फुटतेऽथ वा ॥
 दिवा वृक्षाश्च हन्यन्ते रात्रौ हन्ति गृहं तथा ।

 अमानुषान् वा मण्डूकान् सर्पान् प्रसुवते स्त्रियः ॥
 बार्हस्पत्याद्भुतं चैतत् तेन वारेण वा पुनः ।
 तत्सूक्तेन च यज्ञाङ्गैर्जुहुयादृषिवृत्तिना ॥
 वस्त्रं सुवर्णं धेनुं च दद्याद्विप्राय दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 रथेन्द्रध्वजवैकृत्ये भङ्गे प्रपतनेऽपि वा ।
 कूपस्योद्गिरणे वाऽपि गर्जने शोषणेऽपि वा ॥
 स्वयं चैवोत्थिताः कुम्भा धूमायन्ते ज्वलन्ति च ।
 शुक्लपक्षे चोदयते भार्गवोऽस्तमितोऽथ वा ॥
 शुक्राद्भुतं विजानीयात् तेन वारेण वा पुनः ।
 जुहुयात् प्लक्षसमिधः पूर्वोक्तविधया बुधः ॥
 वस्त्रं सुवर्णं धेनुं च दद्याद्विप्राय दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 मृगगोधावरहाश्च व्याघ्रा ऋक्षा वृकास्तथा ।
 गजा गवयमहिषा ये चान्ये वनचारिणः ॥
 द्वारे प्रविष्टा निष्क्रामन्त्यद्भुतं सुमहाभयम् ।
 देवतार्चाविकारेषु शून्यगेहोत्थितं वचः ॥
 शनैश्चराद्भुतं चैव तेन वारेण वा पुनः ।
 पूर्वोक्तेन विधानेन समिधोऽश्वत्थजा घृतम् ॥
 हव्या मन्त्रैः सुवर्णं च वस्त्रं दद्याच्च दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 चण्डवाता भूमिकम्पा निर्घाताः पांसुवृष्टयः ।
 शक्रस्तु पतते भूमौ रात्राविन्द्रधनुस्तथा ॥

 भूधराणां प्रकम्पस्तु देवतायतनेऽपि वा ।
 राजद्वारे पुरद्वारे भैरवं तु नदेच्छिवा ॥
 शवोऽप्युत्थाय निपतेद्वकारोऽन्यश्च दृश्यते ।
 अन्यवृक्षाश्च दृश्यन्ते नानात्वं फलपुष्पयोः ॥
 अपुष्पाः पुष्पयुक्ताश्चाश्वानडाहश्च पुष्पिताः ।
 दिवोल्कादर्शनं वाता अद्भुतं सुमहद्भवेत् ॥
 राह्वद्भुतं विजानीयाद्रविवारेण वा पुनः ।
 पूर्वोक्तेन विधानेन स्वर्णकुम्भजलैस्तथा ॥
 रात्रौ धनुं सुवर्णं च दद्याद्विप्राय दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 रुधिरादि स्रवेद्वृक्षे भङ्गे प्रपतनेऽपि वा ।
 काञ्जिकोद्गिरतेऽकस्मान्नर्दते सज्ज्यतेऽपि वा ॥
 भद्रासनं च शयनमकस्माद्भिद्यतेऽपि वा ।
 राजद्वारे पुरद्वारे केतुर्वा रवते भृशम् ॥
 केत्वद्भुतं विजानीयाद्रविवारेण पूजयेत् ।
 कुशान् मन्त्रैस्तु जुहुयाद् दधिमधुघृतान्वितान् ॥
 कृष्णा गावः सुवर्णं च वस्त्रं दासीं च दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 ब्राह्मणा वेदसम्पन्ना ब्रह्मकर्मसमन्विताः ।
 उपोष्य रात्रिमेकां तु कर्म कुर्युर्यथाविधि ॥

कठश्रुतिस्तु ।

 या पूर्वादिशमन्वावर्त्तते सा इन्द्रमन्वावर्त्तते । यत्र कन्या प्रसूयते धेनुर्धेनुं पिबति अतड्वाहं धेनुर्वा पिबति वत्सतरीं गौः ।  पिबति वृषभावन्योन्यं पिबतो गौर्लोहितं दुह्यते अजा दुह्यते महिषी दुह्यते दुह्यमानाश्च प्रसूयन्ते गात्राणि चासां शुष्यन्ति यमसूर्जायते शस्यानि वेपन्ते शस्यान्यतीव रोहन्ति । कन्यकाः पशुमानुषा विकृतरूपा जायन्ते अन्योन्यं पुरुषाः संक्षोभं गच्छन्ति ध्वजाः पताकाः गच्छन्ति गजतुरगाः शीर्यन्ते विकृरूपा जायन्ते च। रात्रौ विकृताभ्रायामिन्द्रधनुर्दृश्यते । अमानुषा मानुषवद्वदन्ति देवकुलानि नर्दन्ति श्वेतकाका दृश्यन्ते इत्येतानीन्द्रदेवताकान्यद्भुतानि दृष्ट्वा महद्भयमुत्पद्यते।

 इन्द्रस्थालीपाकं श्रपयित्वा-इन्द्राय स्वाहा । इन्द्र इदं शमय तु स्वाहा । शतक्रतवे स्वाहा ।

 आ तू न इन्द्र-[७२]इति स्थालीपाकम्य द्वे हुत्वा सावित्र्या त्रिरुपरिष्टाद्वयेन जुहुयात् ।

 त्रातारमिन्द्रम्-[७३]इति अनेन मन्त्रेण धेनुं सुवर्णै वस्त्रं रत्नं च दक्षिणां दद्यात् ततः संपद्यते शुभमिति ।

 या दक्षिणां दिशमन्वावर्त्तते सा यममन्वावर्त्तते यत्र वैश्मन्युलूकश्येनबलाकाकपोतक्रौञ्चगृध्राः पतन्ति अस्थीनि गृहीत्वा वायसा अन्ये पक्षिणो वा गृहं प्रविशन्ति नरशिरसि गृध्राः पतन्ति अन्ये वा काकश्येनादयः पतन्ति षड्भिर्मासैः संवत्सरेण वा ते नश्यन्ति । सर्पः प्रविशति स्त्री स्त्रियं हन्ति गोधा प्रविशति आरण्याः पशवो हर्म्ये प्रविशन्ति क्षोभन्ते वा । रथो भिद्यते वृषौ वा युग्ययुक्तौ गृहं प्रविशतश्चक्रमूर्ध्वमुद्वमति मुशलं वा ईतिजाव्यापदो भवन्ति कुले सततं कलिर्भवति बालका बहवो नश्यन्ति


सिन्दूरवर्णसदृशी वृष्टिर्वाऽऽकाशात् पतति रुधिरवृष्टिरङ्गणे निपतति काञ्जिकमूर्ध्वमुद्वमति कम्पते वा विद्यान्मरणकृतं भयं भवति ।

 याम्यस्थालीपाकं श्रपयित्वा -यमाय स्वाहा । यम इदं शमयतु स्वाहा । वैवस्वताय स्वाहा ।

 यमेन दत्तं त्रित[७४] -स्थालीपाकस्य द्वे हुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहुयात् । शर्मासमिधामयुतं जुहुयात् ।

 असि यमो -[७५]इति मन्त्रेण चतुर्विधां दक्षिणां दद्याद्गां भूमिं हिरण्यं धान्यं च ततः संपद्यते शुभमिति ।

 या पश्चिमां दिशमन्वावर्त्तते सा वरुणमन्वावर्त्तते । मृदालाङ्गलं भिद्यते लाङ्गलेषु वा मृदनुदको वा लोष्टकानिऽवाकारणमुदकशोषस्तथैवानुदकेषूदकं वापीकूपतडागानामपानीयं नदीकूपवापीपुष्करणीष्वकारणं घटा उत्तिष्ठन्ति अकाले पर्जन्यो वर्षतीतिमण्डूका व्याहरन्ति कर्कटा वा गृहात् पतन्ति क्रौञ्चः पतति भूमौ मधुकराः पतन्ति गृहे वल्मीका जायन्ते उत्किरन्ति वा दधितैलक्षीरकुम्भैः स्रवन्ति दर्वी सीदति मन्थानी मथ्यमाना व्याहरति स्थूणाप्ररोहति रुधिरं प्रस्त्रवति स्थूणायां शाखा जायते हस्तिनी माद्यति हस्थिदन्ता भिद्यन्ते गावो भाद्रपदे प्रसूयन्ते हस्तिनी नगरे प्रसूयते वडवा गौर्दासी भार्या युगलं प्रसूयते वनस्पतयो भिद्यन्ते गोः शृङ्गाणि भिद्यन्ते इक्षवः पुष्पन्ति । अकाले माद्यन्ति सोमा अतिरज्यन्ते चालवृक्षाः पुष्पन्ति फलन्ति वा इत्येतानि वरुणदेवताकान्यद्भुतानि दृष्ट्वा प्रभुवधं वदेत् ।

 वारुणं चरुं कृत्वा-वरुणाय स्वाहा । वरुण इदं शमतु स्वाहा । अद्भ्यः स्वाहा [७६]


 उदुत्तमं वरुणपाशम-[७७]इति द्वे हुत्वा सावित्र्या त्रिरुपरिष्टाराज्येन जुहुयात् । न्यग्रोधसमिधामयुतं जुहुयात् ।

 वरुणस्योत्तम्भनमसि-[७८]इति मन्त्रेण त्रिप्रकारां दक्षिणां दद्यात् । भूमि हिरण्यं धान्यं चेति ततः संपद्यते शुभमिति ।

