सामग्री पर जाएँ

अथर्ववेदसंहिता-भागः ४ (१)

विकिस्रोतः तः
अथर्ववेदसंहिता-भागः ४ (१)
[[लेखकः :|]]

K RTISARY Frt 029912 Class Nonwide [Date: Circ- १३.. CHRI IC V _ BOMBAY: PRINTERVAT JAVAJI DADAJI'S LNIRNAYASAWAN" PRES .. CLOF KAAN LIBRARY CULTURE 299124 अथर्ववेदसंहिता सायणाचार्यविरचितेन भाष्येण सहिता. भाग ४. पण्डितोपाभिधेन पाण्डुरङ्गसूनुना शंकरेण संशोधिता. सा च मुंबय्यां जावजी दादाजी इत्येतेषां “निर्णयसागराख्य" मुद्रणयन्त्रालये मुद्रिता. गवर्नमेन्ट सेन्ट्रल बुक डिपो. अस्य च अन्यस्य स्वामित्वं (१८६७) सप्तषष्टयुत्तराष्टादशशतस्य पञ्चविंशं स्वनियममनुसृत्य संग्रहीतम् । १८९८. मूल्यं १० रुप्यकाः Sivarama sastri Tatke and his services. ___The work of carrying through the press, after the death of M.S.P. Pandit the rernainder of the text of Atharvaveda, and of preparing the Index of words is mainly due to the exertions of Pandit Sivaraam Sastri Titke. The help which this learned and hard working Sastri rendered to Mr. Pandit, ever since l undertook this important work was so great that he would not have failed to acknowledge the same in appropriate words as he did in the case of his editing of tiresslee evthy. As unfortunately Mr. Pandit is not spared to make this retur to the Sastri, it is only due to mention here that but for the close and exclusive attention of this mnany-sided Sastri, this work could not have been completed; and that he is, therefore, entitled to the best thanks of the Sanskrit reading public for placing before them, with more than half its Bhishya, this one of the most ancient sections of Indian literature. Slight defects in the pada text of Kanda xx. The pada test of the Suktas and parts of Suktas of Kanda xx mentioned in the following table will not be found in this edition, as none of the Manuscripts collated contain it; nor are the padas of that portion recited by the Vaidika Brahmanas of the present schools. And consequently the padas are not noticed in the Index given at the end of volume III. Suktas. Riks. REATARKS. 1811, [G, IT 1 136


Coimplete. These are called Kuntapa Suktas, भीगणाधिपतये नमः॥ यस्य निश्वसितं वेदा यो वेदेभ्योखिलं जगत् । निर्ममे तम् अहं वन्दे विद्या1तीर्थमहेश्वरम् ॥ १॥ .सप्तदशे काण्डे एकोऽनुवाकः । तत्र त्रीणि सूक्तानि । अयं “विषा- सहिम्" इत्यनुवाकः सलिलगण2मध्ये पठितः । अतः "सलिलैः क्षीरौ- दनम् अन्नाति । मन्थान्तानि" इति [को०३.१] "सलिलैः सर्वकामः" [को०३.७] इत्यादौ चा3स्य विनियोगः ॥ ' उपनयनकर्मणि आचार्यः ब्रह्मचारिणो नाभिदेशं संस्पृश्य अमुम अनु- वाकं जपेत् । तद् उक्त कौशिकेन । “दक्षिणेन पाणिना नाभिदेशं संस्त- भ्य जपति अस्मिन् वसु वसवो धारयन्तु" [१.९] इत्यादि “प्राणाय नमः [११.६] विषासहिम [१७.१] इत्यनुमन्त्रयते" इत्यन्तम्3 [को० ७.६] ॥ उपनयनकर्मण्येव ऋषिहस्ते “कर्मणे वाम्" इति हस्तप्रक्षालनानन्त- रम् आचार्यों माणवकम् अनेनानुवाकेन अभिमन्त्रयते । “ऋषिहस्तस्य4 कर्मणे वां वेशाय5 वाम्" इति प्रक्रम्य सूत्रितम् । “आ रभस्व [४.२] प्राणाय नमः[११.६] विषासहिम्[१७.१] इत्यभिमन्त्रयते” इति [को॰7-9़)।। __ उपनयन एव आयुरभिवृद्ध्यर्थम् अनेनानुवाकेन माणवकस्त्रिकालम् आदित्यम् उपतिष्ठेत । सूत्रितं हि । “उदस्य केतवः [१३.२] मूर्धाहम् "[१६.३] विषासहिम[१७.१] इत्युद्यन्तम् उपतिष्ठते मध्यन्दिने अस्तं "यन्तम्" इति [को०७.९] ॥ तथा आदित्यग्रहणरूपाङ्द्भूते तच्छान्त्यर्थम् अनेनानुवाकेन आज्यं जुहु- यात् । “अथ यत्रैतद् आदित्यं तमो गृह्णाति तत्र जुहुयात" इति प्रक्रम्य 1 गणे. 2 om. च. 3 इति for इत्यन्तम्, 4 So S. Kausika : ऋषिहस्तश्च. 5 Kausika: वेषाय. अथर्वसंहिताभाष्ये सूत्रितम् । “विषासहिं सहमानम् इत्येतेन सूक्तेन जुहुयात् । सा तत्र प्रायश्चितिः" इति [को० १३.७] । सूक्तेन । अर्थसूक्तेनेत्यर्थः । अतः कृत्स्नस्याप्यनुवाकस्य ग्रहणशान्तौ विनियोग इत्यवसीयते ॥ तथा चन्द्रग्रहणरूपाङ्द्भूते तच्छान्त्यर्थम् अनेनानुवाकेन उपस्थानं कु- र्यात् । “अ1थ यदेतश्चन्द्रमसम् उपप्लवति" इति [को०१३..] प्रक्रम्य सूत्रितम् । “रोहितैरुपतिष्ठते" इति ॥ अस्यानुवाकस्य आयुष्यगणे पाठाद् उपाकर्मणि अनेनानुवाकेन आज्यं जुहुयात् । “अभिजिति शिष्यान् उपनीय" इति प्रकम्य कौशिकेन सू- त्रितम् । “ विश्वकर्मभिरायुष्यैः स्वस्ययनैराज्यं जुहुयात् " इति [को॰ १४.३]॥ अस्य सूक्तस्य सलिलगणे पाठात् “आदित्यां श्रुततेजोधनायुष्कामस्य" इति [न क°१७] विहितायाम् आदित्याख्यायां महाशान्तौ अस्यानुवा- कस्य विनियोगः । तद् उक्तं नक्षत्रकल्पे । “सलिलगण आदित्यायाम" इति [न क०17] ॥ तथा कोटिहोमे अस्यानुवाकस्य विनियोगः । कोटिहोमं प्रक्रम्य उ- क्तम् अथर्वपरिशिष्टे । जुहुयुः शान्तवृक्षस्य समिधो घृतसंयुताः। . स्वयं चापि य2जेद् ब्रह्मा सवितारं दिनेदिने । पाकयज्ञविधानेन मन्त्राश्च स्युर्विधासहिः। शान्तिका3मो यवैः कुर्यात तिलैः पापापनुप्तये । इत्यादि [प°३१.६] ॥ तथा भास्करप्रीत्यर्थं क्रियमाणे आदित्यमण्डलदाने अस्यानुवाकस्य म- ण्डलाकारापूपाभिमन्त्रणे विनियोगः । तद् उक्तम् अथर्वपरिशिष्टे । “अथ "यः कामयेत सर्वेषां नृणाम् उत्तमः स्याम् इति स भास्करायापूपं द- IS The Kansika sutra does not correspond with the quotation. रोहितैरुपतिष्ठते is not in Kausika 13. 8, but in 13. 7, so that part of 13.7 is quoted by Sayana as yart of 13. 8. Sayana, however, who quotes from the kesavi rather than firom Kausika, is misled by the directions given in the former. 28 जपेद्ब्रह्मा. We with the Athatharvaparisishta. 3कामाय वै for कामो परः which we take from the Atharvaparisishta. [अ०१. सू०१.] ५४० सप्तदशं काण्डम् । "द्यात् । तस्य कल्पः ।" इत्यादि सुवर्णशकलं चोपरिष्टान्निधायार्च- येद् रक्त1कुसुमैर्विषासहिम् इत्यभिमन्त्र्य ब्राह्मणाय निवेदयेत् " इति' [प° १२.१] । अत्र "त्वमिन्द्रस्त्वं महेन्द्रः" इत्यनेन मन्त्रेण दर्शॆष्टौ माहेन्द्रं हविर- नुमन्येत । तद् उक्तं वैताने । “सांनाय्यस्यैन्द्रं माहेन्द्रं वा इन्द्रेमम [६.५.२] त्विमिन्द्रस्त्वं महेन्द्रः [१७.१०]" इति [वै०१.३] ॥ तत्र प्रथमा । . विषासहिं सहमानं सासहानं सहीयांसम् । सहमानं सहोजित स्वर्जितं गोजितं संधनाजितम् । ईड्यं नाम ल इन्द्रमायुष्मान भूयासम् ॥१॥ . विडससहिम् । सहमानम् । ससहानम् । सहींयांसम् । सहमानम् । सहःडजितम् । स्वःऽजितम् । गोऽजितम्। संधनऽजितम् । ईड्यम् । नाम । खे । इन्द्रम् । आयुष्मान । भूयासम् ॥१॥

अत्र सूर्यादित्यादिप2दलिङ्गानाम् अश्रवणेपि कृत्स्नस्याप्यनुवाकस्य उक्तप्र- कारेण कृत्स्नेषु3 सौर्येषु कर्मसु प्रायेण विनियोगात सूर्यपरतया मन्त्रा ,व्या- ख्येयाः । अथ वा परमैश्वर्ययोगात् “इन्द्र इरां वृणातीति वा इरां दा- रयतीति वा इरां धारयतीति वा" [नि० १०..7] इत्यादिनिरुक्तकारो- क्तानाम् अवयवार्थानां वृष्टिद्वारा सर्वेषां भूतानाम् आत्मावात् सूर्ये संभ- वाच्च ईड्यं नाम व इन्द्रम् इति इन्द्रशब्द आदित्यम् अभिधते । अथ वा "विवस्वदिन्द्रयुताः" इति “इन्द्रश्च 4विवस्वांश्चेत्येते" इति [तै आ°१. १३.३] च द्वादशादित्यमध्ये इन्द्रस्यापि श्रुतत्वात् स्मृतत्वाञ्च इन्द्रः सा- क्षाद् आदित्य एव । तथा तैत्तिरीयश्रुतिः । “ऐन्द्रीम् आवृतम् अन्वाव- ते । असौ वा आदित्य इन्द्रः। तस्यैवावृतम् अनु पर्यावर्तते" इति [ते. सं०१.७. ६.३] । अतः उक्तरीत्या आदित्येन्द्रयोरेकत्वेन "सपालानां वि- P°जितम् ।। 1 यार्चयेत् दिक्षुकुसुमैः 2 पादलिंगानाम्. 3 omits 'त्स्नेषु. 4 विव- स्वांश्चैते. अथर्वसंहिताभाष्ये पासहिम्" [ऋ.१०.१६६.१] "अषाढम् उग्रं सहमानम्" [ तै.ब्रा. २.7:५.7.] इत्यादिषु इन्द्रविशेषणतया प्रसिद्धानि विषासहिम् इत्यादीनि सूर्येपि अविरुद्धानि । ईड्यम स्तुत्यम् आरोग्याद्यर्थिभिः सर्वैः प्राणिभिः सर्वदा स्तोतव्यं नाम सर्वेषां नामकम् । अथ वा नामेति प्रसिद्धौ । ईड्यावेन प्रसिद्धम् इन्द्रम् आदित्यं खे हुवे इति संग्रहार्थः । प्रह- यतेर्लटि "बहुलं छन्दसि" इति संप्रसारणम् । छान्दसो यण। की- दृशम् इन्द्रम् इति तं विशिनष्टि विषासहिम् इत्यादिना । विषासहिम् विशेषेण सोढारम् । यथा शत्रयो न पुनरुद्भवन्ति तथा नाशयितारम् इत्यर्थः । षह अभिभवे । अस्माद् यङन्तात "सहिषहिचलिपति- भ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ” इति किमत्ययः । तदेव उ- पपादयति सहमानम् इति । सहनशीलम् । “इन्द्रो यातूनाम् अभ- वत् पराशरः" [.. ४. २१] इत्यादिश्रुतिभ्य इन्द्रस्य सहनशीलं प्रसि- . द्धम् । यस्य यादृक् स्वभावः स तादृशं करोतीति प्रसिद्धम् । अतः शत्रुहननस्वाभाव्याद् विषासहित्वं तस्य युक्तम् इत्यर्थः । सहेर्लट- श्वानश् र । न केवलम् इदानीमेव तच्छीलत्वं प्रागपि तथेत्या- ह । सासहानम् पूर्वमपि अभिभवितारम् । अतः शत्रुहननवभावता सि- द्धा। लिटः कानच् । एवाभ्यासलोपयोरभावश्छान्दसाः। ननु सन्त्यन्ये सोढारः कोस्यातिशय इति तत्राह सहीयांसम् इति । सोढुणां मध्ये अतिशयेन सोढारम् । सोढुशब्दात् "तुश्छन्दसि" इति ई- यसुन् । "तुरिष्ठेमेयःसु" इति तृलोपः । उक्तविशेषणचतुष्टयसि द्धम् अर्थ पुनरनुवदति क्रियासंबन्धाय सेहमानम् इति । उक्तोस्या- र्थः । 2सहेश्चानश् । एवंमहानुभावम् इन्द्रशब्दाभिधेयम आदित्यं हुवे । इत्थं शत्रुसहनहारेण इन्द्रं प्रशस्य अथ तेषां सहआदि- जेतृपद्वारेणापि प्रशंसति । सहोजितम् सहः परेषाम् अभिभावुकं तेजः । तस्य जेतारं शत्रुबलापहर्तारम् । स्वर्जितम् । स्वर् इति सुखनाम । श- त्रूणां यत् सुखं तस्य जेतारं नाशयितारम् स्वर्गस्य वा जेतारम् । तथा गोजितम् गोशब्दो महिष्यजाविकरितुरगोष्ट्रादेरुपलक्षकः । शत्रूणां ये ग. 1 सासहानमिति. 2 सहेः शानन्. [अ०१. सू०१.] ५४० . सप्तदशं काण्डम् । वाद्याः सन्ति तेषां जेतारम् । यद्वा गावः उदकानि तेषां जेतारम् । तथा संधमजितम् सम्यग्धनस्य सुवर्णरजतमणिमुक्तादिलक्षणस्य जेतारम् । यद्या सहआदिजयः स्वोपासकार्थो द्रष्टव्यः । स्वभक्तेभ्यः सहःस्वर्गगोध- नानां लम्भकम इत्यर्थः । “अर्वाञ्चम् इन्द्रम् अमुतो हवामहे यो गो- जिद् धनजिद् अश्वजिद् य" [५.३.११] इत्यादिमन्त्रान्तरेषु इन्द्र- स्स गवादिजेतृत्वं प्रसिद्धम् । संधनाजितम् इति । सांहितिको दीर्घः। उक्तगुणविशिष्टस्पेन्द्रस्य आह्वाने प्रयोजनम् आह । आयु- ष्मान् भूयासम् इति । आह्वानोपलक्षितैस्त्रैकालिकोपस्थानादिलक्षणैः कर्म- भिः परितुष्टस्य इन्द्रशब्दवाच्यस्य भगवतः सूर्यस्य प्रसादाद् अहम आ- युष्मान शतसंवत्सरलक्षणेन आयुष्येण उपेतो भवेयम् । अत एव आयु- ष्मत्प्रार्थनालिङ्गाद् अस्यानुवाकस्य आयुरभिवृद्धयर्थं माणवकस्य त्रिकालम् आदित्योपस्थाने विनियोग उक्तः ॥ द्वितीया ॥ विषासहिं सहमानं सासहानं सहीयांसम् । सहमानं सहोजितं स्वर्जित गोजितं संधनाजितम्। ईड्य नाम ह्ल इन्द्र प्रियो देवानां भूयासम् ॥ २ ॥ विससहिम् । सह1मानम् । ससहानम् । सहीयांसम् । सहमानम् । सहःऽजितम् । स्वःऽजितम् । गोऽजितम् । संधनऽजितम्। ईड्यम् । नाम । ह्वे । इन्द्रम् । प्रियः । देवानाम् । भूयासम् ॥ २ ॥ पूर्ववद् व्याख्येयम् । आयुष्मान इत्यस्य स्थाने [प्रियो] देवानाम् इति विशेषः । इन्द्रस्य सर्वदेवाधिपतित्वात् तदात्मकस्य सूर्यस्यापि “एकैव वा महान आत्मा देवता । स सूर्य इत्याचक्षते सर्वभूतात्मा" इति प्रतिज्ञाय .. अनुक्रमणिकाकारेण स्वोक्तेर्थे "सूर्य आत्मा जगतस्तस्थुषश्च" इति [.

१. ११५.१] उदाह्रतत्वात् तथा "तविभूतयोन्या देवताः" इति प्र-

तिज्ञाय "तदप्येतद् ऋषिणोक्तम् । इन्द्रं मित्रं वरुणम् अग्निम् आहु- ___ "रयो दिव्यः स सुपर्णो गरुत्मान । एक सद् विप्रा बहुधा वदन्त्यग्निं अथर्वसंहिताभाष्ये "यमं मातरिश्वानम् आहुः" [१०१.१६४.४६] इति [स.अ.परि०२] प्रदर्शितावाच्च एकस्यैव भगवतः सूर्यस्य सर्वदेवतामयावात् तस्मिन एकस्मिन् प्रीते इतरेषां देवानां प्रियो भवतीत्यभिप्रायः । इतरथा येषां प्रियभावः प्रार्थनीयस्त एव पृथक्पृथग् उपास्याः स्युः । न च वाच्यम् एकेनैव प्रीतेनादित्येनालम् किम् इतरदेवानां प्रियभावप्रार्थनयेति । फलानभि- घाताय इतरेषां स्वाधीनीकरणस्यानि अपेक्षितत्वात् । यथा लोके प्रीतेपि राजनि तत्परतन्त्राणामपि अमात्यादीनां प्रीत्यर्थम् उपाधावनदर्शनात् ॥ तृतीया ॥ विषासहिं सहमानं सासहानं सहीयांसम्। सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । ईड्यं नाम व इन्द्रे प्रियः प्रजानां भूयासम् ॥ ३ ॥ विऽससहिम् । सहमानम् । ससहानम् । सहीयांसम् । सहमानम् । सहःऽजितम् । स्वःऽजितम् । गोऽजितम् । संधनऽ- जितम्। - ईड्यम् । नाम । ।ह्ने । इन्द्रम् । प्रियः । प्रऽजानाम् । भूयासम् ॥ ३ ॥ प्रकर्षेण जायन्त इति प्रजाः पुत्राद्या भृत्यादयश्च । तासां प्रियो भू- यासम् । ता यथा विधेयाः सत्यः स्वात्मानं पूजयन्ति तथाविधो भूया- सम् इति आशास्ते ॥ चतुर्थी ॥ विषासहिं सहमानं सासहानं सहीयांसम् । . 'सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । ईड्यं नाम ह्व इन्द्रं प्रियः पशूनां भूयासम् ॥ ४ ॥ विऽससहिम । सहमानम् । ससहानम् । सहीयांसम् । · सहमानम् । सह-ऽजितम् । स्वःऽजितम् । गोऽजितम् । संधनडजितम् । 1 एकस्यव. [अ०१. सू.१.] ५४० सप्तदशं काण्डम। • ईड्यम् । नाम । ह्वा । इन्द्रम् । प्रियः । पशूनाम् । भूयासम् ॥ ४ ॥ पशवो गोमहिष्यजाविकाद्याः करिनुरगोष्ट्रादयश्च । “चतुष्पादाः पश- वः" इति श्रुतेः [ऐ ब्रा० ५.१९] । सत्सु तेषु तेषां प्रियभावप्रार्थनौ- चित्यात् तल्लाभं तदानुकूल्यं चाशास्ते ॥ इत्थम् आयुष्याभावे कृत्स्नस्यापि लाभस्य वैयर्थ्यात् प्रथमम् आयुष्यम् आशास्स तसिद्धये देवतानुकूल्यमपि आशास्य पुत्राद्यभावे स्वात्मन एव अकार्त्स्न्यात् प्रजासमृद्धिम् आशास्य तदनन्तरं पशुलाभं प्रार्थ्य1 अथ तैः सर्वः संपन्नः स्वकमानेषु श्रेष्ठभावम् आशास्ते ॥ पञ्चमी॥ विषासहिं तहमानं सासहानं सहीयांसम् । . सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् । ईड्यं नाम ह्व इन्द्र प्रियः समानानां भूयासम् ॥ ५॥ विऽससहिम् । सहमानम् । ससहानम् । सहीयांसम् । सहमानम् । सहाऽजितम् । स्वाऽजितम् । गोऽजितम्। संधनऽजितम् । ईज्यम् । नाम । हे । इन्द्रम् । मियः । समानानाम् ।भूयासम् ॥ ५॥ कुलजातिवयोधनविद्याकर्मादिभिः स्वसदृशाः समानाः । तेषां प्रियो भूयासम् । तेषामपि श्रेष्ठत्वेन उप2जीव्यो भूयासम् इत्यर्थः । सत्सु स्वसदृ- शेषु अन्येषु स्वरूप श्रैष्ठ्याभावाद् "अहं भूयासम् उत्तमः समानानाम्" [ तैत. सं०३. ५. ५.१] । “समानानाम् उत्तमश्लोको अस्तु" [तै.सं० ५. ७.४.३] इत्यादिश्रुतिषु तेषामपि श्रैष्ठ्यप्रार्थनादर्शनात् । इत्थम् आयु- ष्यादिसर्वकाममार्थनालिङ्गाद् अस्यानुवाकस्य च सलिलगणे पाठात् “स- लिलैः सर्वकामः" इत्यादिको गणप्रयुक्तो विनियोग उक्त इति द्रष्टव्यम् । अत एव प्रियः प्रजानां भूयासम् प्रियः समानानां भूयासम् इति लि- ङ्गाद् भास्करप्रीतिकरापूपदाने “अथ यः कामयेत सर्वेषां नृणाम् उत्तमः ___ P पशूनाम् ।. We with PICP. 1 प्रार्थयित्वा. 2 उपजीवको. अथर्वसंहिताभाष्ये स्याम” इति प्रक्रम्य "विषासहिम् इति अभिमन्त्र्य ब्राह्मणाय निवेद- येत्” इति अस्यानुवाकस्य विनियोग उक्त इति ज्ञातव्यम् ॥ षष्ठी। उदियुदिहि सूर्य वर्चसा माभ्युदिहि। द्विषंश्च मह्यं रध्यतु मा चाहं द्विषते रंध तवेद् विष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥ ६॥ उत् । इहि । उत् । इहि । सूर्य । वर्चसा । मा। अभिऽउदिहि । द्विषन् । च । मह्यम् । रध्यतु । मा। च । अहम् । द्विषते । रधम् । तव। इत् । विष्णो इति । बहुधा । वीर्याणि । त्वम् । नः । पृणीहि । पशुभिः। विश्वऽरूपैः। सुऽधायाम् । मा। धेहि । परमे। विऽओमन् ॥ ६ ॥ सरति गच्छति संततम इति वा [ सुवति ] प्रेरयति रवोदयेन सर्वं प्राणिजातं स्वसेवव्यापारे इति वा सूर्यः । सर्तेः सुवतेर्वा क्यपि "राजसूयसूर्य" इत्यादिना निपातितः । तस्य संबोधनम् ।। हे सूर्य त्वम उदिहि उदिहि । वीप्सया उदयविषया त्वरा द्योत्यते । स्वय- मेव उदेष्यतः सूर्यस्य उदयविषयप्रार्थनं मन्देहाद्यसुरकृतोदयप्रतिबन्धम् अन्तरेण उदयाशंसनार्थम् । तथा च तैत्तिरीयश्रुतिः सूर्यस्य राक्षसकृतम् उदयप्रतिबन्धं तत्परिहारं च दर्शयति । “तस्माद् उतिष्ठन्तं हवा तानि "रक्षांस्यादित्यं योधयन्ति यावद् अस्तम् अन्वगात् । तानि हवा एता- "नि रक्षांसि गायत्रियाभिमन्त्रितेनाम्भसा शाम्यन्ति । तदु हवा एते ब्र- "ह्मवादिनः पूर्वाभिमुखाः संध्यायां गायत्र्याभिमन्तिता अप ऊर्घ्वं विक्षि- "पन्ति । ता एता आपो वज्रीभूत्वा तानि रक्षांसि मन्देहारुणे डीपे प्रक्षि- "पन्ति" इति [तै. आ०२.२. १.] । उदिह्यैव तव राक्षसकृत उदयप्र- तिबन्धो मा भूद् इत्यभिप्रायः । उदयं विशिनष्ठि । वर्चसा सर्वस्य आ- So we with A B BODRkRS V Cr De, and so throughout this Kanda. See Rw. In this Kanda E is wanting in the first seven verses and commences from मा त्वा दभन्. ३P पशूभिः । . [अ०१. सू०१.] ५४० सप्तदशं काण्डम् । वर्जकेन तेजसा सह मा मां प्रति अभ्युदिहि । अनेन नीहारादितिरोधा- नाभावः प्रार्थितः । अथ वा वर्चसा हेतुना मम वर्चोलाभाय अभ्युदि- हि । सूर्य उदिते सर्वस्यापि पदार्थस्य वर्चःमाप्तिः सुप्रसिद्धैव । यद्यपि सर्वं भूतजातं प्रति उदेति तथापि उपासकस्य स्वस्य अभिमतप्राप्तिलक्षण- प्रयोजनसद्भावात् माभ्युदिहि इति प्रार्थयते । श्रुतिश्च भवति । "तस्मात् सर्व एव मन्यते मां प्रत्युदगाद् इति" इति [तै सं०६.५.४.२] । उद- . यप्रार्थनाया: प्रयोजनम् आह द्विषश्चेत्यादिना । हे सूर्य अप्रतिबन्धेन उ- दितस्य तव अनुग्रहात् द्विषन् मयि द्वेषं कुर्वन शत्रुः । “द्वि. षोऽमिषे" इति शतृप्रत्ययः । मह्यं रध्यतु मम वशं प्राप्नोतु । मम पादाक्रान्तो भवतु । रथ हिंसासंराद्धयोः । दिवादित्वात् श्यनः । यथा मद्वेषी स्वाधीनो भविष्यति एवं स्वयमपि तदाधी- 'नः कदाचिदपि स्याम् इत्याशङ्क्य व्यतिरेकाभावम् आशास्ते मा चाहं द्विषते रधम् । अहं विदुपासकस्वात्प्रसादाद् द्विषते मयि द्वेषं कुर्वते शत्रवे रधम् वशो मा भूवम् । अयम् अर्थो मन्त्रान्तरेपि स्पष्टम् उक्तः । उदगाद् अयम् आदित्यो विश्वेन सहसा सह। द्विषन्तं मम रन्धयन् मो अहं द्विषतो रधम् । ब्रा ३.७.६.२३] इति । द्विषश्च मा चाहम् इति चकारौ परसरसमुच्चयार्थौ । सत्यपि भोग्ये शत्रुसद्भावे भोगासंभवात् तत्स्वाधीनीकरणलक्षणं फलम् आशा- स्य इदानीम ऐहिकामुष्मिकलोकसाधनलक्षणं फलम् आशास्ते तवेद् वि- ष्णो बहुधेत्यादिना । आदौ भोगप्रदानसामर्थ्यसद्भावं दर्शयति तवेद इ- ति । हे विष्णो व्याप्नोति स्वरश्मिभिः सर्वं ब्रह्माण्डान्तरालम् इति वि. ष्णुरादित्यः । अथ वा द्वादशादित्यमध्ये "दिवाकरो मित्रो विष्णुश्च" इति श्रुतौ स्मृतौ च विष्णोरपि परिगणनाद् विष्णुरादित्यः । तादृशवि- ष्णुशब्दाभिधेयादित्य भवेत् तवैव वीर्याणि बहुधा बहुप्रकाराणि नान्यस्य देवतान्तरस्य । यतस्त्वं विष्णुः अतस्तव वीर्याणि अनन्तानीत्यभिप्रायः । विष्णुत्वोपाधौ तु विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि । अथर्वसंहिताभाष्ये यो अस्कभायद् उत्तरं सदस्य विचक्रमाणवेधोरुगायः। [ ऋ० १.१५४.१] इत्यादिमन्त्रश्रुतिषु पुराणेतिहासागमादिषु [च] प्र- सिद्धानि । साक्षात् सूर्यस्य भगवतो वीर्याण्यपि जगदन्धकारनिहरणस- कलपदार्थप्रकाशननिखिललौकिकवैदिककर्मनिवर्तनसमयवृष्टिमदानारोग्यकर- णमोक्षप्रदानादीनि लोकप्रसिद्धान्येव । यतस्तव सर्वमाण्युपकारकाणि ब- हुविधानि वीर्याणि सन्ति अतस्वं. नः अस्मान् विश्वरूपैः गोमहिष्यजा- विकरितुरगोष्ट्रादिलक्षणैः पशुभिः पृणीहि पूरय । ज्यादित्वात् न्ना। "प्वादीनां ह्स्वः" इति ह्रस्वावम् । तथा मा माम् एतदेहा- वसाने परमे निरतिशये व्योमन् व्योमनि विशेषेण अवतीति व्योम त- स्मिन् बन्धस्य विष्टपे स्थाने। यत्र ज्योतिरजस्रं यस्मिल्लोके स्वर्हितम्। तस्मिन् मां धेहि पवमानामृते लोके अक्षिते। इति [ऋ० ९. ११३.७] मन्त्रोक्तलक्षण इत्यर्थः । तथाविधे लोके ख- धा1याम् । अन्ननामैतत् । यत्सेवया क्षुत्तृष्णाशोकमोहजरामरणादयो न भ- वन्ति तथा2विधे अन्ने अमृते मा मां धेहि स्थापय । तद्भोगार्ह कुर्वि- त्यर्थः । उक्तलक्षणे स्थाने स्वधासद्भावो मन्त्रान्तरे । “स्वधा च यत्र तृप्तिश्च तत्र माम् अमृतं कृधि" इति [अ०९.११३.१०] । धे- हीति । दधातेर्लोटि "वसोरेशावभ्यासलोपश्च" इति एत्वाभ्यासलोपौ र। सप्तमी॥ उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि । यांश्च पश्यामि यांश्च न तेषु मा सुमतिं कृषि तवेद् विष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधाया मा धेहि परमे व्योमन ॥७॥ उत् । ईहि । उत् । इहि । सूर्य । वर्चसा । मा। अभिउदिहि । यान् । च । पश्यामि। यान् । च।न। तेषु। मा। सुऽमतिम्। कृधि । तव। इत् । विष्णो इति । बहुधा । वीर्याणि। १PPहि. We with JCP. 13 Sayana's text too is स्वधायाम. 25 तथाविधेशमृते. [अ०१. सू०१.] ५४० सप्तदशं काण्डम् । त्वम् । नः। पृणीहि । पशुऽभिः । विश्वरूपैः । सुडधायाम् । मा।धेहि । परमे। विऽओमन् ॥ ७॥ . . उदिह्युदिहीति मन्त्रभागः पूर्ववद् व्याख्येयः1 । यान् प्राणिनः पश्या- मि चक्षुषा विषयीकरोमि देशादिभिरव्यवहितान् यांश्च प्राणिनः देशा- दिव्यवधानवतो न पश्यामि तेषु द्विविधेषु प्राणिषु विषयभूतेषु मा मां सुमतिम शोभमबुद्धियुक्तं कृधि कुरु । तेषु द्रोहरहितचित्तं कुर्वित्य- र्थः। "बहुलं छन्दसि" इति विकरणस्य लुक् । "श्रुशृणुपृकृवृ- भ्यश्छन्दसि" इति हेर्धिरादेशः । तादृशी बुद्धिः स्वात्मशत्रुमि- त्रेषु समदर्शिन एव जायते । तथाविधा दृष्टिः परमेश्वरप्रीतये भवति । समत्वम् आराधनम् अच्युतस्यं ॥ सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किंचिद् उच्चैः। [वि.३.७.२०]॥ इति स्मरणात् । किं च अद्रोह एव पुरुषार्थसाधनेषु प्रथमतो निर्दिष्टः "अहिंसा सत्यम् अस्तेयम" [भा ११.१७.२०] इति । ईदृशीं बुद्धि मन्त्रान्तरे महर्षिर्विष्णुं प्रार्थयामास । “त्वं विष्णो सुमतिं विश्वजन्याम् अ- प्रयुताम् एवयावो मति दाः" इति [ऋ०७.१००.२] । हे विष्णो त- वेद् इत्यादि गतम् । 3यतस्तव वीर्याणि बहुधा अतो मां सुमतिं कुरु ॥ . अष्टमी ॥ मा वा दभनसलिले अम्वीनतर्ये पाशिन उपतिष्ठन्त्यत्र। हिवाशस्ति दिवमारुन एतां स नो मृड सुमतौ ते स्पाम तवेद् विष्णो बहुधा वीर्याणि । वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायो मा धेहि परमे व्यो मन् ॥॥ मा।पा। दुभन । सलिले । अप्सु । अनः । ये। पाशिनः । उपऽति- टन्ति । अत्र। हिवा । अशस्तिम् । दिवम् । आ । अरुक्षः । एताम् । सः । नः । मृड । 19 व्याख्येयम्. 2 See Bhagavata V. 10. 23. 35 यत अद for यतस्तव. अथर्वसंहिताभाष्ये सुऽमतौ। ते । स्याम । तव । इन् । विष्णो इति । बहुधा। वीर्याणि । त्वंम् । नः । पृणीहि । पशुभिः । विश्वरूपैः । सुडधायाम् । मा। धेहि । परमे । विऽओमन् ॥॥ सलिले सलिलम् अन्तरिक्षम् तस्मिन् अपस्वन्तः अन्तरिक्षस्यानाम् अ- पां मध्ये हे सूर्य त्वा त्वां मा दभन दम्भनं हिंसा मा कार्षुः प्रच्छन्न- चारिणो राक्षसाः। दन्भु दम्भे । माङि लुङि "दम्भेश्चेति वक्त- व्यम्" इति च्लेः अङ् । . अप्सु सूर्यस्य हिंसका1नां कः प्रसङ्ग इति तत्राह ये पाशिन इति । अत्र अप्सु ये पाशिनः पाशहस्ता गतिनिरो- धसाधनवन्त उपतिष्ठन्ति मायाविनो राक्षसाः । “उत्तिष्ठन्तं हवा तानि रक्षास्यादित्यं योधयन्ति यावद् अस्तम् अन्वगात्" [तै. आ.२.२.१] इत्यादिना गतिप्रतिबन्धकसद्भावः प्र2दर्शितः प्राक् ॥ इथं गतिमत्यूहाभा- वम आशास्य सुखेन द्याम् आरूढं दृष्ट्वा आह हित्वेति । हे सूर्य एताम् अशस्तिम् । अशस्तिर्नि3न्दा । पराख्यब्रह्मणः सगुणमूर्तिभूतस्य भगवतः सूर्यस्य राक्षसा गतिं प्रत्यबन्धन् किल इत्येवंरूपा निन्दां हित्वा तैरप्रतिब- द्धो भाषा दिवम् द्याम् अन्तरिक्षम् आरूक्षः आरूढवान् असि। "श- ल इंगुपधाद् अनिटः क्सः" इति. क्सप्रत्ययः । स तादृशस्यक्ताश- स्तिस्त्वं नः अस्मान् मृड सुखय । ते सुमतौ शोभनायाम् अनुग्रहबुद्यौ स्याम भवेम । देवताया अनुग्रहबुद्धौ सत्यां यद् अभीष्टं प्रार्थयते तत् सुलभं भवतीत्यभिप्रायेण आदौ सैव प्रार्थ्यते ॥ तवेद् इत्यादि पूर्ववत् ॥ नवमी॥ त्वं न इन्द्र महते सौभगायादब्धेभिः परि पाह्यक्तुभिस्तवेद् विष्णो बहु- .धा वीर्याणि । त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥९॥ त्वम् । नः । इन्द्र । महते । सौभगाय । अदब्धेभिः । परि । पाहि । अ- क्तुडभिः । तव । इत् । विष्णो इति । बहुधा । वीर्याणि। . 1' हिंससहानां ऋ for हिंसकानां क. 2 प्रतिदर्शितः. 3 निदि for निन्दा. [अ०१. सू०१.]५४. सप्तदशं काण्डम् । त्वम् । नः । पृणीहि । पशुभिः । विश्वऽरूपैः । सुडधायाम्। ।मा । धेहि। परमे । विऽओमन ॥ ९॥ हे इन्द्र परमेश्वर सूर्य वं नः अस्माकं महते निरतिशयाय सौभगाय शोभनो1 भगो यस्य स सुभगः सुभगस्य भावः सौभगं सौ2भगाय सौभाग्याय। ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। · ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा। [वि०६. ५.७०] ॥ इत्युक्तलक्षणाख्यप्रभूतस्य ऐश्वर्यादेः सिद्धयर्थम् इत्यर्थः । तदर्थम् । अदब्धे- भिः अदब्धैः अहिंस्यैर्व्याधिसर्तस्पाग्नितस्करादिजनितहिंसारहितैः अक्तुभिः । रात्रिनामैतत् । रात्र्युपपलक्षितैर्बहुभिर्दिवसैनिमित्तभूतैः परि पाहि सर्वतो रक्ष । अथ वा प्रायेण रात्रावेव व्याधितस्करभूत3रक्षःपिशाचादिपीडासंभ- वाद् विशेषेण रात्रिषु रक्षा प्रार्थते ॥ तवेद् इत्यादि गतम् ॥ . दशमी ॥ त्वं न इन्द्रोतिभिः शिवाभिः शंतमो भव । आरोहंस्त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद् वि- प्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१०॥(१) त्वम । नः । इन्द्र । ऊतिऽभिः । शिवाभिः । शम्ऽतमः । भव । आऽरोहन् । त्रिडदिवम् । दिवः । गृणानः । सोमऽपीतये। प्रियऽधामा। स्वस्तये । तव । इत् । विष्णो इति । बहुडधा । वीर्याणि । त्वम् । न । पृणीहि । पशुभिः । विश्वरूपैः । सुडधायाम् । मा। धेहि । परमे । विऽओमन् ॥ १० ॥ (१) हे इन्द्र नः अस्माकं शंतमो भव । शम् इति सुखनाम । सु- खतमो भव । सुखयितृतमो भवेत्यर्थः । न हि असुखस्य सुखयितृत्वम् १"भवं। We with PJ. 18 शोभनं. 28 साभूत for सौभगाय. 38 omits in भूतरक्षा. अथर्वसंहिताभाष्ये अस्ति । कै साधनैरित्युच्यते । शिवाभिः मङ्गलाभिः ऊतिभी रक्षाभिः । याभी रक्षाभी रक्षितः पुनःपुनर्जननमरणादिक्लेशभाङ् न भवति तादृ- श्यो रक्षाः शिवा इत्युच्यन्ते । किं कुर्वन् । दिवः अन्तरिक्षस्य संबन्धि- नं त्रिदिवम् । तिसृणां धावां समाहारस्त्रिदिवः । “तिस्त्रो द्यावो नि- हिता अन्तरस्मिन्" [ऋ०७.६७.५] “तिस्रो भूमीर्धारयन् त्रीरुत द्यून्" [ऋ.२.२७..] "त्रयो, वा इमे त्रिवृतो लोकाः" [ऐ. ब्रा.' २. १७] इत्यादिश्रुतिभ्यो धुलोकस्य त्रैविध्यम् । अथ वा भूलोकापेक्ष- या तृतीया द्यौर्द्युलोकत्रिदिवः । तम् आरोहन् । तथा सोमपीतये सो- मपानाय । सोमपानं तु सोमयागम् अन्तरेण न संभवति तं देवेभ्यो हुत्वा शेषभक्षणविधानात् अग्नौ हुतस्य सोमस्य पानाय वा अतो या- गादिकर्मसिद्धये गृणानः अस्माभिः स्तूयमानः । कर्मणि कर्तृम- त्ययः । आरोहणं किमर्थम् इति उच्यते । खस्तये जगतः क्षे- माय । उदयति सवितरि अन्धकारापगमेन सकलव्यवहारसिद्धैः सर्वप्रा- णिनां क्षेमं1 भवतीति सुप्रसिद्धम् । कीदृशस्वम् । प्रियधामा प्रियस्थानः । ध्युस्थाने प्रीतिमान इत्यर्थः । न हि सूर्यस्य इतरदेववद् यहच्छया स्था- नान्तरसंक्रमणम् अस्ति । अथ वा धाम तेजः । प्रियतेजा इत्यर्थः । न हि स्वतेजः स्वस्याप्रियम् अतः सह्यमेव । अथ वा यस्य धाम लो- कस्य प्रियं स प्रियधामा । एवं कुर्वन स्वस्तये भवेति शेषम् अध्याह्न- त्य वा योज्यम् । तवेत इत्यादि पूर्ववत् ॥ इति प्रथमं सूक्तम्। द्वितीये सूक्ते प्रथमा॥ त्वमिन्द्रासि विश्वजित सर्ववित् पुरुहूतस्वमिन्द्र । त्वमिन्द्रेमं सुहवं स्तोममेरयस्व स नो मृड सुमतौ ते स्याम तवेद् वि- ष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधाया मा धेहि परमे व्योमन् ॥११॥ बम् । इन्द्र । असि । विश्वजित् । सर्वऽवित् । पुरुडहूतः । त्वम् । इन्द्र। 1 क्षेम. [अ॰१. सू०१.] ५४० सादर्श काण्डम् । त्वम् । इन्द्र । इमम् । सुऽहवम् । स्तोमम् । आ । ईरयस्व । सः ।नः। मृड। सुडमतौ । ते । स्याम । तव । इत् । विष्णो इति । बहुऽधा। वीर्याणि । त्वम् । नः। पृणीहि । पशुभिः । विश्वरूपैः । सुडधायाम् । मा। धेहि । परमे । विऽओमन् ॥ ११ ॥ . हे इन्द्र परमैश्वर्यविशिष्ट सूर्य । इन्द्र एव वा संबोध्यते सूर्यमूर्त्यन्तर- भूतः । पुरुहूत इत्यसाधारणविशेषणात् । त्वं विश्वजित विश्वस्य जेता व- शीकर्ता अधिपतिरसीत्यर्थः । तथा सर्ववित् सर्वप्रेरकत्वात् सर्वात्मकत्वा- च्च । तथात्वं च "असावादित्यो ब्रह्म" [तै.आ०२.२.२] “स त्रेधा- त्मानं व्यकुरुत । अग्निं तृतीयं वायुं तृतीयम् आदित्यं तृतीयम्" [बृ. आ०१.२.३] इत्यादिश्रुतेः परमेश्वराद् अभिन्नावात सिद्धम् । तथा हे इन्द्र वं पुरुहूतोऽसि पुरुभिर्बहुभिर्यजमानैः स्वस्खयागसिद्धये आहूतोसि । यत एवंरूपमहिमासि अतो हे इन्द्र [त्वम्] इमम् इदानीं क्रियमाणप्र- कारं सुहवम् शोभनाह्वानसाधनं स्तोमम् स्तवम् आ सर्वतः ईरयस्व प्रेरय । स्तोमेन तुष्टः सन एवमेव स्तुहीति प्रेरयेत्यर्थः । अथ वा ईरय- तिरत्र1 प्रेरणापूर्वके स्वीकारे वर्तते प्रेर्य 2स्वीकुर्वित्यर्थः । स नो मृळेति पूर्ववद् याख्येयम् ॥ द्वितीया ॥ अदब्धो दिवि पृथिव्यामुतासि न ते आपुर्महिमानमन्तरिक्षे।। अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि षच्छर्म यच्छ तवेद् वि- __ष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधाया मा धेहि परमे व्योमिन् ॥१२॥ अदब्धः । दिवि । पृथिव्याम् । उत । असि । न । ते । आपुः । महिमा- नम् । अन्तरिक्षे । sayana's text as well as commentary omits altogether, and reads दिवि शर्म &c. All our Samhita and pada authorities give the word, though the metre abhors it. 18 ईरयति तत्र for ईरयतिरत्र, प्रेरयेस्यर्थः for प्रेर्य स्वीकृर्षित्यर्थः अथर्वसंहिताभाष्ये अदब्धेन । ब्रह्मणा । ववृधानः । सः । त्वम । नः । इन्द्र । दिवि । सन् । 'शर्म । यच्छ । तव । इत् । विष्णो इति । बहुधा । वीर्याणि । त्वम् । नः । पृणीहि । पशुभिः । विश्वरूपैः । सुऽधार्याम । माँ। धेहि । परमे । विऽओमन् ॥ १२॥ हे इन्द्र त्वं दिवि द्युलोके अदब्धः केनापि राक्षसादिना अहिंसितो- सि । उत अपि च पृथिव्याम भुवि भूचरैः कैश्चिदपि अदब्धः अ- हिंसितोसि । तथा अन्तरिक्षेपि ते तव महिमानं मापुः सोढुं शक्ता नाभवन् । अतिकठोरतेजस्यात् लोकत्रयेपि तव संतापलक्षणं महिमा- नम् आप्तुमपि अशक्ताः किल किमु वक्तव्यं तव हिंसां कर्तुम् अश- क्ता [इति] इत्यभिप्रायः । ईदृशो महिम्नः प्राप्तौ कारणम् आह अ- दब्धेनेति । यतस्त्वम् अदब्धेन अहिंस्येन अकुण्ठितसामर्थ्येन ब्रह्मणा म- न्त्रेण गायत्रीलक्षणेन वावृधानः भृशं वर्धमानः । हिंसकानां रक्षसां गा- यत्र्यभिमन्त्रितेनोदकेन निरस्तावेन संकोचाभावाद् इति भावः । निर- सनप्रकारः “तस्माद् उत्तिष्ठन्तं हवा तानि रक्षांसादित्यं योधयन्ति" [तै. आ० २. २,१] इत्यादिना प्रदर्शितः । यद्वा ब्रह्मणा "विषासहिं सहमानम्" इत्यादिकेन कृत्स्नेनानुवाकेन स्तुतिरूपेणेत्यर्थः । “भुवस्वम् इन्द्र ब्रह्मणा महान" [ऋ० १०.५०.४] "एतेनाग्ने ब्रह्मणा वावृ- धस्व" [ऋ०१.३१.१०] इत्यादिश्रुतेर्देवताया ब्रह्मणा महत्त्वप्राप्तिरभि- वृद्धिश्च प्रसिद्धे । अथवा ब्रह्मणा परिवृढेन कर्मणा उपस्थानादिरूपेण वावृधानः । यतस्त्वं ब्रह्मणा वर्धसे अतस्वं सर्वत्र अदब्धः अन्यैरप्राप्त- माहात्म्यश्च भवसीत्यर्थः । स तादृशस्वम् हे इन्द्र नः अस्माकं दि- वि धुलोके शर्म सुखं यच्छ देहि । स्वधायां मा धेहि परमे व्योम- न्निति युक्तम् । तवेद् इत्यादि पूर्ववत् ॥ तृतीया ॥ या त इन्द्र तनूरप्सु या पृथिव्यां यान्तरग्नौ या त इन्द्र पर्वमाने स्व- र्विदिं। . [अ०१. सू०१.] ५४० सप्तदशं काण्डम् । ययेन्द्र तन्वा3न्तरिक्षं व्यापिथ तयांं न इन्द्र तन्वा शर्म यच्छ तवेद् वि. ष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१३॥ या। ते । इन्द्र । तनूः । अपऽसु । या । पृथिव्याम । या । अन्तः । अनौ । या। । इन्द्र । पर्वमाने । स्वःऽविदि। यया । इन्द्र । तन्वा । अन्तरिक्षम् । विऽआपिथं । तया । नः । इन्द्र । त- न्वा । शर्म । यच्छ । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । नः । पृणीहि । पशुडभिः । विश्वरूपैः । सुडधायाम् । मा।धेहि । परमे । विऽओमन् ॥१३॥ .... इत्थं मण्डलाभिमानिनः सूर्यस्य माहात्म्यम् उपवर्ण्य बहुविधं स्वाभी- ष्ठमपि अर्थयित्वा इदानीं पञ्चसु महाभूतेषु सूर्यस्य या मूर्तयः सन्ति त- न्मुखादपि स्वाभीष्टम् अर्थयते । हे इन्द्र परमैश्वर्ययुक्त सूर्य प्रसिद्धेन्द्र वा या [ते] तव तनूः मूर्तिः अप्सु उदकेषु अस्ति तया तन्वा मूर्त्या अबधिष्ठितदेवतोपाधिनापि शर्म सुखम्1 अप्सु विद्यमानं तासारभूतामृतभै- षज्यादिजन्यं सुखं यच्छ देहि । अप्सु अमृतभैषज्यादिसद्भावो मन्त्रान्तरेषु श्रूयते । “अप्स्वन्तरमृतम् अप्सु भेषजम्" [ऋ० १.२३. १९] “यो वः शिवतमो रसः" [ऋ० १०.९.२] "अप्सु मे सोमो अब्रवीद् अन्तर्विश्वानि भेषजा" [ऋ० १०.९.६] इत्यादिना । तथा पृथिव्याम् हे इन्द्र या तव तनूरस्ति पृथिव्यभिमानिदेवतामूर्तिर्विद्यते तयापि तन्वा नः अस्माकं शर्म सुखं पृथिवीविकारभूतान्नादिसंभवं यच्छ । एवम् अ- न्तरग्नौ तेजसि या तव तनूः । “चत्वारि शृङ्गा त्रयो अस्य पादाः" [ऋ०४. ५७.३] इत्यायुक्तलक्षणा तया तन्वा मूर्त्यापि नः शर्म य- च्छ । दाहपाकप्रकाशादिजन्यं सुखं प्रयच्छेत्यर्थः । तथा स्वर्विदि स्वर्गस्य A B C D E F SOs अन्तरिक्षं व्यापिथ. We with KkHk v. २PJ Cr आ- पिथ ।. We with PK. 1 सुखेंद्रे for सुखम्. अथर्वदसंहिताभाष्ये सुखस्य वा लम्भके ज्ञातरि वा पवमाने। पवतिर्गतिकर्माः। स- र्वदा अनु1परतगते वायौ हे इन्द्र या [ते] तव त2नूः मूर्तिरस्ति तयापि नः शर्म यच्छ । बहिरनुकूलस्पर्शजन्यम् अन्तःप्राणादिवायूनां चिरकाल- संचारजन्यं च सुखं प्रयच्छेत्यर्थः । किं च हे इन्द्र यया तन्वा मूर्त्या अन्तरिक्षं व्यापिथ व्याप्तवान् असि तया अन्तरिक्षव्यापिन्या मूर्त्या शर्म सुखम् अन्तरिक्षजन्यं वृष्ट्यादिसाध्यं यच्छ । अनेन पञ्चभूतव्यतिरेकेण सु- खसाधनवस्वन्तराभावात सर्वविषयं सुखं प्रार्थितं भवति । तथा पञ्चम- हाभूतव्यतिरेकेण अन्यस्य कस्यचिदपि पदार्थान्तरस्याभावात् तेषु व्याप्यभि- धानेन इन्द्रशब्दाभिधेयस्य सूर्यस्य भगवतः सर्वात्मकत्वम् उक्तं भवति । अनेनैवाभिप्रायेण "सूर्य आत्मा जगतस्तस्थुषश्च" [.१.११५.१] इ. त्यादिका श्रुतिः सूर्यस्य सर्वात्मकताम आह ॥ तवेत् इत्यादि पूर्ववत् । चतुर्थी ॥ .. त्वामिन्द्र ब्रह्मणा वर्धय॑न्तः सत्रं नि षेदुऋषयो नाधमानास्तवेद् विष्णो ___ बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१४॥ वाम् । इन्द्र । ब्रह्मणा । वर्धय॑न्तः । सत्रम् । नि । सेदुः । ऋषयः । नाध- __ मानाः । तव । इत् । विष्णो इति । बहुडधा । वीर्याणि। त्वम् । नः । पृणीहि । पशुडभिः । विश्वडरूपैः । सुडधायाम् । मा । धेहि । परमे । विऽओमन् ॥ १४ ॥ हे इन्द्र सूर्य त्वाम् ऋषयः पूर्वे अ3ङ्गिरःप्रभृतयो नाधमानाः अभिमतं फलं याचमानाः ब्रह्मणा मन्त्रेण स्तोत्रशस्त्रादिरूपेण अथ वा परिवृढेन सोमपश्चादिरूपेण हविषा वर्धयन्तः अभिवृद्धं कुर्वन्तः सन्तः सत्रं गवा- मयनादिरूपं [निषेदुः] निषण्णाः निष्पादयितुं नियमेन अवस्थिता आ. सन् । अन्वतिष्ठन्नित्यर्थः ॥ तवेत् इत्यादि पूर्ववत् ॥ १P इन्द्र।. We with PICP. _18 omits अनु°, and reads सर्वदापरतमते (sic). 28 तनरस्तिमूर्तिस्तया.38 पू. वैद्यांगिरः for पूर्वे अङ्गिरः १९ [अ०१. सू०१.] ५४० सप्तदशं काण्डम् । पञ्चमी॥ त्वं तृतं त्वं पर्येष्युत्सं सहस्रधारं विदथं स्वर्विदं तवेद् विष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१५॥ त्वम् । तृतम् । त्वम् । परि । एषि । उत्सम् । सहस्रऽधारम् । विदथम् । स्वःऽविदम् । तव । इत् । विष्णो इति । बहुडधा । वीर्याणि । त्वत् । नः । पृणीहि । पशुडभिः । विश्वडरूपैः । सुडधायाम् । मा । धेहि। परमे । विऽओमन् ॥१५॥ हे इन्द्र त्वं तृ1तम् विस्तीर्णम् अन्तरिक्षं पर्येषि व्याप्नोषि । अथ वा तृ2तम् आच्छन्नं मेघैरावृतम् उदकं पर्येषि । तत्रापि त्वम् उत्सम् उत्स्य- .न्दतीति उत्सः उदकनिष्यन्दस्तं पर्येषि । उत्सो विशेष्यते । सहस्रधारम् अपरिमिताभिर्धाराभिरुपेतम् [विदथम्] । विदथो यज्ञः । ओषधिवनस्प- त्यभिवृद्धिद्वारा यज्ञसाधनत्वाद् उत्सो विदथ इत्युच्यते । अथ वा विदर्थ ज्ञानम् “विदथा3नि प्रचोदयन्" इत्यादिदर्शनात् [ऋ० ३.२७.७] । सर्वेषां प्रज्ञापयितारम् इत्यर्थः । सत्यां वृष्टौ सर्वेषां पदार्थानाम् अभि- व्यक्तः । तथा स्वर्विदम् स्वर्गस्य सुखस्य वा लम्भयितारम् ॥ तवेत. इ. त्यादि पूर्ववत् ॥ षष्ठी ॥ त्वं रक्षसे प्रदिशश्चतस्रस्त्वं शोचिषा नभसी वि भासि। त्विमिमा विश्वा भुवनानु तिष्ठस ऋतस्य पन्थामन्वेषि विद्वांस्तवेद् वि. ष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१६॥ त्वम् । रक्षो । मदिर्शः । चतस्रः । बम् । शोचिषा । नमसी इति । वि। भासि। _t So PPI CP. 1 त्रितं here and in its text.2 अतृतं. 3 विदधानि. अथर्वसंहिताभाष्ये त्वम् । इमा । विश्वा । भुव॑ना । अनु । तिष्ठसे । ऋतस्य । पन्थाम्1 । अनु। एषि । विद्वान् । तव । इत् । विष्णो इति । बहुधा । वीर्याणि । त्वम् । नः। पृणीहि । पशुडभिः। विश्वडरूपैः। सुडधायाम् । मा । धेहि । परमे। विऽओमन् ॥ १६ ॥ हे सूर्य त्वं प्रदिशः प्रकृष्टा दिशः प्रागाद्याश्चतस्रः रक्षसे रक्षसि पा- लयसि । विभजस इत्यर्थः । यत्रोदेति सा प्राची इत्येवं दिग्विभागकल्प- नाहेतुत्वात् । अथ वा दिक्षु अवस्थितानां प्राणिनां रक्षेव दिशां रक्षेत्य- भिप्रायेण एवम् उक्तम । तथा त्वं शोचिषा रोचिषा प्रकाशेन नभसी अन्तरिक्षं दिवं च अथ वा यावापृथिव्यौ वि भासि प्रकाशयसि । अ- सम् इदम् उच्यते । त्वम् इमा इमानि विश्वा विश्वानि भुवना भुव- नानि अनुलक्ष्य तिष्ठसे प्रकाशसे । समस्तानां लोकाना भूतानां वा ए- क एव प्रकाशसे । एवम् ऋतस्य यज्ञस्य उदकस्य वा पन्थाम् पन्था- नं मार्गम् अन्वेषि अनुक्रमेण व्याप्नोषि । कीदृशः सन् । विद्वान ऋत- स्य अवस्थितिं जानन् । न हि कश्चित् कंचित् पदार्थम् अजानन् तम् अन्वेतुम् अर्हति ॥ तवेत् इत्यादि पूर्ववत् ॥ सप्तमी॥ पञ्चभिः पराङ् तपस्येकयार्वाडशस्तिमेषि सुदिने बाधमानस्तवेद् वि- ___ष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधाया मा धेहि परमे व्योमिन् ॥१७॥ पञ्चडभिः । पराङ् । तपसि । एकया । अर्वाङ् । अशस्तिम् । एषि। सुऽदि- ने। बाधमानः। तव । इत् । विष्णो इति । बहुडधा । वीर्याणि । त्वम् । नः । पृणीहि । पशुभिः । विश्वऽरूपैः। सुध्धायाम् । मा। हि । परमे । विऽओमन ॥ १७ ॥ हे सूर्य वं पञ्चभिः दीधितिभिर्मरीचिभिः पराङ् ऊर्ध्वमुखः सन् तपसि प्रकाशसे उपरितनान लोकान् । तथा एकया दीधित्या अर्वाङ् अधोमु- १P पाम् ।। [अ०१. सू.१.] ५४० समद काण्डम। __ २१ खः सन् तपसि । अन्तरिक्षस्यस्य सूर्यस्य उपरि प्रकाश्याना स्वर्महर्जनस्तपः- सत्याख्यानां लोकानां पञ्चसंख्याकत्वात् पञ्चभिरित्युक्तम् । तथा अन्तरिक्ष- स्पितस्य [सूर्यस्य ] अधः प्रकाश्यस्य भूलोकस्य एकत्वात् एकयैर्वाड् इत्यु- क्तम् । एवं कुर्वन् सुदिने शोभनदिवसे नीहारमेघाद्युपद्रवरहिते दिवसे निमित्तभूते सति नाधमानः तदर्थं याच्ययमानः सन् अशस्तिम एकयैवार्वाङ् तपसीत्येवंरूपां निन्दाम एषि प्राप्नोषि ॥ अथ वा पञ्चभिरंशैः पराइ त- पसि एकेनैवांशेन अर्वाङ् तपसि । चक्षुर्गम्यं तेजः एकदेश एव1 उपरितनं तेजः 1निरवधिकम् इत्येवं स्तुति प्राप्नोषीत्यर्थः ॥ तवेत् इत्यादि पूर्ववत् ॥ - अष्टमी ॥ त्वमिन्द्रस्त्वं महेन्द्रस्त्वं लोकस्त्वं प्रजापतिः।। तुभ्यं यज्ञो वि तायते तुभ्यं जुह्मति जुह्वतस्तवेद् विष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधाया मा धेहि परमे व्योमन् ॥१८॥ त्वम् । इन्द्रः । त्वम् । महाऽइन्द्रः । त्वम् । लोकः । त्वम् । प्रजाऽपतिः । तुभ्य॑म् । यज्ञः । वि। तायते । तुभ्यम् । जुह्वति । जुह्वतः । तव । इत् । वि- ष्णो इति । बहुधा । वीर्याणि । त्वम । नः । पृणीहि । पशुडभिः । विश्वडरूपैः। सुडधायाम । मा।धेहि। परमे । विऽओमन् ॥ १ ॥ हे सूर्य त्वम् इन्द्रः स्वर्गाधिपतिः “सहस्राक्षो गोत्रभिद् वज्रबाहुः" [.तैै. सं.२.३.१४.४] इत्यादिमन्त्रोक्तस्वरूप इन्द्रस्त्वमेव । तथा महेन्द्रस्त्वमेव महत्वगुणविशिष्ट इन्द्रोपि त्वमेव । वस्तुतो देवतैक्येपि विशेषणभेदाद् दे- वताभेदम् इच्छन्ति तान्त्रिकाः । “यद् अग्नये पवमानाय * * * । यद् अग्नये पावकाय * * * । यद् अग्नये शुचये * * * ।" [तै. ब्रा. १.१.५.१०] अत्यत्र यथा अग्नेरेकत्वेपि पवमानादिगुणभेदेन भे- दः एवम् अत्रापि द्रष्टव्यम् । इन्द्रस्य महत्त्वगुणयोगः “इन्द्रो वै वृत्रं हत्वा महान अभवत्" [ऐ आ०१.१] इत्यादिश्रुतेर्वृत्रवधाद्यसाधारणप- 18 एकदेशमेष for एकदेश एष. 2s omits a in निरवधिकम्. 299724 THE RI. .... SION INSTI..... TURE Lioni.RY THISSIONAL ssm---- FRAISHNA HAR LIERY २२ अथर्वसंहिताभाष्ये राक्रमजन्यः । तथा त्वमेव लोकः सुकृतिभिः प्राप्यो लोकः स्वर्गादिल- क्षणस्त्वमेव । अथ वा परब्रह्मस्वरूपत्वात् सर्वलोकात्मकस्त्वमेव । एवं प्र- जापतिः प्रजानां स्रष्टा देवस्त्वमेव । यत एवम् अतस्तुभ्यं तव प्रीतये य. ज्ञो ज्योतिष्टोमादिः वि तायते विस्तार्यते यजमानैः । तथा जुह्वतः होमं कुर्वन्तः सर्वेपि तुभ्यं त्वदर्थमेव जुह्वति होमं कुर्वन्ति । याज्यापुरोनुषा- क्यापुरःसरं हूयमाना यागाः तद्रहिता होमाः इति तयोर्विवेकः ॥ तवेत् इत्यादि पूर्ववत् ॥ नवमी ॥ असति सत् प्रतिष्ठितं सति भूतं प्रतिष्ठितम् । भूत ह भव्य आर्हितं भव्यं भूते प्रतिष्ठितं तवेद् विष्णो बहुधा वीर्याणि । त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायो मा धेहि परमे व्योमन् ॥१९॥ असति । सत् । प्रतिऽस्थितम । सति । भूतम् । प्रतिऽस्थितम् । भूतम् । ह । भव्य । आऽहितम् । भव्यम् । भूते । प्रतिऽस्थितम् । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि ।। त्वम् । नः । पृणीहि । पशुडभिः । विश्वऽरूपैः । सुडधायाम् । मा । धेहि । परमे । विऽओमन् ॥ १९॥ असति । अत्र असच्छब्देन नामरूपादिराहित्यात् असत्प्रायं निरस्त- समस्तोपाधिकं सन्मात्रं ब्रह्म अभिधीयते । यथा दृश्यपदार्था नामरूपा- दिघटितत्वेन सद्व्यवहारम् अर्हन्ति एवं नामरूपाद्यभावेन चक्षुराद्यविषय- त्वेन द्रष्टुम् अनर्हत्वाद् ब्रह्म असद् इत्युच्यते । सच्छब्देन च असतः प्रपञ्चस्य सत्त्वेनावभासकात्वात् स्व1यं च तद्रूपेण सत्त्वेनावभासात् अनृत- नीहारमायाद्यपरपर्यायम् अज्ञानम् अभिधीयते । यद्यपि वस्तुतः सच्छ- ब्देन ब्रह्म अभिधातव्यम् “सदेव सोम्येदम् अग्र आसीत" [छा.उ. ६.२.१] "सत्यं ज्ञानम् अनन्तं ब्रह्म" [तै आ०७.१] इत्यादिश्रुतेः १P भव्ये . We with #J CP. 1808. ___२३ [अ°१. सू.१.] ५४० सप्तदशं काण्डम् । तथा असच्छब्देन 1अब्रह्म [अज्ञानम्] अभिधातव्यम् सद्विलक्षणत्वात् भ्रा- न्तिबाधयोर्विषयत्वाच्च "अतोन्यद् आर्तम्" इति [ बृ.आ°३.५.१] श्रुतेः तथापि प्रतीत्यनुसारेण एवम उक्तम् । तस्मिन्नसति ब्रह्मणि सत् अज्ञा- नं प्रतिष्ठितम् आश्रितम् अध्यस्तम् । यथा इदमंशे शुक्तौ रजतम् रच्ज्वां सर्पधारादि एवं ब्रह्मणि अज्ञानं प्रतिष्ठितम् । सति उक्तलक्षणे अज्ञा- ने चैतन्यामतिबिम्बवति अज्ञाने भूतम् भूतकालावच्छिन्नं पृथिव्यादिभूत- पञ्चकं सकलसृष्ट्युपादानभूतं प्रतिष्ठितम् तद् आश्रित्य वर्तते । तत उ- त्पद्यत इत्यर्थः । यद्यपि “आत्मन आकाशः संभूतः" [तै आ°४.१] इत्यादिश्रुतेर्ब्रह्मतो भूतानाम् उत्पत्तिर्न मायातः तथापि अविक्रियस्य केव- लस्य सन्मात्रस्य अकार्यत्वात् अकारणात्वात् मायात एव तेषाम् उत्पत्तिः । तदधिष्ठानत्वाद् ब्रह्मत उत्पत्त्यभिधानश्रुतिः । भ्रमाधिष्ठानतास्माभिः प्रकृतित्वम् उपेयते।। इति हि स्मरन्ति । अथ वा असच्छब्देन सांख्यशास्त्रप्रसिद्धम् अनुभूतो- द्भवाभिभवं गुणत्रयसाम्यावस्थालक्षणं प्रधानम् उच्यते । तस्य विकृति- रूपताऽभावात असच्छब्दव्यवहारः । तसिन्नसति सत् उद्भूतोद्भवाभिभ- वम् अन्तरुदितत्रिभेदं2 महत्तत्वं प्रतिष्ठितम् । महतत्वस्य प्रधानविकारत्वात् सच्छब्देन व्यवहारः । तस्मिन् सति महत्तत्वे भूतम् भूतपञ्चकं प्रतिष्ठि- तम् । तच्च भूतम् भूतपञ्चकं सर्वस्य कार्यप्रपञ्चस्य उपादानभूतं भव्ये कार्यजाते आहितम् अनुगतम् । तच्च भव्यम् कार्यजातं भूते स्वकारण- भूते भूतपञ्चके प्रतिष्ठितम् नियतं वर्तते । कारणव्यतिरेकेण पृथगवस्था- नाभावात् । एवमात्मनः3 प्रपञ्चावस्थानस्य परमेश्वरमहिमा4यत्तत्वात् तवेद् विष्णो बहुधा वीर्याणीत्युच्यते ॥ गतम् अन्यत् ॥ दशमी॥ शुकोसि भ्राजोसि। स यथा त्वं भ्राजता भ्राजोस्येवाहं भ्राजता भाज्यासम् ॥ २० ॥ (२) शुक्रः । असि । भ्राजः । असि । 18 omits अ. 28 त्रिनेदं. 8 एवमात्मना. 4S महिमायतत्वात्. २४ अथर्वसंहिताभाष्ये सः । यथा । त्वम् । भ्राजता । भ्राजः । असि। एष। अहम् । भ्राजता। _भ्राज्यासम् ॥ २०॥ (२) हे सूर्य त्वं शुक्रोसि शुक्रः अतिविशदः खच्छः प्रकाशः तद्रूपस्त्वम् असि । यद्वा शुक्रशब्दोत्र धर्मिपरः । शुक्रगुणयुक्तोसि । आयन्तनिर्म- लस्वरूपोसीत्यर्थः । अनेन कलुषलेशेनापि असंस्पृष्टस्वरूपता उक्ता । त- था भ्राजोसि भ्राजते दीप्यत इति भ्राजः। पचायच्४। दी- प्तोसि सकललौकिकप्रकाशकेन तेजसा युक्त इत्यर्थः । अस्तु किं तत इत्यत आह स यथा त्वम इति । हे सूर्य स ताहशस्वं [यथा] भ्राज- ता सकललोकप्रकाशकेन तेजोमयेन रूपेण भ्राजोसि भ्राजनस्वभावो भव- सि। “विश्वभ्राड् भ्राजो महि सूर्यो दृशे" इति [ऋ.१.१०.१७०.३] मन्त्रान्तरम् । एव एवम् अहम् उक्तस्वरूपोपासकः भ्राजता दीन रूपे- ण शरीरकान्त्या भ्राज्यासम् दीप्तो भूयासम् । तेजोगुणकस्य सूर्यस्य उ. पासनया उपासकस्यापि तेजोगुणयुक्तत्वं युक्तमेव ॥ इति सप्तदशकाण्डे द्वितीयं सूक्तम् ॥ ___अथ तृतीयसूक्ते प्रथमा ॥ रुचिरसि रोचोसि। स यथा त्वं रुच्या रोचोडस्येवाहं पशुभिश्च ब्राह्मणवर्चसेन च रुचिषीय॥२१॥ रुचिः । असि । रोचः । असि। सः । यथा । त्वम् । रुच्या । रोचः । अ1सि । एव । अहम् । पशुभिः । च । ब्राह्मणडवर्चसेन । च । रुचिषीय ॥२१॥ हे सूर्य वं रुचिरसि रुचिर्दीप्तिस्तद्रुपस्त्वम् असि । यद्वा रुचिशब्देन रुचिमान अभिधीयते । प्रकृष्ठरुचिरसि । तथा रोचोसि रोचयति दी- पयतीति रोचः । तादृशस्त्वम् असि । अत्र रुचिरसीत्यनेन दीप्तिमत्त्- मात्रम् उक्तम् । रोचोसीत्यनेन तु सकललोकदीपकत्वम् इति विवेकः । इत्थं स्वापेक्षितगुणविशिष्टत्वेन स्तुत्वा स्वाभिमतम् आशास्ते स यथा १P असि ।. We with PICP. २५ [अ॰१. सू.१.१५४० सप्तदशं काण्डम । त्वम इति । स तादृशस्त्वं रुच्या विश्वप्रकाशिकया दीप्त्या रोचोसि भव- सि रोचको भवसि । पचाद्यच् । एव एवं भवानिव अ- हमपि पशुभिश्च । चशब्दो वक्ष्यमाणब्रह्मवर्चसेन समुच्चयार्थः । पशवो गोमहिषाश्चादयः तैश्च ब्राह्मणवर्चसेन च । अत्र चशब्दः पशुभिः समु- च्चयार्थः । ब्राह्मणानाम उचितं श्रुताध्ययनतपआ1दिजन्यं तेजः ब्राह्मणवर्च- सम् । उभाभ्यां रुचिषीय दीनो भवेयम् । यथा ब्रह्मवर्चसलक्षणेन तेज- सा दीप्यते लोके एवं बहुभिः पश्वादिधनैरपि आढ्यः सन् दीप्यते इति पशूनां दीप्तिसाधनवाभिधानम् । लोके धनाढ्यः प्रकाशत इति प्रसिद्ध- मेव । अत्र "ब्रह्महस्तिभ्यां वर्चसः" इति विहितः समासान्तः अच् प्रत्ययो ब्राह्मणशब्दात् परस्यापि वर्चसो भवति ॥ अत्र ब्राह्मणव- र्चसेन रुचिषियेति ब्रह्मवर्चसमार्थनालिङ्गात् माणवकस्य ब्रह्मवर्चसापेक्षावाद् उपनयनकर्मणि माणवकस्स नाभिदेशं संस्पृश्य जपेत् । तस्मिन्नेव कर्मणि माणवकाभिमन्नणे च अस्यानुवाकस्य विनियोग उक्त इति मन्तव्यम् ॥ · द्वितीया ॥ उद्यते नम उदायते नम उदिताय नमः। विराजे नमः स्वराजे नमः सम्राजे नमः ॥ २२ ॥ उतऽयते । नमः । उतऽआयते । नमः । उतऽईताय । नमः । विडराजे । नमः । स्वडराजे । नमः । समऽराजे । नमः ॥ २२ ॥ हे सूर्य उद्यते उदयैकदेशं गच्छते तुभ्यं . नमः नमस्कारोस्तु । तथा उदायते ऊर्ध्वम ईषङ्गच्छते । अर्धोदितायेत्यर्थः । तादृशाय तस्मै नमः । एवम् उदिताय ऊर्ध्वं सम्यक् प्राप्नाय संपूर्णोदयाय नमः । अत्र उद्यते उदायत इत्युभयत्र उत्पूर्वात् उदाङपूर्वाच्च इण् गतौ इत्यस्माल्लटः श- त्रादेशे "इणो यण्" इति यण् आदेशः। अथ यथोक्तावस्थात्रय- निबन्धनास्तिस्रो मूर्तीः पृथक्पृथग् नमस्करोति विराजे नम इत्यादिना । उद्यते विराजे नमः विविधं राजत इति विराट् तस्मै एकदेशोदिताय विराडात्मकाय नमः । स्वराजे नमः स्वयं राजत इति स्वराट् स्वाधीन- 19 °सादि. for °आदि. अथर्वसंहिताभाष्ये प्रकाशाय उदायदवस्थाय अर्धोदिताय स्वराण्मूर्तये नमः । सम्राजे नमः सम्यक् अतिशयेन राजमानाय उदितावस्थाय नमः ॥ अथ वा अवस्था- नम् अन्तरेणैव विरादस्वराष्ट्रम्राजः परमेश्वरस्य सोपाधिकास्तिस्रो मूर्तयः । तासु विराड् नाम परमेश्वरस्य यत् सकललोकात्मकं स्थूलशरीरं तद- भिमानी पुरुषशब्दवाच्यो देवः । तथा स्मर्यते ।। भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय तस्मिन्1 । स्वांशेन विष्टः2 पुरुषाभिधानम् अवाप नारायण आदिदेवः ॥[भा०११.४.३] विराजम् असृजत् प्रभुः। इति च । स्वराड् नाम भूतपञ्चकसारात्मकं परमेश्वरस्य सर्वसमष्टिरूपं यत् सूक्ष्मशरीरं तदभिमानी “स ब्रह्मा । स शिवः । स हरिः । सोक्षरः प- रमः स्वराट" [तै आ० १०.११.२] इत्यादिश्रुत्युक्तो हिरण्यगर्भः । स- म्राड् नाम परमेश्वरः कारणशरीराभिमानी सकलभूतभौतिकप्रपञ्चस्रष्टा मा- योपाधिक ईश्वरः ॥ "ब्रह्म प्रपद्ये । ब्रह्मकोशं प्रपद्ये" [तै आ०२.१९. १] “य एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" [छा०१.६.६] "हि- रण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिः" [मु.२.२.९] इत्यादिश्रुतेः सूर्यमण्डलाभिमानिनो3 देवस्य परमेश्वरत्वाद् विराडादयः [सूर्यात्मकस्य देवस्य मूर्तय] एव । अतस्ताभ्यः पृथक्पृथग् नमस्करोति ॥ यद्वा विराटस्वराट्भ्राजः अग्निवाय्यादित्याख्याः परमेश्वरस्य तिम्रो मूर्तयः ताभ्यः पृथक्पृथग् नमस्कारं करोति ॥ · तृतीया ॥ अस्तंयते नमोस्तमेष्यते नमोस्तमिताय नमः । विराजे नमः खराजे नमः सम्राजे नमः ॥ २३॥ . अस्तमऽयते । नमः । अस्तमऽएष्यते । नमः । अस्तमऽइताय । नमः । विडराजे । नमः । स्वऽराजे । नमः । समडराजे । नमः ॥२३॥ अस्तंयते अस्तम् अस्ताचलं गच्छते । ईषदस्तमितायेत्यर्थः । एवम् अ- 18 तस्मात् and विष्णुः for तस्मिन् and विष्टः respectively. 23 परमेश्वरस्य. 38 मानिनोपदेषस्य. [अ॰१. सू.१.] ५४० सप्तदशं काण्डम् । २७ स्तमेष्यते गमिष्यते अर्धमस्तमिताय नमः । अस्तमिताय अस्तं संपूर्ण प्राप्ताय नमः । विराजे नम इत्याद्याः पूर्ववद् व्याख्येयाः । अस्तं गच्छ- तोपि सूर्यस्य उक्तलक्षणावस्थात्रयनिबन्धना विराडादिसंज्ञाः सन्ति । अ- स्तयदवस्थायां किंचिदूनकृत्स्नप्रकाशसंभवाद् विराड्भवति । अर्धमस्तमितस्या- पि अर्धोदितवत् स्वराटत्वम् अस्त्येव । अस्तमितस्यापि “अग्निं वावादि- "त्यः सायं प्रविशति1 । तस्माद् अग्निर्दूरान्नक्तं ददृशे । उभे हि तेजसी "संपद्येते" [तै बा.२.१.२.९] इति श्रुतेः · अग्न्यात्मनावस्थानात् स- म्राट्त्वं न ह्रीयते ॥ अथ वा सर्वदा मेरुं परिभ्रमतः सूर्यस्य स्वत उद- यास्तमयाभावाद् अस्मदादिदर्शनतिरोधानतारतम्याद् उदयास्तमयव्यपदेशः । आतः उदयास्तमययोस्त्रैविध्येन विराडादिमूर्तयः उपासनार्थे शास्त्रे निर्दि- ष्टाः ॥ मध्यन्दिनस्यापि उदितावस्थायाम् अन्तर्भावात् उक्तलिङ्गेन माण- षकस्य आयुरभिवृद्ध्यर्थं त्रिकालम आदित्योपस्थाने अस्यानुवाकस्य विनि- योग उक्तः॥ चतुर्थी ॥ उदगादयमादित्यो विश्वेन तपसा सह । सपत्नान् मह्यं रन्धयन मा चाहं द्विषते रधं तवेद् विष्णो बहुधा वीर्याणि। त्व नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमिन् ॥२४॥ उत् । अगात् । अयम् । आदित्यः । विश्वेन । तपसा । सह । सऽपत्नान् । मह्यम् । रन्धयन् । मा । च । अहम् । द्विषते । रधम्। तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । नः । पृणीहि । पशुडभिः। विश्वडरूपैः । सुऽधामि । मा। धेहि । परमे । विऽओमन् ॥ २४ ॥ अयं सर्वैः परिदृश्यमान आदित्यः उदगात् उदितवान् । कीदृशः सन् । विश्वेन कृत्स्नेन तपसा सकललोकसंतापकेन रश्मिनिचयेन सह । अप्र- तिबद्धम् उदयतः सूर्यस्य रश्मीनां राक्षसादिकृतन्यूनताक2रणाभावाद् विश्वे- 15 प्रषिशतीति. 29 °कारणाभावात्. २६ अथर्वसंहिताभाष्ये नेति विशेषितम् ॥ उद्यन्तम् आदित्यम् उपतिष्ठमान आह । मह्यं मद- र्थं सपत्नान् शत्रून् रन्धयन् वशं प्रापयन् । उदयस्येष सपत्नान् मम वशं गमयतित्यर्थः । अहं च द्विषते अप्रियं कुर्वते द्वेष्ट्रे मा रधम् त- स्य वशो मा भूवम् । हे सूर्य उदयतस्तवानुग्रहाद् इति शेषः ॥ तवेद् विष्णो बहुधा इत्यादेर्मन्त्रशेषस्य व्याख्या पूर्ववद् द्रष्टव्या ॥ पञ्चमी॥ आदित्य नावमारुक्षः शतारित्रां स्वस्तये। . अहर्मात्यपीपरो रात्रि सत्राति पारय ॥ २५ ॥ आदित्य । नावम् । आ । अरुक्षः । शतऽअरित्राम् । वस्तये। अहः । मा। अति । अपीपरः। रात्रिम् । सत्रा । अति । पारय ॥२५॥ हे आदित्य त्वं नावम् रथलक्षणाम् आरुक्षः आरूढोसि आकाशा- ख्यस्य समुद्रस्य तरणाय । नौर्विशेष्यते । शतारित्राम् उदकाकर्षणसाध- नानि काष्ठानि अरित्राणीत्युच्यन्ते । अनेकार्नौगतिसाधनैरुपेताम् । अत्र ग्रहमण्डलाकर्षका वायव एव अरित्राणि । आरोहणमयोजनम् आह । स्वस्तये सर्वेषां प्राणिनां क्षेमाय । अथ स्वाभिमतम् आशास्ते । एवंरूपां नावम् आरूढस्वं मा माम अहरत्यपीपरः1 आत्यपारयः । आध्यात्मि- काधिदैविकाधिभौतिकलक्षणत्रिविधाशा2यपरिहारेण अह्व-: पारं प्रापितवान् असि । 3एवमेव रात्रिमपि सत्रा सहैव अह्ना सह मध्ये व्यवधानम् अ- कृषा माम् अति पारय रात्रेः पारं गमय । अहोरात्रयोः संधौ मर- णादिभयशङ्कया आह सत्रेति । अनेन ज्वरशिरोव्यद्यादिपरिहारेण आयु- रभिवृद्धिः प्रार्थिता भवति ॥ अथ वा एवं व्याख्येयम् । हे आदित्य नावम् त्यामेव नौरूपम् 4आरुक्षः आरुक्षम् आरोहम् आरूढश्च त्वया अह्न- पारं प्रापितवान् अस्मीति व्याख्येयम् । यथा1 नौः स्वस्मि्न्नधिष्ठितं 5यथा6भिमतदेशं गमयति एवं न6यसीति [वं] नौः । आरुहेर्लुङि 18 महरयस्यपीपरः, 28 "धिषिधाधुम्पाय.38 य एषमेष, 48 आरूक्षमापित- वानस्मि for आरूक्षः आरूक्षम् आरोहम् आरूढश्च त्वया अङ्क पारं प्रापितवान् अस्मि which is conjectural. 58'यथादित्य for यथा. 6S inserts मवि before यथाभि 78नय- मिति नौस for नयसीति [स्वं] नौः आ. The emendation is conjectural. [अ०१. सू.१.] ५४० सप्तदशं काण्डम् । २९ "शल इगुपधाद् अनिटः क्सः" इति क्सः। तस्मिन पक्षे श- तारिषाम् इति शतशब्दः अपरिमितवचनः । अपरिमितरश्मिरूपारिबोपे- ताम् इत्यर्थः । किमर्थम् आरोहणम् इति । स्वस्तये क्षेमाय सर्वोपद्रव- राहित्येन चिरकालजीवनाय । स्वस्तिशब्दार्थं विंशिनष्टि । अहर्मात्यपीपर इत्यादिना । अहनि रात्रौ च सुखेन अवस्थानमेव क्षेमः । अपी- पर इति । पारयतेर्लुंडि चङि रूपम्॥ षष्ठी ॥ सूर्य नावमारुक्षः शतारित्रां स्वस्तये। रात्रिं मात्यपीपरोहः सत्राति पारय ॥ २६ ॥ सूर्य । नाम । आ । अरुक्षः । शतऽअरित्राम् । स्वस्तये । • रात्रिम् । मा । अति । अपीपरः । अहः । सत्रा । अति । पारय॥२६॥ पूर्ववदेव ब्याख्या । अहरित्यस्य स्था1ने रात्रिम् इति रात्रिम इत्यस्य स्थाने अहरिति व्यत्ययमात्रं विशेषः । पूर्वमन्त्रे अहनि सूर्यानुग्रहेण सु- खेन जीवनं सिञ्चवत्कृत्य रात्रौ तद्विषये संदिहानो रात्रिं सत्राति पारये- ति प्रार्थितवान् । अस्मिंस्तु मन्त्रे रात्री सूर्यानुग्रहेण रात्रेः पारं प्राप्य प्रबुद्धः सन आह । हे सूर्य रात्रिं मा आयपीपरः 2रात्रिपारं प्रापित- वान् असि । एवमेव अहः अहरपि सत्रा रात्र्या सह तयोर्मध्ये व्यव- धानराहित्येन अति पारय । एवं मन्त्रद्वयेन दिनद्वयेपि सांतत्येन सुखेन जीवनं प्रार्थितं भवति ॥ एवं प्रतिदिनं त्रिषु कालेषु अनेनानुवाकेन सू- र्योपस्थानं कुर्वतो माणवकादेः शतसंवत्सरलक्षणं दीर्घम् आयुर्भवति । अ- तः एवमादिलिङ्गाद् आयुष्कामस्य कालत्रये सूर्योपस्थाने अस्यानुवाकस्य विनियोग उक्तः ॥ आदित्यसूर्ययोः पर्यायत्वं गमयितुम् उत्तरमन्त्रे सूर्यं नावम् इति निर्दिष्टम्3 ॥ . सप्तमी॥ प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च । 1' स्थानेत्र for स्थाने. 25 गणिपार. 3 8' यनिर्दिष्टम् for निर्दिष्टम्. अथर्वसंहिताभाष्ये जरदष्टिः कृतवीयों विहायाः सहस्रायुः सुकृतश्चरेयम् ॥ २७ ॥ प्रजाऽपतेः । आऽवृतः । ब्रह्मणा । वर्मणा । अहम् । कश्यप॑स्य । ज्योतिषा। वर्चसा । च। जरतऽअष्टिः । कृतऽवीर्यः । विडहायाः । सहस्रऽआयुः । सुडकृतः । चरे- यम् ॥२७॥ प्रकाशवृष्ट्यादिना प्रजानां पालनात् प्रजापतिः आदित्यः । अथ वा संवत्सरकालनिर्वाहकत्वात् तस्य च प्रजापतिरूपत्वात् सूर्यः प्रजापतिः । त- स्य ब्रह्मणा परिवृढेन रूपेण। कीडशेन । वर्मणा । वर्म तनुत्रम् तद्रू- पेण सूर्यस्य ते1जोमयेन स्वरूपेण आवृतः वेष्टितः । अथ वा प्रजापतिः प्रजानां स्रष्टा हिरण्यगर्भः । “स त्रेधात्मानं व्यकुरुत । अiग्नि तृतीयं वायुं तृतीयम् आदित्यं तृतीयम्” इति [वृ. आ°१.२.३] श्रुत्या प्र. जापतेर्मूर्यन्तरभूत आदित्यः । स एव ब्रह्म “असावादित्यो ब्रह्म" इति [तै आ.२.२.२] श्रुतेः । तदेव ब्रह्म स्वोपासकस्म वर्मवद् आच्छाद- कत्वाद् वर्म इत्युच्यते । तेन आवृतो वेष्टितोहम् । अथ वा प्रजापतेः आदित्यस्य ब्रह्मणा मन्त्रमयेन वर्मणा । तत्स्वरूपनिरूपकत्वेन संबन्धाद् ब्रह्मणो मन्त्रस्य तदीयत्वम् । तेन परिवृतः । रक्षित इत्यर्थः । किं च कश्यपस्य । “कश्यपः पश्यको भवति यत् सर्व परिपश्यति" इति [. आ०१...] श्रुतेः कश्यपः सूर्यस्य मूर्त्यन्तरभूतः । तथा च श्रुत्यन्त- रम् । “आरोगो भ्राजः पटरः पतङ्गः । स्व2र्णरो ज्योतिषीमान विभा- "सः । ते अस्मै सर्वे दिवम् आतपन्ति । ते सर्वे कश्यपाज्योतिर्लभ- "न्ते" इति [तै आ°१.७.२] । “कश्यपोष्टमः । स महामेरुं न ज- हाति" इति च [तै आ०१.७.१] । तादृशस्य कश्यपस्य प्रकाशमयस्य ज्योतिषा । द्योतत इति ज्योतिः । तेन प्रकाशेन । । धुत दीप्तौ इत्यस्माद् द्युतेरिसिन् आदेश्च जः [उ०२.१०९] इति इसिन् आदेर्जभा- वश्च । तथा तस्य वर्चसा च ज्योतिरित्यस्य व्याख्यानम् वर्चसेति । वर्चः तमस आवर्जकं तेजः। वर्च दीप्तौ इति धातुः । च- 1 तेजोमयेन स्वरूपेण वर्मणा आवृतः for तेजोमयेन स्वरूपेण आवृतः, 2 स्वर्नरो. ३१ . [अ॰१. सू.१.] ५४० सप्तदशं काण्डम् । कारो ब्रह्मणा सह समुच्चयार्थः । अथ वा ज्योतिः स्वरूपप्रकाशः । व- र्चो रश्मिप्रकाशः । चशब्दो ज्योतिषा समुच्चयार्थः । ज्योतिषा आवृतो वर्चसा च 1आवृतोहम् इत्यर्थः । तथा च तैत्तिरीयकम् । “परीवृतो वरीवृतो ब्रह्मणा वर्मणाहं तेजसा कश्यपस्य" [तै आ०२. १९] इति ॥ अथ वा एवं व्याख्येयम् कश्यपाद् उदिताः सूर्याः “कश्यपाज्योतिर्ल- भन्ते" इत्यादिश्रुतेः । कश्यपः इतरेषां सूर्याणां मुख्यः । स एवात्र प्र- जापतिशब्देनोच्यते । तस्य ब्रह्मणा वर्मणा आवृतः इत्यस्य व्याख्यानं क- श्यपस्य ज्योतिषा वर्चसा चेति । अस्मिन् पक्षेपि चशब्दः अस्य ज्योतिषा सह समुच्चयार्थः ॥ बाह्यापायपरिहाराय वर्मणा आवरणम् आशास्स अथ भोगम् आशास्ते जरदष्टिरित्यादिना । जरदष्टिः । जरत इति । जीर्यतेर्भूतकालावच्छिन्नेर्थे अतृन । जीनः सन्नपि अष्टिः अशनं भोजनं यस्य स जरदष्ठिः । अनेन अरोगहढगात्रः सन बहुविधान भो- गांश्चिरकाल भुञ्जानो भवेयम इति प्रार्थना कृता भवति । तथा शत- वीर्यः अपरिमितैर्वीर्यैः शारीरैर्बलैर्युक्तः अनेकपुत्राद्युत्पादनसामर्थ्योपेतो वा। विहायाः विविधगमनः । सर्वत्र अप्रतिबद्धगतिरित्यर्थः । ओहाङ् गतौ । वहिहाधाञ्भ्यश्छन्दसि [उ०४. २२० ] इति असुन । तत्र णिदि- त्यनुवृत्तेर्णिङ्वद्भावाद् “आतो युक् 3चिंण्” इति युगागमः । त- था सहस्रायुः अपरिमितायुष्यः । सुकृतः सुष्ठु संस्कृतः सर्वसंपूर्णः सन् । अथ वा लौकिकं वैदिकं च यत कर्तव्यजातम् अस्ति तद् येन सुष्टुं कृतं स सुकृतः । कृतकृत्य इत्यर्थ- । तादृशः सन् । यद्वा सुकृतः सुकृतवान् सुकृतं धर्मस्तान् चरेयम् सर्वत्र पृथिव्यां गच्छेयम् । एतत् सर्वम् हे सूर्य तवानुग्रहात् संपादयामीति4 आशास्ते ॥ अष्टमी ॥ परीवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च । मा मा मापन्निषतो दैव्या या मा मानुषीरवसृष्टा वधार्य ॥ २४ ॥ परिऽवृतः। ब्रह्मणा । वर्मणा। अहम् । कश्यपस्य। ज्योतिषा । वर्चसा । च। 1s om. भा'. 28 छन्दसीति for चिण् इति. 39 संपायामिति. .३२ अपर्वसंहिताभाषे मा। मा ।प्र। आपन । इषवः । दैव्याः। यौ। मा । मानुषीः । अवऽसृ- ष्टीः । वधाय ॥ २ ॥ परीवृत इत्यादि वर्चसा च इत्यनां पूर्ववद् व्याख्येयम् । यतोहं ब्र- ह्मणा वर्मणा ज्योतिषा वर्चसा च परीवृतः [अतो] दैव्याः देवप्रेरि- ताः। "देवाद् यञञो" [इति] प्राग्दीव्यतीयो यञ् प्रत्ययः । या इषवः बाणाः सन्ति ता मा मां [मा] प्रापन् । इषवो विशेष्यन्ते । - धाय मम हननाय अवसृष्टाः प्रेरिताः मा प्रापन् । मा प्राप्नुयुः । ए- वं मानुषीः मानुष्यः मनुष्यैर्वधाय प्रेषिता अपि इषवो मा मां पापन् । नवमी॥ ऋतेन गुप्त ऋतुभिश्च सर्वैर्भूतेन गुप्तो भव्येन चाहम्। मा मा प्रापत् पाप्मा मोत मृत्युरन्तर्दधेडहं सलिलेन वाचः ॥ २९ ॥ ऋतेन । गुप्तः । ऋतुऽभिः । च । सर्वैः । भूतेन । गुप्तः । भव्यैन । च । __ अहम। मा। मा।प्र। आपत् । पाप्मा । मा। उत । मृत्युः । अन्तः । दधे। अ- • हम् । सलिलेन । वाचः ॥ २९ ॥ अहम ऋतेन । ऋतम् यथार्थम् । सत्यम् इत्यर्थः । तेन गुप्तः रक्षितः । अथ वा ऋतं ब्रह्म आदित्याख्यम् तेन गुप्तः । तथा [सर्वैः] ऋतुभिः वसन्ताद्यैश्च गुप्तो रक्षितः । तथा भूतेन पूर्वकालम् उत्पन्नेन पदार्थजा- तेन गुप्तः । एवं भव्येन उत्पत्स्यमानेन च पदार्थजातेन गुप्तो रक्षितः । यत एवम् अतो हेतोः पाप्मा पापं नरकहेतुभूतं मा मां मा प्रापत् मा प्राप्नुयात् । उत अपि च मृत्युः मरणकर्ता देवोपि मा प्रापत् । अहं तु वाचो मन्त्रात्मिकायाः सलिलेन उदके1न रक्षाकामः अन्तर्दधे अन्तर्धा- नं करोमि । यथा लोके सलिलेनान्तर्हितः प्राणी न केनापि दृश्यते १Pदेव्याः ।. We with PICr. RPFICP omit the visarga in याः. We with Suyana. ३PPJCP ornit the visarga in सृष्टाः . We with Saynna.. 18 अहं after उदकेन । ३३ [अ॰१. सू०१.] ५४० सप्तदशं काण्डम् । एवम् अहं मन्त्रमयेन सलिलेन पापादिबाधराहित्याय आत्मानं गोपया- मीत्यर्तः ॥ दशमी॥ . . अग्निर्मा गोप्ता परिं पातु विश्वत उद्यन्त्सूर्यॊ नुदतां मृत्युपाशान् । ___ व्युच्छन्तीरुषसः पर्वता ध्रुवाः सहस्रं प्राणा मय्या यतन्ताम् ॥३०॥ (३) अग्निः । मा। गोप्ता । परि । पातु। विश्वतः । उतऽयन् । सूर्यः। नुदताम् । __ मृत्युऽपाशान। । विऽउच्छन्तीः । उषसः । पर्वताः । ध्रुवाः । सहस्रम् । प्राणाः । मयि । आ। यतन्ताम् ॥ ३० ॥ (३) • अग्निः अङ्गनादिविशिष्टो देवो गोप्ता स्वाश्रितरक्षकः अथ वा मम भयेभ्यो गोप्ता सन् विश्वतः सर्वतः यतोयतो भयं भवति तेभ्यः सर्वेभ्योपि [मा] परि पातु परितो रक्षतु । तथा सूर्यो देवः उद्यन् उदयसमय एव मृत्युपाशान् मृत्योर्मारकस्य देवस्य ये पाशाः सर्पाग्निव्याघ्रकण्टकादि- रूपा वितताः सन्ति तान् सर्वान् नुदताम् अपसारयतु । यथा ते मां न स्पृशन्ति तथा करोतु । अत्र उद्यन्त्सूर्यो नुदताम् इत्यभिधानात् अ- ग्निर्मा गोप्ता परि पात्विति अग्निविषयपरिपालनप्रार्थना उदयात्पूर्वकाली- नरात्रिविषया वेदितव्या । तथा व्युच्छन्तीः व्युच्छन्त्यः । उछी विवासे । विवासो वर्जनम् । नैशस्य तमसो निवारयित्र्य उषसः उषोदेवता उदयापूर्वकालाभिमानिन्यः । दिवसानां वाहुल्यम् अ- पेक्ष्य उषस इति बहुवचननिर्देशः। तथा ध्रुवाः निश्चलाः स्थिराः पर्वताः पर्ववन्तः शैला हिमवदादयश्च । मृत्युपाशान् नुदन्ताम् इति यो- ज्यम् । माम् अनुगृहन्त्विति वा शेषोध्याहर्तव्यः । तेषाम अग्न्यादी- नाम् अनुग्रहात् सहस्रं प्राणाः । सहस्रम् इति अपरिमितनाम । प्रा- णस्य व्यापारभेदेन आनन्त्याद् अपरिमितत्वम् । ते मयि आयुष्कामे आ सर्वतो पतन्ताम् चेष्ठां कुर्वन्तु । अथ वा प्राणसंवादश्रुतिषु इन्द्रियाणा३४ अथर्वसंहिताभाष्ये मपि प्राणशब्दव्यवहार्या1वश्रवणात् "सप्त प्राणाः प्रभवन्ति" [तै..आ. १०:१०.१] “नव वै प्राणा नाभिर्दशमी" [तै. ब्रा.१.३.७.४] इत्यादौ [च] चक्षुरादीन्द्रियाणामपि प्राणशब्दव्यवहारात् तेषामपि स्थैर्यस्य मुख्यप्राणवदेव आशास्यत्वात् तव्द्यापारबाहुल्यमपि अपेक्ष्य सहस्र प्राणा मय्या यतन्ताम् इत्युक्तम् ॥ श्रीमद्राजाधिराजराजपरमेश्वरश्रीवीरहरिहरमहाराजसाम्राज्य- धुरंधरेण सायणाचार्येण विरचिते अथर्ववेदार्थप्रकाशे ___सप्तदशकाण्डं समाप्तम् ॥ 13 व्यवहारार्थत्व.. श्रीगणाधिपतये नमः॥ यस्य निश्वसितं वेदा यो वेदेभ्योखिलं जगत् । निर्ममे तम् अहं वन्दे विद्यातीर्थमहेश्वरम् ॥ "ओ चित् सखायम्" इति अष्टादशकाण्डे चत्वारोनुवाकाः । तत् काण्डं सकलं पितृमेधे शव1दाहे अग्निमदानानन्तरं सप्तनवैकादशादिविषम- संख्याका ब्राह्मणाः 1पूर्वाभिमुखोपविष्टा जपेयुः ॥ __तत्रैव कर्मणि सारस्वतहोमानन्तरं सर्वे बान्धवा अनेन काण्डेन सक- लेन प्रेतम् उपतिष्ठेरन् । तथा च कौशिकेन सूत्रितम् । ["सर्वैरुपतिष्ठ- न्ति" इति । कौ०११.२] ॥ तत्र प्रथमेनुवाके षट् सूक्तानि । आदितश्चतुर्णां सूक्तानां काण्डप्रयुक्त एव विनियोगः2 । तेषु प्रथमेन सूक्तेन द्वितीये च सूक्ते “अधा कृणुष्व संविदं सुभद्राम्" इत्यन्तेन च वैवस्वतयोर्यमयम्योः संभोगार्थः संवादः प्रतिपादितः । तत्र यमी मिथुनार्थं 4स्वभ्रातरं यमं बहुमकारं प्रार्थितव- ती । स च स्वभगिनीगमनस्य जायन्तम् अनुचितत्वाद् नानाविधाभिर्यु- क्तिभिस्तां प्रत्याचख्यौ । तयोर्यमयम्योः 5सरण्य्वां विवस्वतः सकाशाद् यु- गल6भावेनोत्पत्तिः उपरिष्टात् "त्वष्टा दुहित्रे वहतुं कृणोति" [५३] इत्या- ख्यायिकया प्रपञ्चयिष्यते ॥ तत्र प्रथमसूक्ते प्रथमा । ओ चित सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान्। पितुर्नपतिमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः॥१॥ PCBR AKV जघन्वान् 1 देहे. 2 is corrupt here and reads पूर्वाभिजपामुखयुगाद्यात् for पूर्वाभिमुखोप- विष्टा जपेयुः।. The restoration is in the words of the Kesaths insert-तत्र प्रथ- मेनुवाके पद सूक्तानि here again. 4' स्वभर्तारं. 5 सरण्यां. 6 भावेननोत्पत्तिः. अथर्वसंहिताभाष्ये ओ इति । चित् । सखायम् । सख्या । ववृत्याम्। तिरः। पुरूं। चित् । अ- •र्णवम् । जगन्वान् ।। पितुः । नपातम् । आ । दुधीत । वेधाः । अधि । क्षमि । प्रडतरम् । दी- ध्यानः ॥ १॥ . इदं यम्या वचनम् । अहं सखायम् समानख्यानं यमम् । यैव विव- स्वत्पुत्रलक्षणा ख्यातिर्यमस्य सैव यम्या अपीति ख्याते: समानात्वात् स- स्त्रित्वं यमस्य । अथ वा गर्भवासप्रभृति युगलत्वेन अवस्थानात् सखि- त्वम् । तादृशं यमं सख्या सखित्वेन संभोगविषयैकमनस्कावलक्षणेन नि- मित्तेन ओ चित् । चिदिति पूरणः । आ उ इति निपातादयसमुदाया- त्मकम् ओ इत्येकं पदम् । आ ववृत्याम् आवर्तयामि । अस्मदनुकूलं 2करोमीत्यर्थः । अथ वा स्वमनीषितस्य अविहितरूपात्वात् लज्जया स्वयं तम् आवर्तयितुम् अशक्नुवाना ब्रूते सख्या आह्वानोपायभूतया आ - वृत्याम् इति । इदानीं संभोगोचितान्तर्हितप्रदेशमदर्शनपूर्वकं तत्संभोगम् आशास्ते तिरः पुरू चिद् इत्यादिना । तिरस्तिरोहितं पुरु विस्तीर्णम् अ- र्णवम् मेघं समुद्रं वा जगन्वान् गच्छन् । अत्र समुद्रशब्देन तन्मध्यव- ती द्वीपो वा लक्षयितव्यः । संभोगस्य अन्तर्हितदेशाभावेन यमः प्रति- षेत्स्यतीति बुद्ध्या एवम् आह । एवं लभाभिमतप्रदेशो यमः पितुर्विध- स्वतो नपातम् नमारं पौत्रं यम्याम् उत्पन्नः पुत्रस्तत्पितुर्विवस्वतो नप्ता भ- वति । अथ वा नपातम् न पातयितारं कुलस्य प्रवर्तकम् इत्यर्थः । तादृशं पुत्रं वेधाः विधाता पुत्रस्य उत्पादको यमो मयि आ दधीत ग- र्भे किम् आदध्यात् । गर्भम् आधा3तुं भ्रात्रैव भाव्यम इति को निर्ब- न्ध इत्याशङ्कय तस्मातिशयम् आह अधि क्षमीति । अधिः सप्त- म्यर्थानुवादी । क्षमायाम् इत्यर्थः । प्रतरम प्रकृष्टतरं दीध्यानः दीप्यमानः । न केवलं स्वकीय एव लोके तस्य प्रकाशः किं तु भूमा- - १P पुर ।, We with cr. 1 "विषयेरक° for "विषयक. 2 रामात्यर्थः for करोमीत्यर्थः आधतुं किं भ्रात्रैवाभाव्यम्. [अ०१. सू.१.] ५४१ अष्टादशं काण्डम् । चपि अतिशयितत्पकाश इत्यर्थः । सर्वप्राणिसंहाराधिकारावस्थितत्वाद् 1भू- लोके तस्य ख्यातिः सर्वप्राणिप्रसिद्धा2 । यद्वा दीध्यानः मयि गर्भम् आ- धातुम् उपाये ध्यायन्निति व्याख्येयम् । ववृत्याम् इति । वृतु व- र्तने । अस्मात् लिङ् । व्यात्पयेन परस्मैपदम् । “बहुलं छन्दसि" इति शषः स्युः । यद्वा अस्माद् यङ्लुगन्तात् लिङि"चर्करीतं पदम अदादि- वच्च द्रष्टव्यम्" इति परस्मैपदम् । जगन्वान् । गमेर्लिटः क्वसुः । “वि- भाषा गमहनविदविशाम्" इति इटो विकल्पितात्वाद् अत्र इडभावः । "म्वोश्च" इति मकारस्य नावम् ॥ द्वितीया ॥ न ते सखा सख्यं वष्टयेतत् सलक्ष्मा यद् विषुरूंपा भवाति । . महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥ न । ते । सो । सख्यम् । वृष्टि । एतत् । सऽलक्ष्मा । यत् । विपुऽरूपा। भवाति । महः । पुत्रासः । असुरस्य । वीराः । दिवः । धर्तारः । उर्विया । परि। ख्यन् ॥२॥ . इदं यमस्य वाक्यम् । ते सखा 3त्वया सह समानोदरोत्पन्नत्वेन स- खिभूतो यमः एतत् उक्तलक्षणं भ्रातृ4स्वस्रोः संभोगात्मकं सख्यं न वष्टि न कामयते । सख्यं कुतो5 वा न कामयत इति तत्र कारणम् आह । यत यस्मात् सलक्ष्मा समानम् एकमेव लक्ष्म एकोदरवलक्षणं यस्याः सा तथोक्ता सहा सती विषुरूपा स्वसृरूपं परित्यज्य भार्यावलक्षणरू- पवती भवाति भवेत् अतो न वष्ठीति संबन्धः । यद्वा वाक्यद्वयम् । यत् यतः सलक्ष्मा अतो न सख्यं वष्टि । लोके विषुरूपैव भवाति भवति । भायेंति शेषः । यत एवम् अत इति पूर्वत्र संबन्धः । न केवलं मम १B विषरूपा. We with ARkcy De. C I. We with P. 1s inserts स before भूलोके. 23 सिद्धा for प्रसिद्धा. S has अ---सिक्षो. त्पन्न in place of ते सखा त्वया सह समानोदरो', the lacuna being long enough to con- tain about twenty letters. The restoration is conjectural. 48 भ्रातुःस्वस्रो. 8 कोवा. 68 सहरा. 78 भार्याभवतीति for भायेंति. ३८ अथर्वसंहिताभाष्ये । कामनाभावः किं तु देवा अपि निराकरिष्यन्तीत्याह महस्पुत्रास इत्या- दिना । महः महतो महत्वोपेतस्य असुरस्य प्रकृष्ठासोर्बलवतो रुद्रस्य पु- त्रासः पुत्रा मरुतः । ते विशेष्यन्ते1 । वीराः विविधम् ईरयन्ति प्रेरयन्ति शत्रून् इति वीराः विक्रमवन्तः । दिवः धुलोकस्य धर्तारः धारकाः पा- लकाः उर्विया2 उरवो महान्तो व्याप्ताः ते परि ख्यन परिवदन्ति । नि- राकरिष्यन्तीत्यर्थः । ख्या, प्रकथने । “अस्यतिवक्तिख्यातिभ्योङ्" इति श्लेः अङ् आदेशः ॥ __ तृतीया ॥ उशन्ति घा ते अमृतास एतदेकस्य चित् त्यजसं मर्त्यस्य । नि ते मनो मनसि धाय्यस्मे जन्युः पर्तिस्तन्वमा विविश्याः ॥ ३॥ उशन्ति । घ। ते । अमृतासः । एतत् । एकस्य । चित् । त्यजसम् । मर्त्य॑स्य । नि । ते । मनः । मनसि । धायि । अस्मे इति । जन्युः । पतिः । तन्वमि । आ। विविश्याः ॥ ३॥ इदं यमीवचनम् । हे यम रुद्रपुत्रा निराकरिष्यन्तीति मा वादीः । किं तु ते अमृतासः अमृता देवा मरुतः एतत् मया प्रार्थ्यमानं कर्म उशन्ति घ । घेति प्रसिद्धौ । कामयन्त एव । एतच्छब्दार्थम् आह । एकस्य असाधारणस्य मर्त्यस्य मनुष्यस्य पुत्रस्य त्यजसम् त्यागं गर्भान्नि- र्गमनम् उत्पत्तिम् उशन्तीति संबन्धः । यत एवम् अतस्ते 3मनः अस्मे अस्माकं मनसि नि धायि निधीयताम् । आवयोर्मनः एकमेवास्वित्यर्थः । अनन्तरं जन्युः4 अपत्यस्यं जनयिता त्वं पतिः । भूवेति शेषः । भ्रातृभावं परित्यज्य पतिः सन् तन्वम् तनूं मामकीनाम आ विविश्याः आविश प्रविश । यद्वा तव तनूं मयि आवेशय । संभोगं कुर्वित्यर्थः । वि. श प्रवेशने । लिङि “बहुलं छन्दसि" इति शपः शुः ॥ चतुर्थी ॥ _ न यत पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम । 1 विलेभ्यते. 2 उर्व्या. 3 नमः 4 जन्युपरइत्यस्य. [अ०१. सू०१.] ५४१ . अष्टादशं काण्डम् । ' गन्धर्वो अप्स्वप्या च योषा सा नौ नाभिः परमं जामि तन्नौ ॥ ४॥ न । यत् । पुरा । चकृम । कत् । ह । नूनम् । ऋतम् । वदन्तः । अनृतम्। रपेम। गन्धर्वः । अप्ऽसु । अयो । च । योषो । सा। नौ । नाभिः । परमम् । - जामि । तत् । नौ ॥ ४ ॥ इदं यमस्य वाक्यम् । यत् यस्मात् कारणात् पुरा इतः पूर्वस्मिन का- ले न चकृम एतादृशं कर्म भगिनीसंभोगलक्षणं न चकृम न कृतवन्तः स्मः अतः कड्ध कस्मात् खलु कारणात् नूनं निश्चयम् । किमर्थं करि- ष्याम इति शेषः । तदेव प्रकारान्तरेणाह । ऋतम् सत्यं यथार्थं वदन्तः ब्रुवाणा वयम् अनृतम् असत्यम् अयथार्थ् कथं रपेम स्पष्टं ब्रूमः । “य- ड्धि मनसा ध्यायति तद् वाचा वदति तत् कर्मणा करोति" इति [तै. सं० ६.१.७.४] श्रुतेः असत्याभिधाने अङ्गीकृते पश्चात् तदाचरणमपि भवेदेवेति1 बुद्ध्या असत्यवदनमपि न कुर्म इति प्रतिज्ञाया अभिप्रायः । अथ वा संभोगो मास्तु तद्विषयं2 शृङ्गारकवचनं वा कर्तव्यम् इत्याशङ्कय तदपि निराक्रियते ऋतम् इत्यादिना ॥ उक्तनिषेधसिद्धये नि3षिध्यमान- स्वार्थस्य प्रतिकूलताम आह गन्धर्व इत्यादिना । गाम् उदकं धारयती- ति गन्धर्वः आदित्यः अप्सु । अन्तरिक्षनामैतत् । अनाश्रये स्थाने अस्य शब्दस्य व्यवहारः । 4अन्तरिक्षे । 5साक्षित्वेन वर्तत इति शेषः । तथा अ- प्या [अन्तरिक्षस्था सा प्रसिद्धा योर्वा] च आदित्यभार्या च अन्तरिक्षे वर्तते । सा भार्या नौ आवयोः नाभिः उत्पत्तिस्थानम् उभयोरपि तत एवोत्पत्तेः । तत मिघुनं परमं निरतिशयं [नौ आवयोः] जामि बन्धु- भूतम् । अत्र भार्याया नाभिभावेऽभिहिते तत्पतिर्विवस्वानपि उक्त एव अ- तस्तस्य पुनरभिधानं] न । यद्वा मानुरुदरादेव गर्भनिर्गमात् सा नौ ना- भिरिति तस्या एवाभिधानमः । इतरेषां बन्धुत्वस्य मातापितृसंबन्धसव्यपे- NCP जामि। 15 भवेदेवेविपबुमा for भदेवेति बुया. 28 तद्विषयंगारकवचनं. 35 निषेध्य . 48 अंतरिक्षसाक्षि. 58 omits this portion, which we have restoreal firom the Piyreda.s has a blank space for about eight letters between अप्या and च. ४० अथर्वसंहिताभाथे क्षत्वात् तयोर्बन्धुत्वस्य परमावम् । यतः पितरावभिन्नौ तौ च संनिहि- तौ अतस्त्वदभीष्टं न कार्यम् इति तात्पर्यम् ॥ . पञ्चमी॥ गर्भे नु नौ जनिता दंपती कर्देवस्त्वष्टा सविता विश्वरूपः । नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥ ५ ॥ गर्भे । नु । नौ । जनिता । दंपती इति दम्ऽपती । कः । देवः । त्विष्टा । __ सविता । विश्वरूपः। नकिः । अस्य । प्र । मिनन्ति । व्रतानि । वेदं । नौ । अस्य । पृथिवी। उत । द्यौः ॥५॥ यस्या वचनम् इदम् । एवम् एकयोनिजावेन दांपत्ये निराकृतेपि1 तत् पूर्वमेव सिद्धम् इत्याह । नौ आवां गर्भ नु गर्भ एव जनिता जनयि- ता अपत्यस्य स्रष्टा देवः दंपती दांपत्यवन्तौ कः अकः कृतवान् । क- रोतेर्लुङि “मन्त्रे घस" इत्यादिना च्लेर्लुक्। क इति आकाङ्क्षा- याम् आह । त्वष्टा.मातुरुदरस्थितस्य रेतसः अवयवसंनिवेशकर्ता विश्व- कर्मा देवः सविता प्रसविता सर्वस्य अनुज्ञाता विश्वरूपः विश्वं रूप्यते येन सः विश्वस्रष्टा विश्वात्मको वा । एवंमहानुभावो देवः । दंपती करिति पूर्वत्र संबन्धः । यस्माद् उक्तमहिमोपेतः अतः अस्य त्वष्टुः सवितुः व्रता- नि तत्कृतानि कर्माणि नकिः प्र मिनन्ति न हिंसन्ति न क्वेपि अति- क्रामन्ति । मीञ् हिंसायाम् । “प्वादीनां ह्रस्वः" इति ह्रस्वः । "श्र्नाभ्यस्तयोरातः” इति आकारलोपः । एतत् सर्वं स्वकार्यार्थ कल्पितम् इति आशङ्कायाम् आह वेद नौ इति । नौ आवयोः अ. स्य । कर्मणि षष्ठी । इदं कर्म गर्भ एव 2दंपतित्वलक्षणम् । यद्वा अस्य त्वष्टुर्देवस्य कर्म दंपति3करणलक्षणं कर्म । पृथिवी देवी उत अपि च 4द्यौर्देवता वेद उभे अपि जानीतः । तस्मात् एतद् यथार्थम् इत्यर्थः ॥ ___१PTI. We with F Cr. PCr वेदनौ ! P वेद । नौ ।. 18 oniits oपि in निराकृतेपि. 28 दंपत्यौ for दांपत्यवन्तौ. 38 दंपती. 48 ornits द्यौर् in द्यौर्देवता. [अ०१. सू०१.] ५४१ अष्टादशं काण्डम् । ४१ षष्ठी ॥ को अद्य युक्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्ह्रणायून्। . आसन्निषून ह्रत्स्वसो मयोभून् य एषां भृत्यामृणधत् स जीवात् ॥ ६ ॥ कः। अद्य । युक्ते । धुरि । गाः । ऋतस्य । शिमींऽवतः । भामिनः । दुःऽह्र- णायून। आसनऽईषून । ह्रासुऽअसः । मयःऽभूनं । यः । एषाम् । भृत्याम् । ऋण- धत । सः । जीवात् ॥ ६ ॥ इदं यमस्य वाक्यम् । यम्या असत्यमेवोक्तम् इत्यभिमेत्य सत्याभिधा- न1स्य दुर्लभताम् आह । अद्य इदानीम् अस्मिन् काले ऋतस्य सत्यस्य धुरि वहनव्यापारे 2गाः बलीवर्दस्थानीया वाचः स्वीयाः को युङ्क्ते को 3यो- जयति । न कोपीत्यर्थः । गोशब्दस्य लिङ्गजयसाधारणवाद् उत्तरत्र गोवि- शेषणानि सर्वाण्यपि पुंलिङ्गतया निर्दिष्टानि । शिमीवतः । 4[शमीति ] कर्मनाम । छान्दसम् इत्वम् । कर्मवतः कार्यपर्यवसायिनः । केवलायाः सत्योक्तेः सुलभत्वात् । भामिनः तेजस्विनः लोके सत्यवादा एव जयन्ति "सत्यमेव जयति5 नानृतम्" इत्यादिश्रुतेः [मु°३. १.६] । दुर्ह्रणा- यून । हृणीयतिः क्रोधकर्मा । क्रोधरहितान् इत्यर्थः । यद्वा लज्जारहितान् न हि सत्यवदनविषये क्रोधलज्जे स्तः । ह्रणीङ् लज्जायाम् । कण्ड्वादित्वाद् यक् । अस्माद् उण् प्रत्ययः । अतो लोपे सति वर्णव्यापत्त्या आकारः । मृगय्वादिर्वा द्रष्टव्यः। आसन्नि- 'षून् आसन् आस्ये इष्यमाणान् तस्मात् प्रेर्यमाणान् सर्वदा सत्यविषय- संकल्पवतोपि मुखतः सत्यं वक्तुम् अशक्यम् इत्यभिप्रायेण एवम् उ- च्यते । "पद्दन्" इत्यादिना आस्यशब्दस्य आसन् आदेशः । इव6 गतौ इत्यस्मात् ईषेः किच्च [उ०१.१३] इति [उप्रत्ययः । स च कित्] । ह्रत्स्वसः हृदयेषु हृदयेभ्यः अस्यमानान् श्रोतॄणां हृद- NCP शमी. PP शिमी. 18 भिषामले for "भिधानस्य. 28 पापा: for गाः, 8 यजति. 43 नि for शमीति. 5Sos and not जयते. 6Sos. अथर्वसंहिताभाष्ये येषु क्षिप्यमाणान् वा कण्ठाद् उपरि निर्गच्छन्तः शब्दाः1 संमता लोके हृदयपूर्वकास्तु दुर्लभा इत्यभिप्रायेण हृत्स्वस इत्युक्तम् । असे. र्व्यत्ययेन कर्मणि क्विप् “ तत्पुरुषे कृति बहुलम्" इति सप्तम्या अ- लुक् । मयोभून । मय इति सुखनाम । सुखस्य भावयितृन् स- त्याभिर्वाग्भिः 2सुखं सर्वेषां भवति असत्याभिस्तु असुखं भवतीति लोके सुप्रसिद्धम् एतत् । यः पुरुषो महान् एषाम् उक्तविशेषणयुक्तानां गवां भृत्याम् भृतिं भरणम् । “भृञोऽसंज्ञायाम्" इति क्यप् । तुगा- गमः। ऋणधत् वर्धयेत् । सत्यवचनम् अभिवृद्धं कुर्यात् । ऋधु वृद्धौ । अस्मात लेटि अडागमः । स जीवात् चिरकालं जीवति सत्याभिधानस्य माहात्म्यात् । जीवात् । लेटि आडागमः ॥ सप्तमी ॥ को अस्य वेद प्रथमस्याहः क ई ददर्श क इह प्र वोचत् ।। बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नृन् ॥ ७॥ कः । अस्य । वेद । प्रथमस्य । अह्नः। कः । ईम् । ददर्श । कः । इह । प्र। वोचत । बृहत् । मित्रस्य । वरुणस्य । धाम । कत् । ऊं इति । ब्रवः । आहुनः। वी- च्या । नृन् ॥ ७॥ इदं यम्या वचनम् । [अस्य ] प्रथमस्य अह्नः । कर्मणि प- ष्ट्यौ । प्रथमम् अहः । आवयोः संगमदिवसम् इत्यर्थः । तत् को वेद जानाति । न कोपीत्यर्थः । किं च ईम् इदं कर्मं इदानीं वा को ददर्श पश्येत् । न कश्चित् पश्यतीत्यर्थः । तथा इह एतद्विषये कः पु- मान् 3दृष्टम् अर्थ् प्र वोचत् प्रब्रूयात् दृष्ठम् अर्थम् अन्यस्मै कथयेत् । सोपि नास्त्येव । ज्ञाता नैव किल । द्रष्टा कथयिता च दूरापास्तावि- त्यभिप्रायः । ज्ञानदर्शनमवचनानाम् अविषयं कालं संभावयति बृहदि- 18 has a lacuna for six letters in place of छन्तः शब्दाः 2S has a blank space for tventy or twenty-five letters for त्याभिर्वाग्मिः सुखं सर्वेषां भवति अससत्याभिस्तु असुखं भवतीति लोके. 3'इष्टम्. [ अ°१. सु°१.]५४१ अष्टादशं काण्डम् । त्यादिना । मित्रस्य देवस्य धाम स्थानम् । अहरित्यर्थः । तद् बृहत प्रभूतम् । तथा वरुणस्य तमोवारकस्य देवस्य धाम रात्र्याख्यम् तच्च वृहत् । अहोरात्रयोर्मध्ये कतमश्चन समयः संभोगाय संपत्स्यत इत्यभि प्रायः । तस्मात् हे आहनः । आङ्पूर्वात् 1हन्तेः असुन् . 8 । आ हन्तः अस्मदभिमतस्य अकरणेन क्लेशकारिन् कत् कथं वीच्याः2 विवि. धम् अच्चन्तः गच्छन्सः संचरन्तो नुन, नराः । ४ जसः स्थाने शस् ४ । ते सन्तीति कथं ब्रवः' ब्रूयाः ब्रवीषि ॥ अष्टमी ॥ यमस्यं मा यम्यं१ काम आगन्त्समाने योनौ सहशेय्याय जायेव पत्ये तन्वं रिरिच्यां वि 1चिद् वृहेवु रथ्येव चक्री ॥ 8 ॥ यमस्य। म। यम्यम्। कामः । आ । अगन् । समाने । योनौ । सहृऽ शेय्याय । जायाऽईव ।पत्ये । तन्वम् । रिरिच्याम् । वि । चित् । वृहेव । रथ्याऽइव । चक्रा ॥ ८ ॥ इदमपि यमीवचनम् । मा मां [यम्यम्] यमीं यमस्य कामः यम विषयोभिलाषः आगन् आगमत् । — यम्यम् इति । ‘‘वा छन्दसि ’’ इति पूर्वरूपत्वाभावे यण् आदेशः । “उदात्तस्वरितयोर्यणः स्वरितोनुदा- त्तस्य ’” इति यणः स्वरितत्वम् । 3आंगन्निति । गमेर्लुङि ‘मन्त्रे घस° * इति च्लेर्लुक् । ‘‘हल्ड्या°” इत्यादिना तिलोपे ‘‘मो नो धातोः” इति नावम् । कामं विशिनष्टि । समाने साधारणे योनौ एकस्मिन् शयने सहशेय्याय सहशयनार्हाय । शेयं शयनम् । ‘‘अचो यत्’ ’ इति भावे यत् । “ तद् अर्हति” इति यत् । यद्वा शय्याम् अ- र्हतीति शय्यः तस्मै । x “ तद् अर्हति” इति यत् । एकारोपजन- १ A Bc k R De ३ for १. We with v. २ c° सहऽराज्यय, ॥ reading liel tooltles arose firu th: omission of the mitri over शे° and I the श being mistaken fo• रा. ३ CR गृहे । 1 s’ हे: for हन्तेः ५ 8 वीच्यः 8 S’ आगआगन्निति. ४४ अथर्वसंहिताभाष्ये रछन्दसः तदर्थ तन्वम् तनू मामकीनां रिरिच्याम् पृथक् कु । र्याम् । तद1धीनां कुर्याम् इत्यर्थः । तत्र दृष्टान्तः जायेव पत्ये [इति]। यथा स्वकीयाय भर्त्रे जाया पत्नी स्वकीयां तनुं पत्य2धीनां करोति एवम् इत्यर्थः । तस्मिन् यथा विस्रम्भेण कामोपभोगः एवं करोमीत्यर्थः । अ नन्तरं वि वृहेव आवां संश्लेषं करवाव । इतरेतरयोः 3संष्लेषो विवर्हा । तत्रापि दृष्टान्तोभिधीयते । रथ्येव चक्रा रथ्यया रथयोग्यया पदव्या 4संह [चक्रा] चक्राणि यथा वृहन्ति तद्वत् । धू रथ्येति । ‘‘तद् वहति -र थयुगप्रासङ्गम्” इति यत् ४ । अथ वा रथ्येव रथाधाराणि चक्राणि अक्षेण सह विर्वहा कुर्वन्ति तद्वद् इति व्याख्येयम् ॥ नवमी । न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति । अन्येन मदाहनो याहि तूयं तेन वि वृह रथैव चक्रा ॥ ९ ॥ न । तिष्ठन्ति । न । नि। मिषन्ति । एते । देवानां । स्पशः। इह । ये। चरन्ति । अन्येनं। मत् । आहनः। याहि । तूयम् । तेन । वि । वृह । रथ्याऽइव । चक्रा ॥ ९ ॥ इह अस्मिन् लोके ये देवानां स्पशः चराः चरन्ति भ्रमन्ति तेषां म ध्ये एंके केचनापि न तिष्ठन्ति एकत्र स्थितिं न कुर्वन्ति । तथा न नि मिषन्ति । पक्ष्मसंकोचनं निमेषः । तदपि न कुर्वन्ति । न निद्रान्ती त्यर्थः । सर्वदैव5 स्पशा जागरूका वर्तन्त इत्यर्थः । स्पश इति । जसः सुः । क्विव्वा द्रष्टव्यः । यत एवम् अतः [हे आहनः] मत मनः अन्येन सह । ‘‘एकवचनस्य च” इति पञ्चम्या अत्. आदेशः 2 । तेन सह । रमस्वेति शेषः । तदर्थं तूयम् तूर्ण याहि १ तूयन्।. २ C2 बृह्। P बृह ।. We with P. 1 s' तदन्तं. 2 3 पत्न्यधानं. 3 Som. संश्लेषो. 4 8' साह5 5' श्वेष°. 6 S' Mhas a lacuna for six letters, after which it reads सः सुः , [अ° १. सू०१.]५४१ अष्टादशं काण्डम् । ४५ गच्छ । तेन सह वि वृद्ध संश्लेषं कुरु । रथ्येव चक्रेति दृष्टान्तवचनं व्याख्यातम् ॥

दशमी ।

रात्रीभिरस्मा अहभिर्दशस्येत् सूर्यस्य चक्षुर्मुहुरुन्मिमीयात् । दिवा पृथिव्या मिथुना सबंन्धू यमीर्यमस्य विवृहादजामि ॥ १०॥ ( १ ) रात्रीभिः। अस्मै । अहडभिः। दशस्येत् । सर्पस्य । चक्षुः । मुहुः। उत्। मिमीयात् । दिवा । पृथिव्या । मिथुना। सबंन्धू इति सऽबंन्धू। यमीः । यमस्य । विवृ हात्। अजामि ॥ १० ॥ (१) इदं यमीवचनम् । अस्मै यमाय रात्रीभिः तथा अहभिः अहोभिः । रात्रिषु अहःसु चेत्यर्थः । सर्वदा दशस्येत् । दशस्यतिर्दानक र्मा ऽ । प्रयच्छतु । यजमानो हविरिति शेषः । तथा सूर्यस्य देवस्य चक्षुः प्रकाशकं तेजः मुहुः अन्वहम् उन्मिमीयात् ऊर्ध्वं गच्छेत् । अस्मा अर्थायेति शेषः । सूर्योदयोपि अस्य भोगायास्त्वित्यभिप्रायः । ४ डु मिड् प्रक्षेपणे । व्यत्ययेन सुः दीर्घश्च x । किं च दिवा पृथिव्या च दिवा सह पृथिवी पृथिव्या सह द्यौश्च मिथुना मिथुने परस्परं मि थुने अविश्लिष्टे सबन्धू समानबन्धने यया एकमनस्के एवं यमीः य मी । ४ सोः सुः ४ । यमस्य अजामेिः अबन्धुः स्वसृरूपबन्धु- त्वरहिता सती वि वृहात् विवृहणं कुर्यात् इति परोक्षत्वेन आत्मनो व्य पदेशः। इति अष्टादशकाण्डे प्रथमेनुवाके प्रथमं सूक्तम् ॥ ‘‘ आ घा ता→ ” इति तीियं सूक्तम् ॥ तत्र प्रथमा ॥ आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवृन्नजामि १ CP बिभृयात् । clhangel to विवृहात् । ४६ अथर्वसंहिताभाष्ये उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥ ११ ॥ आ। घ। ता । गच्छन् । उत्ऽतंरा । युगानि । यत्र । जामयः । कृणवन् । अजामि। उप । बबृहि । वृषभाय । बाहुम् । अन्यम् । इच्छस्व । सुऽभगे । पतिम् । मत् ॥ ११ ॥ इदं यमवाक्यम् । घ इति पादपूरणः । ता तानि उतरा उत्तराणि युगानि अहोरात्रयोर्युगलानि । आगामिनो दिवसा इत्यर्थः । आ ग- च्छान् आगच्छेयुः । ननु दिनानि आगच्छन्त्येव किमिति आशास्यत इत्याशङ्कायाम् उत्तराणि दिवसानि विशिनष्टि । यत्र येषु आगामिषु दि वसेषु जामयः बन्धवः स्वसृभूताः अजामि अबन्धुत्वं भार्यात्वं कृणवन् कुर्युः । ॐ कृवि हिंसाकरणयोश्च । “धिन्विकृण्व्योर च” इति उ प्रत्ययः © । यस्माद् एवं तस्मात् हे यमि त्वं वृषभाय सेक्ने संभोगं कु- र्वते अन्यस्मै बाहुम् स्वीयं भुजम् उप बर्बृहि अतिवृद्धं कुरु । बृ हेर्यङलुगन्तात् लोटि ‘‘सेर्ह्यपिच्च” इति हि: । तस्य द्वित्वाद् गुणाभा वः । धातोरन्त्यलोपश्छान्दसः ॐ । तदर्थम् हे सुभगे कामिनि मत् मतैः । ४‘‘एकवचनस्य च ” इति पञ्चम्या अत् आदेशः ॐ । अ न्यं पतिम् इच्छस्व कामयस्व1 ॥ द्वितीया । किं भ्रातासद् यदनाथं भवाति किमु स्वसा यन्निर्ऋतिर्निगच्छात् । काममूता बह्वाऽतद् रपामि तन्वा मे तन्वं सं पिपृग्धि ॥ १२ ॥ किम् । भ्रात। असत् । यत् । अनाथम् । भवाति । किम् । ऊं इति । स्वसा । यत । निःऽऋतिः। निऽगच्छात् । कामंऽमूता। बहु । एतत् । रपामि । तन्वा । मे । तन्वम् । सम् । पि - पृग्धि ॥ १२ ॥ = = १ A B ३ fo" १. We with K De. २३ P ‘भूता ।. We with P Ct. 1 S’ इच्छ. S' कामय.

=== ४७ [अ॰१. सू०१.] ५४१ अष्टादशं काण्डम् । [इदं यमीवचनम ।] स किं भ्राता असत् भ्राता भवेत् न भवत्येव । स भ्राता क ए1वं निन्द्यत इति तम् आह । यत् यदि भ्रातरि विद्य- माने स्वसा अनाथं नाथरहितम् अपेक्षितकामशून्यं भवाति भवेत् । स किं भ्रातासद् इति पूर्वत्रान्वयः । एवं भ्रा2तरं निन्दित्वा स्वसारं 3निन्द- ति । सा किमु स्वसा अ4सत् स्वसा भवेत् न भवत्येव । कैवं निन्द्य- त इति तां विशिनष्टि । यत् यदि स्वसृभूतायां विद्यमानायां भ्रातरं निर्ऋतिः दुःखं निगच्छात प्राप्नुयात् । सा किमु स्वसेति संबन्धः । यतोहं सनाथा अतः काममूता कामेन मूर्छिता बहुविधकामोपेता बहु अधिकम् एतत् इदानीम् एतेन कारणेन वा5 रपामि प्रलापं करो- मि। बह्वेतत् इत्यत्र संहितायां "स्वरितो वानुदाते पदादौ” इ- ति उदा6तयणः परस्यानुदात्तस्य स्वरितत्वम् । अतो मम प्रलापस्य सार्थकत्वाय मे मम तन्वा शरीरेण सह हे भ्रातः [तन्वम्] तनूं ता- वकं शरीरं सं पिपृग्धि संपर्चय । पृची संपर्के । व्यत्ययेन नुः । "बहुलं छन्दसि" इति अभ्यासस्य इत्त्वम् ४ ।। तृतीया ॥ न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पंपृच्याम् । अन्येन मत प्रमुर्दः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥ १३ ॥ न। ते । नाथम् । यमि । अत्रै । अहम् । अस्मि । न । ते । तनूम् । त- न्वा । सम् । पपृच्याम् ।। अन्येन । मत् । प्रऽमुदः । कल्पयस्व । न । ते । भ्राता । सुऽभगे। वष्टि । एतत् ॥ १३॥ इदं यमवाक्यम् । हे यमि अत्र अस्मिन् विषये ते तव अहं नाथम अभिमतार्यसंपादको भ्राता नास्मि न भवामि । किं च ते तव तन्वा . शरीरेण सह 7नूनम् निश्चयं [न] सं पपृच्याम संपर्क न करोमि । त- १CP यमि। 18 एव, 28 ए भ्रातरं. 38 निन्दिति. 18 om. lion असत् 10 निन्द्य. ता. 68 उदात्तेणः, 7SAyana's text in S S नूनं for on तनूम्. ४९ अथर्वसंहिताभाष्ये स्मात् [मत] मतः अन्येन पुरुषान्तरेण सह प्रमुदः प्रमोदान् संभोगम- नितान् कल्पयस्व साधय । ते तव भ्राता अयं जनः हे सुभगे संभोगा- र्थिनि एतत जायापत्यलक्षणं कर्म न वष्टि न कामयते ॥ चतुर्थी ॥ न वा उ ते तनं तन्वा संपपृच्यां पापमाहुर्यः स्वसारं निगच्छति । असंयदेतन्मनसो हृदो मे भ्राता स्वसुः शयने यच्छेयीये ॥१४॥ न। वै। ऊ इति । ते । तनूम् । तन्वा । सम् । पपृच्याम्। पापम् । आ- हुः । यः । स्वसारम् । निडगच्छात् । असमऽयत् । एतत् । मनसः । हृदः। मे। भ्राता । स्वसुः। शयने । यत् । शयीय ॥१४॥ इदमपि यमवाक्यम् । पूर्वमन्त्रोक्तमेव निषेधम् अत्यन्तपापतया पुन- र्द्रढयति । हे यमि ते [तव] तन्वा सह तनूम मदीयां न वै सं पट्ट- च्याम् नैव संपर्चयामि । संपर्काभावे हेतुम् आह । स्वसारम्1 भगिनीं निगच्छात भ्राता संभोगं कुर्यात् इति य एतत् पापं निषिद्धम् आहुः ब्रुवते धर्मरहस्यविदः । न केवलं पारलौकिकं पापमेव अपि तु दृष्टबा- धाप्यस्तीत्याह । एतत् वक्ष्यमाणं कर्म [मे मम] मनसः हृदः हृदयाश्च अथवा मनसा हृदयेन च सह असुंम् प्राणम् । अपहरेत् इति शेषः । एतच्छब्दार्थम् आह । भ्राता सन् स्वसुर्भगिन्याः शयने । शय्यते अत्रेति शयनम् । एकस्यां शय्यायां शयीय शयनं कुर्याम् इति यद् एतद् इति पूर्वत्रान्वयः ॥ पञ्चमी॥ बतो बतासि यम नैव ते मनो हृदयं चाविदाम । १ck R असंयदे. We with BY Dc. So ABK ROV DOOP. PPअसम् - यत् । CP असम्ऽयत् । changed to असम् यत् । meant to be असम् । यत् ।. Sayana: असुम् and संयत्, with which he supplies हरेत् &c. But असंयत् is a better reading as its opposite, संयत्, means meeting, including perhaps a meeting of the sexes, so that असंयत् should mean bad or improper sexual intercourse which suits well here. 1 The test in S, however, rends यः स्वसारं निगच्छात् and not यत्स्वसार निगच्छात्. ४९ [अ०१. सू०१.] ५४१ अष्टादशं काण्डम् । अन्या किल त्वां कक्ष्येवि युक्तं परि श्वजाते लिबुजेव वृक्षम् ॥ १५ ॥ बतः । बत । असि । यम । न । एव । ते। मनः। हृदयम् । च । अविदाम । अन्या। किल । त्वाम् । कक्ष्याऽइव । युक्तम् । परि। स्वजातै । लिबुजाऽइ- व। वृक्षम् ॥ १५॥ इदं 1यमीवाक्यम् । हे यम वं बतोसि बलाद् अतीतो भवसि दुर्ब- लो 2जातोसिं बात । खेदानुकम्पयोर्बतशब्दः अत्र खेदे वर्तते । यमस्य प- राधीनतया दौर्बल्यं यम्याः खेदाय संपद्यते । स्वाभिमतकार्यस्य तत्रासं- भवात खेदश्च [ । नैव ते मनः तव मनो मयि नास्त्येव । मयि उ- दासीनो भवसीत्यर्थः] । किं च तव हृदयम् अविदाम् ज्ञातवन्तः 3स्मः। बहुवचनं पूजार्थम् । हृदयस्य स्वाधीनताया अभावात् खेदेनेदम् उच्य- ते । हृदयपरिज्ञानप्रकारं प्रकटयति अन्या किलेति । अन्या मतः अप- रा कामिनी त्वां परि ष्वजातै परिवङ्गं कृतवती तस्मात् माम् अवम- न्यसे । अत एव च पराधीनत्वाद् दुर्बलश्च भवसीत्यर्थः । अत्र दृष्टा- न्तद्वव्यम् । 4कक्ष्येवेति एकः । अश्वस्य कक्षप्रदेशस्था रज्जुः कक्ष्या । सा यथा युक्तम् स्वसंबद्धम् अश्वं परिषजति श्लिष्टा भवति तद्वत् । दुर्दान्तो- प्यश्वः कक्ष्यया संवद्धो यथा स्वाच्छन्द्येन वर्तितुं न शक्नोति तद्वदिति । लिबुजेव वृक्षम् इति द्वितीयो दृष्टान्तः । लिबुजा व्रततिर्भवति [नि° ६.२०] इति निरुक्तम् । [सा यथा गाढं]5 वृक्षम् आदित आरभ्य अग्नम् आलिङ्गति तद्वत् वाम् अन्या सर्वात्मना स्वाधीनं चकार । ए- कदेशसंश्लेषस्य सर्वाङ्गसंश्लेषस्य च क्रमेण दृष्टान्तद्वयम् । अत्र ब- तो बलाद् अतीतो भवति दुर्बलो बतासि [नि० ६.२४] इत्यादि नि- रुक्तम् अनुसंधेयम्7 ॥ षष्ठी ॥ ___ अन्यमूषु यम्यन्य उ त्वां परि वजा लिबुजेव वृक्षम् । RABC KEV DC अन्य ऊषु. k अन्य उषु. We with P. २k inserts at after षु. 18 यम. 28 omits °सि. Somits the visargn in म. 48 कश्येवमिति. 58 देशयनू for "देशस्था. 6S has a lacuna here for eight or nine letters. 78 अनुसंबंधेयम्. अथर्वसंहिताभाष्ये तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥१६॥ अन्यम् । ऊं इति । सु । यमि । अन्यः । ऊं इति । वाम। परि । स्वजाते । __ लिबुजाऽइव । वृक्षम्। तस्य । वा। त्वम् । मनः । इच्छ। सः। वा । तव । अध। कृणुष्व । सम्ऽवि- दम् । सुभद्राम् ॥ १६॥ इदं यमवाक्यम् । हे यमि त्वम् अन्यमू षु । उशब्दः एवार्थे । अ- न्यमेव सुष्ठु परि ष्वजातै अन्य उ त्वां त्वामपि अन्यः परि श्वजातै । एवं परस्परं कुरु1तम् इत्यर्थः । तत्र दृष्टान्तः । लिबुजेव वृक्षम । ग- तम् एतत् । संश्लेषस्य उभयव्यापारजावाद् व्यतिहारेणाभिधानम् । परस्प- रसंश्लेषः समानमन2स्कत्वम् अन्तरेण न घटत इत्यभिप्रेत्य आह तस्य [वा] त्वम इति । हे यमि तस्य वा मनस्वम इच्छ । वाशब्दश्चार्थे । तस्य मनसे3 यद् रोचते तदेव त्वम् अनुसरेत्यभिमायः । स वा तव । मन इच्छत्तिति शेषः । तव मनस आनुकूल्यं भजताम् । अध अथ परस्स- रानुकूल्यानन्तरं सुभद्राम् अत्यन्तकल्याणां संविदम् 4संवितिं सुखानुभवं ते- न सह कृणुष्व कुरु ॥ सप्तमी ॥ त्रीणि च्छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम्। आपो वाता ओषधयस्तान्येकस्मिन् भुवन आर्पितानि ॥ १७ ॥ त्रीणि। छन्दांसि। कवयः। वि। येतिरे। पुरुऽरूप1म् दर्शतम्। विश्वऽचक्षणम्। आपः। वाताः। ओषधयः। तानि । एकस्मिन् । भुवने। आर्पितानि ॥१७॥ कवयः क्रान्तप्रज्ञा ज्ञानिनः पूर्वे महर्षयः देवा वा त्रीणि च्छन्दांसि । अत्र छादनाच्छन्दांसीति व्युत्पत्त्या छन्दःशब्देन वक्ष्यमाणा अबादयस्त्रयो १P अन्यः ।. " अन्यम् ।. Cr अन्यः ।. २V D¢ पुरुरूपं दर्शतं विश्वचक्षणम्. B पुरुरूपं द- र्शतं विश्वचर्षणम्. C पुरुरूपं दर्शतं विश्वच॑क्षणम्, K पुरुरूपं दर्शतं विश्वच॑क्षणम्. We with R. ३C पुरुऽरूपम् ।। 18 कुर्व इत्यर्थः. 28 omits °मन. 3 मनसा. 48 hus षित्विं for संवित्तिं. [अ॰१. सू०१.] ५४१ अष्टादशं काण्डम् । गृह्यन्ते । तानि वि येतिरे यानं कृतवन्तः । ज1गन्निर्वाहायेति शेषः । तेषु एकैकं विशिनष्टि । तेषु मध्ये आपः अप्तत्वं पुरुरूपम् नानारूपम् । अ- व्यिकारत्वात् सर्वेषां रूपाणाम् । दर्शतम् दर्शनीयं स्पृहणीयत्वेन प्रियद- र्शनम् विश्वचक्षणम् विश्वस्य द्र2ष्टु । एवं वाताः वायुतत्त्वमपि प्राणात्मना पुरुरूपं भवति दर्शनीयं च भवति । सूत्रात्मतया विश्वद्रष्ट्रपि । एवम् ओषध्यात्मकमपीति द्रष्टव्यम् । यद्वा समुदायाभिमायेण एकवचनम् । तद् अबादित्रयं पुरुरूपत्वादिधर्मकम् इत्यर्थः । त्रीणि च्छन्दांसीति उक्तम् । कानि तानि त्रीणीति तत्राह आपो वाता ओषधय इति । अबादीनां भुवनाच्छादकावं प्रसिद्धम् एव । तेषां भुवनैकप्रयोजकताम् आह तानी- ति । भवन्ति अत्र प्राणिनः अप्राणिनश्चेति भुवनं भूलोकः । तत्र त- न्निर्वाहार्थम् आर्पितानि स्थापितानि 3सृष्ट्यादौ ॥ अष्टमी ॥ वृषा वृष्णे दुदुहे दोहंसा दिवः पयासि यह्वो अदितेरदाभ्यः । विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियाँ ऋतून् ॥१४॥ वृषा । वृष्णे । दुदुहे। दोहंसा । दिवः । पयोसि। यह्वः । अदितेः । अदाभ्यः । विश्वम् । सः । वेद । वरुणः । यथा । धिया । सः। यज्ञियः । यजति । य- ज्ञियान् । ऋतून् ॥ १७ ॥ वृषा कामानाम् अपां च वर्षिता अग्निः वृष्णे आज्यपयआदेjdवर्षित्रे प्रयच्छते यजमानाय तद्भोगार्थं दोहसा दोहनसाधनेन यज्ञादिना दिवः सकाशात् पयांसि उदकानि दुदुहे वर्षितवान् । कीदृशो वृषा । यह्वः महन्नामैतत् । महान् । अथ द्यौर्विशेष्यते । अदितेः अखण्डनीयायाः । न हि द्यौः केनचित् खण्ड्यते । अदाभ्य इति वृष्णो विशेषणम् । कै- रपि रक्षःप्रभृतिभिः अहिंसितः । स तादृशोग्निः विश्वम् सर्व धिया प्र- ज्ञानेन वेद जानाति साक्षात्करोति । तत्र दृष्टान्तः । वरुणो देवो य- था धिया वेति तद्वत् । स च यज्ञियः यज्ञार्होग्निः । यज्ञर्वि- १PP वृष्ण्ये।. We with Cr and the Sanihita which is based on ABC KR. 18 जगंतिनिर्वा. 28 दृष्टारम्. 38 दृष्टयादौ. 48 वर्षित. ५२ अथर्वसंहिताभाष्ये ग्भ्याम्” इति घः। यज्ञियान् यज्ञानि यष्टव्यान् ऋतून अ- भिगन्तृन् यद्वा यज्ञियान् यज्ञियेषु ऋतुषु कालेषु तद्विहितकाले यष्ठव्यान् देवान् यजतीति व्याख्येयम् ॥ नवमी ॥ रपद् गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मनः। इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो विवोचति ॥१९॥ रपत् । गन्धर्वीः । अपा । च । योषणा । नदस्य । नादे । परिं । पातु । नः । मनः। इष्टस्य । मध्ये । अदितिः । नि । धातु । नः । भ्राता । नः । ज्येष्ठः । प्रथ- मः । वि । वोचति ॥ १९॥ गन्धर्वीः गन्धर्वस्य उदकधारकस्य भरतस्य आदित्यस्य स्वभूता भारती अप्या योषणा च अप्संबन्धिनी अप्स्थायिनी युवतिः सरस्वती च रपत् रपतु स्पष्ट1 वक्तु मद्वारा अग्निं स्तोतु । नदस्य नादे स्तोतुर्मम स्तोत्ररू- पे नादे कर्तव्ये ध्वनौ नो मनः मम मनः परि पातु] परितो रक्षतु । भारती सरस्वती चेति शेषः । अनन्तरम् इष्टस्य फलस्य यागस्य वा मध्ये नः अस्मान् अदितिः देवमाता देवी नि धातु स्थापयतु इष्टं यो- जयतु । भ्राता भरणकर्ता भ्रातृवत हितकारी ज्येष्ठः गुणैः प्रशस्यः प्र- थमोग्निः। प्रथम इति मुख्यनाम । प्रतमो भवति [नि०२.२२] इति निरुक्तम् । वि वोचति विवक्तु साधु यष्टा [अयम् इति] मयि ब्रवी̈त्वित्यर्थः । वि वोचति । "लिड्याशिष्यङ्" इति वि- हितोऽङ् प्रत्ययो व्यत्ययेनात्र न प्राप्तः2 । “धच उम्" इति अङ्प्रत्यय- निबन्धन उमागमः ॥ दशमी ॥ सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्विती। . 18 विवक्तुं, 2 So S. Should we read लिङयाशिष्यङ् इति अङ् प्रत्ययः । इतश्चेति विहित इकारलोपो व्यत्ययेनात्र न प्राप्तः ? ५३ [अ०१. सू०१.] ५४१ अष्टादशं काण्डम् । यदीमुशन्तमुशतामनु क्रतुममग्निं होतारं विदथाय जीजनन् ॥ २० ॥ (२) सो इति । चित् । नु । भद्रा । क्षुडमती । यशस्वती । उषाः । उवास । म- नवे । स्वःऽवती। यत् । ईम् । उशन्तम् । उशताम् । अनु । क्रतुम् । अग्निम् । होतारम् । विदथाय । जीजनन ॥ २० ॥ (२) सो चित सैव खलु भद्रा भन्दनीया कल्याणी क्षुमती मन्त्ररूपशब्द- वती । मातरनुवाकादौ बहुभिरुषस्यसूक्तैः शस्यमानत्वात् । अथ वा त- स्मिन् काले पक्ष्यादीनां प्रबुद्धानां शब्ददर्शनात् क्षुमती । यशस्वती । य- श इति अन्ननाम । अन्नवती मनुष्योपभोगार्थेन अन्नेन हविर्लक्षणेन वा तद्वती । तथा स्वर्वती स्वः आदित्यः । तद्वती । तदविनाभावात् । "-छ न्दसीवनिपौ" इति1 मनुपो वावम्। एवंरूपा उषाः मनवे मनु- ष्याय । जातावेकवचनम् । मनुष्याणां व्यवहाराय यजमा- नाय वा तस्याग्निहोत्राद्यर्थाय उवास प्रादुरभूत् । तमो निराचकारेत्यर्थः2 । यत् यदा ईम एनम् उशन्तम् कामयमानं3 होतारम् देवानाम् आह्वा- तारं होमनिष्पादकं वा अग्निम् उशताम् यज्ञार्थ कामयमानानां यजमा- नानां तेषां विदथाय यज्ञाय देवानां हविःप्रापणाय अनु ऋतुम तत्रतत्र क्रततौ तत्त्तत्क्रात्वर्थे जीजनन अजीजनन् उदपादयन् अध्वर्यवः ॥ __ [इति ] अष्टादशकाण्डे प्रथमेनुवाके द्वितीयं सूक्तम् ॥ अथ तृतीयं सूक्तम् ॥ तत्र प्रथमा ॥ अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषिरः श्येनो अध्वरे। यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥ २१ ॥ जीजनत् ।. CP जीवनम् ।. २f omits the avagraha. We with P Cr. ३ Cr उश- ताम् । 1808. We should have मादुपधायाश्च &c. instead of छन्दसी ke. 28 inserts अनुष्ठानाय उवास प्रादुरभूत् तमोनिराचकार after tiiis. 38 कामयमानानां भ्राजन्तं दी- प्यमानं. ५४ अथर्वसंहिताभाष्ये अध । त्वम् । द्रुप्सम । विऽभ्वमि । विचक्षणम् । विः । आ । अभरत । .. इषिरः । श्ये॒नः । अध्वरे। यदि । विशः । वृणते । दुस्मम् । आर्याः। अग्निम्। होतारम् । अध। धीः । अजायत ॥ २१ ॥ अध अथ अनन्तरं त्यम् तम् । "तृतीयस्याम् इतो दिवि सोम आ. सीत" [तै ब्रा०३.२.१.१] इत्यादिश्रुतिप्रसिद्धम् । द्रप्सम्1 देवैमनुष्यैश्च भक्षणीयं सोमम् । कीदृशम् । विश्वम् महवामैतत् । महान्तं विचक्ष- णम् विद्रष्टारम एवंलक्षणं सोमम् इषिरः प्रकृष्टगमनः 2एषणां प्राप्तः अ- श्यादिदेवैः प्रार्थितो वा श्येनः शंसनीयगतिः सौपर्णो विः पक्षी अध्वरे यज्ञे निमित्तभूते सति आभरत आहरत आहृतवान् । गायत्री सुपर्णरूपं धृत्वा धुलोकात् सोमम् आहरद् इत्येतद् आख्यानम् 3“तृतीयस्याम् इतो दिवि सोम आसीत् । तं गायत्र्याहरत् । तस्य पर्णम् अच्छिचत" [तै. ब्रा ३.२.१.१] "कद्रूश्च वै सुपर्णी चास्पर्धेताम्" [तै सं० ६.१.६. १] इत्यादिश्रुतिषु प्रसिद्धम् । एवम् आहते सोमे यदि यदा आर्याः सर्वैरभिगन्तव्या विशः प्रजाः यजमाना दमम् दर्शनीयम् अग्निं होतारम होमनिष्पादकम् । जुहोतेहोतेत्यौर्णवाभः इति निरुक्तम् [नि०७. १५] । होतृत्वेन वृणते वरणं कुर्वन्ति पुरस्कुर्वन्ति अध [अप] अनन्तरं सोमस्य अग्नेश्च सिद्धावाद् धीः । कर्मनामैतत् । अग्निष्टोमादि- लक्षणं कर्म अजायत जायते निर्वृता भवति । अग्निम् अन्तरेण4 कस्य- चिदपि कर्मणः असिद्धेः यदी विशो वृणते अध धीरजायतेति अग्नेर्होतृ- त्वोपयोगित्वेन5 स्तुतिः ॥ द्वितीया ॥ सदासि रण्वो यवसेव पुष्यंते होत्राभिरग्ने मनुषः स्वध्वरः । विप्रस्य वा यच्छंशमान उक्थ्यो वाज ससवाँ उपयासि भूरिंभिः ॥२२॥ BV उपयासि. De उपयासि corrected to उपयासि. We with AC KR. 1S has here a blank for about five letters. 28 रणां. 38 सृतीयं यस्या. 4S °अन्तरेणास्य for अन्तरेण कस्य. 3 अग्नेराहत्योप° for अग्नहोतृत्वोप. [अ०१. सू०१.] ५४१ अष्टादशं काण्डम् । ५५ सदा । असि । रण्वः । यवसाऽइव । पुष्यते । होत्राभिः । अमे। मनुषः। सुऽअध्वरः। विप्रस्य । वा । यत् । शशमानः । उक्थ्यः । वाजम् । ससऽवान् । 1उपऽया- सि । भूरिऽभिः ॥२२॥ हे अग्ने स्वध्वरः शोभनयागः सुष्ठु यागस्य निर्वर्तकस्त्वं [मनुषः म- नुष्यस्य स्वभूताभिः] होत्राभिः होमसाधनाभिः आज्यादिभिः पुष्यते पो- षयित्रे यजमानाय तदर्थं सदा सर्वदा रण्वः रमणीयः दर्शनीयोसि । त- त्र दृष्टान्तः । यवसेव यबसा हरिततृणादिना गवादिरिव । स यथा पु- ष्यते स्वामिने रमणीयो भवति तद्वत् । [यत् ] यस्त्वं शशमानः शं- सन् यजमानं प्रशंसन् उक्थ्यः स्तोतव्यश्च सन् विप्रस्य मेधाविनो यज- मानस्य वाजम् अन्नं हविर्लक्षणं ससवान् संभजमानः भूरिभिः बहुभिः कामैः सहितस्त्वं बहुभिर्देवैः सहितो वा उपयासि उपगच्छसि । यत एवं करिष्यसि अतस्वं यजमानस्य सदा रण्वोसीति संबन्धः ॥ तृतीया ॥ उदीरय पितरा जार आ भगमियक्षति हर्यतो ह्रत्त इष्यति । विवक्ति वह्निः स्वपस्पते मखस्तविष्यते असुरो वेपते मती ॥ २३ ॥ उत् । ईरय । पितरा । जारः । आ। भगम् । इयक्षति । हर्यतः । हृतः । इष्यति। विवक्ति । वह्निः। सुऽअपस्यते। मखः। तविष्यते । असुरः । वेपते । मती ॥२३॥ हे अग्ने त्वं पितरा पितरौ मातापितरौ। "पिता मात्रा” इ. त्येकशेषः । अत्र द्यावापृथिव्यौ गृह्यते । “द्यौः पितः पृथिवि मा- तः" [तै ब्रा०२.४. ६.५] "द्यौः पिता पृथिवी माता" [तै ब्रा ३. ७. ५.४] इत्यादिश्रुतिषु तथा श्रवणात् । तौ उदीरय उद्गमय यज्ञं प्रति प्रेरय । यद्वा तावकं तेजः पितरौ प्रति उदीरय उद्गमय । आयन्तं प्रज्व- लितो भवेत्यर्थः । तत्र दृष्टान्तः जार आ भगम् । जारः आदित्यः रात्रे- १PP उपऽयासि ।, Cr उप ! यासि !. ५६ अथर्वसंहिताभाष्ये र्जरयिता । ४जार इव भगम् आदित्योत्र जार उच्यते रात्रेर्जरयिते- ति यास्कः [नि°३. १६] । आ इति इवार्थे । जार इव आ- दित्य इव । स यथा भगम् भजनीयं स्वप्रकाशं द्यावापृथिव्यौ प्रति प्रे- रयति तद्वत् । लौकिको जारो भगम् योनिमिव इत्ययं दृष्टान्तस्तु स्पष्टं प्रतीयत एव । अथ वा जरा स्तुतिः । तत्कृत्वेन तत्संबन्धी जारः स्तो- ता । स च भगम् भजनीयं त्वाम् आ । प्लयति इत्यध्याहारः । अत उदीरयेति संबन्धः ॥ अथ परोक्षम् आह । इयक्षति यष्टुम् इच्छति यान् देवान् यजमानः । यजतेः सन् । अभ्यासस्य छान्दसं सं- प्रसारणम् । 1तान् हर्यतः कमनीयः स्पृहणीयोग्नि हृतः हृदयात् हृदयेनैव इष्यति इच्छति । 2स्वयं कर्तुम् इति शेषः ॥ किं च वह्निः ह- विषां वोढाग्निः मखः मखसाधनो महनीयो वा स्वपस्यते शोभनकर्म कर्तुम् इच्छते । “सुप आत्मनः क्यच्" । "नः क्ये" इति नि- यमात् पदसंज्ञाया अभावाद् रुत्वाभावः । यजमानाय विवक्ति ब्र- वीति । अभिलषितं तवेष्टं दास्यामीति भाषत इत्यर्थः । तथा तविष्य- ते । तविषिर्वृद्ध्यर्थः । वर्धिष्यते यजमानाय असुरः बल- वान अग्निः मती मत्या कर्मणा यागेन निमित्तेन वेपते कम्पते चलति आगच्छति ॥ चतुर्थी ॥ यस्ते अग्ने सुमतिं मर्तो अख्यत् सहसः सूनो अति स प्र शृण्वे । इषं दधानो वहमानो अश्वैरा स धुमाँ अमवान् भूषति द्यून ॥ २४ ॥ यः। ते । अग्ने । सुऽमतिम् । मतः । अख्यत् । सहसः । सूनो इति । अति । सः। प्र। शृण्वे। इर्षम् । दधानः । वहमानः । अश्वैः । आ । सः । द्युडमान् । अमऽवान् । भूषति । द्यून् ॥ २४॥ १BV D अमेधान्भूषति. We with AC k R. २P अक्षत् ।. We with P CP. ३CE भूषति । 18' त्वान्. 250S. I स्वयं a mistake for स्वकीयान् ? [अ०१. सू०१.५४१ अष्टादशं काण्डम् । ५७ हे अग्ने ते तव सुमतिम् शोभनां बुद्धिम् अनुग्रहलक्षणां यो मर्तः मरणधर्मा मनुष्यो यजमानः अख्यत् कथयति परस्मै । स्वयं प्राप्नो भ- वतीत्यर्थः । हे सहसः सूनो बलस्य पुत्र बलेन मथ्यमानो जायत इति तादृशाग्ने स वयानुगृहीतो यजमानः अभिं आभिमुख्येन सर्वतः प्र शृ- ण्वे प्रकर्षेण श्रूयते । शृणोतेर्लिटि1 “छन्दस्युभयया" इति लिटः सार्वधातुकत्वात् "श्रुवः शृ च" इति श्रुमात्ययः । सर्वत्र विश्रुतो भवति । किं च [स] त्वयानुगृहीतो यजमानः इषम् सर्वैरेषणीयम् अन्नं दधानः धारयन बह्वन्नः सन् तथा अश्वैः बहुभिर्वहमानः अश्वैरुह्यमानो रथगामी भूत्वा द्युमान् दीप्तिमान् अमवान् बलवान् सन् द्युन् । अह- र्नामैतत् । बहून दिवसान् आ भूषति आभवति । सर्वम् अधिष्ठाय व- र्तते । यद्वा भूषति बुभूषति द्युमान् अमवांश्च भवितुम् इच्छति। भ- वते- सनि “सनि ग्रहगुहोश्च" इति इडभावः । "इको झल्" इति कित्त्वाद् गुणाभावः । सर्वविधीनां छन्दसि विकल्पितत्वाद् 2द्वित्वाभावः ॥ पञ्चमी ॥ श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रचममृतस्य द्रविलुम्। आ नो वह रोदसी देवपुत्रे माकिर्देवानाम् भूरिह स्याः ॥ २५॥" श्रुधि। नः । अग्ने। सदने । सधऽस्मे । युक्ष्व । रथम् । अमृतस्य । द्रविलुम् । आ। नः । वह । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । माकिः । देवा- नाम । अप । भूः । इह । स्याः ॥२५॥ हे अग्ने त्वं नः अस्माकम् आह्वानं श्रुधि शृणु । कुत्रेति उच्यते । सद- ने सीदत्यति सदनं गृहं तत्र । कीदृशे सधस्थे सहस्थाने । x“स- ध मादस्पयोश्छन्दसि” इति सहस्स 3सधादेशः । देवानां सा- धारणे यागगृहे । तदर्थम् अमृतस्य उदकस्य द्रविलुम् द्रावकं रथं यु- क्ष्व योजय । किं च वं नः अस्माकम् अर्थाय रोदसी द्यावापृथिव्यौ । कीहश्यौ । देवपुत्रे देवाः पुत्रा ययोस्ते तादृश्यौ तदुपजीव्यत्वात् तत्पुत्र- ___1Shusa space for fifteen or sixteen letters after लिटि. 28 गुणा for द्वित्वा. 38 सहा for सधा. ५४ अथर्वसंहिताभाष्ये त्वोपचारः । ते देवते आ वह यज्ञार्थम् । किं च त्वं देवानां संघे मा-1 किरप भूः मा भूः मा गच्छ । किं तु इह अस्मदीये यागगृह एव स्याः भव । सर्वकर्मार्थं सर्वदा संनिहितो भवेत्यर्थः । यद्वा देवानां म. ध्ये एकोपि देवो माकिरप भूः अप भूत अपगतो मा भूत् । किं तु सर्वोपीह स्याः स्यात् । “तिडां तिङो भवन्ति" इति [प्रथमपु- रुषस्थाने मध्यमः] ॥ . षष्ठी॥ यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र । रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥२६॥ यत् । अग्ने । एषा । समऽइतिः । भवाति । देवी । देवेषु । यजता । यजत्र । रत्ला । च । यत् । विऽभासि । स्वधाऽवः । भागम् । नः । अत्र । वसुड - मन्तम् । वीतात् ॥ २६॥ हे यजत्र यष्टव्य अग्ने यत् यदा एषा पुरोभाविनी समितिः समाजः । संहतिरित्यर्थः । भवाति भवति । स्तुतानां हविषां च समितिर्यदा भव- नि । कीदृशी । देवी दैवी देवसंबन्धिनी दीप्ता वा । कुत्र । देवेषु म- ध्ये । पुनः कीदृशी सा । यजता यष्टव्या पूजनीया । हे स्वधावः अ- न्नवः अन्नवन् अग्ने यत यदा च रत्ना रत्नानि रमणीयानि धनानि वि. भजासि स्तोतृभ्यो विभजसि प्रयच्छसि अत्र विभागसमये नः अस्माक- मपि वसुमन्तम् प्रभूतेन वसुना युक्तं भागम् अंशं वीतात् । वी गत्यादिषु । अत्र गत्यर्थः । वीहि । प्रयच्छत्यर्थः ॥ “अन्वग्निः" इति सप्तमी “प्रत्यग्निः" इति अष्टमी च पूर्वत्र व्या- ख्याते [७.८७.४,५] । तयोः पाठस्तु । सप्तमी ॥ ___ अन्वमिरुषसामग्रमख्यदन्वानि मथमो जातवेदाः । १Pसंवाति ।. We with PCP. 18' माकिर्भः for माकिरप भ. 2 यच्छ. 3S has a lacuna for seven or eight letters here. ५९ [अ॰१. सू०१.] १४१ अष्टादशं काण्डम् । अनु सूर्य उषसो अनु रश्मीननु द्यावापृथिवी आ विवेश ॥ ७ ॥ अनु । अग्निः । उषसाम् । अग्रम । अख्यत् । अनु । अहानि । प्रथमः । जातऽवेदाः। अनु । सूर्यः । उषसः । अनु । रश्मीन् । अनु । धावापृथिवी इति । आ। विवेश ॥७॥ अष्टमी ॥ प्रात्यग्निरुषसामग्रंमख्यत् प्रत्यहानि प्रथमो जातवेदाः । प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥ २६ ॥ प्रति । अग्निः । उषसाम् । अग्रम् । अख्यत् । प्रति । अहानि । प्रथमः। जातऽवेदाः। प्रति । सूर्यस्य । पुरुऽधा । च । रश्मीन् । प्रति । द्यावापृथिवी इति । आ। ततान ॥ २ ॥ नवमी॥ द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । देवो यन्मर्तान् यजथाय कृण्वन्त्सीदद्धोत प्रत्यङ् स्वमसुं यन् ॥ २९ ॥ द्यावा । ह । क्षामा प्रथमे इति । ऋते । अभिऽश्रावे। भवतः । सत्यऽवाचा । देवः । यत् । मर्तान् । यजथाय । कृण्वन् । सीदत् । होता । प्रत्यङ् । स्वम् । असुम् । यन् ॥ २९॥ अत्र. यावापृथिव्यौ यष्टुम् इच्छन् तयोर्यागस्य अग्निसव्यपेक्षत्वाद् अग्निं स्तौति । धावा । “दिवो द्यावा" इति द्यावादेशः । द्यौः तथा क्षामा क्षमा पृथिवी द्यावापृथिव्यौ । व्यवहितप्रयोगश्छान्द- सः । यद्वा 1द्योशब्दस्य द्विवचनं द्यावेति2 । द्यावौ । क्षामा[शब्दस्य द्विव- चनं क्षामेति ] । क्षामे । द्वन्द्वस्य युगपदधिकरणवचनावात परस्परापेक्षया ___{ Cr ऽसावे । 18' धौ. 28 inserts च after वेति. अथर्वसंहिताभाष्ये उभयोरपि द्विवचनत्वम् । द्यावापृथिव्यौ । ह इति प्रसिद्धौ । प्र- तमे. ह मुख्ये खलु [सत्यवाचा] सत्यवाचौ सत्यस्तुतिके । सर्वदेवमनु- ष्याद्याश्रयत्वात् सर्वोपकारकत्वाच्च तद्विषया स्तुतिरूपा वाक् सर्वापि स- त्यैव विद्यमानगुणैव । ते ऋतेन यज्ञेन निमित्तेन यज्ञार्थम् अभिभावे अभितः 1श्रूयते इति अभिश्रावे स्तोतुः श्रवणयोग्ये भवतः । कदेति उ- च्यते । यत् यदा देवः द्योतमानोग्निः मर्तान् मनुष्यान् यजथाय यागा- य यज्ञार्थै कृण्वन् कुर्वन् होता होमनिष्पादको देवानाम् आह्वाता वा प्रत्यङ् यजमानाभिमुखं स्वम् स्वीयम् असुम् प्रज्ञा यागविषयां बलं वा2 ज्वालालक्षणं. यन् गच्छन् प्राप्नुवन् सीदत् निषीदति । तदा अभिभावे भवत इति संबन्धः ॥ दशमी॥ देवो देवान परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान्। धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥ ३० ॥ (३) देवः । देवान् । परिऽभूः । ऋतेन । वह । नः । हव्यम् । प्रथमः। चिकित्वान् । धूमडकेतुः । समऽइधा । भाःऽऋजीकः । मन्द्रः । होता । नित्यः । वाचा। यजीयान् ॥ ३० ॥ (३) हे अग्ने देवः द्योतमानः प्रकृष्टज्वालस्त्वम् ऋतेन यज्ञेन देवान् यष्ट- व्यान् परिभूः परिभवन् स्वाधीनान् कुर्वन् प्रथमः मुख्यः सन् चिकि- त्वान् एतेत्र यष्टव्या इति जानन् नः अस्माकं हव्यम् हविः वह प्रापय देवान् प्रति 3गमय । अथ अग्निं बहुधा 4प्रशंसति । धूमकेतुः धूमेन प्र. ज्ञायमानः समिधा समिन्धनसाधनेन काष्ठादिना भाऋजीकः भासमान- दीप्तिः प्रकृष्टज्वाला मन्द्रः मोदमानः मादयिता वा होता देवानाम् आ- HABK v De भाऋचीको. We with CR. २ CP वहानः ।. Pवहानः ।. ३P ऋनीकः1. CP ऋचीकः।. NCP नित्यः।. 18 श्रृयते. 28 inserts देवः. 38 पमय for प्रति गमय. 18 प्रशंसन्ति. [अ॰१. सू०१.] ५४१ अष्टादशं काण्डम् । खाता नित्यः अविनाशी वाचा स्तुतिरूपया यजीयान् अतिशयेन यष्टा यष्टव्यो वा । उक्तमहिमोपेतः सन हव्यं वहेति संबन्धः ॥ इत्यष्टादशकाण्डे प्रथमेनुवाके तृतीयं सूक्तम् ॥ चतुर्थसूक्ते प्रथमा ॥ अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे। अहा यद् देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम् ॥३१॥ अर्चामि । वाम् । वर्धाय । अपः । घृतस्नू इति घृतऽस्नू । द्यावाभूमी इति । __ शृणुतम् । रोदसी इति । मे। अहाँ । यत् । देवाः । असुऽनीतिम् । आयन् । मध्वा । नः । अत्र । पि. तरा । शिशीताम् ॥ ३१ ॥ हे घृतस्न्नू उदकस्य 1सारयित्र्यौ द्यावापृथिव्यौ वाम् युवयोः अपः कर्म वर्धाय अभिवृद्धये । वृधेर्घञन्तत्वाद् आद्युदात्तः। अर्चामि स्तौमि । तदर्थम् हे द्यावाभूमी द्यावापृथिव्यौ रोदसी रोधयित्र्यौ द्यावा- पृथिव्योर्मध्ये सर्वेषां प्राणिनां निरोधात् । अथवा रोदयित्र्यौ वृष्टिफलयोः प्रतिबन्धेन । एवंरूपे द्यावापृथिव्यौ मे मम शृणुतम् । स्तुतिम् इति शेषः ॥ अथ परोक्षम् आह । यत् येषु अहा अहस्सु देवाः । दीव्यतिरत्र स्तु- त्यर्थः । युवयोः स्तोतारः ऋत्विजः असुनीतिम् असूनां बलानां नयनम [आयन्] अगच्छन् स्वकीयं बलं यज्ञार्थम् अकुर्वन् । अत्र एषु दिवसेषु पितरा पितरौ मातापितरौ द्यावापृथिव्यौ नः अस्माकं मध्वा। द्वि- तीयार्थे तृतीया g। मधु उदकं शिशीताम् 2संस्कुरुतां प्रयच्छताम् । यद्वा मध्वा मधुना उदकेन नः अस्मान् शिशीताम् संस्कुरुताम् । उद- कमदानेन वर्धयतास्3 इत्यर्थः । अग्निसाहचर्याद् अनयोः स्तुतिः। शि- शीताम् इति । शो तनूकरणे । लोटि छान्दसं रूपम् ॥ १BkR घृतम्मू. D घृत corrected to घृतम्. We with CV. २B देवा. R देवा ( देवा ?). V देवा. Dc °देवा correcter to देवा. We with Kc. ३P अर्धाय ।. ४ P आपः I. CP आपः।. ५CP रोदसी .. 18जारयियो. 28 सुस्वस्कुरुताम्. 35 वर्षयतम्. अथर्वसंहिताभाष्ये द्वितीया॥ · स्वावृग् देवस्यामृतं यदी गोरतो जातासौ धारयन्त उर्वी। विश्वे देवा अनु तर ते यर्जुर्मुर्दुहे यदेनी दिव्यं घृतं वाः ॥ ३२ ॥ स्वावृक् । देवस्य । अमृतम् । यदि । गोः । अतः । जातासः । धारयन्ते । उर्वी इति । विश्वे । देवाः । अनु । तत् । ।ते । यजुः । गुः । दुहे । यत् । एनी। दिव्यम्। घृतम् । वाः ॥ ३२ ॥ देवस्य योतमानस्य अग्नेः स्वावृक् सुष्टु आवर्जकं सर्वप्राण्यावर्जकं स्वा- धीनकर्तृ अमृतम् अमृतवद् उपकारकम् उदकं यदि यदा गोः रश्मेः सकाशाद् उत्पद्यते अतः अस्माद् अमृताद् वृष्ट्युदकात् जातासः जाता ओषधयः उर्वी उव्यौं महत्यौ द्यावापृथिव्यौ धारयन्ते 1अधारयन्त । भू- मिष्ठानां युस्थानां च प्राणिनां तिलव्रीह्याद्योषध्युपजीवित्वात् तल्लोकनिवा- सिनां धारणेन तद्वारकावोपचारः । किं च यत [यदा] एनी श्येता तव दीप्तिः । "वर्णाद् अनुदात्तात्" इति [2एतशब्दात् ङीप तका- रस्य नकारश्चं]। दिव्यम् दिवि भवं घृतम क्षरद्3 वाः सर्वलोक- च्छादकम् उदकं दुहे दुग्धे हे अग्ने ते तव तद् यजुः । युज्यंत इति यजुः कर्म तत् कर्मजनितम् उदकं विश्वे सर्वे देवा अनु गुः अनुग- च्छन्ति । उदकाभिवृद्धानां व्रीह्यादीनाम् अनुगतिरेव उदकानुगतिरित्यु- च्यते । यद्वा इज्यत इति यजुः । यजिरत्र दानार्थः । तव तद् दानम् उदकविषयं विश्वे सर्वे देवाः । दीव्यतिरत्र स्तुत्य- र्थः । स्तोतार ऋत्विजः अन्वगुः अनुयान्तीति व्याख्येयम् ॥ तृतीया ॥ . किं स्विन्नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद । १ . यजुगुर्दुहे. ITe with A BC RV Dr. २ Cr वाः ।, ३ B जगृहे. We with AC RKV Dr. 18' धारयन्त धारयन्त. 28' has in place of this a blank tor about ten letters. BS ias उदकं after क्षरद् also. 4 युज्येत. [अ०१. सू०१.] ५४१ अष्टादशं काण्डम्। मित्रश्चिद्धि1 मा जुहुराणो देवा2ञ्छलोको न 3यातामपि वाजो अस्ति ॥ ३३ ॥ . किम् । स्वित् । नः । राजा । जगृहे । कत् । अस्य । अति । व्रतम् । चकृ- म। कः। वि । वेद । मित्रः । चित् । हि। स्म । जुहुराणः । देवान् । श्लोकः । न । 4याताम् । अपि । वाजः । अस्ति ॥ ३३ ॥ राजा देवेषु मध्ये क्षत्रियजातिर्यमो नः अस्माकं संबन्धि किंचिद्धवि- रादिकं किं स्वित् जगृहे गृह्णाति । कत् कदा अस्य यमस्य प्रीणनं व्रतम् कर्म यमप्रीतिकरं नित्यनैमित्तिकरूपं कर्म अति चकृम अतिक्रमं कृतवन्तः स्मः । को वि वेद तत् को जानाति । अविद्यमानं ज्ञातुं [कः शक्रोति । यमविषयापराधपरिहारोस्तीत्याह । देवान ह्वातव्यान् जु- हुराणः आह्वयन् । हृ कौटिल्ये । कानचि रूपम् । धातूनाम् अनेकार्थवाद् अत्र ह्वयात्यर्थः । मित्रः मित्रवद्धितकारी अग्निर्वि- द्यते । चित हि स्म इति पादपूरणाः । सर्व स एव परिहरिष्यतीत्यर्थः । यातान् देवानभिगच्छतो नः अस्मान् रक्षितुं श्लोको न । नेति उपमा- र्थे । श्लोकः स्तुतिः । स्तुतिर्यथास्ति एवं वाजोपि हविर्लक्षणम् अन्नं च विद्यते । अस्मान् रक्षितुं स्तुत्या हविषा च अग्निं परितोष्य तन्मुखाद् यमस्यापराधं परिहरिष्याम इत्यभिप्रायः ॥ चतुर्थी॥ दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद् विधूरूपा भवाति । यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥ ३४ ॥ दुःऽमन्तु । अत्र । अमृतस्य । नाम । सऽलक्ष्मा। यत् । विषुऽरूपा। भवाति । यमस्य । यः। मनवते । सुऽमनु । अग्ने। तम्। ऋष्व । 6पाहि । अप्रेऽयु- च्छन् ॥ ३४॥ B मित्रचिद्धि. We with AC KRV De. २ BAG k v देवानलो . We with R Dc. Ekv Dc यातानपि. We with ABC R. ४P यताम् ।. C यातान् ।. ५P भतु . ६ CP पाहि। ६४ अथर्वसंहिताभाष्ये पूर्वत्र “सलक्ष्मा यद् विषुरूपा भवाति" [२] इत्यत्र यमेन स्व- सृभूताया यम्याः या संभोगमार्थना निराकृता तां स्मारन्नाह । अत्र अस्मिन् । कृते सतीति शेषः । यद्वा अत्र यम्याः संभोगविषये अमृतस्य अमरणस्य यमस्य नाम नामधेयं दुर्मन्तु दुर्मननं दुर्वचम् । भवतीति शेषः । कथं भवतीत्याशक्य तत्र कारणम् आह सलक्ष्मेति । यत् यस्मात् कारणात् यमस्य यमीम् इच्छतः । अथ वा यत् यस्मै संभोगम् अङ्गी- कुर्वते यमाय इति व्याख्येयम् । सलक्ष्मा समानोदरा स्वसा यमी संभो- गानन्तरं विषुरूपा भिन्नरूपा भार्यारूपा भवाति भवेत् । अतः स्वभगिनी- भर्तेति यमस्य दुर्वचं नाम भवेद् इत्यर्थः ॥ तथा सति यश्च पुमान् यम- स्य राज्ञो नाम सुमन्तु सुवचं नाम मनवते मनुते स्तौति । मनु अवबोधने । लेटि तनादित्वाद् उप्रत्ययः । “लेटोडाटौ” इति अडाग- मः। आगमस्य अनुदात्तत्वेन विकरणस्वरः । तं स्तोतारम् हे ऋष्व दर्शनीय अग्ने त्वम् अप्रयुच्छन अमाद्यन् विस्मरणम् अकुर्वाणः पाहि रक्ष । एवं यमस्य निन्दानुकीर्तनदोषपरिहारप्रार्थनारूपेण अग्नेः स्तुतिः ॥ पञ्चमी॥ • यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते । सूर्ये ज्योतिरदधुर्मास्यक्तून्1 परि द्योतनिं चरतो अजस्रा ॥ ३५ ॥ यस्मिन् । देवाः । विदथे । मादयन्ते । विवस्वतः । सदने । धारयन्ते । सूर्ये । ज्योतिः । अदधुः । मासि । अक्तून् । परि । द्योतनिम् । चरतः । अजस्रा ॥ ३५ ॥ यस्मिन् अग्नौ सति यज्ञनिर्वर्तकत्वेन अग्नौ विद्यमाने सति देवा इ- न्द्राद्याः विदथे यज्ञे मादयन्ते माद्यन्ति । यस्मिन् सति मनुष्या विवस्व- तः सूर्यस्य सदने स्थाने सूर्यलोके धारयन्ते वर्तन्ते । कर्मफलम् उपभु- ञ्जानाः सुखेन अवतिष्ठन्ते । 3येन वा अग्निना देवाः सूर्ये ज्योतिः लो- PAR have no kumya. C मास्यक्तन्परि. We with Bkv Dc. २ मासि।. 18' संभोगा. Shas स्तो for स्तौति. 38 एन. [अ०१. सू.१.] ५४१ अष्टादशं काण्डम् । कत्रयप्रकाशकं तेजः अदधुः स्थापितवन्तः । एवं मासि मास्यते परिमी- यत इति माश्चन्द्रः । “पहन्नोमास्" इत्यादिना मासशब्दस्य मास्भावः । तस्मिन 1अक्तून् व्यंजकान् तमोनिवर्तकान् रश्मीन् अग्नेः2 सकाशाद् आहृत्य देवाः स्थायितवन्तः । यद्वा अक्तवो रात्रयः । चन्द्रमसि रात्रीः [स्थापितवन्तः] । यस्माद् एवं तस्माद् द्योतनिम् द्योत- मानम् अग्निं तौ चन्द्रसूयौं अजस्रम् सततं परि चरतः ॥ षष्ठी ॥ यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म। मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत् ॥ ३६ ॥ यस्मिन् । देवाः । मन्म॑नि । समऽचरन्ति । अपीच्ये । न । वयम् । अस्य । विद्म। मित्रः । नः । अत्र । अदितिः । अनागान् । सविता । देवः । वरुणाय । वोचत् ॥ ३६॥ यस्मिन् मन्मनि मन्तव्ये स्थाने वरुणाख्ये देवाः यष्टव्याः संचरन्ति । कीहशि स्थाने । अपीच्ये । अन्तर्हितनामैतत् । अन्तर्हिते स्थाने । अस्य वरुणस्य तत् स्थानं न वयं विद्म न जानीमः । [अत्र] अन्तर्हितस्थाने3 स्थिताय देवसंचारास्पदाय वरुणाय नः अस्मान् अनागान् अनागसः स- विता देवः अदितिः देवमाता द्यौः 4मित्रश्च हे अग्ने त्वदनुग्रहाद् वोचत् ब्रवीतु । वोचद् इति प्रत्येकं संबध्यते ॥ सप्तमी॥ साय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे । स्तुष ऊ षु नृतमाय धृष्णवे ॥ ३७ ॥ १BV DC विद्य. We with AC KR. २१ व्ययम् ।. ३ Sayanat's text lns वो lic षु as in Rigveda (VIII. 2.4.1), but the word is not tound in ABC KRV PPJ De, nor im Sayana's commentary. 18 अक्तूनव्यंजकान्. 25 अग्निना. 35 °स्थान. 45 सविता च. अथर्वसंहिताभाष्ये ___सखायः । आ । शिषामहे । ब्रह्म । इन्द्राय । वज्रिणे। • स्तुषे । ऊ इति । सु । नृडतमाय । धृष्णवे ॥३७॥ हे सखायः सखिभूताः परस्परं प्रेमवन्तः वयं वज्रिणे वज्रोपेताय । अ- नेन अतिशयितवीर्यत्वम् अस्य उक्तं भवति तेन च तस्य अवश्ययष्टव्य- ताव1गम्यते । तादृशाय इन्द्राय देवाय ब्रह्म परिवृढं कर्म आ शिषामहे आशास्महे । कर्तुम् इति शेषः। आङः 2शासु इच्छायाम् । ले- टि आडागमः । “शास इदङ्हलोः" इति विहितम् इत्वम् अत्र व्यत्य- येन भवति । “शासिवसिघसीनां च" इति षत्वम् । अथ वा अयम अर्थः । सखायो वयम् । यज3माना इति शेषः । अस्मिन् पक्षे सखायः इन्द्रस्य सखिभूता इत्यर्थः । तत्सखित्वं च हविःप्रदानाभिमतफ- लमदाना4भ्याम् इति मन्तव्यम् । उ अपि च नृतमाय नेतृतमाय । नृ- णां मध्य इति शेषः । सर्वेषां देवानां मुख्यायेत्यर्थः । धृष्णवे धर्षकाय शत्रूणां प्रच्यावकाय एवंरूपाय इन्द्राय तत्प्रीणनाय स्तुषे स्तौमि । अथ वा एकमेव वाक्यम् । उक्तविशेषणोपेताय इन्द्राय स्तुषे स्तोतुम् ।ष्टुञ् स्तुतौ । तुमर्थे क्सेप्रत्ययः । ब्रह्म स्तुतिसाधनं मन्त्रजातम् आ शिषामहे इच्छाम इति योजना ॥ अष्टमी॥ शवसा ह्यसि श्रृंतो वृत्रहत्येन वृत्रहा। मधैर्मघोनो अति शूर दाशसि ॥ ३ ॥ शव॑सा । हि । असि । श्रुतः । वृत्रहत्येन । वृत्रडहा। मघैः । मघोनः । अति । शूर । दाशसि ॥ ३ ॥ पूर्वमन्त्रे वज्रिणे ब्रह्म आ शिषामह इत्युक्तम् । अनेन मन्त्रेण तस्य महत्त्वं वर्णयन् स्वाभिमतम् आशास्ते । हे इन्द्र वृत्रहा वृत्रस्य 5हन्ता १ A श्रितो. C श्रिता clhanged to शृतो. B P Vतो. We with BK Pv Dr. २"दा- ससि. fenitli A BCK PRV Dc. ३P अस्ति ।. ४P शृतः. CP श्रितः!. 15 ताचगम्यते. शसु.3Shas वयं repeated after यजमाना. 48 प्रदा- भ्या. हन्तः . [अ०१. सू.१.] ५४१ अष्टादशं काण्डम्। बलवतोऽसुरस्य हन्ता वं वृत्र1हत्येवं वृत्रहननेनेव यथा त्वं श्रुतः एवं श- वसा । बलनामैतत् । बलेन गोत्रभेदनब2लनमुच्याद्यसुरविनाशकरणादिरू- पसामर्थ्येन 3श्रुतः विख्यातोसि तेन युक्तो भवसि । यस्माद् एवम् अतो मघैः महनीयैर्बहुविधैर्धनैः मघोनः धनवतः बहुविधैर्धनैराढ्योहम् इति म- न्यमानस्य आढ्यस्य । धनम् इति शेषः । हे शूर विक्रान्त वं तब- नम अति दाशसि अतिप्रयच्छसि । मह्यम् इति शेषः । त्वदर्थ यागम् अकुर्वाणस्य धनं तव यष्ट्रे मह्यं प्रयच्छेत्यर्थः । “अयज्वनो विभजन्नेति वेदः" [ऋ०१.१०३.६] । “आ नो भर प्रमगन्दस्य वेदः" [. ३. ५३.१४] इत्यादिश्रुतेः ॥ नवमी ॥ स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ । मित्रो नो अत्र वरुणो युज्यमानो अग्निर्वने न व्यसृष्ट शोकम् ॥३९॥ स्तेगः । न । शाम । अति । एषि । पृथिवीम् । मही इति । नः । वाताः । इह । वान्तु । भूमौं। मित्रः । नः । अत्र । वरुणः । युज्यमानः । अग्निः । वने । न । वि । अ- सृष्ट । शोकम् ॥ ३९॥ [4स्त्यायति संघातेन बाहुल्येन शब्दं करोति वर्षास्विति स्तेगो मण्डूकः।] स यथा क्षाम् क्षियन्ति निवसन्त्यत्रेति क्षा मही तां यथा आयेति । वर्षाकाले भुवं परित्यज्य अप्सु प्लवत इत्यर्थः । एवं त्वं पृथिवीम् आये- षि अतिगच्छसि ऊर्ध्वं गच्छसि । अथ वा अतीति अभीत्यस्यार्थे । अ- भिगच्छसि सर्वां पृथिवीम् । महीति पृथिवीविशेषणम् । महतीम् इत्य- र्थः। अमः स्थाने सुः । अथ वा महीति उत्तरत्र वाता इत्यनेन संबध्यते । किं च मही महान्तो वाता वायवः इह भूमौ नः So A BC ko PVDc. RKV D युज्यमानोग्नि. We with A BC R. ३ B VDC व्यसृष्ट. We with ACkR. 18 वृत्रत्यैव. 280 S. 30 श्रृतः.4S समानस्य. 5s has here a laund for twelve letters. अथर्वसंहिताभाष्ये अस्माकं वान्तु । अग्निसहायत्वेनेति शेषः । यद्वा अस्माकं सुखायेति यो- ज्यम् । किं च मित्रः सर्वप्राणिनां मित्रभूतः एतन्नामको देवः नः अ- स्माकम् अर्थाय अत्र अस्मिन कर्मणि युज्यमानः सन् शोकं व्यसृष्टेति उत्तरत्र संबन्धः । तथा वरुणोपि देवो युज्यमानः सन् शोकं 1व्यसृष्ट । नाशयवित्यर्थः । सृज विसर्गे । अस्माद् दैवादिकात् लुङि रू- पम् । तत्र दृष्टान्तः । अग्निर्वने न अग्निर्यथा तृणगुल्मादिकं कात्रूर्येन विसृजति दहति एवम् इति ॥ दशमी ॥ स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम् । मृडा जरित्रे रुद्र स्तानो अन्यमस्मत् ते नि वपन्तु सेन्यम् ॥४०॥ (४) स्तुहि । श्रृतम् । गर्तऽसदम् । जनानाम् । राजानम् । भीमम् । उपऽह- त्नुम् । उग्रम्। मृड । जरित्रे । रुद्र । स्तवानः । अन्यम् । अस्मत् । ते । नि । वपन्तु । से- न्यम् ॥ ४० ॥ (४) अत्र अग्निरूपो रुद्रः स्तूयते । “रुद्रो वै क्रूरः" [तै.सं० ६.१.७. ७] ["एष रुद्रो] यद् अग्निः " [तै ब्रा०१.१.५..] इति श्रुतेः । अत्र स्तोता स्वात्मानमेव संबोध्य ब्रूते । हे स्तोतस्वं [श्रुतम् प्रसिद्धं ] ग- र्तसदम् । “श्मशानसंचयोपि गर् उच्यते" [नि. ३.५.] इति निरु- क्तोक्तेर्गर्तः शवदाहप्रदेशः । तत्र सीदतीति गर्तसदः । प्रसिद्धो गर्तो वा परिगृह्यते । तस्य अरण्ये संचाराद् गर्तसदनं युज्यते । पुनः कीदृशम् । जनानां किरातपिशाचादिजनानां राजानम् स्वामिनम् । तथा भीमम बिभेति अस्माद् इति भीमं भयजनकम् । तथा उपहलुम् उपत्य ह. न्तारम् । उग्रम् उद्गूर्णबलम् । एवंमहानुभावं रुद्रम् हे आत्मन् स्तुहि स्तुतिं कुरु ॥ अथ प्रत्यक्षवादः । हे रुद्र । सर्वप्राणिनो माम् अनिष्ट्2वा १PP स्नुहि।. २P शुतम् ।. Cr सुतम् ।. 18 व्यसृष्टवान् नाश° for व्यसृष्ट । नाश. 28' अमिष्ठा. [अ॰१. सू०१.] ५४१ अष्टादशं काण्डम् । नश्यन्तीति स्व1यं रौति इति रुद्रः । रुद्रो रौतीति सतः [नि. १०.५.] इति निरुक्तम् । अथ वा देवैर्भर्त्सितः सन् स्वयम् अ- रोदीद् इति रुद्रः । “सोऽरोदीत् । यद् अरोदीत् तद् रुद्रस्य रुद्रत्वम्" इति श्रुतेः [तै सं० १.५.१.१] । यद्वा रुद् दुःखं दुःखहेतुभूतं पापं वा । तद् द्रावयतीति रुद्रः । स्वसेवकानां दुःखस्य द्रावकत्वं श्रुत्यागम- प्रसिद्धम् । तादृशस्त्वं स्तवानः । कर्मणि कर्तृप्रत्ययः४। अ- स्माभिः स्तूयमानः सन मृड सुखय अस्मान्2 । अतस्ते सेन्यम् सेनाः अस्मत् अस्मतः अन्यम् तव द्वेष्टारं नि वपन्तु । वपिरत्र प्राप्त्य- र्थः। नितरां प्राप्नुवन्तु । अथ वा सेन्यम् तव सेनार्हम्। "तद् अर्हति" इति यः । अन्यम् इति व्याख्येयम् । अस्मिन् पक्षे सेना इति शेषः सामर्थ्याल्लभ्यते ॥ इति अथर्वसंहितायाम् अष्टादशकाण्डे प्रथमेनुवाके चतुर्थ सूक्तम् ॥ पितृमेधकर्मणि “सरस्वतीं देवयन्तः"[४१] इति तिसृभिः अग्निदाता कनिष्ठपुत्रश्चितौ दक्षिणत आज्येन सारस्वतहोमान् कुर्यात् ॥ तत्रैव कर्मणि शवदहनस्थानम् "उदीरताम्" [४४] इत्यृचा काम्पील- शाख3या उद्धृत्य अभ्युक्ष्य लक्षणं कुर्यात् [को०११.१] ॥ तथा पिण्डपितृयज्ञेपि अनया ऋचा गर्तं खनेत् । तथा च सूत्रितम् । "यज्ञोपवीती दक्षिणपूर्वम् अन्तर्देशम् अभिमुखं4 उदीरताम् इति कर्पू ख- नति मादेशमात्रीं5 तिर्यगङ्गुलिमिताम्" इति [को०११..] ॥ तत्रैव "उदीरताम्" इति 6तृचेन त्रीणि उदपात्राणि बर्हिषि निन- येत् । सूत्रितं हि । “उदीरताम् इति तिसृभिरुदपात्राण्यन्वृ7चं नि8नय- ति" इति [को०११.] ॥ तत्रैव "इदं पितृभ्यः" [४६] इत्यृचा गर्ते दर्भान् स्तृणीयात् ॥ 18 सौय for स्वयं. 9 This is doubtless uddeal in forgetfulness of the existence of जरित्रे in the text. 33 शाखाया. +5 °मुखम्. We with Kausika. 5S omits the anusvitra on °मात्री. 68 तवेत for तृचेन.TS मृचं for °न्वृचं, 88 नियति for निनयति. ७० अथर्वसंहिताभाष्ये पितृमेधे परेयिवासम् इति द्वाभ्यां [कनिष्ठपुत्रेण चित्यादीपने सति या- म्यौ- होमौ1] कुर्यात् ॥ तत्र प्रथमा । सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने। सरस्वतीं सुकृतो हवन्ते सरखती दाशुषे वार्यं दात् ॥ ४१ ॥ सरस्वतीम् । देवऽयन्तः । हवन्ते । सरस्वतीम् । अध्वरे । तायमाने । सरस्वतीम् । सुऽकृतः । हवन्ते । सरस्वती । दाशुषे । वार्यम् । दात ॥४१॥ सरस्वतीम सरणवतीं सकलशब्दसरणिस्वरूपां वाग्देवतां देवयन्तः दे- वान् यष्टव्यान् आत्मन इच्छन्तः । “सुप आत्मनः क्यच्" इ. ति क्यच् । अत्र विनियोगानुसारेण देवः मृतशरीरस्य संस्कार- कोऽग्निः यमो वाभिमतः । तम् इच्छन्तः हवन्ते आह्वानं कुर्वन्ति । तस्य प्रीणनायेति शेषः । तथा सरस्वतीमेव अध्वरे यज्ञे ज्योतिष्टोमादौ ता- यमाने सति हवन्ते । "तनोतेर्यकि" इति आवम् । यज्ञे सारस्वतहोमस्य विद्यमानत्वात् स्तोत्रशस्त्रादीनां वागात्मकत्वात् तत्सिद्धये च हवन्ते । अत्रापि विनियोगानुसारेण अध्वरः पैतृमेधिको द्रष्टव्यः । एवम् उत्तरत्रापि विनियोगानुसारेण योज्यम् । तथा सरस्वती सुकृतः सुकर्माणः स्वस्वाभिमतफलाय अर्ह्वयन्त आह्वानम् अकुर्वन् पूर्वे आह्वय- न्ति इदानीम् । इति सरस्वती देवी दाशुषे हविर्दत्तवते यजमानाय वा- र्यम् वरणीयं दात् प्रयच्छतु ॥ द्वितीया ॥ सरस्वतीं पितरो हवनो दक्षिणां यज्ञमभिनक्षमाणाः। आसद्यास्मिन् बर्हिर्षि मादयध्वमनमीवा इष आ धेह्यस्मे ॥ ४२ ॥ सरस्वतीम् । पितरः । हवन्ते । दक्षिणा । यज्ञम् । अभिऽनक्षमाणाः । १ Cr हवैते।. PAC K हवन्ते दक्षिणा. We with BR V De. 18 has lecuna here tor about cleven letters with मौ at the end. [अ०१. सू०१.] ५४१ अष्टादशं काण्डम् । ७१ . आऽसद्य । अस्मिन् । बर्हिषि । मादयध्वम् । अनमीवाः । इषः । आ।धे- हि । अस्मे इति ॥ ४२ ॥ सरस्वतीं देवीं पितरोपि हवन्ते आह्वयन्ति । कीदृशाः । दक्षि- णा। “दक्षिणाद् आच्" इति आच् प्रत्ययः । वेदेर्दक्षिणभागे यज्ञम् अभिनक्षमाणाः व्याप्नुवानाः । नक्षतिर्व्याप्तिकर्मा । “स- र्वकर्माणि तां दिशम्" इत्यादिसूत्रात् [आश्व०२.६.३] वेदेर्दक्षिणभागे पैतृकं कृत्स्नं कर्म क्रियते । पितॄणामपि स्वधालाभाय सरस्वत्यपेक्षा वि- द्यत एव । तत्रापि मन्त्रादिरूपायाः सरस्वत्या अपेक्षितत्वम् ॥ हे पितरः यूयम् अस्मिन् क्रियमाणे बर्हिषि यज्ञे आसद्य उपविश्य मादयध्वम् स- रस्वतीं तर्पयत । आसद्य यूयं वा मादयध्वम् तृप्ता भवत । अस्माभिर्दत- या स्वधयेति शेषः । किं च हे सरस्वति पितृभिराहूता त्वम् अनमी- वाः हिंसकै रक्षोभिर्वर्जिताः व्याधिरहिता वा इषः इष्यमाणाः एवंलक्ष- णानि अन्नानि अस्मे अस्मासु आ धेहि स्थापय ॥ तृतीया ॥ सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती। . सहस्रार्धमिडो अत्र भागं रायस्पोषं यज॑मानाय धेहि ॥ ४३ ॥ सरस्वति । या । सऽरथम् । ययाथ। उक्थैः । स्वधाभिः। देवि। पितृऽभिः । मदन्ती। सहस्रऽअर्घम्। इडः। अत्र। भागम्।रायः। पोषम्। यजमानाय। धेहि॥४३॥ हे सरस्वति देवि या प्रसिद्धा वं सरथम् समानम् एकमेव रथं य- याथ यासि । सामर्थ्यात् पितृभिरिति गम्यते । या प्रापणे । लि- दि "अचस्तास्वत्यल्पनिटो नित्यम्” इति थलि इडभावः। की- हशी त्वम् । 1उक्थैः शस्त्रैः स्वधाभिः । पितॄणाम् अन्नं स्वधा । ता- भिश्च पितृभिः सह2 मदन्ती आत्मानं तर्पयन्ती । त्वम [अत्र] सहस्रार्घम Pइषम् ।. 18 inserts वहं at lefore उक्थैः . omitsr in सह. ७२ अथर्वसंहिताभाष्ये अनेकैः पुत्रादिभिः पूजनीयं पुत्रादिसंतर्पकं बहुमूल्यावेन अनर्घ वा इडः अन्नस्य भागम् भजनीयम् अंशं रायस्पोषम् धनस्य गवादिलक्षणस्य पु- ष्टिं च यजमानाय मह्यं धेहि प्रयच्छ । रायस्पोषम् इति । "ष- ष्ट्याः पतिपुत्र” इत्यादिना सांहितिकं सत्वम् ॥ चतुर्थी ॥ उदीरतामवर उत् परास उन्मध्यमाः पितरः सोम्यासः। असुं य ईयुरवृका ऋतज्ञास्ते नोवन्तु पितरो हवेषु ॥ ४४ ॥ उत्।ईरताम् । अवरे। उत्। परासः। उत्। मध्यमाः। पितरः। सोम्यासः । असुम् । ये। ईयुः । अवृकाः । ऋतंऽज्ञाः। ते । नः। अवन्तु । पितरः । हर्वेषु ॥ ४४॥ अवरे वयसा1 गुणैर्वा निकृष्टाः पितरः उदीरताम उतिष्ठन्तु ।ईर गतौ । आदादिकोऽनुदात्तेत् । तथा परासः परे वयआदिना श्रेष्ठाः पितरः उदीरताम् । एवं मध्यमाः उक्तप्रकारेण तादृशाः पितरः उत्तिष्ठ- न्तु । अथ वा [अवरे पुत्रपौत्रप्रपौत्राः2] परासः परे वृद्धप्रपितामहादयः । मध्यमाः पितृपिता3महप्रपितामहाः । सर्वत्र उदीरताम् इति संबन्धः । यद्वा सोम्यास इति सोमसंबन्धाद् अङ्गिरसो नः पितरो नवग्वा अ- थर्वाणो भृगवः सोम्यासः" [५] इत्यादिमन्त्रोक्ता अङ्गिरःप्रभृतयः पू- र्वतनाः पितरः अत्र गृह्यन्ते । तेष्वेव तपआदिमहत्वतारतम्येन अवर- परमध्यमावलक्षणो विभागो द्रष्टव्यः । ते विशेष्यन्ते । सोम्यासः । सो- मार्हाः सोमसंपादिनः । x“सोमम अर्हति यः" इति 4यंप्रत्ययः ये असुम् प्राणम् ईयुः प्राणोपलक्षितं लिङ्गशरीरं प्राप्ताः प्राणं वा प्रयच्छन्ति स्वयष्टुभ्यः । अवृकाः अहिंसकाः । ऋतज्ञाः सत्य- विदः । ते तादृशाः पितरः हवेषु आह्वानेषु निमित्तभूतेषु नः अस्मान् अवन्तु रक्षन्तु ॥ << 3 S om. १CP ऋतज्ञाः। 18सा for वयसा. 2 S has a lacuna here for alvout twelve letters. पितामहप्र 4 S' Om.य Tº [अ०१. सू०१.] ५४१ अष्टादशं काण्डम् । ७३ पञ्चमी ॥ आहं पितॄनत्सुविदंत्रा अवित्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥ ४५ ॥ आ। अहम् । पितॄन् । सुऽवित्रानं । अवित्सि । नपातम् । च । विऽक्र- मणम् । च । विष्णोः। बर्हिऽसदः । ये । स्वधया । सुतस्य । भजन्ता । पित्वः । ते । इह । आऽग- मिष्ठाः॥४५॥ अहं सुविदत्रान् कल्याणधनान् पितॄन आवित्सि आभिमुख्येन प्राप्नोमि आजानामि वा । विदेर्लाभार्थात् लुङि सिचि "एकाच उपदेशे- नुदातात्" इति इट्प्रतिषेधः । “लिडिचावात्मनेपदेषु” इति कित्त्वाद् गु- णाभावः । क्रियाफलस्य कर्तृगामित्वाद् आत्मनेपदम् । विदेर्ज्ञानार्थाद् वा लुङि व्यत्ययेन आत्मनेपदम् । 1इडभावः । किं च विष्णोः । “य- ज्ञो वै विष्णुः" इति [तै.बा ३.१.६.७] श्रुतेर्यज्ञाख्यस्य विष्णोः न- पातम् न पातयितारम् । र "नभ्राण्नपात" इत्यादिना निपातितः निर्वाहकम् अग्निं च आवित्सि । तथा विक्रमणं च क्रमेण सवनत्रयाक्रमणं च आवित्सि । अतो ये बर्हिषदः बर्हिषि निषीदन्तः एतन्नामकाः पितरः सन्ति । “ये वै यज्वानो गृहमेधिनस्ते पितरो बर्हि- षदः " इति श्रुतेः [तै. बा.१.६.९.६] । एवंलक्षणा ये स्वधया सह सुतस्य अभिषुतस्य । कर्मणि षष्ठी । सुतं सोमं [भजन्त] भजन्ते ते तान् हे अग्मा पित्वः । आसन्ननामैतत् । आसन्नः सन् इह अस्मिन् कर्मणि आगमिष्ठाः आगमय । अथ वा ये भजन्ते ते पितरः पिवः अन्तिकं देशम् आगमिष्ठाः आगच्छन्तु ॥ षष्ठी ॥ इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः । १R "विदत्रं अवित्सि. Dविदत्रं अवित्सि changed to °विदत्री अवित्सि. वि- दत्राम् ।. We with P Ce. ३ . यउपरास. We with A BC RV Dc. 18 इडाभाव. १० ७४ अथर्वसंहिताभाष्ये ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु दिक्षु ॥ ४६॥ इदम। पितृऽभ्यः। नमः। अस्तु । अद्य। ये। पूर्वांसः । ये। अपरासः। ईयुः। ये । पार्थिवे । रजसि । आ। निऽसताः। ये । वा। नूनम् । सुऽवृजनासु । दिक्षु ॥ ४६॥ पितृभ्यः अद्य इदानी् क्रियमाणम् इदं नमोस्तु । “नमस्कारो हि पितॄणाम्" इति श्रुतेः [तै ब्रा० १.३.१०.१] नमउक्तिः क्रियते । पितृन् विशिनष्टि । ये पूर्वासः पूर्वे 1परेताः ईयुः पितृलोकं प्राप्ताः । उँ अपि च परासः परे ईयुः । ये च पितरः पार्थिवे रजसि भूलोके आ निषताः आनिषण्णाः स्थिताः । "नसतनिषत" इत्यादिना नि- पातितः । वा अथ वा ये पितरो नूनम् इदानी सुवृ2जनासु सुष्टु विभक्तासु दिशु प्रागादिषु आ निषताः । तेभ्यः सर्वेभ्यः पितृभ्यः इदं नमोस्तु इति पूर्वत्रान्वयः ॥ सप्तमी॥ मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिरक्वभिर्वावृधानः । यांश्च देवा वावृधुर्ये च दे॒वांस्ते नोवन्तु पितरो हवेषु ॥४७॥ मातली। कव्यैः । यमः । अङ्गिरःऽभिः। बृहस्पतिः । ऋकऽभिः । ववृधानः । यान् । च । देवाः । ववृधुः । ये । च । देवान् । ते । नः । अवन्तु । पित- र-। हवेषु ॥ ४७ ॥ मातली यमः बृहस्पतिश्च पितॄणां नेतारो देवाः । अत्र मातली ना- म देवः [कव्यैः ] एतासंज्ञकैः पितृभिः सह वावृधानः वर्धमानों भवति यजमानप्रतेन हविषा । तथा यमो देवः अङ्गिरोभिः पितृभिः सह । यमस्य देवत्वं पितृत्वं चेति द्वैरूप्यम् अस्ति । अत्र देवत्वं विवक्षितम् । तथा बृ- हस्पतिर्देवोपि ऋक्वभिः अर्चनीयैः [एतन्नामकैः पितृभिः सह वावृधा- नः । तत्र यांश्च पितॄन देवाः मातल्यादयः प्रमुखाः सन्तो वावृधुः व- १80PP Aud Cr, and not उपरासः | or उ.। परासः.. 18 परितः. 25 वृजिनासु for सुवृजनासु. ७५ [अ॰१. सू०१.] ५४१ अष्टादशं काण्डम्। र्धयन्ति यज्ञे । ये च पितरः कव्यादयो देवान् निर्दिष्टान् ववृधुः वर्ध- यन्ति स्व1धामदाने ते अत्र निर्दिष्टाः पितरः नः अस्मान् हवेषु आ- ह्वानेषु अवन्तु रक्षन्तु ॥ अष्टमी॥ स्वादुष्किलायं मधुमाँ उतायं तीवः किलाय रसवाँ उतायम् । उतो न्वस्य पंपिवांसमिन्द्रं न कश्चन्न सहत आहवेषु ॥ ४ ॥ स्वादुः । किल । अयम् । मधुऽमान । उत । अयम् । तीवः । किल । अ- यम् । रसऽवान् । उत । अयम। उतो इति । नु । अस्य । पपिऽवांसम् । इन्द्रम । न । कः । चन । सहते। आऽहवेषु ॥ ४ ॥ अत्र सोमः स्तूयते । अयम् अभिषुतः सोमः स्वादुः सुखेन आस्वा- द्यः किल । यथा बा2लकं पयआदिकपानाय3 स्वाद्वादिगुणकीर्तनेन प्र- रोचयति तद्वद् अत्रापि अभिधीयते । उत अयं सोमः मधुमान माधु- र्योपेतः किल । यत एवम् अतः स्वादुरित्यर्थः । तथा अयं सोमः ती- व्रःआशु मदयिता किल । उत अपि च अयं रसवान् बहुरसोपेतः किल । उतो अपि च नु किल अस्य अमुं सोमं पपिवांसम् पीतव- नाम् इन्द्रम् आहवेषु परस्पराह्वानवत्सु संग्रामेषु कश्चन असुरादिः न सहते नाभिभवति । तं सोढुं न शक्नोतीत्यर्थः । अनेनास्य अत्यन्त- बलकरत्वम् उक्तं भवति । तत्र सर्वत्र स्वाद्वा3दिगुणेषु अनुभवसिद्धेष्वपि पितॄणां4 देवानां [च] तत्प्रत्यायनाय किलेति प्रयुक्तम् इति मन्तव्यम् ॥ नवमी॥ परेयिवांसं प्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम् । १० स्वादुः किलाय. We with A B . RV Dr. २ मधुमं. D: मधुमं chungel to मधुमां. C मधुमा. ३R रसवं. De रसवं changeel to रसवाँ. CR for . C: I. So all our MSS. and sailikas. But it is ccrtain that is a mistake forfat. Observe that Sayana explains by afraid (though his own reucling is st). 15 स्वप्रधान्ये. 28 बालकं पयआदिकं पानाय. 3' स्वादिगुणेषु. 45 तपितृ- णांदेवनांप्रत्यायनाय. g" उपे- तन्त्रम् । अथर्वसंहिताभाष्ये वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥ ४९ ॥ परेयिऽवांसम् । प्रऽवतः । महीः । इति । बहुऽभ्यः । पन्थाम् । अनुडप- स्पशानम्। वैवस्वतम् । समडगमनम् । जनानाम् । यमम् । राजानम् । हविषा । स- पर्यत ॥४९॥ परेयि1वांसम् परागतम् अत्यन्तविप्रकृष्टदेशं गतवन्तम् । उपे- यि2वाननाश्वाननूचानश्च” इति क्वस्वनो निपातितः । उपसर्गग्रहणम् अ-

तन्त्रम्। परागतिं विशिनष्टि । प्रवतो महीरनुं प्रकर्षवती3र्भू -

मीः प्रति । सर्वां भूमिम् अतिक्रम्य वर्तमानम् इत्यर्थः । उ पसर्गाच्छन्दसि धात्वर्थे” इति वतिः । अर्थग्रहणसामर्थ्यात् लिङ्गसंख्या- योगः ।किं च बहुभ्यः पितृलोकं गतेभ्यः पन्थाम् पन्थानं मा- र्गम् अनुपस्पशानम् । अनु इत्ययम् अवेत्यस्यार्थे । अवगच्छन्तम् इत्य- र्थः । स्प4शतिर्ज्ञानकर्मा । एवंरूपं वैवस्वतम् विवस्वतः पु- त्रं जनानाम् मृतानां संगमनम् प्राप्तिस्थानभूतम् एवंमहानुभावं यमं राजानं हविषा सपर्यत पूजयत ॥ दशमी॥ यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ । यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः॥५०॥ (५) यमः।नः। गातुम्। प्रथमः। विवेद ।न। एषां । गव्यूतिः । अपेऽभर्तवै। ऊ इति। यत्र । नः । पूर्वे। पितरः । पराऽइताः । एना। जज्ञानाः । पथ्याः । अनु। स्वाः॥५०॥(५) यमो देवः नः अस्माकं संबन्धिनां मृतानां गातुम् मार्ग प्रथमः पू- १C एषां। 18 परेयुवां 23 उपेयुवान° for उपेयिवान', and the text also in s' has उपेयु- वान. 38 प्रकर्षचत्यो. स्पर्शयतिज्ञा, एना यत्र [अ०१सू०१.] ५४१ अष्टादशं काण्डम् । र्वगामी सन् विवेद अजानात् । उ अपि च एषा मृतेन गन्तव्या य- मेन नेतव्या गव्यूनिः पद्धतिः । मार्ग इत्यर्थः । x“गोर्यू1तौ छन्द- सि" इति वान्तादेशः । अप2भर्त्वै अपहर्तुं देवैर्मनुष्यैर्वा परिहर्तुं न । शक्येति शेषः । अवश्यं गन्तव्यैवेत्यर्थः । आत्मसाक्षात्काररहितैः पु- रुषैः स्वकर्मफलभोगाय पितृलोकप्राप्तेरावश्यकत्वात् । अपभर्तवै इ- ति । “तवै चान्तश्च युगपत्" इति उभयपदप्रकृतिवस्वरत्वम् । यस्मिन् मार्गे नः अस्माकं पूर्वे पूर्वभाविनः पितरः परेताः परागताः येन3 च मार्गेण पुनरागत्य जज्ञानाः जाताः सर्वे स्वाः स्वीयाः स्वस्वक- र्मानुरोधिनीः पथ्याः हितकरा भूमीर्गच्छन्ति । स्वस्वकर्मोपार्जितानि स्था- नानि स्वेषां हितानि भवन्ति । तं मार्ग [यमो विवेदेति पूर्वत्र संबन्धः] ॥ इत्यपर्वसंहितायाम् अष्टादशकाण्डे प्रथमेनुवाके पञ्चमं सूक्तम् ॥ पिण्डपितृयज्ञे “बर्हिषदः पितरः" इत्यृचा बर्हिः स्तृणीयात् । सूत्रितं हि । “बर्हिर्गृहीवा विचृत्य संनहनं दक्षिणापरम्" इति प्रक्रम्य “ब- "र्हिरुदकेन संप्रोक्ष्य बर्हिषदः पितरः [१६.१.५१] उपहूता नः पितरः ."[१६.३.४५] अग्निष्वाताः पितरः [१६.३.४४] ये नः पितुः पित- "र:[१६.३.४६] येस्माकम् [१६. ४. ६४] इति प्रस्तृणाति" [इति । कौ ११..] ॥ तत्रैव कर्मणि “आच्या जानु" [५२] इत्यूचा तस्मिन् बर्हिषि तिलान् प्रकिरेत् ॥ पितृमेधे प्रेतास्तीनि अनया त्रिपादे शिक्ये उपवेशयेत् ॥ पितृमेधे “प्रेहि प्रेहि" [५४] इत्यनया तम् उत्थाप्य शकटे निद- ध्यात् ॥ तत्रैव “अपेत वीत" [५५] इत्यनया प्रेतदहनस्थानं काम्पीलशाखया संमोक्षयेत् ॥ पिण्डपितृयज्ञे "उशन्तस्त्वा" [५६] इति द्वाभ्याम् ऋग्भ्यां द्वे काष्ठे IS आसप for अप. 28 leaves aacuna for some ten letters here after परेताः and has then यखंगता: for परागताः. 3 The text inst too has येना for एना. 1 S leaves after मार्गं a lacuna for some ten letters. S शाखाया. अथर्वसंहिताभाष्ये गृहीत्वा अग्निम् आदीपयेत् । सूत्रितं हि । " काष्ठे गृहीत्वा उशन्त इत्यादीपयति । आदीप्योरेकं प्रति निदधाति" इति [कौ ११..] ॥ तत्रैव “अङ्गिरसो नः पितरो नवग्वाः" [५] इति सप्तभिर्ऋग्भिः प्रेतशरीरे अग्निप्रदः पुत्रः आज्यं जुहुयात् ॥ "इमं यम" [६०] इत्यूचा यमाय चतुर्थी व1पाहुतिं जुहुयात् ॥ "इत एतद् उदारुहन" [६१] इति चतसृभिः उत्थापनीयाभिर्ऋग्भिः प्रेतम् उत्थाप्य शकटे शयने वा निदध्यात् ॥ तत्र प्रथमा। बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् । त आ गतावसा शंतमेनाधा नः शं योररपो दधात ॥ ५१ ॥ बर्हिऽसदः । पितरः । ऊती । अर्वाक् । इमा। वः । हव्या । चकृम । जु- षध्वम् । ते। आ । गत । अवसा । शमडतमेन । अध। नः । शम् । योः। अरपः। दधात ॥५१॥ हे बर्हिषदः । बर्हिषि आस्तीर्णे दर्भे सीदन्तीति बर्हिषदः । न्त्यलोपश्छान्दसः । यज्ञम् आगताः हे पितरः यूयम् अती ऊ- त्या अस्मद्रक्षणेन निमितेन अर्वाक् अस्मदभिमुखम् । आगच्छतेति शे- षः । आगते सति किं लभ्यम् अस्तीत्यत्राह । इमा इमानि पुरत आ- सन्नानि हव्या हव्यानि हवींषि वः युष्मभ्यं चकृम अकाष्र्म । तानि यूयं जुषध्वम् सेवध्वम् । ते तादृशा यूयम् आ गत आगच्छत । मेर्लुङि मन्त्ये घस इति च्लेर्लुक्।'अनुदातोपदेश' इत्यादिना अनुनासिकलोपः । केन सहिताः । शंतमेन सुखतमेन अवसा र- क्षणेन सह । अस्माकं क्लेशलेशेनापि रहितां रक्षां कर्तुम् आगच्छतेत्य- र्थः । अर्थं आगत्य च [नः ] अस्मभ्यं शम् रोगाणां शमनं योः भया- नां यावनं च अरपः । रपो रिप्रम् इति पापनामनी भवतः इति निरुक्तम् [नि०४.२१.] । अपापं यथा भवति तथा दधा- IS omits the ann-vara in ageff.