 या उत्तरां दिशमन्वावर्त्तते सा सोममन्वावर्त्तते । यत्रौषधयोऽपक्रुष्टसलिलाः पच्यन्ते व्रीहयः स्विन्नाः प्ररोहन्ति तण्डुलाः स्कटन्ति सुवर्णमन्यवर्णं भवति असलिलाः प्रपाः पूर्यन्ते मृता मानवा दृश्यन्ते पद्मा युग्मा जायन्ते स्थले पद्मा जायन्ते नदीकूपवापीतडागास्तरङ्गवन्त उद्गिरन्ति शुष्यन्ति वा नद्यः प्रतिकूला वहन्ति रुधिरं प्रस्रवन्ति अन्यवर्णा वा भवन्ति शिलाः प्रवहन्ति गिरयः शीर्यन्ते धान्यकुशूलान्युदकं वहन्ति गृहेषु छत्रिका जायन्ते मानाः कन्दाश्च पुष्पन्ति इत्येतानि सोमदेवताकान्यद्भुतानि दृष्ट्वा देशोपद्रवमादिशेत् ।

 सौम्यस्थालीपाकं श्रपयित्वा- सोमाय स्वाहा। सोम इदं शमयतु स्वाहा । चन्द्रमसे स्वाहा ।

 आप्यायस्व समेतु ते[७९] -इति द्वे हुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहोति । पलाशसमिधामयुतं जुहुयात् ।

 एष वः कुररो राजा[८०] - इति मन्त्रेण हिरण्यं वासः शङ्खं धेनुं च दक्षिणां दद्यात् । ततः संपद्यते शुभमिति ।

 या पृथिवीमन्त्रावर्त्तते साऽग्निमन्वावर्त्तते । यत्र हिरण्यनाशो भवति । अङ्गारदाहो भवति भूमावग्निर्ज्वलति । दिशो दह्यन्ते कुटुम्बक्षयो भवति शालामण्डपदेवकुलानां दाहो भवति अनग्निर्ज्व-


लति अहतवासांसि दह्यन्ते शस्त्रं ज्वलति देवाः प्रहसन्ति प्रकम्पन्ते धूमायन्ते प्रकीडन्ते प्रज्वलन्ति रुधिरं प्रस्रवन्ति अन्ये वा अग्निप्रकारा दृश्यन्ते इत्येतान्यग्निदेवताकान्यद्भुतानि दृष्ट्वा परचक्रागमं विद्यात् ।

 आग्नेयस्थालीपाकं श्रपयित्वा- अग्नये स्वाहा । अग्निरिदं शमयतु स्वाहा । भूताधिपतये स्वाहा ।

 अग्निर्मूर्धा[८१]- इति द्वे हुत्वा सावित्र्या त्रिरुपविष्टादाज्येन जुहुयात् । अपामार्गसमिधामयुतं जुहुयात् ।

 वैश्वानरो[८२] -इति मन्त्रेण दक्षिणां गां सुवर्णं धान्यं रजतं दद्यात् ततः संपद्यते शुभतिति ।

 या अन्तरीक्षमन्वावर्त्तते सा वायुमन्वावर्त्तते । यत्र वेश्मनि प्रासादे शालायां वृक्षे नगरे ग्राममध्येऽपि वाऽशनिः पतति । निर्घातः पतति भूमिकम्पो भवत्यभीक्ष्णं तीव्रो वातो वहति दिग्दाहो भवति दक्षिणेतरं चक्षुः स्पन्दते स्त्रियो गावोऽतिप्रसूता अप्रसूता विपसेतप्रसवा वा भवन्ति अन्ये वा एवं प्रकारा दृश्यन्ते एतानि वायुदेवताकान्यद्भुतानि दृष्ट्वा स्थानत्यागं विनिर्दिशेत् ।

 वायव्यस्थालीपाकं श्रपयित्वा-वायवे स्वाहा । वायुरिदं शमयत स्वाहा ।

 वातस्य जूतिं[८३] -इति मन्त्रेण स्थालीपाकस्य द्वे दुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहुयात् ।

 सुमनसामयुतं जुहुयात् । वायुरग्रे गा [८४] -इति मन्त्रेण धान्यं सुवर्णं दक्षिणां दद्यात् ततः संपद्यते शुभमिति ।


 या दिवमन्वावर्त्तते सा सूर्यमन्वावर्त्तते । यत्र रुधिरास्थिशिरोबालमांसासृक्पांप्तुकर्दमपूयास्थां तु वृष्टयो भवन्ति । दिवोल्कापातः । अपर्वणि राहुदर्शनम् । आदित्ये छिद्रं दृश्यते । दिवा तारका दृश्यन्ते आदित्ये कबन्धो दृश्यते । अदित्ये केतुर्दृश्यते । अनाभ्रा वृष्टिदृश्यते । नक्तमिन्द्रधनुश्चतुर्विक्षु दृश्यते । अन्यानि बहूनि दिव्यान्युत्पातानि दृश्यन्ते । तेषु नरपतेर्वधमादिशेत् ।

 सौर्य स्थालीपाकं श्रपयित्वा-सूर्याय स्वाहा । सूर्य इदं शमतु स्वाहा ।

परमात्मने स्वाहा । उदुत्यम्-चित्रम्[८५]इति द्वे हुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहुयात् ।

 आकृष्णेन -इति मन्त्रेण प्रभूतान्नकनकधान्यमहीदक्षिणादानैः संपद्यते शुभमिति ।

 अविज्ञाताद्भुतदर्शने पयोघृतादिभिर्दोषशान्तये प्राजापत्यवैष्णवरौद्रस्थालीपाकं श्रपयित्वा- प्रजापतये स्वाहा ।

 विष्णोरराटमसि[८६] एष ते रुद्र[८७]-इति यथासंण्यमहाव्याहृतिभिश्च सर्वेष्वद्भुतेषु जुहुयात् ।

 काण्डात् काण्डात् प्ररोहन्ति[८८] -इति मन्त्रेण अनड्वाहं रजतं ताम्रं दक्षिणां दद्यात् । ततः सम्पद्यते शुभमिति ।

 दिव्यान्तरीक्षभौमानामद्भुतदर्शने दोषप्रशान्तये ग्रहशान्तिं प्रयोजयेत् । ततः संपद्यते शुभमति ।

 शान्तिः षड्विंशब्राह्मणे[८९]

 अथातोऽद्भुतानां कर्मणां शान्तिं व्याख्यास्यामः । पलशानां समिधामष्टसहस्रेण जुहुयादैन्द्रयाम्यवरुणधनदाग्नेयवायव्यसौम्यवैष्णवेष्वष्टस्वादौ- इन्द्रायेन्दो मरुत्वते नाके सुपर्णमनुपर्यन्तं घृतवती


 भुवनानामभिश्रियोर्वी'-अभित्य देवं सवितारमण्यो-अग्निदूतं वृणीमहे वातवा आवातभेषजं सोमं राजानं वरुणमिदं विष्णुविर्चक्रमे इत्येतानि सामान्यष्टशतं जपित्वा स्वस्ति वाचयित्वा स्वस्तिवाचनंहैषां भवति स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिरित्यपुवाजिनं देवज्ञतमायुर्विश्वायुः शतं जीव शरदो वर्धमान इत्येतैः सम्भाराणामुपस्थापनं कृत्वा स्वस्ति वाचयित्वा स्वस्ति हैषां भवति स्वस्ति हैषां भवति देवाश्व असुराश्चेषु लोकेषु स्पर्धन्ते देवाः प्रजापतिमुपाधानास्तेभ्य एतां दैवीं शान्ति प्रयच्छत्येतच्छन्त्यैकया असुरानभ्यजनयँस्ततो देवा अभवन् सुराभवत्यात्मना परस्य भ्रातृभ्यो भवति य एवं वेद ।

 अथ पूर्वाह्ण एव प्रातराहुतिं हुत्वा दर्भान् वीरसान् सर्विषा फलवतोमपामार्गशिरीषमित्येतान्याहरेदाहारयेद्वास्नातः प्रयतः शुचिः शुचिवासाः स्थण्डिलमुपलिप्य प्रोज्ज्वललक्षणमुपलिप्य आलिख्याद्भिरभ्युक्ष्याग्निमुपसमाधाय नित्यतनोदनकुशरयवागूरत्नपायसदधिक्षिस्तृतपायसमिति घृतोत्तराः पृथक् पृथक् चरवः सर्वेषां वा पायसाः ।

 स प्राचीं दिशमन्वावर्त्तते । अथ यदाऽस्य मणिमणिककुम्भानां दरणमनायासो राजकुलविवादो वा यानच्छत्रशय्यासनावसथध्वज गृहैकदेशप्रभञ्जनेषु गजवाजिमुख्या वा प्रम्रियन्ते इत्येवमादीनि तानीन्द्रदैवतानि तत्र प्रायश्चित्तानि भवन्ति ।

 इन्द्रायेन्दो मरुत्वते-[९०]इति स्थालीपाकं हुत्वा पञ्चमिशज्यापुतिभिर्जुहोति ।

 इन्द्राय स्वाहा । शचीपतये स्वाहा । वज्रपाणये स्वाहा । ईश्वराय स्वाहा । सर्वपापप्रशमनाय स्वाहा -इति व्याहृतिभिर्हुत्वा साम गायेत् ।


स दक्षिणां दिशमन्वावर्त्तते । अथ यदाऽस्य प्रजायां पशुषु शरीरेष्वरिष्टानि प्रादुर्भवन्ति व्याधयो या अनेकविधयः । अतिस्वप्नातिभोजनाभोजनालस्यव्रणाजीर्णप्रमुखान्येवमादीनि तान्येतानि सर्वाणि यमदैवतन्यद्भुतानि तत्र प्रायश्चित्तानि भवन्ति ।

 नाके सुपर्णम्[९१] -इति स्थालीपाकं हुत्वा पञ्चभिराज्याहुतिभिर्जुहोति ।

 यमाय स्वाहा । प्रेताधिपतये स्वाहा । दण्डपाणये स्वाहा । ईश्वराय स्वाहा । सर्वपापप्रशमनाय स्वाहा-इत्याज्याहुतिभिर्दुत्वा सामगायेत् ।

 स प्रतीचीं दिशमन्वावर्त्तते । अथ यदाऽस्य क्षेत्रगृहसंस्थितेषु धान्येष्वीतयः प्रादुर्भवन्ति तथा चानेकविधा वा आखुपतङ्ग पिपीलिकाशुकशलभकाका इत्येवमादीन्येतानि सर्वाणि वरुणदेवत्यान्यनतानि तत्र प्रायश्चित्तानि भवन्ति ।

 घृतवती-[९२] इति स्थालीपाकं हुत्वा पञ्चभिराज्याहुतिभिर्जुहोति ।

वरुणाय स्वाहा । अपां पातपे स्वाहा । पाशपाणये स्वाहा-ईश्वराय स्वाहा। सर्वपापप्रशमनाय स्वाहा- इति हुत्वाऽथ साम गायेत् ।

 स उदीचीं दिशमन्वावर्तते । अथ यदाऽस्य कनकरजतवरवत्रवैडूर्यमुक्तामणिवियोगो भवत्यतिक्रूराणीव मित्राणि विरज्यन्ते । रिष्टानि वयांसि गृहमध्यासते वल्मीकानि भौमानि जायन्ते छत्राकं चोपजायते मधूनि वा नीलीयन्त इत्येवमादीनि सर्वाणि वैश्रवणदैवत्यान्यद्भूतानि तत्र प्रायश्चित्तानि भवन्ति ।

 अभित्यं देवम्[९३]-इति स्थालीपकं हुत्वा पञ्चभिराज्याहुतिभिर्जुहोति ।


 वैश्रवणाय स्वाहा । यक्षाधिपतये स्वाहा । हिरण्यपाणये स्वाहा । ईश्वराय स्वाहा । सर्वपापप्रशमनाय स्वाहा । इति व्याहृतिभिर्हत्याऽथ साम गायेत् ।

 स पृथिवीमन्यावर्त्तते । अथ यदाऽस्य पृथिवी रटति स्कुटति कम्पति ज्वलति तुदति धूमावत्यकस्मात् सलिलमुद्विरति प्लवते मज्जति भग्नमुत्प्लवत्यकाले च पुष्पफलमभिनिर्वर्त्तयत्यश्वतरीषु गर्दभा जायन्ते हस्तिनी माद्यति भूकम्पा जायन्ते यत्र तत्र राजा विनश्यति गौर्गृहमारोहते ग्रामं महिषीत्येवमादीनि सर्वाण्यग्निदैवतान्यद्भुतानि तत्र प्रायश्चित्तानि भवन्ति ।

 अग्निं दूतं वृणीमहे[९४]- इति स्थालीपाकं हुत्वा पञ्चभिराज्याहुतिभिर्जुहोति ।

 अग्नये स्वाहा । हविःपतये स्वाहा । अर्चिःप्राणाय स्वाहा । ईश्वराय स्वाहा । सर्वपापप्रशमनाय स्वाहा इति व्याहृतिभिश्च हुत्वाऽर्थ साम गायेत् । चतुर्विधां दक्षिणां दद्याद् गां भूमिं हिरण्यं धान्यं च ततः संपद्यते शुभमिति ।

 सोऽन्तरीक्षमन्वावर्त्तते । अथ यदाऽस्य निर्वाते नभस्यनभ्रेऽनात्मरूपाणि दृश्यन्ते स्वरकरभकबन्धकङ्ककपोतकाकगृध्रश्येनभासवायसगोमायुसंस्थान्युपरि पांसुमांसपेस्यस्थिरुधिरवर्षाणि प्रवर्त्तन्ते काकमिथुनानि दृश्यन्ते रात्रौ मणिधनुर्दृश्यते शशका ग्रामं प्रविशन्ति वृक्षाः स्रवन्ति रुधिराण्याकाशे राजकुलं वसतीत्येवमादीनि तान्येतानि सर्वाणि वायुदैवतान्यद्भुतानि तत्र प्रायश्चित्तानि भवन्ति ।

 वात आवातु भेषजम्-[९५]इति स्थालीपार्क हुत्वा पञ्चभिराज्याद्दुसिर्जुहोति ।

 वायवे स्वाहा । भूताधिपतये स्वाहा । शस्त्रपाणये स्वाहा । ईश्वराय स्वाहा । सर्वपापप्रशमनाय स्वाहा । एभिर्हुत्वाऽथ साम गायेत् ।


 स दिवमन्त्रावर्त्तते । अथ यदाऽस्य तारावर्षाणि चोल्काः पतन्ति धूमायन्ते दिशो दह्यन्ते के अत्र उत्तिष्ठन्ति गवां श्रृंङ्गेषु धूमा जायन्ते गवां स्तनेषु रुधिरं स्रवत्यत्यर्थं हिमं निपतटीत्येवमादीनि सर्वाणि सोमदैवतान्यतानि तत्र प्रायश्चित्तानि भवन्ति ।

 सोमं राजानं वरुणम्-[९६]इति स्थालीपार्क हुत्वा पञ्चभिराज्यहुतिभिजुहोति ।

 सोमाय स्वाहा । नक्षत्रपतये स्वाहा । शीतपाणये स्वाहा । ईश्वराय स्वाहा। सर्वपापप्रशमनाय स्वाहा ।इति व्याहृतिभिश्च हुत्वा साम गायेत् ।

 स परां दिवमन्वावर्तते । अथ यदाऽस्यायुक्तानि यानानि-भज्यन्ते देवताप्रतिमा हसन्ति रुदन्ति गायन्ति नृत्यन्ति स्कुटन्ति स्विद्यन्ति उत्पतन्ति उन्मीलन्ति प्रतीपं प्रयान्ति नद्यः कबन्ध आदित्य दृश्यते विजने न परिदृश्यते केतुपताका च्छत्रचामरवज्रविषाणानि प्रज्वलन्त्यश्वानां बालधिष्वङ्गाराः क्षरन्ति निहतानि मर्माणि अतिक्रामन्ते इत्येवमादीनि तान्येतानि सर्वाणि विष्णुदैवत्यान्यद्भुतानि तत्र प्रायश्चित्तानि भवन्ति ।

 इदं विष्णुर्विचक्रमे[९७]इति स्थालीपाकं हुत्वा पञ्चभिराज्याहुतिभिर्जुहोति ।

 विष्णवे स्वाहा। सर्वभूताधिपतये स्वाहा । चक्रपाणये स्वाहा । ईश्वराय स्वाहा। सर्वपापप्रशमनाय स्वाहा । इति व्याहृतिभिश्च हुत्वाऽथ साम गायेत् ।
सामविधानं ब्राह्मणे ।

 अद्भुते य एवं जुहुयात् 'वात आवातु भेषजम्' इत्यनेन शाम्यति इह कृष्णाँस्तिलानग्नौ जुहुयात् । प्रथमं देवो अग्निः [९८]इत्येतेनैव ।


कृतानि हिसन्ति तान्येवं प्रतिगच्छन्ति व्रीहियवानग्नौ जुहुयात् । पञ्चनिधनेन वामदैव्येन नैनं कृतानि हिसन्ति तान्येव प्रतिगच्छन्ति ताम्रवररजतहेममयीं मुद्रां कारयित्वा 'द्वाते जातमंहसः' [९९]इति चतुर्थे मासि जुहुयात् । सहस्रकृत्वः शतवारं वा तां मुद्रां दक्षिणपाणिना धारयेत् नैनं कृतानि हिसन्ति तान्येव प्रतिगच्छन्ति ।

इति महाराजाधिराजनिःशङ्कशङ्कर श्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे मिश्रकाद्भुतावर्त्तः ।

अथाद्भुतशान्त्यद्भुतावर्त्तः।

मत्स्यपुराणे ।
मत्स्य उवाच ।

 अथातः संप्रवक्ष्यामि त्रिविधामन्तादिषु ।
 विशेषेण तु भौमेषु शान्ति कार्याऽमृता भवेत् ॥
 अभया नान्तरिक्षेषु सौम्या दिव्येषु पार्थिव ।
 विजिगीषुः परं राजन् भूमिकामश्च यो भवेत् ॥
 आरोग्यधनकामश्च सोऽमृतां कारयेत् सदा ।
 विजीगीषुः परं परानेवमभियुक्तस्तथा परैः ॥
 तथाऽभिचारशङ्कायां शत्रूणामपि घातने ।
 भये महति संप्राप्ते अभया शान्तिरिष्यते ॥
 राजयक्ष्माभिभूतस्य क्षतक्षीणस्य चाप्यथ ।
 भूकम्पे तु रामुत्पने प्राप्ते चान्नक्षये तथा ॥
 सौम्या प्रशस्यते शान्तिर्यज्ञे कामस्य चाप्यय ।


 अतिवृष्ट्यामनावृष्ट्यां शलभेषु भयेषु च ॥
 प्रमत्तेषु च चौरेषु वैष्णवी शान्तिरिष्यते ।
 पशूनां मरणे प्राप्ते प्रजानामपि दारुणे ॥
 भूतेषु दृश्यमानेषु रौद्री शान्तिस्तथेष्यते ।
 वेदनाशे समुत्पन्ने जने जाते च नास्तिके ।
 अपूज्यपूजने जाते ब्राह्मी शान्तिस्तथेष्यते ।
 भविष्यत्यभिषेके च परचक्रभयेषु च ॥
 स्वराष्ट्रभेदेऽरिवधे ऐन्द्री शान्तिस्तथेष्यते ।
 त्र्यहातिरिक्ते पवने रूक्षे सर्वदिगुत्थिते ॥
 वैकृते वातजे वाऽथ वायवी शान्तिरिष्यते ।
 अनावृष्टिभये जाते तथा विकृतवर्षणे ॥
 जलाशयविकारे च वारुणी शान्तिरिष्यते ।
 अभिशापभये प्राप्ते भार्गवी च तथा द्विज ॥
 जाते प्रसववैकृत्ये प्राजापत्या महीभुजा ।
 उपस्कराणां वैकृत्ये त्वाष्ट्री पार्थिवनन्दन ॥
 बालानां शान्तिकामस्य कौमारी च तथा द्विज ।
 आग्नेयीं कारयेच्छान्ति संप्राप्ते चाग्निवैकृते ॥
 कार्या मारुद्गणी शान्तिः कुशलेन महीक्षिता ।
 आज्ञाभङ्गे तु संप्राप्ते जाते भृत्यादिसंक्षये ॥
 अश्वानां शान्तिकामस्य तद्विकारे समुत्थिते ।
 अश्वानां कामयानस्य गान्धर्वी शान्तिरिष्यते ॥
 गजानां शान्तिकामस्य तद्विकारे समुत्थिते ।
 गजानां काल्यानस्य शान्तिराङ्गिरसी भवेत् ॥

 पिशाचादिभये प्राप्ते शान्तिस्तु नैर्ऋती स्मृता ।
 अपमृत्युभये जाते दुःस्वप्ने च तथा द्विज ॥
 याम्यां तु कारयेच्छान्तिं प्राप्ते तु मरके तथा ।
 धननाशे च राजेन्द्र कौवेरी शान्तिरिष्यते ॥
 वृक्षाणां च तथाऽर्थानां वैकृत्ये समुपस्थिते ।
 भूमिकामस्तथा शान्ति पार्थिवीं च प्रयोजयेत् ॥
 प्रथमे दिनयामे च रात्रौ च मनुजेश्वर ।
 हस्ते स्वातौ न चित्रायामादित्ये चाश्विने तथा ॥
 आर्यम्णे सौम्य जातेषु वायव्यां त्वद्भुतेषु च ।
 द्वितीये दिनयामे च रात्रौ च रविनन्दन ॥
 पुष्याग्नेयविशाखासु पित्र्याजभरणीषु च ।
 उत्पाता ये तथा भाग्ये चाग्निपातेषु कारयेत् ॥
 तृतीये दिनयामे च रात्रौ च रविनन्दन।
 रोहिण्यां वैष्णवे ब्राह्मे वासवे वैश्वदेवते ॥
 ज्येष्ठायां च तथा मैत्र्ये ये भवन्त्यद्भुताः क्व चित् ।
 चतुर्थे दिनयामे च रात्रौ वा रविनन्दन ॥
 सार्पे पौष्णे तथाऽद्रयामा हिर्बुध्न्ये च दारुणे ।
 मूले वरुणदेवत्ये ये भवन्त्यद्भुतास्तथा ॥
 वारुणी तेषु कर्त्तव्या महाशान्तिर्महीक्षिता ।
 भिन्नमण्डल[१००] वेलासु ये भवन्त्यद्भुताः क चित् ॥
 तेषु शान्तिद्वयं कार्यं निमित्ते सति नान्यथा ।


 "निर्निमित्तीकृता शान्तिर्निर्निमित्तोपजायते” [१०१]

मयूरचित्रे ।

 ततः शान्तिः xxxxx शान्तिः साधारणी तथा ।
 इदानीं वक्ष्यते सैव लोकानां हितकाम्यया ॥
 व्याध्यवृष्टिरिपुप्राप्तिदुर्भिक्षमरकादिषु ।
 राजपीडासु[१०२] चौर्येषु शान्तिस्तु प्रथमोदिता ॥
 नगरग्रामदेशेषु सोपसर्गेषु चैव हि ।
 गोऽश्वनागमनुष्येषु धनधान्यगृहेषु च ॥
 औदुम्बरीणां समिधं जुहुयाच्च शतं शतम् ।
 मधुक्षीरघृताक्तानां मन्त्रैर्मब्रगणाँस्तथा ॥
 हुत्वा शतसहस्रं तु ततः शान्तिः कृता भवेत् ।

मत्स्यपुराणे ।

"वाणप्रहारा न भवन्ति यद्वद्राजन् नृणां संहननैर्युतानाम् ।
दैवोपघाता न भवन्ति तद्वद्धर्मात्मनां शान्तिपरायणानाम्[१०३]

विष्णुधर्मोत्तरे एतानि वचनानि किञ्चिद्विकृतानि ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरेऽद्भुतशान्त्यद्भुतावर्त्तः ।


अथ वद्योवर्षनिमित्ताद्भुतावर्त्तः ।


भार्गवीये ।

 मत्स्यरूपे तु दृश्येते यदा चैव दिवाकरे ।
 स्फुरदिन्द्रस्तथाऽदित्यो निर्देहन्निव मेदिनीम् ॥


 एतद्दृष्ट्वा महद्रूपमादित्ये समुपस्थितम् ।
 विस्पष्टज्योतिषं दृष्ट्वा सद्योवर्षस्य लक्षणम् ॥

पराशरः ।

 'सद्योवर्षलिङ्गानि भवन्ति तद्यथा लवणं प्रस्विद्यते आदित्यस्तीव्रतरं तपति अण्डानि पिपीलिकाः संचारयन्ति शस्त्रादर्शतलेपष्वकस्मान्मला लिप्यन्ति प्रशान्तमेव मारुते नभस्युदयन्तमविच्छिन्नमूलो महामेघः सूर्यमावृणोति । नीलश्वेताग्रैर्द्वित्रिचतुष्पञ्चमण्डलाद्यैः परिवेष्टौ चन्द्रार्कौ परिविष्येते । द्वहमेकमण्डलेन सचन्द्रग्रहनक्षत्रनभसः प्रत्यन्तपरिवेषणम् । अप्सु वैरस्यं शीतोष्णता च प्रादुर्भवति । उष्ट्राः स्वेदसम्भिन्नं मूत्रपुरीषमुत्सृजन्ति । गावश्च घोरमुच्चैर्नदन्त्यश्चरणानास्फोटयन्ति । अधोमुखांशुर्दिवाऽऽदित्यो लक्ष्यते । मेघार्करश्मिप्रतिसूर्यकाश्चास्योत्तरतः सन्ध्ययोः प्रादुर्भवन्ति । प्रतिमुखं चास्योल्काः स्निग्धा नीला नीचैः प्रपतन्त्यरुणा दिक्चारिणश्च शंकुनयः पांशुष्वप्सु वा स्नानं कुर्वन्ति । गोमायुश्चोष्णं पांशुं नोचैरुद्धहति । सशीकराच शीतवाताः परिपतन्ति । मत्स्यैरावतेन्द्रधनूंषि प्रत्यक् पूर्वाह्णे द्विगुणानि त्रिगुणानि चोत्पतन्ति ।सिकतापांशुकूटवल्मोकाग्राण्यजैण्डककीटपिपीलिकाः समारोहन्ति । क्षीरवृक्षाणां च स्नेहा भवन्ति। श्वशृगाललोमशोलूकमार्जाराश्चोच्चैर्विनदन्ति । रवोत्तराश्च मृगाः । सूर्यश्चापसव्यं गच्छति। एतानि वर्षनिमित्तानि वारुणसार्पमाहेन्द्रेषु वार्षिकेषु नक्षत्रेषु तथा मासपक्षर्त्त्वयनदिवससन्धिष्वष्टम्यां ग्रहेष्वमर्दितेषु वर्षासु वाप्यवश्यं फलप्रदानि भवन्ति । तत् संवत्सरमत्सरास्तु यदभ्रचन्द्रग्रहनक्षत्रमृगपक्षिणां वर्षनिमित्तं तन्मासान्तरान्महाभयं जनयतीति ग्लपितं सुतरामपि चात्रोदाहरन्ति ।

 बलवत्सु महद्वर्षमल्पेष्वल्पाम्बुशीकरम् ।
 मध्येषु मध्यमं ब्रूयान्निमित्तेषु निमित्तवत् ॥
 उल्कानिर्घातभूकम्पपांसुवर्षाणि केतवः ।
 अपसव्या ग्रहाश्चैते नित्यं वर्षासु वर्षदाः ॥
 प्रतिशुक्रशक्रधनुर्दण्डकाः परिवेषणम् ।
 तथैव वातमत्स्याश्च स्निग्धा ये चार्करश्मयः ॥
 विद्युतोऽभ्रविकाराश्च वाता ये च प्रदक्षिणाः ।
 सन्ध्यासु यदि दृश्यन्ते सद्योवर्षस्य लक्षणम् ॥

वटकणिकायाम् ।

 पृच्छाकाले शान्ता वारुणदिक्स्था विहङ्गा वा ।
 दर्पणलोहकलङ्को लवणस्वेदोऽतितीक्ष्णकिरणोऽर्कः ॥
 पोप्लूयन्ते मत्स्या दिश्यैशान्यां तडिच्च दिवा ।
 उत्कर्णपुच्छवदना गावस्तापोऽम्भसां पवननाशम् ॥
 अञ्जनपुञ्जश्यामा गिरयो धूमावृता [१०४] यदि वा ।
 जलपांशुस्नानं वा विहगानां मैथुनं भुजङ्गानाम् ॥
 वृक्षारोहणमथ वा पिपीलिकाण्डोपसंक्रान्तिः ।
 कृकवाकुशुककपोतकलविङ्गविलोचनो यदाऽर्केन्द्वोः ॥
 स्निग्धः परिवेषो वा वियदमलं वर्षणनिमित्तम् ।
 मधुसदृशः शीतांशुः प्रतिचन्द्रः शीतमारुतः पूर्वः ॥
 ऊर्ध्वाङ्कुराश्च वल्ल्यः सद्योवर्षाय कीर्त्त्यन्ते ।
 स्निग्धाः समसितरेखा यथाऽभ्रवृन्दानि कल्पितान्येव ॥
 यच्छन्त्यपो मयूखा यदि चेन्दोर्वा रवेर्दीर्घाः ।


बृहत्संहितायाम् ।

 उदयशिखरिसंस्थो दुर्निरीक्ष्योऽथ दीप्त्या-
  ऽद्भुतकनकनिकाशः स्निग्धवैडूर्यकान्तिः ।
 तदहनि कुरुतेऽम्भस्तोयकाले विवस्वान्
  प्रतपति यदि चोच्चैः खं गतोऽतीव तीक्ष्णम् ॥

तथा ।

विगतघने वा विग्रति विवस्वानमृदुमयूखः सलिलकृदेव ।
सर इव फुल्लं निशि कुमुदाढ्यं खमुडुविशुद्धं यदि च सुवृष्ट्यै ॥

 विरसमुदकं गोमूत्राभं वियद्विमला दिशो
  लवणविकृतिः काकाण्डाभं यदा च भवेन्नभः ।
 पवनविगमः पोप्लूयन्ते झषाः स्थलगामिनो
  रसनमसकृन्मण्डूकानां जलागमहेतवः ॥
 मार्जारा भृशमवनिं नखैर्लिखन्तो
  लोहानां मलनिचयः सविस्रगन्धः ।
 रथ्यायां शिशुरचिताश्च सेतुबन्धाः
  संप्राप्तं जलमचिरान्निवेदयन्ति ॥

गिरयोऽञ्जनचूर्णसन्निभा यदि वा वाष्पनिरुद्धकन्दराः ।
कृकवाकुविलोचनोपमाः परिवेषाः शशिनश्च वृष्टिदाः ॥
विनोपघातेन पिपीलिकानामण्डोपसंक्रान्तिरहिव्यवायः ।
द्रुमाधिरोहश्च भुजङ्गमानां वृष्टेर्निमित्तानि गवां प्लुतं च ॥

 “भेकाः शिरांसि दधति स्फुटपुण्डरीक-
  मालाप्रभान्यविरलं स्फुटमुद्गिरन्ति ।
 तेभ्योऽम्भसां भुवि पतन्ति मृणालजाल-
  नीहारहारहरहाससिताः प्रवाहाः ॥

 कालीकपोलतलतालफलालिताल-
  वेलातमालदलकज्जलतालभासाः ।
 ये नीरदाः करिकराभरुचो विलम्बात् ते
  तत्क्षणात् क्षितितले कमलं क्षरन्ति" ॥

श्लोकद्वयमिदमुत्पलेन व्याख्यातम्[१०५]

तरुशिखरोपगताः कृकलासा गगनतलस्थितदृष्टिनिपाताः ।
यदि च गवां रविवीक्षणमूर्ध्वं निपतति वारि तदा न चिरेण ॥
नेच्छन्ति विनिर्गमं गृहाद्धुन्वन्ति श्रवणान् खुरानपि ।
पशवः पशुवच्च कुक्कुरा यद्यम्भः पततीति निर्दिशेत् ॥

 यदा स्थिता गृहपटलंषु कुवकुरा
  रुवन्ति वा यदि विततं वियन्मुखाः ।
 दिवा तडिद्यदि च पिनाकिदिग्भवा-
  स्तदा मही भवति समाऽतिवारिणा ॥
 शुककपोतविलोचनसन्निभो
  मधुनिभोऽथ यदा हिमदीधितिः ।
 प्रतिशशी च यदा दिवि राजते
  पतति वारि तदा न चिरेण च ॥

 स्तनितं निशि विद्युतो दिवा रुधिरतिभा यदि दण्डवत् स्थिताः ।
 पवनः पुरतश्च शीतलो यदि सलिलस्य तदाऽऽगमो भवेत् ॥
वल्लीनां गगनतलोन्मुखाः प्रवालाः स्नायन्ते यदि जलपांशुभिर्विहङ्गाः ।
सेवन्ते यदि च सरीसृपास्तृणाग्राण्यासन्नो भवति तदा जलस्य पातः ॥
 सितसितान्तघनावरणं रवेर्भवति वृष्टिकरं यदि सव्यतः ।
 यदि न वारणगुल्मनिभैर्घनैर्दिवसभर्त्तुरदीपितदिग्भवैः ॥


 मयूरशुकचाषचातकसमानवर्णा यदा
  जपाकुसुमपङ्कजद्युतिमुषश्च सन्ध्याघनाः ।
 जलोर्मिनगनक्रकच्छपवराहमीनोपमाः
  "प्रभूतपुरसंचया न तु चिरेण यच्छन्त्यपः ॥

 पर्यन्तेषु सुधाशशाङ्कधवला मध्येऽञ्जनालित्विषः
  स्निग्धा नैकपुटाः क्षरजलकणाः सोपानविच्छेदिनः ।
 माहेन्द्रीप्रभवाः प्रयान्त्यपरतः प्राक् चाम्बुपाशोद्भवा
  एते वारिमुत्रस्त्यजन्ति न चिरादम्भः प्रभूतं भुवि ॥

तथा च वटकणिकायामध्येतौ श्लोकौ ।

शक्रचापपरिघप्रतिसूर्या रोहितोऽथ तडितः परिवेषः ।
उद्गमास्तसमये यदि भानोरादिशेत् प्रचुरमम्बु तदाऽऽशु ॥

 यदि तित्तिरपत्रनिभं गगनं
  मुद्रिताः प्रवदन्ति च पक्षिगणाः ।
 उदयास्तमये सवितुर्द्युनिशं
  त्वचिरेण घना विसृजन्ति जलम् ॥

श्लोकोऽयमुत्पलेन व्याख्यातः ।

यद्यमोघकिरणाः सहस्रगोरस्तभूधरकरा इवोच्छ्रिताः ।
भूसमं च रसते यदाऽम्बुदस्तन्महद्भवति वृष्टिलक्षणम् ॥
प्रावृषि शीतकरो भृगुपुत्रात् सप्तमराशिगतः शुभदृष्टः ।
सूर्यसुतान्नबपञ्चमगो वा सप्तमगश्च जलागमनाय ॥
प्रायो ग्रहाणामुदयास्तकाले समागमे मण्डलसंक्रमे च
पक्षक्षये तीक्ष्णकरायनान्ते वृष्टिर्गतेऽर्के नियमेन चार्द्राम् ॥
समागमे पतति जलं ज्ञशुक्रयोर्ज्ञजीवयोर्गुरुसितयोश्च सङ्गमे ।

 अग्रतः पृष्ठतो वाऽपि ग्रहोः सूर्यावलम्बिनः ।
 यदा तदा प्रकुर्वन्ति महीमेकार्णवामित्र ॥

मयूरचित्रे ।

 पश्चिमे च दिशो भागे वैडूर्यहरितोदयम् ।
 विद्युच्चैव भवेत् तत्र वायुर्वाति स एव च ॥
 सप्तरात्रं महावृष्टिमादिशेद्दैवचिन्तकः ।

भकृतवृष्टीनां त्वेषां फलं यथाशास्त्रमूहमीयम् ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे सद्योवर्षनिमित्ताद्भुतावर्त्तः ।


अथाविरुद्धाद्भुतावर्त्तः ।

वटकणिकायाम् ।

 वृष्टिविकारोऽपांशुस्तोयविकारो हि तारकाव्यक्तिः ।
 धूम्रा दिशोऽनलश्चेद्भयदाता माधवाद्येषु ॥

पराशरेणापि ।

 ऋतुस्वभावजातानामविरुद्धमात्रमुक्तम् । तद्यथा -xx पादपरसाभिनिःस्पन्दनमभीक्ष्णशो व्याहरणं मण्डलानां xxxxनादो मृगाणां जनपदेष परुषा गिरः पक्षिणामग्निप्रभामान्यमितिस्वभावलिङ्गानां भूतानां स्याद्दवैकृतम् । तदेवान्योन्यदृश्येषु यथोक्तं भयलक्षणं बार्हस्पत्यादिषु ऋतुस्वभावजातानां शुभावहत्वमुक्तम् । तद्यथा। ऋषभाः परुषवाचोवायुसम्भवो दिशां प्रधूमनं चैत्यपादपानां सन्ध्ययो रक्ततेति । वर्षासु विविधरूपवर्णाभेन्द्रचापदण्डपरिघपरिवेषप्रतिसूर्यरश्म्युल्कानिर्घातदिग्दाहपतगगन्धर्वनगरप्रादुर्भावसम्भवश्चापि दंशमशककीटविकृतजलचराणामेकशिखिभुजङ्गमा- भिदर्शनं च निशि शक्रचापानामपां गाधागाधविपर्ययः प्रतिस्रोतोऽभिगमनमैचलशिखरागदृढाश्वपतनं क्षितेर्विदरणमनुप्तबीजाङ्कुरारोहणमुज्जलं कूपोदकानां शरदि सर्वताराणां दर्शनं वर्षनिग्रहः । शिशिरहेमन्तयोस्तमोनीहाररजोभिराशावरणं न प्रसादो नभसः सरितामुत्पथगमनमुपलवर्षणं विकृतदर्शनव्याहाराः सङ्घशो दर्शनमरण्यमृगाणां जनपदेषु परुषा गिरः पक्षिणामग्निप्रभामान्द्यमिति स्वभावलिङ्गानां शुभावहत्वमुक्तम् ।

तथा बार्हस्पत्यमत्स्यपुराणविष्णुधर्मोत्तरवराहसंहितासु ।

 "ऋतुःस्वभावाद्राजेन्द्र भवन्त्यद्भुतसंज्ञकाः ।
 शुभावहास्ते विज्ञेयास्ताँश्च मे गदतः शृणु ॥
 वज्राशनिमहीकम्पसन्ध्यानिर्घात निस्वनाः ।
 परिवेषरजोधूमरक्तार्कास्तमनोदयाः ॥
 द्रुमोद्भेदकरस्नेहमधुपुष्पफलोद्गमाः ।
 गोपक्षिमृगवृद्धिश्च शिवाय मधुमाधवे ॥
 तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् ।
 अनग्निज्वलनं स्फोटधूम्ररेखानिलाहतम् [१०६]
 रक्तपद्मारुणा सन्ध्या नभः क्षुब्धार्णवोपमम् ।
 सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥
 शक्रायुधपरीवेषविद्युदुल्काधिरोहणम् ।
 कम्पोद्वर्त्तनवकृत्यरसनं दरणं क्षितेः ॥
 नद्योदपानसरितां वृद्ध्यर्ध्वतरणप्लवाः ।
 शीर्णत्वं चाद्रिगेहानां [१०७]वर्षासु शुभमिष्यते ॥


 दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम् ।
 ग्रहनक्षत्रताराणां दर्शनं च दिवाऽम्बरे ॥
 गीतवादित्रनिर्घोषो वनपर्वतसानुषु ।
 शस्यवृद्धी रसोत्पत्तिः शरत्काले शुभाः स्मृताः ॥
 शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् ।
 रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी ।
 दिशो धूमान्धकाराश्च सनभोवनपर्वताः ।
 उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥
 हिमपातानिलोत्पातविरूपाद्भुतदर्शनम् ।
 कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम् ॥
 चित्रगर्भोद्भवः स्त्रीषु गोजाश्वमृगपक्षिषु ।
 पत्राङ्गुरलतानां च विकाराः शिशिरे शुभाः"[१०८]

मयूरचित्रे ।

 परिवेषः शक्रधनुर्भूकम्पः प्रतिसूर्यकः ।
 वर्षासु वर्षदा ज्ञेया अन्यत्रोरुभयावहाः ॥

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरेऽविरुद्धाद्भुतावर्त्तः ।

अथ पाकसमयाद्भुतावर्त्तः ।

तत्र पराशरः ।

 तत्रोत्पातफलं दिव्यं पूर्णे वर्षे विपच्यते ।
 आन्तरिक्षं तथा भौमं मासैः षड् भिस्तु भर्त्तृषु ॥
 निर्घातस्तु त्रिभिर्मासैः गन्धर्वनगराणि च ।


 अग्निजाः सप्तरात्रेण मासेनोल्का विपच्यते ॥
 पुरचैत्यादिभङ्गेषु पुरःसंक्रमणेषु च ।
 नरेन्द्रध्वजभङ्गे च फलं मासाद्विपच्यते ॥
 पुरोत्सवादिवासानामकालकरणेषु च ।
 शान्तिस्वस्त्ययनानां च पाकः पाण्मासिको भवेत् ॥
 अरिष्टः पच्यते षट्सु मासेषु कलहस्त्रिषु ।
 अतिहर्षोऽतिशोकश्च सद्य एव विपच्यते ॥
 कीटमूषकसर्पाणां मक्षिकादिषु यत् फलम् ।
 पच्यते तद्द्विमासेन मधु सप्तसु पच्यते ॥
 हयानां हस्तिनां चैव शकुनानां शुनामथ ।
 सद्यस्त्र्यहाद्वा नियतमुलूकस्य द्विपाक्षिकम् ॥
 धूमः संवत्सरे पर्णे तद्ददर्चाविकारजम्
 मासात्फलति नादेयं गर्भाणां विकृतं त्रिभिः ॥
 विदेहवाक् संश्रवणं दर्शनं यक्षरक्षसाम् ।
 पशूनां विकृतं यच्च षष्ठे मासि विपच्यते ॥
 मांसतैलविकारेषु देहाङ्गस्पन्दनेषु च ।
 वस्त्रयानविकारेषु फलं स्यात् सप्तमेऽहनि ॥
 चित्रकर्माणि मासाभ्यां शयनं षष्ठमासिकम् ।
 वल्मीके षट्सु मासेषु क्षये वृद्धौ तथा त्रिषु ॥
 यूपोछ्रायावभङ्गेषु यज्ञकर्मणि वैकृते ।
 सोमाध्वर्युविकारेषु विकाराः सप्त मासिकाः ॥
 तरुबीजविकारेषु राज्ञः शस्त्रावभञ्जने ।
 पद्मोत्पलफलादीनां फलं षाण्मासिकं भवेत् ॥

 द्वारभेदादिवस्तूनामिन्द्रध्वजविचेष्टितम् ।
 मासे सार्धतृतीयेषु त्रिषु वाऽथ विपच्यते ॥
 अधर्मस्यातिवृद्धिस्तु त्रिभिर्वर्षेर्विपच्यते ।
 अनुक्तेष्वपि चान्येषु फलं संवत्सरात् परम् ॥
 दिव्यान्तरिक्षभौमानामुत्पातानां समुद्भवे ।
 विना शान्तिफलं तेषां पाककाले निवर्त्तते ॥
 पुरपौरनृपाचार्यकोषवाहनमन्त्रिणाम् ।
 युगपत् स्याद्विनाशाय संचयस्तु त्रिमासिकः ॥
 दिव्यान्तरिक्षक्षितिजा उत्पाताः समुपस्थिताः ।
 सप्तरात्रान्तरे दृष्ट्वा विद्याभिश्नोपशाम्यति ॥

गार्गीये ।

 पक्षाद्विपाकः सूर्यस्य पाकः सोमस्य मासिकः ।
 मासद्वयात् स्मृतो राहोर्विपाको नात्र संशयः ॥
 अथ चेदयनं कुर्यादष्टमासेषु पच्यते ।
 त्रिभिर्मासैस्तु भौमस्य षण्मासं बुधगोष्पतौ ॥
 षण्मासिकस्त्वौशनसो सौरीयस्त्वथ पञ्चभिः ।
 त्रिभिर्मासैर्विपाकस्तु नियतं धूमकेतवे ॥
 श्वेतस्य सप्तरात्रेण बुधे यावत् त दर्शनम् ।
 संवत्सरविपाकस्तु ज्ञेयौ सूर्यबृहस्पतेः ॥
 त्रिभिर्मासैस्तु भौमस्य उल्कापातस्य मासिकः ।
 अष्टाभिर्भूमिकम्पस्तु निर्घातः पच्यते त्रिभिः ॥
 अनार्त्तवं पुष्पफलं षड्भिमासैर्विपच्यते ।
 पक्षिकीटपतङ्गानां दशाहात् फलमारिशेत् ॥

 व्यभ्रवृष्टिर्भवेन्मासाद्गन्धर्वनगराणि च ।
 पुरचैत्यादिभङ्गेषु फलं मासाद्विपच्यते ॥
 छत्रध्वजनिमित्तेषु रथतोरणवेश्मसु ।
 भूकम्पपांसुवर्षेषु अनभ्रस्तनितेषु च ॥
 ग्रहाणां परिवेषेषु त्रिरात्रफलमादिशेत् ।
 घृततैलवसावर्षे सद्यः फलमुदाहृतम् ॥
 अरिष्टं षट्सु मासेषु पच्यते कलहं त्रिषु ।
 हिरण्यविक्रियायां तु फलं मासाद्विपच्यते ॥
 अथो कलिविपर्यास उत्सवक्रियया सह ।
 अचलानां च चलने षण्मासात फलमादिशेत ॥
 मूषिकाकीटसर्पाणां मक्षिकानां तथैव च ।
 दर्शने त्वतिमात्रेषु फलं त्रैमासिकं भवेत् ॥
 रात्राविन्द्रधनुर्दृष्ट्वा राज्ञः शीलविपर्ययम् ।
 कबन्धकीलयोः सूर्ये सप्ताहात् फलमादित् ॥
 वानराणां नराणां च तथैव गजवाजिनाम् ।
 नानावादित्रशब्दानां फलं मासाद्विपश्यते ॥
 गृध्रगोमायुसङ्घानां फलं मासाद्विपच्यते ।
 विडालनकुलानां च वराहव्याघ्रयोस्तथा ॥ .
 श्रुत्वाऽन्तरिक्षे शब्दाँस्तु फलं मासाद्विपच्यते ।
 सग्रहो यस्य नक्षत्रे चन्द्रमाः परिपच्यते ॥
 पीड्यते तत्र नृपतिः शस्त्रत्रासश्च जायते ।
 सग्रहो यस्य नक्षत्रे सौमो ग्रस्येत राहुणा ॥
 सराष्ट्रः सपुरो राजा क्षिप्रमेव विनश्यति ।

 गृहीते राहुणा सोम उल्कापातो भवेद्यदि ॥
 षण्मासाभ्यन्तरे तत्र नगराद्भ्रश्यते नृपः ।
 चन्द्रः प्रतिमुखे तिष्ठन् सग्रहो यत्र दृश्यते ॥
 सर्वधान्यानि शुष्यन्ति जातं जातं विनश्यति ।
 कृत्वा शस्त्रं च रोगं च अनावृष्टिस्तथैव चेत् ॥
 उपद्रवश्च भूतानां भिन्ने सोमे प्रविशते ।

कस्य चित्[१०९]

 पक्षाद्विपाकः सूर्यस्य सोमस्य मासिकस्तथा ।
 धूमकेतोस्त्रिभिर्मासैर्विद्यात् पाकं न संशयः ॥
 भूमिकम्पोऽष्टमे मासि नौभेदः पच्यते त्रिभिः ।
 पक्षिकीटपतङ्गानां दशाहात् फलमादिशेत् ॥
 व्यभ्रे दृष्टे भवेन्मासैर्गन्धर्वनगरे त्रिभिः ।
 पुरचैत्यवृक्षभङ्गे फलं मासाद्विपच्यते ॥
 "ग्रहाणां परिवेषेषु त्रिरात्रात् फलमापतेत् ।
 घृततेलवसावर्षे सद्यः फलमुदाहरेत् ॥
 अनग्निज्वलने चैव कष्टं फलमुदाहृतम् ।
 अरिष्टं षट्सु मासेषु पच्यते हि फलं त्रिषु ॥
 हिरण्यविक्रियायां तु फलं मासाद्विपच्यते ।
 अचलानां च चलने षण्मासात् फलमादिशेत् ॥
 मूषिकाकीटसर्पाणां मक्षिकायास्तथैव च ।
 रात्राविन्द्रधनुर्दृष्ट्वा राष्ट्रे शीलविपर्ययः ॥
 कबन्धशीर्षयोः सूर्ये सप्ताहात् फलमादिशेत् ।


 वानराणां नराणां च तथैव गजवाजिनाम् ॥
 नानावादित्रशब्दानां फलं मासाद्विपच्यते ।
 विडालनकुलानां च वराहव्याघ्रयोस्तथा ॥
 श्रुग्वाऽन्तरिक्षे शब्दं तु फलं मासाद्विपच्यते ।
 निगदितहो यस्य नक्षत्रे चन्द्रमाः परिविष्यते ॥
 xxxxड्यते सावनृपतिः शस्त्रग्रामश्च जायते ।
 सग्रहो यस्य नक्षत्रे सोमो ग्रस्येत राहुणा ॥
 सराष्ट्र: सपुरो राजा क्षिप्रमेव विनश्यति ।
 गृहीते राहुणा सोमे उल्कापातो भवेद्यदि ॥
 षण्मासाभ्यन्तरे तत्र नगराद्भ्रश्यते नृपः ।
 चन्द्रः प्रतिमुखस्तिष्ठन् सग्रहो यत्र दृश्यते ॥
 सर्वधान्यानि शुष्यन्ति जातं जातं च नश्यति ।
 कृत्वा शस्त्रं च रोगं च अनावृष्टिं तथैव च ॥
 उपद्रवश्च भूतानां भिन्ने सोमे प्रवृश्यते "[११०]
 यदा त्वेते न पच्यन्ते यथाकालप्रचोदिताः ॥
 तदा द्विगुणकाले च फलं विद्याच्छुभाशुभम् ।

बृहत्संहितायां वराह: ।

 “पक्षाद्भानोः सोमस्य मासिकोऽङ्गारकस्य वक्त्रोक्तः ।
 आदर्शनाच्च पाको बुधस्य जीवस्य वर्षेण॥
 षड्भिः सितस्य मासैरब्देन शनेः सुरद्विषोऽब्दार्धात् ।
 वर्षात् सूर्यग्रहणे सद्यः स्यात् त्वाष्ट्रकीलकयोः ॥
 त्रिभिरेव धूमकेतोर्मासैः श्वेतस्य सप्तरात्रान्ते ।


 सप्ताहात् परिवेषेन्द्रचापसन्ध्याभ्रसूचीनाम् ॥
 शीतोष्णविपर्यासः फलपुष्पमकालजं दिशां दाहः ।
 स्थिरचरयोरन्यस्त्वं प्रसूतिविकृतिश्च षण्मासात् ॥
 अक्रियमाणककरणं भूकम्पोऽनुत्सुवो दुरिष्टं च ।
 शोषश्चाशोष्याणां स्रोतोऽन्यत्वं च वर्षार्धात् ॥
 स्तम्भकुशूलार्चानां जल्पितरुदितप्रकम्पितस्वेदाः ।
 मासत्रयेण कलहेन्द्रचापनिर्घातपाकाश्च ॥
 कीटाखुमक्षिकोरगबाहुल्यं मृगविहङ्गविरुतं च ।
 लोष्टस्य चाप्सु तरणं त्रिभिरेव विपच्यते मासैः ॥
 प्रसवः शुनामरण्ये वन्यानां ग्रामसम्प्रवेशश्च ।
 मधुनिलयतोरणेन्द्रध्वजाश्च वर्षात् समधिकाद्वा ॥
 गोमायुगृध्रसङ्घा दशाहिकाः सद्य एव तूर्यरवः ।
 आक्रुष्टं पक्षकलं वल्मीको विदरणं च भुवः ॥
 अहुताशप्रज्वलनं घृततैलवसादिवर्षणं चापि ।
 सद्यः परिपच्यन्ते मासेऽध्यर्धे च जनवादः ॥
 छत्रचितियूपहुतवहबीजानां सप्तभिर्भवति पक्षैः ।
 छत्त्रस्य तोरणस्य च केचिन्मासात् फलं प्राहुः ॥
 अत्यन्तविरुद्धानां स्नेहः शब्दश्च वियति भूतानाम् ।
 मार्जारनकुलयोर्मूषकेण सङ्गश्च मासेन
 गन्धर्वपुरं मासासवैकृत्यं हिरण्यविकृतिश्च ।
 ध्वजवेश्मपांशुधूमाकुला दिशश्चापि मासफलाः ॥
 नवकैकाष्टदशकैकषट्त्रिकत्रिकसङ्ख्यमासपाकानि ।
 नक्षत्राण्यश्विनिपूर्वकाणि सद्यःफला श्लेषा ॥

 पित्र्यान्मासः षट् षट् त्रयोऽर्धमष्टौ च त्रिषडेकैकाः ।
 मासचतुष्कोऽषाढे सद्यः पाकाऽभिजित्तारा ॥
 सप्ताष्टावध्यर्धं त्रयस्त्रयः पञ्च चैव मासाः स्युः ।
 श्रवणादीनां पाको नक्षत्राणां यथासङ्ख्यम् ॥
निगदितसमये न दृश्यते चेदधिकतरं द्विगुणे प्रपच्यते तत् ।
यदि न कनकरत्नगोप्रदानैरुपशमितं विधिवद्द्विजैश्चशान्त्या” [१११]

मयूरचित्रे ।

 लोष्टस्य चाप्सु तरणं त्रिभिरेव विपच्यते ।

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 "अद्भुतेऽत्र समुत्पन्ने यदि वृष्टिः शिवा भवेत् ।
 सप्ताहाभ्यन्तरे ज्ञेयमद्भुतं निष्फलं हि तत्" [११२]

वटकणिकायाम् ।

 यदि निर्विकारसम्भः पर्यन्यस्त्यजति सप्ताहात् ।
 प्रशममुपगच्छति तत् त्रिविधोत्पाते समादेशः ॥

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे पाकसमयाद्भुतावर्त्तः ।
इत्यद्भुतसागरः समाप्तः ।
श्रीरस्तु शुभमस्तु ॥


  1. वाल्मीकीये नोपलभ्यते ।
  2. ३ अ. ४५ श्लो. ।
  3. श्रीमद्भागवते नोपलभ्यते ।
  4. ह्रेषन्ते इत्यत्र ह्रेषते इत्यसाधु पाठः ।
  5. शान्तिप्रकरणोदिताम्-ति ।
  6. नित्यं शुकाभस्य इति अ, पु. पा ।
  7. अश्वः इति ।
  8. श्रीमद्भागवते नोपलभ्यते ।
  9. ३ अ, २० श्लो. ।
  10. श्रीमद्भागवते ३ स्कन्दे १८ अ. १३ श्लो. ।
  11. श्रीमद्भागवते नोपलभ्यते ।
  12. श्वभिर्विरुद्धाः इति ।
  13. सिंहेनानुद्रुता मृगा इवेति वाऽर्थोऽवगम्यते ।
  14. ११६ अ. ५९ श्लो. तत्र 'ननादान्तर्हितो भूमौ' इति पा. ।
  15. २ अ' २५ श्लो. तत्र 'रौद्रं नित्यं प्रलक्षये'-इति पा.।
  16. द्रष्टव्याऽस्यैव ग्रन्थस्य ४७२ पृ. १३पं. ।
  17. कस्थो जलस्थ:- इति ।
  18. नोक्तस्थले उपलभ्यते ।
  19. श्रीमद्भागवते ३ स्कन्धे १८ अ. १० श्लो. ।
  20. नोक्तस्थले उपलभ्यते ।
  21. वाल्मीकीये उक्तकाण्डे ५७ अ, २-३ श्लो. ।
    तत्र 'क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः ।
    स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् ॥
    शङ्कयामास गोमायोः स्वरेण परिशङ्कितिः'।
  22. २६९ अ. ७-८ श्लो.।
  23. वाल्मीकीये ५३ अ, १४ श्लो. ।तत्र 'वमन्त्यः पावकज्वालाः शिवा घोरा वधाशिरे'-इति पा. ।
  24. वाल्मीकीये ६५ अ. ४९ श्लो.।
  25. नोक्तस्थलेऽस्योपलब्धिः ।
  26. वाल्मीकीये ९ अ. ३० श्लो. ।
  27. १७९. अ. ४१ श्लो ।
  28. श्रीमद्भागवते ३ स्कन्धे, १८ अ, ९ श्लो ।
  29. नोक्तस्थले उपलभ्यते ।
  30. २३.अ. २९ श्लो ।
  31. ५६ अ. १२ श्लो ।
    तत्र 'दीप्तायां दिशि राजेन्द्र मृगाश्वाशुभवेदिनः'-इत्युपलभ्यते ।
  32. नेदम् अ, पुस्तके उपलभ्यते ।
  33. नोक्तस्थलेऽस्योपळब्धिः ।
  34. अत्यनावृष्टिर्भवतीत्यर्थः ।
  35. भाग्यमहर्धता ।
  36. २ अ, २९ श्लो. । तत्र 'शतशः शलभव्रजाः'- इति पा. ।
  37. अयमन्यः पराशरः - इत्येतदर्थं भूमिकाऽवलोक्या ।
  38. अन्येऽपि खञ्जरीटप्रणाममन्त्रामत्संशोधितपुरश्चर्यार्णवे ११२६-११२७८पृ. द्रष्टव्याः ।
  39. शुभः पिबन् वारि निम्नगासंस्थः 'इत्यत्र 'पङ्के स्वाद्वन्नाप्ति'रित्येतस्य श्लोकस्प चतुर्थचरणो निक्षेपितः । द्रष्टव्या अ. पु. ५३५ पृ, २४ पं ।
  40. धन्योच्छ्रयमङ्गल्येषु-इति अ. पु. पा ।
  41. जनसंवासा-इति अ. पु. पा. ।
  42. अत्र श्लोकद्वयं बृहत्संहितायाश्चरमश्लोको बृहद्यात्राया इति ।
  43. अत्रापि श्लोकद्वयं बृहत्संहितायाश्चरमौ बृहद्यात्राया इति ।
  44. २३७ अ. १० श्लो. ।
  45. अत्र प्रथमो श्लोको बृहद्यात्रायाश्चरमौ बृहत्संहिताया: ।
  46. वाल्मीकीय नौकस्थळेऽस्योपलब्धिः ।
  47. ३ अ. ४३ श्लो ।
  48. २३७ अ. ११ श्लो।
  49. उक्तस्थले वाल्मीकीये नोपलभ्यते ।
  50. १७ अ. २ श्लो. ।
  51. ११२ अ. २ श्लो. ।
  52. २ अ २२ लो ।
  53. ५ हरिवंशे वंशपर्वणि ४२ अ. १श्लो. । पाद्मे २७ अ. १३० श्लो ।
    तत्र 'दीप्ततोयाः सनिर्घातैः सह वज्रानलानिलैः ।
    रवैः सुथोरैरुत्पातैर्दह्यमानमिवाम्बरम्' इति पाठः ॥
  54. ८४ अ. ५-६ श्लो. ।
  55. २३३ अ. ७-८ श्लो. ।
  56. ५८ अ ५४ श्लो.
  57. १९ अ. ३७ श्लो. ।
  58. अ. पुस्तकेऽस्यानुपलब्धैर्वटकणिकायाः सम्भाव्यते ।
  59. श्रीमद्भागवते ३ स्कन्दे १८ अ, १३ श्लो. ।
  60. १५५ अ. ५ श्लो. ।
  61. कुत्रत्योऽयं सार्धश्लोक इति नोल्लेखः ।
  62. १ अ. ३ श्लो. ।
  63. श्रीमद्भागवते उक्तस्थले नोपलभ्यते ।
  64. ८० अ. २८ श्लो. ।
  65. १५६ अ, २९-३० श्लो. ।
  66. श्रीमद्भागवते ३ स्कन्दे १८ अ. ४ श्लो. ।
  67. २३३ अ. २ श्लो. ।
  68. द्रष्टव्याऽस्यैव ग्रन्थस्य ३८१ पृ. १० पं. ।
  69. अमितमलमेकचातकादम्बविमिश्रमाकाशम् । इति अ. प. पा ।
  70. ऽस्ति न शारदानि । इति अ. पु. पा. ।
  71. एतासां का विदेकेति शेषः ।
  72. वाजसने यिसंहितायाम् ३३ अ. ६५ क ।
  73. बाजसनेयिसंहितायाम् २० अ. ५० क ।
  74. वाजसनेयिसंहितायाम् २९ अ. १३ क ।
  75. वासजनेयिसंहितायाम् २० अ. १४ क ।
  76. अप्पतये स्वाहा इति क्व चित् पा ।
  77. वाजसनेयिसंहितायाम् १२अ. १२ क. ।
  78. वाजसनेयिसंहितायाम् ४ अ. १३ क. ।
  79. वाजसनेयिसंहितायाम् १२ अ. ११२ क. ।
  80. वाजसनेयसंहितातिरिको मन्त्रोऽयमन्वेषणीयम् ।
  81. वाजसनेयिसंहितायाम्. ३ अ, १२ क ।
  82. वाजसनेविसंहितायांम् १८ अ ७२ क ।
  83. वाजसने यिसंहितायाम् १३ अ ४२ क ।
  84. वाजसनेविसंहितायाम् २७ अ, ३१ क. ।
  85. वाजसनेविसंहितायाम् ७ अ. ४१-४२ क. ।
  86. वाजसनेविसंहितायाम् ५ अ. २१ क. ।
  87. वाजनेयिसंहितायाम् ३ अ ५७क. ।
  88. वाजसनेयिसंहितायाम् १३ अ. २० क. ।
  89. अस्य मूलग्रन्थानुलब्धेर्यायातथ्यमेव रक्षितम् ।
  90. ऋग्वेदसंहितायाम् ७ अष्टके ३ अ. ६४ सू. २२ ऋक् ।
  91. ऋगवेदसंहितायाम् ७ अष्टके ४ अ. ८६ सू- ११ ऋक् ।
  92. वाजसनेविसंहितायाम ३४ अ. ४५ क ।
  93. बाजसनेविसंहितायाम् ४ अ, २५ क ।
  94. ऋगवेदसंहितायाम् १ अष्टके ४ अ. १२ सू. १ ऋकु ।
  95. ऋग्यजुःसंहितयोनोपलभ्यतेऽन्यत्रान्वेषणीयोऽयं मन्त्रः ।
  96. ऋग्यजुः सहितयोर्नोपलभ्यतेऽन्यत्रान्वेषणीयोऽयं मन्त्रः ।
  97. वाजसनेयसंहितायाम् ३३ अ. ४५ क. ।
  98. वाजसनेयसंहियायाम् २८ अ. २२ क. ।
  99. मोपलभ्यते कुत्र चिदन्यत्रायं मन्त्रोऽन्वेषणीयः ।
  100. मित्रमण्डल-इति मुद्रितमत्स्यपुराणधृतः पाठः।
  101. २२८ अ. २-२८ श्लो. । अत्र बहुत्र पाठभेदाः श्लोकाश्चापि कुत्रचित् त्रुटिता उपलभ्यन्ते ।
  102. 'चाप्येका शान्तिः सुरगुरूदिता' इति च, पु, पा. ।
  103. २२८ अ. २९ श्लो. ।
  104. 'बाप्पावृता' इति अ, पु. पा. ।
  105. इदम् अ. पुस्तके नोपलभ्यते ।
  106. कृष्णश्वेतं तशा पीतं धूसरध्वान्तलोहितम् । इति मुद्रितमत्स्यपुराणे पा ।
  107. शृङ्गिणां वराहाणाम्'इति मुद्रितमत्स्यपुराणे पा. ।
  108. मत्स्यपुराणे २२९ अ. १३-२५ श्लो. ।
  109. अत्र नामानुल्लेखात् कस्य चिति ।
  110. ग्रहाणामित्यारभ्यप्रदृश्यते.............प्रदृश्यते इत्यन्ताः श्लोकाः  पुनरुल्लेखिता। बहूनां वचनानां साम्यान्न दोषाय ।
  111. सर्वत्रास्मिन् ग्रन्थे बृहत्संहितायां वचनानां प्रमाणत्वादत्र प्रत्यस्त्रटितवचनाम्यवगम्य तस्याः (बृहत्संहितयाः) स्तान्युद्धृत्य रक्षितानि ।
  112. ३.२९ अ. १०-११ श्लो. ।
"https://sa.wikisource.org/w/index.php?title=अद्भुतसागरः_-_भागः_२&oldid=371731" इत्यस्माद् प्रतिप्राप्तम्