" . [अ०१. सू.१.] ५४१ अष्टादशं काण्डम् । ७९ "तप्तनप्तनयनाश्च" इति तस्य तबादेशः । तपः पित्वाद् आ- ल्लोपाभावः। प्रयच्छत ॥ द्वितीया ॥ आच्या जानु दक्षिणतो निषधेदं नो हविरभि गृणन्तु विश्वे । मा हिंसिष्ट पितरः केन चिन्नो यद् व आगः पुरुषता कराम ॥ ५२ ॥ आऽअच्च । जानु । दक्षिणतः । निऽसद्य । इदम् । नः । हविः । अभि । गृणन्नु । विश्वे। मा। हिंसिष्ट । पितरः । केन । चित् । नः । यत् । वः। आगः। पुरुषता। कराम ॥ ५२॥ हे पितरः विश्वे सर्वे यूयं जानु आच्य जानुप्रदेशम् आकुच्य । अ- नेन भोजनोचितः संनिवेश उक्तो भवति । दक्षिणतः वेदेर्दक्षिणभागे उ- पसद्य उपविश्य इदम् अस्माभिर्दीयमानं पुरोवर्ति ह1विः हव्यम् अभि गृणीत अभिष्टुत समीचीनम् इति ब्रूत । अनेन हविःस्वीकारः अर्थाद् उक्तो भवति । न हि अनास्वाद्यमानस्य प्रशंसास्ति । कर्तव्यविषये अति- कमे संजातेपि शिक्षा न कार्येति प्रार्थयते । हे पितरः यूयं केन चिद् अल्पेन महता वा अपराधेन नः अस्मान् मा हिंसिष्ट हिंसां मा कु- रुत । अपराधस्य2 [संभावनाम् आह] । पुरुषता पुरुषत्वेन मनुष्यत्वेन हेतुना [वः युष्माकं] यद् आगः यम् अपराधं कराम कुर्मः । मनुष्या- णाम् अनवधानाद् अतिक्रमसंभावनास्त्येवेत्यर्थः ॥ तृतीया ॥ त्वष्टा दुहित्रे वहुतुं कृणोति तेनेदं विश्वं भुवनं समेति । यमस्य माता पर्युषमाना महो जाया विवस्वतो ननाश ॥ ५३ ॥ त्वष्टा । दुहित्रे । वहुतुम् । कृणोति । तेन । इदम् । विश्वम् । भुवनम् । सम् । एति। 1508, 28 हव्यं हविः for हविः हव्यं. 3S leaves after this a lacuna for som ten letters and has set for Tin TTET. to अथर्वसंहिताभाष्ये यमस्य । माता। परिऽउह्यमाना। महः । जाया। विवस्वतः । ननाश ॥५३॥ अस्य 1मन्त्रस्य “अपागूहन" [१४.२.३३] इति उपरि वक्ष्यमाणस्य च अर्थविवरणरूपा आख्यायिका बृहद्देवतानुक्रमणिकाकारेण स्पष्टं प्र- दर्शिता । अभवन्मिथुनं त्वष्टुः सरण्यु2त्रिशिराश्च ह । स वै सरण्युं प्रायच्छत् स्वयमेव विवस्वते ॥ ततः सरण्य्वा3 जज्ञाते यमयम्यौ विवस्वतः । तौ चाप्युभौ यमौ स्यातां4 ज्यायांस्ताभ्यां तु वै5 यमः ॥ दृष्ट्वा6 भर्तुः परोक्षं तु सरण्युः सदृ7शीं स्त्रि8यम् । निक्षिप्य तद्युगं8 तस्याम् अश्वा भूत्9वापचक्रमे ॥ अविज्ञाता विवखांस्तु तस्याम् अजनयन्मनुम । राजर्षिरभवत् सोपि विवस्वानिव तेजसा ॥ स विज्ञाय त्वपक्रान्तां सरण्यु त्10विश्वरूपिणीम् । त्वाष्ट्री प्रति जगामाशु 11अश्वो भूत्वा 12सलक्षणः ॥ सरण्युश्च विवस्वन्तं विदित्वा हयरूपिणम् । मैथुनायो13पचक्राम तां चाश्वां14मारुरोह सः॥ ततस्तयोस्तु योगेन शुक्लं15 तद् अपतद् भुवि16 । उपजिघ्रति सा त्वश्वा तच्छुल्लं गर्भकाम्यया17 ॥ आघ्रातमात्राच्छुक्लात्18 तु कुमारौ संबभूवतुः । नासत्य19श्चैव दस्रश्च यौ तु 20तावश्विनाविति ॥ त्वष्टा सिक्तस्य रेतसः पुरुषाद्याकारनिर्माता देव उच्यते । 'यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति" [तै० सं०१.५.९.२] इत्यादि- श्रुतेः । एतन्नामको देवः दुहित्रे स्वदुहितुः पुत्र्याः सरण्यवाः21 । १C मही. 18 गृहस्य for मन्त्रस्य. 2 So S. 38 सरण्या. 4 So S. 58 वैय्यमा. 68 दृष्ट TS सदशां प्रियम्. 88 मिथुतां.98 भूताप. 108 सस्वरुपिणीम्. 118 श्वो for अश्वो. 128 स्वलक्षणः. 135' मैथुनायाप, 14 S चाश्वमारु. 153 तदपि तद्भुषि. 168 तच्छुक्लां. 17S °काम्ययां. 18 °च्छुक्लातु. 108 नासत्यश्वेव. 203 ताविश्वनादिति. The corrections in the quotation are conjectural. 218 सरण्या.. [अ०१. सू.१.] ५४० १ अष्टादशं काण्डम्। ष्ठ्यर्थे चतुर्थी । वहतुम् विवाह- कृणोति करोति इति तेन कारणेन इदं विश्वं भुवनम् भूतजातं समेति संगतम् अभूत् । तद्दिदृक्षयेति शेषः । यमस्य देवस्य माता जनयित्री सरण्युः पर्युह्यमाना परिवाहम् उद्वाहं त्व- ष्ट्रा पित्रा क्रियमाणा।वहतेर्यकि यजादित्वात् संप्रसारणम् । म- हः महतः अतिशयितप्रभावस्य विवस्वतः सूर्यस्य जाया सरण्युः ननाश अदर्शनं तिरोधानं प्राप्ता । “अपागूहन्नमृतां मर्त्येभ्यः" [१६.२.३३] इति वक्ष्यमाणत्वात् । अत्र निरुक्तम् । त्वष्टा दुहितुर्वहनं करोतीतीदं सर्वं भुवनं समेति । यमस्य माता पर्युह्यमाना महतो जाया विवस्वतो ननाश । रात्रिरादित्यस्य । आदित्योदयेन्तर्धीयते [नि०१२.११] इति ॥ चतुर्थी ॥ प्रेहि प्रेहि पथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः । उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥ ५४ ॥ प्र। इहि । म । इहि । पथिडभिः । पूःऽयानैः । येन । ते । पूर्वे । पितरः । पराऽइताः। उभा। राजानौ । स्वधया । मदन्तौ । यमम् । पश्यासि । वरुणम् । च । देवम् ॥ ५४॥ अत्र “प्रेहि प्रेहि" इत्यनया प्रेतम् उत्थाप्य शकटे निदध्याद् इति विनियोगात् तस्य शकटं प्रति गमनम् अभिधीयते । हे प्रेत वं प्रेहि प्रेहि प्रगच्छ प्रगच्छ । शकटं प्रतीति शेषः । अथ वा यमलोकं प्रति प्रेहि । द्विरभिधानम् आवश्यकगमनद्योतनाय । कैः साधनैरिति तत्राह । पूर्याणः । यात्यनेनेति यानं वर्त्म । पुमांसो येन वर्त्मना पितृलोकं यान्ति स पूर्याणः । पुंभिः उह्यमानो वा शिबिकादिः पूर्याणः । पृ- षोदरादित्वाद् अयं साधुः ।बहुवचनं पूजार्थम् । तैः [पथिभिः ] प्रेहि । स मार्गो विशेष्यते । येन यानेन ते तव पूर्वे पितरः पितृपि- तामहाद्याः परेताः परागताः पितृलोकं प्राप्ताः ॥ तत्र को लाभ इत्य- त्राह । उभा उभौ राजाना राजानौ देवेषु मध्ये क्षत्रियजातीयौ । अपर्वसंहिताभाष्ये "यमो राजा" [ ब्रा०३.१.२.११] "वरुणो राजा" [ ब्रा०३. ७.७.६] इति श्रुतिषु सर्वत्र प्रसिद्धेः । स्वधया असेमाभिर्देशया मदन्तौ माद्यन्तौ । विद्यते इति शेषः । तत्र लोके यमं देवं पश्यासि पश्यसि वरुणं च देवं पश्यसि । अतः प्रेहीति पूर्वत्रान्वयः ॥ पञ्चमी॥ अपेत वीति वि च सर्पतातोडस्मा एतं पितरो लोकमक्रन । अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥ ५५ ॥ अप । इत । वि। इत । वि । च । सर्पत । अतः । अस्मै। एतम् । पितरः। लोकम् । अक्रन् । अहःऽभिः । अतऽभिः । अक्तुडभिः । विऽअक्तम् । यमः । ददाति । अ- वडसानम् । अस्मै ॥ ५५ ॥ अत्र अनया दहनस्थानं संप्रोक्षेत् इति विनियोगात् तत्स्थानस्थिताना रक्षःपिशाचादीनाम् अपगमनम् अभिधीयते । हे रक्षःप्रभृतयः यूयम् अ. पेत अपगच्छत । वीत । xवी गत्यादिषु । अत्र गतिरर्थः । .वि- गता भवत । अतः अस्माद् दहनस्थानाद् वि सर्पत च विविधं विशे- षेण वा गच्छत । दूरं गच्छतेत्यर्थः । अपसारणीयान् विशिनष्टि । ये अत्रं स्पले पुराणाः पूर्वतनाः स्यं भवथं । ये चं अत्र नूतनाः इदानी- न्तनाः स्य तिष्ठथ । ते सर्वे अपेतेति संबन्धः । अस्मै प्रेताय अहोभिश्च अद्भिः क्षालनसाधनैरुदकैश्च अक्तुभिः अभिव्यक्तिसाधनाभी रात्रिभिश्च व्यक्तम् सुविशदम् अवसानम् अवस्यति अत्रेत्यवसानम् । षो अन्तकर्मणि । अधिकरणे ल्युट् ।स्थानम् । तद् अस्मै यमो देवः ददाति अदात् । तदर्थम् अपेतेति संबन्धः ॥ १Cइतेः1. २ इत। 18' अपसरणीयान्. 2 The text in s', however, rcada acarare fatto कमझन् and not येत्र स्था पुराणा ये च नूतनाः which Sayau appears to have read most- ly in conformity with the Taittirîya îranyuka I. 27. 5. [अ०१. सू.१.] ५४१ अ. अष्टादर्श काण्डम्। ४३ षष्ठी॥ उशन्तस्त्वेधीमह्युशन्तः समिधीमहि । उशन्नुशत आ वह पितॄन् हुवषे अत्तवे ॥ ५६ ॥ उशन्तः । त्वा । इधीमहि । उशन्तः । सम् । इधीमहि । उशन् । उशतः । आ । वह् । पितॄन् । हविषै। अत्तवे ॥५६॥ हे अग्ने अस्मिन् पितृयज्ञे त्वा वाम् उशन्तः यज्ञनिर्वाहार्थे त्वां का. मयमाना 1हवामहे आह्वानं कुर्मः । तथा उशन्तः कामयमानास्त्वां समि- धीमहि सम्यग् 2इड्धः करवाम । इन्धेर्विधिलिङि विकरणस्य लुक् छान्दसः । 3अनिंदिताम्" इति धातुनकारस्य लोपः ।त्वं च उशन यज्ञं. [स्वधां वा] कामयमानः सन् उशतः स्वधां कामयमानान् पितृन् आ वह । किमर्थम् । हविषे हविःस्वीकाराय अत्तवे तस्य च भक्षणाय । आं4 वहेति संबन्धः ॥ सप्तमी॥ घुमन्तस्त्वेधीमहि घुमन्तः समिधीमहि । युमान् द्युमत आ वह पितॄन हुविषे अतवे ॥ ५७ ॥ युऽमन्तः । त्वा । इधीमहि । युऽमन्तः । सम । इधीमहि । युज्मान । चुऽमतः । आ । वह । पितॄन् । हविषे । अत्तवे ॥ ५७ ॥ हे अग्ने घुमन्तः दीप्तिमन्तः 5त्वदनुग्रहाद् अतिशयिततेजसो वयं त्वा त्वां हवामहे । शिष्टं पूर्वमन्त्रवद् योज्यम् ॥ अष्ठमी॥ आङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । PB TETET: I. ABCR tha. We with KŘ V De. PPORT: I. We with Cr. i Sayana's text in , however, is इधीमही. 28ऋद्ध. 39 अनुदिता। स्वधां वा । तामिति &c. instead of अनिदितामिति &c. The words स्वधा ऴा obviously ought to be where we have inserted them. They were perhaps misplaced by the scribe of S. 4 S' omits आ. 5 तदनु अथर्वसंहिताभाष्ये तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥ ५ ॥ अङ्गिरसः । नः । पितरः । नवऽग्वाः । अथर्वाणः । भृगवः । सोम्यासः । तेषाम् । वयम् । सुऽमतौ । यज्ञियानाम् । अपि । भद्रे । सौमनसे । स्या- म ॥५॥ अङ्गिरसः एतvdनामानः अङ्गारात्मकाः । “येङ्गारा आसंस्तेगिरसोभ- वन" इति निरुक्तम् [ऐ ब्रा ३.३४] । पूर्व महर्षयः नः पितरः [अ. स्माकं पितरः । नवग्वाः] नूतनस्तुतिका नवभिर्मासैरुङ्गता वा । तथा अथर्वाणश्च नः पितरः भृगवश्च नः पितरः । भृगुर्भुज्यमानो न देहेङ्गारेष्विति निरुक्तम् [नि ३. १७] ।एते सर्वे सोम्यासः सो- मार्हाः सोमसंपादिनः । एषाम् अङ्गिरःप्रभृतीनाम् ऋषिगणमध्ये प्राधा- न्याद् इदानीन्तनानामपि प्राचुर्येण तङ्गोत्रत्वात् पितृत्वम् । यज्ञियानाम् यज्ञार्हाणां तेषां सुमतौ शोभनायाम् अनुग्रहरूपायां बुद्धौ वयं स्याम भवेम । तेषां सुमतिरस्मासु भवेद् इत्यर्थः । अपि अपि च तेषां भद्रे कल्याणे सौमनसे सुमनसो भावः सौमनसम् । युवादिषु पाठो द्र- टव्यः। तत्र स्याम भवेम । उक्तस्यैवार्थस्य स्पष्टाभिधानम् एतत् ॥ नवमी ॥ अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व । विवस्वन हुवे यः पिता तेस्मिन् बर्हिष्या निषद्य ॥ ५९॥ अङ्गिरःऽभिः। यज्ञियः। आ। गहि । इह । यम । वैरूपैः । इह । मादयस्व । विवस्वन्तम्। हुवे। यः। पिता। ते। अस्मिन् । बर्हिषि । आ। निऽसद्य॥९॥ हे यम इह अस्मिन् कर्मणि अङ्गिरोभिः एतन्नामकैः पितृभिः सह आ गहि आगच्छ । कीदृशैः । यज्ञियः यज्ञार्हैः । एवं वैरूपैः विरूपा- ख्यस्य महर्षे2र्गोत्रजैः सह आ गहि । आगत्य च इह अस्मिन् यज्ञे माद- यख तर्पय3स्व ॥ न केवलं त्वामेव ह्वयामि । किं तु ते तव यः पिता वि- वस्वान् आदित्यः तं विवस्वन्तं हुवे आह्वयामि । ह्रयतेर्लटि "ब- 28 महर्षि for महर्षेः. 1 So S. 35 तर्पय. [अ०१. सू.१.] ५४१ अष्टादशं काण्डम् । हुलं छन्दसि" इति संप्रसारणम् । अस्मिन बर्हिषि आस्तीर्णे निषद्य । यथा हविः स्वीकरोति तथा आह्वयामीति शेषः । आभिमु- ख्येन निषध इति वा ॥ दशमी॥ इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व ॥ ६० ॥ इमम् । यम । प्रऽस्तरम् । आ । हि । रोह । अङ्गिरःऽभिः । पितृडभिः । समऽविदानः । आ। त्वा । मन्त्राः । कविऽशस्ताः । वहन्तु । एना । राजन् । हविषः । मादयस्व ॥ ६॥ हे यम इमम् पुरत आस्तीर्ण प्रस्तरम् बर्हिषम्1 । उपस्तीर्णो दर्भः प्र- स्तरः। प्रे स्त्रोऽयज्ञे” इति निषेधाद् घञभावः । “ऋदो- रप्"। तं प्रस्तरम् आ सीद । हि इति पादपूरणः । किमेक एव । नेत्याह । अङ्गिरोभिः एतन्नामकैः पितृभिः सह संविदानः 2ऐकमत्यं प्राप्तः । “समोगम्यृच्छि” इति आत्मनेपदम् ।(हे रा जन्] त्वा त्वां कविशस्ताः कविभिः क्रान्तप्रज्ञैर्महर्षिभिः स्तुता मन्त्राः आह्वानसाधना आ वहन्तु आह्वानं कुर्वन्तु आ3गमयन्तु । आगत्य च एना एनेन अनेन । "द्वितीयाटौःस्वेनः” इति एनादेशः । सर्व- विधीनां छन्दसि विकल्पितत्वाद् इनादेशाभावः । हविषः। तृ तीयार्थे षष्ठी। हविषा अस्माभिर्दत्तेन मादयस्व ॥ एकादशी ॥ इत एत उदारुहन दिवस्पृष्ठान्याहने। म भूर्जयो या पथा ग्रामङ्गिरसो ययुः ॥ ६१ ॥ (६) ROK ft diuifito. Rf steifito. We with ABV De. २ B. उदारु. Rउ 1. We with CV Dc. VEH.BCKRV De attit. We with Cr. 18 हिंष उपस्तीणों &c. माप्तः । XT- 28 एक. 3 S om, at tę अथर्वसंहिताभाष्ये इतः । एते। उत । आ । अरुहुन् । दिवः । पृष्ठानि । आ । अरुहन् । प्र । भूःऽजयः । यथा । पथा। द्याम । अङ्गिरसः । ययुः ॥ ६१ ॥ (६) शवसंस्कर्तारः पुरुषाः एतत् मृतशरीरम् इतः अस्माद् भूप्रदेशाद् उ- दारुहन् ऊध्र्वं शकटादिकम् आरोहयन् । इत एतद् इति शकटे शयने वा प्रेतं निदध्याद् इति विनियोगात् ॥ अनन्तरं दिवः धुलोकस्य पृ- ष्ठानि स्पष्टव्यानि उपरितनस्थलानि भोग्यस्थानानि आरुहन् आरोह- यन् । रुहेर्लुङि “कृमृदृरुहिभ्यश्छन्दसि" इति च्लेः अङ् । डि- त्त्वाद् गुणाभावः । द्युलोकं केन पथा आरोहयन्निति तत्राह । भूर्जयः भरणवन्तो भुवं जितवन्तो वा अङ्गिरसः यथा यादृशेन पथा मा- र्गेण द्याम् धुलोकं [प्र] ययुः प्राप्ताः । तेन मार्गेण दिवस्पृष्ठान्यारुहन् इति संबन्धः ॥ इत्यथर्वसंहितायां प्रथमेनुवाके अष्टादशकाण्डे षष्ठं सूक्तम् ॥ प्रथमोऽनुवाकः समाप्तः॥ द्वितीयेनुवाके षट् सूक्तानि । तत्र1 “यमाय सोमः" इति प्रथमं सूक्तम् । अत्र आदितस्तिसृणाम् शुचां पूर्वर्चा सह प्रेतोत्थापनकर्मणि उक्तो वि. नियोगः2 ॥ पितृमेधे “मैनमग्ने"[४] इत्यादिभिः “सहस्रणीया कवयः"[१] इत्यन्ताभिः “अव सृज" [१०] इत्युग्वर्जि3ताभिश्चतुर्दशभिर् ऋग्भिर्दह्यमानं प्रेतशरीरं सर्वे गोत्रिण उपतिष्ठेरन् ॥ 'मैनमग्ने” इति चतसृभिः प्रेतशरीरे कनिष्ठपुत्रेण दत्तम् अग्निं गो- त्रिण आदीपयेयुः ॥ तत्रैव कर्मणि “अजो भागः"[] इति द्वाभ्यां चितेर्दक्षिणपार्श्वे अज- पशुं बन्धीयात् । यथा दह्यते तथा बन्धनं कार्यं मोचनं न कर्तव्यम् । तथा च मा4हकिराचार्यः “अजो हन्यते दह्यते एकाग्निप्रेतशरीरदहने" इति ॥ 28 °युक्तः for °योगः. त्यृग्वर्धतामि for s. त्यृग्वर्जिताभि. 43 याहि for माह. < 18 inserts प्रथमा after तत्र. [अ०२. सू०२.] ५४२ अष्टादशं काण्डम्। पितृमेध एव चतुर्थेऽहनि “अव सृज" इत्यनया 1एकाग्निकस्याहिताग्नेः शरीरम् अनुमन्त्रयेत ॥ तत्रप्रथमा॥ यमाय सोमः पवते यमाय क्रियते हविः । समं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥१॥ यमाय । सोमः । पवते । यमाय । क्रियते । हविः । यमम । ह । यज्ञः । गच्छति । अग्निऽदूतः । अरम्ऽकृतः ॥१॥ यमाय देवाय सोमः पवते पूयते अभिषूयते सोमयागे यजमानैः ।क- र्मणि कर्तृप्रत्ययः । 2शप् । पूधातोः ।सोमसाधनो ज्योतिष्टोमादि- रननुष्ठितश्चेद् यमो नरके पातयिष्यतीति भिया यमप्रीतये सोमोभिषूयत इत्यर्थः । अथ वा पितॄणां सोम3संबन्धेन यमस्यापि सोमोस्त्येव । किं च यमायैव हविः आज्यादिलक्षणं क्रियते संस्क्रियते उत्पवनादिसंस्कारे- ण । किं च यमं ह यममेव यज्ञः कृत्स्नो ज्योतिष्टोमादिः गच्छति । कीहशो यज्ञः । अग्निदूतः । दूतो यथा स्वामिना दत्तं धनादिकं दा- तव्याय प्रयच्छति एवम् अग्निरपि यजमानेन दत्तं हविस्तस्मैतस्मै देवाय प्रयच्छत्तीत्यगिनुर्दूत इत्यभिधीयते । 4अलंकृतः स्तोत्रशस्त्रादिभिर्भूषितः । यद्वा अलम् अत्यर्थं निष्पादितः । साङ्गोपाङ्ग इत्यर्थः । यद्यपि सोमो हविश्व उभे सर्वार्थं क्रियेते तथा यज्ञोपि सर्वदेवार्थः तथापि यमस्य सर्वप्राणि- संहर्तृत्वेन वा सर्वेषां पितृलोकप्रापकत्वेन वा प्राधान्याद् यमायैव सो- मादिकं क्रियत इत्युपचर्यते ॥ द्वितीया ॥ यमाय मधुमत्तमं जुहोता म च तिष्ठत । इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥२॥ यमाय । मधुमतऽतमम् । जुहोत । म। च । तिष्ठत । 18 एकाहि for एकाग्नि. We correct according to the Kesari, स्वामिसाधने for शप् । पूधातोः। सोमसाधनो. 3 8 संबंधनो for °संयन्धेन. 43 अलयम्. 28 शपधात्त66 अथर्वसंहिताभाष्ये इदम् । नमः । ऋर्षिऽभ्यः । पूर्वऽजेभ्यः । पूर्वभ्यः। पथिकृतऽभ्यः ॥२॥ अत्रापि पूर्वमन्त्रवद् यमस्य प्राधान्याभिप्रायेण होमप्रतिष्ठे तस्यैव कर्तव्ये इत्यभिधीयते । हे यजमानाः यमायैव देवाय मधुमत्तमम् अतिशयेन म- धुमत् सोमाज्यादिकं हविः जुहोत जुहुत । R"तप्तनप्तन." इति तस्य तबादेशे गुणः । प्र च तिष्ठत प्रतिष्ठां समाप्तिं यमायैव कु- रुत । ननु यमायैव हूयते तत्सहचारिणां पितॄणां किं स्याद् इत्याशङ्कय तेषां नमस्कारः क्रियत इत्याह इदं नम इति । ऋषिभ्यः मन्त्रादिद्रष्टृ भ्यः अङ्गिरःप्रभृतिभ्यः । Xऋषिर्दर्शनात् । स्तोमान् ददर्शेत्यौपमन्यव इति निरुक्तम् । तद् यद् एनांस्तपस्यमानान् ब्रह्म स्वयंभ्वभ्यानर्षत त ऋषयोऽभवंस्तद् ऋषीणाम्1 ऋषित्वम् इति विज्ञायते । इति च निरु- तंम [नि० २.११.] । ऋषयो विशेष्यन्ते । पूर्वजेभ्यः पूर्वम उ- त्पन्नेभ्यः इदानींतनयजमानापेक्षया तेषां पूर्वजत्वम् । अत एव पूर्वेभ्यः पथिकृद्भ्यः । [2पथिकृतः पितृलोकस्य पथां कर्तारः । ये प्रथमं परेताः स्व- र्गमार्गाणां दर्शयितारस्ते पथिकृतः पितृ)गणगताः । तेषां मार्गाणाम् इदा- नीन्तनैरपि अनुस्त्रि3यमाणत्वात् । एवंमहानुभावेभ्य ऋषिभ्यः अङ्गिरःप्रभृ- तिभ्यः इदं नमः नमस्कारोस्तु ॥ तृतीया ॥ यमाय घृतवत् पयो राज्ञै हविर्जुहोतन । स नो जीवेष्वा यमेद् दीर्घमायुः प्र जीवसे ॥ ३ ॥ यमाय । घृतऽवत् । पर्यः । राज्ञै । हविः । जुहोतन । सः । नः । जीवेषु । आ । यमेत् । दीर्घम् । आयुः । प्र। जीवसे ॥३॥ हे यजमानाः यमाय राज्ञे घृतवत् घृतोपेतं पयः क्षीरं हविः हवीरूपेण ABCÊR Harfreito. Wc with VC» De PÞ. ¥Ä V Deogw. We with A ३P आयु । ४ CP जीवसे । 18 स्वयंभुवभ्यानवृषत्तवृषयोध्रुवंतहषीणा. 28 has a lacuna for some eighteen or twenty letters here. The restoration is conjectural. 38 अनुसर्य° for अनु. BCR त्रिय te अ.२. सू०२.] ५४२ 'अष्टादशं काण्डम्। संस्कृतं जुहोतन जुहोत जुहुत । तस्य तनादेशे गुणः ।तेन किं लभ्यत इत्यत आह । स प्राप्तहविः सन् नः अस्मान् जीवेषु जी. वासु प्राणिषु मध्ये आ यमत् नियमयेत् स्थापयेत । यथा मृतिर्न भवेत् तथा करोतु । किं च स यमः दीर्घम् आयुः शतसंवत्सरलक्षणम् । प्र- यच्छतु इति शेषः । किमर्थम् । जीवसे जीवनाय ॥ . चतुर्थी ॥. मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् । शृतं यदा करसि जातवेदोडथेमेनं प्र हिणुतात् पितृँरुप॑ ॥ ४ ॥ मा। एनम् । अग्ने। वि। दहः ।मा। अभि। शूशुचः । मा। अस्य । त्वचम् । चिक्षिपः । मा। शरीरम् । शृतम् । यदा । करसि । जातऽवेदः । अर्थ । ईम् । एनम् ।प्र। हिनुतात् । पितृन् । उप ॥४॥ हे अग्ने एनं प्रेतं मा वि दहः विदाहम् अतिदाहं मा कार्षीः । त- था माभि शूशुचः । ४ शुचेर्लुङि चङि रूपम् । दीर्घो लघोः" इति अभ्यासस्य दीर्घः । अभितः शोकयुक्तं मा कार्षीः । उप- र्यधश्च उभयोः पार्श्वयोरपि दाहाद् अभितः शोको भवति तदभावोत्र प्रार्थ्यते । किं च अस्य त्वचं मा चिक्षिपः अन्यत्र मा गमय । त्वग्भे- दं मा कुर्वित्यर्थः । तथा शरीरमपि मा चिक्षिपः अस्य शवशरीरस्य आहुतिरूपत्वात् पुरोडाशादिवद् विदाहाद्यभावः प्रार्थ्यते । यदा त्वम् ए- तच्छरीरं शृतम् हविर्योग्यं पक्वं करसि करोषि । आ पाके। शृतं पाके” इति कर्मणि कर्तरि वा निपातनात् शृभावः । करसी- ति । करोते: औत्सर्गिकः शप् । लेटि वा अडागमः । हे जा तवेदः जातप्रज्ञ अग्ने अथ शृतकरणानन्तरम् ईम् एनं पितृभ्यः 1उप पि- तृसमीपं प्र हिणुतात् प्रहिणु प्रेरय ॥ १ A मेन (omitting °थे ). C वेदोथेमेनं. R वेदोथेममेनं, We with Bk De. २ इमम्. P too, which however seems to correct it to इम् (ईम्?). 1 So S'. The text in S howerer, reads पितृभ्य-: for पितृरूप. 66 66 हे जा९० अथर्वसंहिताभाष्ये पञ्चमी॥ यदा शृतं कृणवो जातवेदोडथेममेनं परि दत्तात् पितृभ्यः । यदो गच्छात्यसुनीतिमेतामथ देवानां वशनीर्भवाति ॥ ५ ॥ यदा । शृतम् । कृणवः । जातऽवेदः । अथ । इमम्1 । एनम् । परि । द- त्तात् । पितृऽभ्यः। यदो इति । 3गच्छाति । असुऽनीतिम् । एताम् । अर्थ । देवानाम् । वशऽनीः । भवाति4 ॥५॥ हे जातवेदः मातहविर्लक्षणधन अग्ने त्वम् एनं शृतम् पक्वं यदा कृ- णवः अकरोः अथ अनन्तरम् 2इदम् इदानीम् एनं दाहेन संस्कृतं पु- रुषं पितृभ्यः परि दतात् प्रयच्छ । यद्वा परिदानं रक्षणाय दानम् इति प्रसिद्धेस्तस्य रक्षणाय प्रयच्छ । उ अपि च अयम् एतां प्रसिद्धाम् अ- सुनीतिम् असून् प्राणान् नयति लोकान्तरम् इति असुनीतिः प्राणाप- हर्त्री देवता तां [यदा] गच्छाति गच्छति अथ अनन्तरम् अयं देवा- नाम् द्योतमानानां स्वकीयानाम् इन्द्रियाणां वशनीः वशं नयतीति व- शनीः।"सत्सूद्विषः” इत्यादिना क्विप् । चक्षुरादीन्द्रि- याणां सूर्यादिदेवताप्रापको भवाति भवति ॥ शनीः । षष्ठी। त्रिकद्रुकेभिः पवते षडुवीरेकमिद् बृहत् । त्रिष्टुब् गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥ ६ ॥ त्रिऽकद्रुकेभिः । पवते । षट् । उर्वीः । एकम् । इत् । बृहत् । त्रिऽस्तुप् । गायत्री । छन्दांसि । सर्वा । ता । यमे । आर्पिता ॥ ६ ॥ त्रिकद्रुकेभिः त्रिकद्रुकैः । ज्योतिष्टोमगोष्टोमायुष्टोमास्त्रयः त्रिकद्रुका इ- त्युच्यन्ते । तैर्निमित्तभूतैस्तेषां निष्पत्तये पवते पूयते यमार्थम् अभिषूयते । १ थेदमैनं. We with ck Revp. २ Cr इदम् । ईम, for मम् ।. ति ।. CP गच्छाति । 1Pगछ- ४P भवति। [अ०२. सू०२.] ५४२ अष्टादशं काण्डम् । ९१ सोम इति शेषः । ज्योतिष्टोमादीनाम् अने1नुष्ठाने यमो हनिष्यतीति भी- त्या तेषु सोमोभिषूयत इत्यर्थः । तथा षडुर्वीः षडुर्व्यः । “षण्मोीर- हससान्तु" [आश्व १.२.१] इत्यत्राम्नानाद् द्योश्च पृथिवी च अहश्च रात्रिश्च आपश्च ओषधयश्च एताः षड् उर्व्यः । ता अपि एकमित् एकमेव बृहत् महान्तं यमम् । उद्दिश्यैव प्रवर्तन्त इति शेषः । अथ वा बृहत् इति उत्तरत्र अन्वेति । बृहत् बृहती छन्दः तथा त्रिष्टुप् गायत्रीति च्छ- न्दांसि । ता तानि इतराणि [सर्वा सर्वाणि ] छन्दांसि यमे आर्पिता आर्पितानि पर्यवसितानि । छन्दोभिरुपलक्षिताः सर्वे मन्त्रा यमैकविषया इत्यर्थः।ऋ गतौ।'अर्तिह्री " इत्यादिना पुगागमः । “जु- ष्टार्पिते च च्छन्दसि" इति आद्युदात्तत्वम् ॥ सप्तमी॥ सूर्य चक्षुषा गच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति निष्ठा शरीरैः ॥ ७ ॥ सूर्यम् । चक्षुषा । गच्छ । वातम् । आत्मना । दिवम् । च । गच्छ । पृथि- वीम् । च । धर्मऽभिः अपः । वा । गच्छ । यदि । तत्र । ते । हितम् । ओषधीषु । प्रति । तिष्ठ । शरीरैः ॥७॥ हे मृत पुरुष त्वं सूर्यं देवं चक्षुषा चक्षुर्द्वारेण गच्छ । सूर्यप्राप्तौ च- क्षुरेव द्वारम् । “आदित्यश्चक्षुर्भूत्वाक्षिणी2 प्राविशत्" इति [ऐ• आ°२. ४.२] पूर्वम् अक्षिणि आदित्यानुप्रवेशात् । तथा वातम् वायुं सूत्रात्मा- नम् आत्मना । अत्र आत्मशब्देन मुख्यः प्राणोभिधीयते । तेन तं ग- च्छ । अत्रापि "वायुः प्राणो भूत्वा नासिके प्राविशत्" इति [ऐ आ. २.४.२] श्रुतेः वातप्राप्तौ प्राण एव द्वारम् । एवं धर्मभिः शरीरधारकैः इतरैरिन्द्रियैः दिवं [च] पृथिवीं च गच्छ । वा अथ वा अपो गच्छ १ चक्षुषा गच्छ. Do चक्षुषा गच्छ changed to चक्षुषा गच्छ. We with A C. CRCPR 3. We with BV De BV Deat. We with A KOR. 18 omits न in भमनुष्ठाने. 28 भूत्वाक्षिणी. वीम् । च। 1 A १२ अथर्वसंहिताभाष्ये उदकानि अन्तरिक्षं वा प्राप्नुहि । यदि तत्र अप्सु अब्देवतायां ते तव हितं भवेत् । अनेन तत्तत्स्थानप्राप्तेरैच्छिकत्वं सूचितं भवति । ओषधीषु व्रीहियवादिषु शरीरैः स्वाव1यवैः कर्मेन्द्रियैः । यद्वा पूजार्थं बहुवचनम् । शरीरेण स्थूलेन प्रति तिष्ठ प्रतिष्ठितो भव ॥ अष्टमी॥ अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥७॥ अजः । भागः । तपसः । तम् । तपस्व । तम्। ते। शोचिः । तपतु । तम्। ते । अर्चिः। याः । ते । शिवाः । तन्वः । जातऽवेदः । ताभिः । वह । एनम् । सुऽकृ- ताम् । ॐ इति । लोकम् ॥ ६ ॥ हे अग्ने अयम् अजस्तव भागः । अनुस्तरणीत्वेन 2अजस्य हन्यमान- त्वाद् एवम् उच्यते । तं तपसा तापकेन तव तेजसा तपस्व संतापय । तम् एव अजं भागं ते तव शोचिः दीप्तिः तपतु संतापयतु । तम् एव अज ते अर्चिः ज्वा3लालक्षणं 4तपतु ॥ एवम् अजस्य तापादिविष- यताम् अभिधाय अथ प्रेतस्य अभिमतलोकप्राप्तिम् आशास्ते । उ अपि च हे जातवेदः प्राप्तपशुलक्षणधन त्वं ते याः शिवाः सुखकरास्तन्वः स- न्ति । “ये ते अग्ने शिवे तनुवो" [तै ब्रा०१.१.७.२] इत्यध्वर्यु- मन्त्रोक्ता विराट्स्वराडाद्याः शिवास्तन्वः4 सन्ति ताभिस्तनूभिः शरीरसुख- करीभिः एनं प्रेतं सुकृताम् पुण्यकृतां लोकम स्थानं वह प्रापय ॥ नवमी ॥ यास्ते शोचयो रंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम् । अजं यन्तमनु त्ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि ॥९॥ { Brº. We with ACİRV De. २८ शिवं. शृतं changed to शिवं. We with ABKY Dc. 18 स्वदययवै for स्वावयवैः, 38 ज्वालालक्षणतमेष for 28 अजाय for अजस्थ. ज्वालालक्षणं तेजः. 18 तनुवः. [अ०२. सू०२.] ५४२ 'अष्टादशं काण्डम् । याः। ते । शोचयः । रहयः । जातऽवेदः । याभिः। आऽपृणासि । दिवम्। अन्तरिक्षम्। अजम् । यन्तम् । अनु। ताः । सम् । ऋण्वताम् । अथ । इतराभिः। शि- वडतमाभिः । शृतम् । कृधि ॥ ९॥ हे जातवेदः ते याः शोचयः । शोचयनीति शोचयः । तादृशा याः सन्ति । तथा या रंहयः वेगवत्यः । रहि गतौ । औणादिक इ- प्रत्यय:। तन्वः सन्ति । किं च याभिस्तनूभिर्ज्वालारूपाभिः दि- वम् अन्तरिक्षं च [आ] प्रीणासि1 पूरयसि तर्पयसि वा तास्तव त- न्वो यन्तं गच्छन्तम् अजम् अनुस्तरणीलक्षणं समृण्वताम् संगच्छन्ताम् । अथ । अथेत्ययं प्रकारान्तरद्योतनार्थः । इतराभिस्तनूभिः शिवतरांभिः अत्यन्तसुखकराभिः अमुं प्रेतं शृतम् पक्वं हविर्योग्यं कृधि कुरु ॥ दशमी॥ अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान् । . आयुर्वसान उप यातु शेषः सं गच्छतां तन्वा सुवर्चाः ॥ १० ॥ (७) अव । सृज । पुनः । अग्ने । पितृऽभ्यः । यः । ते । आऽहुतः । चरति । स्वधाऽवान। आयुः । वसानः । उप । यातु । शेषः । सम् । गच्छताम् । तन्वा । सुड़- वर्चाः॥१०॥ (1) हे अग्ले वम एनं प्रेतं तव हविष्ट्वेन कल्पितं पितृभ्यः पुनरव सृज अत्यन्तं त्यज प्रयच्छ । पितृलोकस्थानायेत्यर्थः । यः प्रतपुरुषः ते त्वयि आहुत: आहुतित्वेन दत्तः स्वधावान् अस्माभिर्दत्ताभिः स्वधाभिस्तद्वान् सन् चरति गच्छति ॥ किं च शेषः । अपत्यनामैतत् । शेष इ- त्यपत्यनाम शिष्यत इति [निरुक्तम् । ३.२.५ । आयु2र्वसानः] आ- Pfarer I. We with Cr. Cpafai. 23 has सत for आयुर्वसानः and then :). 1 Sayana's text too in S bas sfortfar. space for about fifteen letters followed by . ९४ अथर्वसंहिताभाष्ये युष्मान् सन् उप यातु स्वगृहं प्रति गच्छतु । स च प्रेतः सुवर्चाः शो- भनेन वर्चसा युक्तः सन् तन्वा पितृलोकावस्थानोचितेन शरीरेण सं गच्छताम् युक्तो भवतु ॥ यद्वा चतुर्थपादोपि अपत्यविषयतया योजनी- यः । तत्पक्षेपि स च शेषः सुवर्चाः सन तन्वा स्वीयेन शरीरेण सं ग- च्छताम् । अनेन पितृमृतिदुःखात पुत्रस्य शरीरत्यागाभावो वर्चस्वित्वं च प्रार्थितं भवति ॥ इत्यष्टादशकाण्डे द्वितीयेनुवाके प्रथमं सूक्तम् ॥ पितृमेधे "अति द्रव” इति अष्टानाम् ऋचां दह्यमानप्रेतशरीरोप- स्थाने विनियोग उक्तः ॥ तथा एताभिरष्टभिर्दहनदेशं1 नीयमानं प्रेतशरीरम् अनुमन्त्रयेत ॥ संचयनकर्मणि एताभिरष्टभिः हरिणीसंज्ञिकाभिर्ऋग्भिः अस्थिपूर्णं कलशं निखननप्रदेशं प्रति हरेयुः ॥ तत्र “अति द्रव" इति तिसृभिः प्रेतहस्तयोर्दीयमानं गोपशुवृकवयम् अनुमन्त्रयेत ॥ 'स्योनास्मै भव" इति तिसृभिर्मुमूर्षुं यजमानम् अग्निहोत्रशालायाम् आस्तीर्णेषु दर्भेषु स्थापयेत् ॥ तथा एताभिस्तिसृभिर्ऋग्भिः 2अग्नेरुत्तरपार्श्वे प्रेतस्य शरीरं शकटाद् अवतारयेत् । इदं कर्म दहनस्थाने कर्तव्यम् ॥ तथा अस्थिपूर्णकलशस्य भूमौ निखननपक्षे “स्योनास्मै भव" [१९] इत्यृचा कलशम् अभिमन्त्रय निखनेत् ॥ " तत्र प्रथमा । अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा। अधा पितॄनसुविदत्राँ अपीहि यमेन ये सधमादं मदन्ति ॥ ११ ॥ अति । द्रव । श्वानौ । सारमेयौ । चतुःऽअक्षौ । शबलौ। साधुनो। पथा। १C चतुःऽअक्षौ ।। 18 दहनशेष. 28 अग्निरुत्तर. ९५ [अ०२. सू०२.] ५४२ अष्टादशं काण्डम् । अध। पितृन् । सुऽविदत्रान् । अपि । इहि । यमेन । ये । सधडमादम्। मदन्ति ॥ ११॥ प्रेतः संबोध्यते । हे पितृलोकं गच्छन् प्रेत सारमेयौ सरमा नाम दे- वशुनी तस्याः पुत्रौ । "स्त्रीभ्यो ढक्" । चतुरक्षौ चत्वा- रि अक्षीणि ययोः । एकैकस्य चतुरक्षत्वम् । "बहुव्रीही सक्थ्य- क्ष्णोः” इति षच् समासान्तः ।शबलो 1शबलवर्णौ । यद्वा ना- मधेयम एतत् । श्यामशबलसंज्ञकौ । शबलाविति द्विवचनेन श्यामोपि विवक्ष्यते । स्मर्यते हि । श्वानौ द्वौ श्यामशबलौ वैवस्वतकुलोद्भवौ। ताभ्यां बलिं प्रदास्यामि स्यातां मे तावहिंसकौ । इति । तौ श्वानौ साधुना समीचीनेन ऋजुना पथा मार्गेण अति द्रव अतीत्य गच्छ । अध अथ अनन्तरं सुविदत्रान् । विदत्रशब्दो धनवाची । सुधनान् शोभनहवीरूपान्नान् । यद्वा । वेत्तेः कत्रन् प्रत्ययः ।ज्ञा- नवाची विदत्रशब्दः । संज्ञानान् पितृन् अपेहि । अपशब्दः उपोपसर्ग- स्यार्थे । उपेहि । उपगच्छेत्यर्थः । यद्वा अपशब्दो वर्जनार्थः । अप- वृज्य मार्गा3सीनौ श्वानौ वर्जयित्वा पितृन् इहि गच्छ ।एतेर्लोटि रूपम्। ये पूर्वजाः पितरो यमेन पितृराजेन सधमादम सह मा. दनं तृप्तिर्यस्मिन् कर्मणि तत् सधमादं सह तृप्तिर्हर्षो वा यथा भवति तथा मदन्ति माद्यन्ति तान् इहीति संबन्धः । सध मादस्थ- योश्छन्दसि" इति सहस्य सधादेशः । मादयतेरेरजन्तो माद इति मा. धतेर्वा व्यात्ययेन घञ् ॥ द्वितीया ॥ यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा । ताभ्यौ राजन् परि धेह्येनं स्वस्यस्मा अनमीवं च धेहि ॥ १२ ॥ यौ । ते । श्वानौ । यम । रक्षितारौ । चतुःऽअक्षौ। पथिसदी इति पथिऽस- दी। नृडचक्षसा । Cr musenare. We separate the words with PĚ. २ CP चतुःऽअक्षौ । 18 शवलशवलवर्णी. 28षक for कत्रन्.38 मार्गसिनौ. एलोटि " " " अथर्वसंहिताभाष्ये ताभ्याम् । राजन । परि । धेहि । एनम् । स्वस्ति । अस्मै । अनमीवम् । च । धेहि ॥ १२॥ यमरक्षितारौ यमो रक्षिता गोपायिता ययोः । "ऋतश्छन्दसि इति कबभावः । अन्तोदात्तप्रकरणे “त्रिचक्रादीनाम् उपसंख्यानम् इति अन्तोदातत्वम् । यद्वा यमशब्देन तत्स्वामिकं पुरम् उच्य- ते । यमपुरस्य पालयितारौ । कृदुत्तरपदप्रकृतिस्वरत्वेन अन्तोदा- त्तत्वम् । चतुरक्षौ व्याख्यातम् । पथिसदी पितृभिर्गनव्ये मार्गे सी- दन्तौ । x“छन्दसि वनसनरक्षिमथाम्" इति विहित इन् प्रत्ययः सदेरपि व्यत्ययेन भवति । नृचक्षसा 1नृचक्षसौ नृणां गन्तृणां द्र- ष्टारौ हे राजन् पितॄणां स्वामिन् ते त्वदीयौ यो श्वानौ वर्तेते ताभ्या श्वभ्याम् एनम अन्वादिष्टं प्रेतं परि धेहि । परिदेहीत्यर्थः । रक्षणार्थं दानं परिदानम् इत्युच्यते । किं च अस्मै त्वदीयं लोकं गच्छते [स्व- स्ति] । स्वस्तीत्यविनाशिनाम । अविनाशम् अनमीवम् अमीवो रोगः बाधा तद्रहितं स्थानं च धेहि विधेहि ॥ तृतीया ॥ उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनाँ अनु । तावस्मभ्य दृशये सूर्याय पुनर्दातामसुंमधेह भद्रम् ॥ १३ ॥ उरुऽनसौ। असुऽतृपौ । उदुम्बलौ । यमस्य । दूतौ । चरतः । जनान् । अनु । तौ। अस्मभ्यम् । दृशयै । सूर्याय । पुनः । दाताम् । असुम् । अद्य । इह । भद्रम् ॥१३॥ उरुणसौ विस्तीर्णनासिकौ । नासिकाशब्दस्य नस्भावः । सुप 2आकारः ।असुतृपौ प्राणिनाम् असुभिः माणैस्तृप्यन्तौ प्राणाप- हारकौ उदुम्बलौ । विस्तीर्णबलावित्यर्थः । पूर्वपदे वर्णोपजनश्छा- ·न्दसः। यमस्य दूतौ प्रेष्यौ जनान् जननवतः उत्पत्तिमतः प्राणि- नः [अनु] अनुलक्ष्य 3चरतः तेषां प्राणान् अपहर्तुं सर्वत्र संचरतः । 18' नृचक्षौ. 2 Sayana's text in s does not read उकणसा असु. 8. for परतः 5 ९७ [अ०२. सू०२.] ५४२ अष्टादशं काण्डम् । तो दूतौ सूर्याय । "क्रियाग्रहणं कर्तव्यम्" इति कर्मणः 1संप्र- दानत्वाच्चतुर्थी। दृशये दर्शनाय । इगुपधात् कित् [७४. ११९] इति औणादिक इप्रत्ययः । कित्त्वात् लघूपधगुणाभावः । र्य द्रष्टुम् अद्य इदानीम् इह अस्मच्छरीरे भद्रम् भन्दनीयम् असुम् प- ञ्चवृत्तिकं प्राणम् अस्मभ्यं पुनर्दाताम् पुनः प्रयच्छताम् । ददा- तेश्छान्दसे लुङि “गातिस्था” इति सिचो लुक् । बाहुलकाद् अमा- ङ्योगेपि अडभावः ॥ चतुर्थी ॥ सोम एकेभ्यः पवते धृतमेक उपासते। येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात् ॥ १४ ॥ सोमः । एकेभ्यः । पवते । घृतम् । एकै । उप । आसते । येभ्यः । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् ॥१४॥ इदमादिभिः पञ्चभिर्ऋग्भिः म्रियमाणानां यजमानानां वर्तनम् अत्र प्रतिपाद्यते । एकेभ्यः केभ्यश्चित् पितृभ्यः सोमः पवते उपभोगाय कु- ल्यारूपेण प्रवहति येषां गोत्रजाः सामानि ब्रह्मयज्ञसमयेऽधीयते । श्रूय- ते हि । “यत सामानि सोम एभ्यः पवते" इति [तै आ०२.१०. १] ॥ एके अन्ये पितरः घृतम् आज्यम् उपासते उपगच्छन्ति । उप- भुञ्जत इत्यर्थः । येषां पुत्रादयो यजूंषि ब्रह्मयज्ञकालेऽधीयते । श्रुतिश्च भवति । “यद् यजूंषि घृतस्य कूल्या" इति [तै आ°२.१०.१] ॥ येभ्यः पितृभ्यः ।तादर्थ्ये चतुर्थी ४ । उपभोगाय मधु क्षौद्रं प्रधावति प्रवाहरूपेण शीघ्रं गच्छति । ये आथर्वणान् मन्त्रान् ब्रह्मयज्ञा- र्थम् अधीयते तेषां पितॄन् प्रति [मधु] मधुकुल्या प्रवहति । तथा चा- १ ABOR V D प्रधावधि. K प्रधावधि. CP प्रऽधौ । अधि।. P* प्रऽधौ । अधि।. IT.. with Sâyana. rit can make no sense here. Ilalayudha gives a well'as one of the senses of spa, but I know of no Velic passage in which the word mcans a well. Besides, wfty does not mean in, but upon, which will not do in the present passage. I prefer to follow Sayaņa. et अथर्वसंहिताभाष्ये म्नायते । “यद् अथर्वाङ्गिरसो मधोः कूल्याः" इति [तै आ°२.१०.१] । तांश्चिदेव पूर्वोक्तान सर्वान एव हे म्रियमाण प्रेत वा अपि गच्छतात अपिगच्छ प्राप्नुहि । "तुह्योः” इति हेस्तातङ् आदेशः ॥ पञ्चमी । ये चित पूर्व ऋतसाता ऋतजाता ऋतावृधः । ऋषीन् तपस्वतो यम तपोजाँ अपि गच्छतात् ॥ १५ ॥ ये। चित् । पूर्वे । ऋतऽसाताः । ऋतऽजाताः । ऋतऽवृधः । ऋषीन् । तपस्वतः । यम । तपःऽजान् । अपि । गच्छतात् ॥ १५ ॥ ये चित् ये च पूर्वे. पूर्वपुरुषा ऋतसाताः ऋतम् सत्यं यज्ञो वा तेन दत्ताः संभक्ता वा। सनतेर्निष्ठायां “जनसनखनां सन्झलोः" इति आत्वम् । अत एव ऋतजाताः ऋतेन सत्येन जाता उत्पन्नाः ऋतावृधः 2ऋतस्य वर्धकाश्च भवन्ति । तपस्वतः तपसा युक्तान् तपोजान् तपसः सकाशादेव उत्पन्नान् ऋषीन् अतीन्द्रियार्थदर्शिनस्तान् हे यम य- मवत् नियत यद्वा यमेन पितृराजेन नीयमान हे प्रेत त्वम अपि ग- च्छतात् [अपिगच्छ प्राप्नुहि ] ॥ षष्ठी ॥ तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः । तपो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात् ॥ १६ ॥ तप॑सा । ये। अनाधृष्याः । तप॑सा । ये । स्व- । ययुः । तपः । ये। चक्रिरे। महः । तान् । चित् । एव । अपि । गच्छतात् ॥१६॥ ये जनाः तपसा कृच्छ्रचान्द्रायणादिना युक्ताः सन्तः अनाधृष्याः पापै- रमधृष्या भवन्ति । ये च तपसा यागादिरूपेण साधनेन स्वः स्वर्ग य- युः यान्ति प्राप्नुवन्ति । ये च महः महत् तपः अन्यैर्दुष्करं राजसूयाश्व- PC चक्रिरे। 15 थर्वागिरो tor °थर्वाङ्गिरसो. 2 ततस्य वर्धकांश्च for ऋतस्य वर्धकाच. 33 has here a Incua for abont mine letters, [अ०२. सू०२.] ५४२ ९९ अष्टादशं काण्डम्। मेधादिकं हिरण्यगर्भाद्युपासनं वा चक्रिरे कुर्वन्ति । एते येषु लोकेषु व- र्तन्ते तेषु लोकेषु तांश्चिदेव तानेव तपस्विनः हे प्रेत अपि गच्छत्तात् अपिगच्छ ॥ सप्तमी ॥ ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः । ये वा सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात् ॥ १७ ॥ थे। युध्यन्ते । प्रऽधनेषु । शूरासः । ये । तनूऽत्यजः । ये। वा। सहस्रऽदक्षिणाः । तान्। चित् । एव । अपि । गच्छतात् ॥१७॥ प्रधनेषु । प्रकीर्णानि अस्मिन धनानि भवतीति प्रधनाः संग्रामाः । तेषु शूरासः शौर्यवन्तो ये युध्यन्ते शत्रून् संप्रहरन्ति । ये च तनूत्यजः शरीराणि 1तत्र ये त्यक्तारो भवन्ति । ये वा ये च सहस्रदक्षिणाः सह- स्रदक्षिणान क्रतून अनुष्ठितवन्तः तान् सर्वानेव हे प्रेत त्वम् इतो ग- च्छ । ते येषु उत्तमेषु लोकेषु निवसन्ति तं लोकं प्राप्नुहीत्यर्थः ॥ अष्टमी॥ सहस्रेणीयाः कवयो ये गोपायन्ति सूर्यम् । ऋषीन् तपस्वतो यम तपोजाँ अपि गच्छतात् ॥ १ ॥ सहस्रऽनीयाः । कवयः । ये । गोपायन्ति । सूर्यम् । ऋषीन् । तपस्वतः । यम । तपःऽजान् । अपि । गच्छतात् ॥१॥ सहस्रणीथाः सहस्र2नयनाः कवयः क्रान्तदर्शिनो ये सूर्यम् आदित्यं गोपायन्ति रक्षन्ति तपस्वतः तपसा युक्तान् तपोजान् तपसः सकाशादेव उत्पन्नान् तान् ऋषीन् हे यम नियत शकटे बद्ध वा यमेन नीयमा- न वा हे प्रेत त्वम् अपि गच्छतात् अपि गच्छ ॥ नवमी ॥ स्येनास्मै भव पृथिव्यनृक्षरा निवेशनी। 18'यत्रय for तत्र ये. 28 नयवाः १०० 66 पाघ्रा अथर्वसंहिताभाष्ये यच्छास्मै शर्म सप्रथाः ॥ १९ ॥ स्योना । अस्मै । भव । पृथिवि । अनृक्षरा । निऽवेशनी। यच्छे । अस्मै । शर्म । सऽप्रथाः ॥ १९ ॥ हे पृथिवि प्रथिते भूमे वेदिरूपे त्वम् अनृक्षरा अनाधिका निवेशनी निविशन्ति अत्रेति निवेशनी शयनार्हा सती अस्मै मुमूर्षवे जनाय अ- स्थिरूपप्रेताय वा स्योना सुखकरी भव । किं च अस्मै पूर्वोक्ताय स- प्रथाः [मथः] प्रख्यानं विस्तीर्णता तत्सहिता त्वं शर्म सुखं यच्छ दे- हि । ४ दाण् दाने । पाप्रा " इत्यादिना यच्छादेशः ॥ दशमी॥ असंबाधे पृथिव्या उरौ लोके नि धीयस्व । स्वधा याश्चकृषे जीवन् तास्ते सन्तु मधुश्चुतः ॥ २० ॥ (८) असमऽबाधे। पृथिव्याः । उरौ । लोके । नि। धीयस्व । स्वधाः । याः । चकृषे । जीवन् । ताः । ते । सन्तु । मधुऽश्चुतः ॥ २०॥ हे मुमूर्षों प्रेत वा असंबाधे । संबाधः संमर्दः । तद्रहिते उरौ वि- स्तीर्णे पृथिव्याः अग्निहोत्रवेदिलक्षणाया लोके लोक्यमाने स्थाने नि धी- यस्व धापितो भव । दधातेः कर्मणि यक् ।पूर्वं त्वं जीवन् जीवनवान्1 याः स्वधाः स्वम् आत्मानं दधाति पुष्णाति धिनोतीति स्वधा अन्नम् दैवानि हवींषि स्वधाकारेण दत्तानि पित्र्याणि हवींषि [च] चकृषे कृतवान् असि । करोतेर्लिटि क्रादिनियमाद् इडभावः । ताः स्वधाः ते नव मधुश्च्युतः मधुमवाहक्षार2यित्र्यः सन्तु भवन्तु । उपलक्ष- णम् एतत् । मधुररसघृतसोमादिप्रवाहरूपा भवन्तु ॥ [इति ] द्वितीयेनुवाके द्वितीयं सूक्तम् ॥ Ratatat'. ABC V atstatº. De sfrenatº corrected to siftetnº. Kft- २ CD मधुभ्युतः changed to मधुश्रुतः. R मधुभ्यु- RPP FTATI. We with Cr. - CP जीवन् ।. PP जीवन् । ५० युतः।. ताः datº. The emendation is mine. तः. 18 जीवनवन्. 28 प्रवाहहार° for प्रवाहक्षार. [अ०२. सू.२.] ५४२ अष्टादशं काण्डम्। १०१ "ह्रयामि" [२१] इति आद्यायाः स्योनास्मै भव"[१९] इत्यनया सह उक्तो विनियोगः ॥ 'उत त्वा वहन्तु" [२२] इत्यनया चितेर्दक्षिणपार्श्वे अजं 1पशुं(बध्ना- ति । यथा दह्यते'] तथा बध्नीयात् ॥ आहिताग्ने संस्कारार्थ विहितेषु त्रिष्वग्निषु “अपेमम्" [२७] इत्यृचा आज्यं जुहुयात् ॥ पिण्डपितृयज्ञे बर्हिषि उदपात्रनिनयनाननरं2 “ये दस्यवः" [२९] इत्य- चा उभयत आ(दिप्तम् उल्मुकं निरस्येत् ] । सूत्रितं हि । “यज्ञोपवीती ये दस्यव इत्युभयत आदीप्तम् . उल्मुकं त्रिः प्रसव्यं परिह्रत्य निरस्यति" इति [कौ ११..] ॥ पिण्डपितृयज्ञ एव “सं विशन्तु"[२९] इत्यनया आस्तीर्णे बर्हिषि तिलान् प्रकिरेत् ॥ तत्र प्रथमा॥ ह्वयामि ते मनसा मन इहेमान् गृहाँ उप॑ जुजुषाण एहि । सं गच्छस्व पितृभिः सं यमेन स्पोनास्त्वा वाता उप वान्तु शग्माः॥२१॥ यामि । ते । मनसा । मनः । इह । इमान् । गृहान् । उप । जुजुषाणः । आ। इहि । सम् । गच्छस्व । पितृभिः । सम् । यमेन। स्योनाः। वा। वाताः । उप। वान्तु । शग्माः ॥२१॥ हे प्रेत पुरुष ते तव संबन्धि मनः अन्तःकरणम् अस्मदीयेन मनसा इह अस्मिन् लोके ह्वयामि आह्वयामि । इमान् अस्मदीयान् गृहान् येषु त्वाम् उद्दिश्य और्ध्वदेहिकं कर्म क्रियते तान् जुजुषाणः सेवमानः प्रीयमाणो वा । जुषी प्रीतिसेवनयोः । व्यत्ययेन श्नुः । उ पैहि3 उपागच्छ । उपेत्य च संस्कारोत्तरकालं पितृभिः पितृपितामहमपि- १P इमाम् । गृहात् ।. Pइमाम् । गृहान् ।. CP हुमान् । गृहां ।. 18's. 28' bas a lacuna for some nine letters here. The restoration in based upon the Kesari. प्रीयमाणो वा । 3 So 8. १०२ अथर्वसंहिताभाष्ये तामहैः सं गच्छस्व सापिण्ड्यकरणेन संगतो भव । "समो ग- म्यृच्छि” इति आत्मनेपदम् । यमेन 1तद्राजेन च संगतो भ- व । स्योजाः। x2षिवुं तन्तुसंताने । अस्माद् औणादिको नप्रत्ययः । 'च्छोः शूडनुनासिके च" इति वकारस्य ऊडादेशः । पितृलोक- गमनसमये तव अध्वजन्यश्रमम् अपनेतुं संतता; नैरन्तर्येण वर्तमानाः शग्माः सुखकराः शैत्यमान्द्यसौरभ्ययुक्ता वाताः वायवस्त्वा त्वाम् उप वान्तु उपगच्छन्तु । पवा गतिगन्धनयोः । अदादित्वात् शपो लुक् । द्वितीया ॥ उत् त्वा वहन्तु मरुत उदवाहा उदप्रुतः। अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ॥ २२ ॥ उत् । त्वा । वहन्तु । मरुतः । उदऽवाहाः । उद्ऽप्रुतः । अजेन । कृण्वन्तः । शीतम् । वर्षेण । उक्षन्तु । बाल् । इति ॥ २२ ॥ हे प्रेत मरुतः मरुसंज्ञका देवास्त्वा त्वाम् उद्वहन्तु ऊर्ध्वम् आकाशे वहन्तु धारयन्तु । यद्वा उदवाहसमभिव्याहारात् मरुच्छब्देन वायव उ- च्यन्ते । वायवस्त्वाम् उपरिलोकं प्रापयन्तु इत्यर्थः । अपि च उदवाहाः उदकं वहन्ति धारयन्तीति उदवाहा मेघाः । "पेषंवासवाह" इति उदकशब्दस्य उदभावः । अत एव उदप्लुतः उदकैर्भूमिं प्लावयन्तः आर्द्रीकुर्वन्तः । शीतम् शैत्यगुणं कृण्वन्तः कुर्वन्तः एवंगुणविशिष्टा मे- घाः समीपबद्धेन अजेन सहितं त्वां वर्षेण वर्षजलेन उक्षन्तु सिञ्चन्तु । इतिशब्दः बाल् इत्यस्य अनुकरणशब्दतां द्योतयति । उक्षणसमये बाल् इत्येवमात्मकः शब्दो यथा जायेत तथा उक्षन्तु इत्यर्थः ।उक्ष से- चने ४ ॥ तृतीया ॥ उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे । ? BŘtad. V teegd: (sir). De targate changed to termst. We with AC PRACT! CPPR. 18 तद्राज्ञा for तद्राजेन. 28 षिवि for षिवु. " [अ०२. सू०२.] ५४२ अष्टादशं काण्डम्। १०३ स्वान गच्छंतु ते मनो अंधा पितॄरुप द्रव ॥ २३ ॥ उत् । अलम् । आयुः । आयुषे । क्रत्वे । दक्षाय । जीवसे । स्वान् । गच्छतु । ते । मनः । अध । पितॄन् । उप । द्रव ॥ ३३ ॥ हे प्रेत ते त्वदीयम् आयुः उदह्वम् उच्चैःस्वरेण आह्वयामि । छ न्दसि लुङ्लङ्लिटः" इति लुङ् । “लिपिसिचिङश्च" इति च्लेः अङ् आदेशः । किमर्थम् । आयुषे जीवनाय क्ऋत्वे क्ऋतवे यज्ञादिकर्म- णे दक्षाय बलाय । यद्वा “प्राणो वै दक्षः । अपानः क्ऋतुः” इति [तै० सं०२. ५.२.४] श्रुतेर्दक्षक्ऋतुशब्दाभ्यां प्राणापानाव1भिधीयते । क्र- त्वे अपाननव्यापाराय दक्षाय प्राणनव्यापाराय । प्राणवायोर्नासारन्ध्राद् बहिनिःसरणं प्राणनम् । अ2न्तराकर्षणम् अपाननम् । जीवसे जीव- नाय प्राणधारणाय । सर्वत्र तादर्थे चतुर्थी ।एतत् स- र्वम् आयुषि सत्येव भवतीति तदाह्वानं क्रियत इत्यर्थः । ते त्वदीयं मनः स्वाम् स्वकीयां तनुं संस्कारजन्यम् अभिनवशरीरं गच्छतु । अध अथ शरीरमाध्यनन्तरं पितृन् वस्वादिरूपान् उप द्रव उपलक्ष्य गच्छ ।द्रु गतौ ॥ चतुर्थी ॥ मा ते मनो मासोर्माङ्गानां मा रसस्य ते । मा ते हास्त तन्व: किं चनेह ॥ २४ ॥ मा। ते । मनः । मा । असोः । मा। अङ्गानाम् । मा। रसस्य । ते। मा । ते । हास्त । तन्वः । किम् । चन । इह ॥ २४ ॥ हे प्रेत पुरुष ते तव मनः मानसम् इन्द्रियं मा हास्त त्वां मा प- रित्याक्षीत् ।ओहाक् त्यागे । व्यत्ययेन आत्मनेपदम् । So ABCÄRV De and not eai. BRET. We with ACË V De. Su ve with ABCKRV Dc. Sec Rw. PÚ Farul. Wc with CP which, however, actually reads FITTI. ५. चनेह. 18 पानाविस्त्यभिधीयेते. 23 अनंतराकर्षणम्, ४ १०४ अथर्वसंहिताभाष्ये हा। ओहाङ् गता1वित्यस्य रूपम् । मा गच्छतु त्वां वि. हाय इह मा तिष्ठतु । तथा असोस्वदीयस्य प्राणस्य किं चन किमपि रूपं मा हास्त । अङ्गानाम् अवयवानां हस्तपादादीनां किमपि मा हा- स्त । तथा ते तव देहसंबन्धिनो रसस्य रुधिरादेः किमपि मा हास्त । इह अस्मिन् लोके ते तव तन्वः शरीरस्य किं चन किमप्यङ्गं मा हा- स्त । लोकान्तरे मनःप्राणादिसर्वाङ्गसहितशरीरयुक्तो भवेत्यर्थः ॥ पञ्चमी ॥ तथा मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही। लोकं पितृषु वित्वैधस्व यमराजसु ॥२५॥ मा। त्वा । वृक्षः । सम् । बाधिष्ट । मा। देवी । पृथिवी । मही। लोकम् । पितृषु । वित्त्वा। एधस्व । यमराजऽसु ॥ २५॥ हे प्रेत त्वा त्वां वृक्षः त्वदा2श्रयभूतो मा सं बाधिष्ट संबाधं हिंसनं मा कार्षीत् । बाधृ3 विलोडने । “माङि लुङ" ।तथा देवी द्योतमाना दानादिगुणयुक्ता वा मही महती पृथिवी त्वदाश्रयभूता भूमिस्त्वां मा सं बाधिष्ट । त्वं च यमराजसु यमो राजा ईश्वरो येषां ते यमराजानः तथाविधेषु पितृषु पितृदेवतासु लोकम् स्थानं वित्त्वा ल- ब्ध्वा एधस्व वर्धस्व । विद्ल लाभे । “समानकर्तृकयोः पूर्वकाले" इति त्काप्रत्ययः । एकाच उपदेशे” इति इट्प्रतिषेधः ॥ षष्ठी ॥ यत् ते अङ्गमतिहितं पराचैरपानः माणो य उ वा ते परतः । तत ते संगत्य पितरः सनीडा पासाद् घासं पुनरा वेशयन्तु ॥ २६ ॥ ? RB Destiny. K nifery. We with ACV. PÅ # I TASTI. Cउवातेपरेत:. KB उवातेपरैताः. De उवातेपरेताः changed to उवातेपरेत:. We with the corrected version of De. XABËV De aftsrgreingret. We with CR. 13 on. °चित्यस्य रूपम् । मा गच्छतु त्वां विहाय इह मा तिष्ठतु, and has insteaila " ३ AB Incuna for about fifteen letters. 2' त्वयाश्रय. 38 बाध. १०५ [अ०२. सू०२.] ५४२ अष्टादशं काण्डम् । यत् । ते । अङ्गम् । अतिऽहितम् । पराचैः । अपानः। माणः । यः। ऊं इति । वा । ते। पराऽईतः। तत् । ते । समऽगत्यं । पितरः । सऽनीडाः । घासात् । धासम् । पुनः । आ। वेशयन्तु ॥ २६॥ हे प्रेत ते तव यद् अङ्गम् शरीरं .पराचैः पराङ्मुखम् अतिहितम् अतीत्य स्थितम् । अतिक्रम्य गतम् इत्यर्थः । तस्मिन शरीरे वर्तमानः अपानः अपानवायुः माणः प्राणवायुः । उशब्दः अप्यर्थे । अपि वा ये च अन्ये चक्षुःश्रोत्रादिरूपाः सप्तशीर्षण्याः प्राणास्ते त्वदीयाः परेताः परागताः । अपुनरावृत्तये शरीरान्निर्गता इत्यर्थः । ते त्वदीयं तत् सर्व सनीलाः समाननिलयाः पितरः पितृदेवताः संगत्य संघीभूत्वा । पूर्वाद् गमेः क्त्लो ल्यप् । “अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपे ह्रस्वस्य पिति" इति तुक् । घासात् । अद्यते भुज्यते अस्मि- न्निति घासः भोगायतनं शरीरम् । ४ अद भक्षणे । अधिकरणे घञ् । “घञपोश्च" इति घस्लादेशः । घासात् भोजनाधिकर- णाच्छरीराद् घासम् भोजनाधिकरणम् अन्यच्छरीरं पुनरा वेशयन्नु अ- भिप्रापयन्तु ॥ सं. 65 सप्तमी ॥ अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादितः । मृत्युर्यमस्यासीद् दूतः प्रचेता असून् पितृभ्यो गमयां चकार ॥ २७ ॥ अप । इमम् । जीवाः । अरुधन् । गृहेभ्यः । तम् । निः । वहत । परि । ग्रामात् । इतः। मृत्युः । यमस्य । आसीत् । दूतः । प्रऽचेताः । असून । पितृऽभ्यः । गम- याम। चकार ॥२७॥ जीवाः जीवन्तः प्राणधारिणो बान्धवा इमं प्रेतं गृहेभ्यः सकाशाद् Parià i Cr at (sic) la pointing to ar a as the correct reading in the None of our pada authorities have °TTTT:. ३C ऋामत् ।। Samhita. १०६ अथर्वसंहिताभाष्ये अपारुधन् । प्रेतशरीरम् अपागमयन्तु इत्यर्थः । रुधिर् आवरणे। इरितो वा” इति च्लेः अङ् आदेशः । तं प्रेतदेहम् इतः अ- स्माद् ग्रामात् । परिः पञ्चम्यर्थानुवादी । यद्वा परिहरणार्थः । हे बा- न्धवाः तं मृतदेहं परिह्रत्य निर्वहत1 ग्रामाद् निर्गमयत । कुत इत्यत आह । मृत्युः मारकः पुरुषो यमस्य राज्ञो दूतः कर्मकर आसीत् अ- भवत् । प्रचेताः प्रकृष्टज्ञानः सः म्रियमाणस्य पुरुषस्य असून प्राणान पितृभ्यः पितॄन् अनुप्रवेशयितुम् । "क्रियार्थोपपदस्य [च] कर्मणि स्थानिनः" इति चतुर्थी ।गमयां चकार प्रापयामास ।ग- मेण्य॑न्तात् ॥'कास्प्रत्ययाद् " इति आम् प्रत्ययः । कृञोऽनुप्र2योगश्च ॥ अष्टमी॥ ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादृश्चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टानस्मात् प्र धमाति यज्ञात् ॥ २४ ॥ ये। दस्यवः । पितृषु । प्रविष्टाः । ज्ञातिऽमुखाः । अहुतऽअदः । चरन्ति । पराऽपुरः । निऽपुरः । ये। भरन्ति । अग्निः । तान् । अस्मात् ।प्र । धमाति। यज्ञात् ॥२८॥ ये. दस्यवः उपक्षयकारिणो राक्षसा ज्ञातिमुखाः ज्ञातीनां मुखमिव मुखं येषां ते तथोक्ताः । ज्ञातिप्रतिरूपा इत्यर्थः । अत एव पितृषु पितृपि- तामहप्रपितामहेषु मध्ये प्रविष्ठाः अहुतादः अहुतं लौकिकम् अन्नम् अ- दन्ति भक्षयन्तीति अहुतादः । यद्वा अहुतावस्थमेव हविर्मायया अदन्तीति अहुतादः । चरन्ति पितृषु मध्ये वर्तन्ते । परापुरः परापृणन्ति पिण्डान् ददतीति परापुरः पिण्डदातारः पुत्राः । [निपुरः] निपृणन्ति नियमेन पि- ण्डदानादिकं कुर्वन्तीति निपुरः पौत्राः । पृ पालनपूरणयोः । इ- त्यस्माद् उभयत्र कर्तरि क्विप् । “उदोष्ठ्यपूर्वस्य” इति उत्त्वम् । ये [च] राक्षसाः पिण्डोदकदानादिना पालयितृन् पुत्रपौत्रादीन् भरन्ति ह- CRra:. We with ABKV De. २ CR शातिमुना अहुता' (without any accent on atragar). We with BŘV Dc Cr. 18 निर्वहेत. 28 om. °°. १०७ [अ०२. सू०२.] ५४२ अष्टादशं काण्डम। रन्ति । नाशयन्तीत्यर्थः । तान् मायाविनो राक्षसान् अग्निः अस्माद् यज्ञात् पितृन् उद्दिश्य क्रियमाणात् प्र धमाति प्रधमतु प्रकर्षेण निर्गम- यतु । ध्मा शब्दाग्निसंयोगयोः । अस्मात्लेटि आडागमः । “पा- प्रा" इत्यादिना धमादेशः ॥ नवमी॥ सं विशन्त्विह पितरः स्वा नः स्योनं 1कृण्वन्तः प्रतिरन्त आयुः । तेभ्यः शकेम हविषा नक्षमाणा ज्योग् जीवन्तः शरदः पुरूचीः ॥२९॥ सम् । विशन्तु । इह । पितरः। स्वाः । नः । स्योनम् । कृण्वन्तः । प्रऽति- रन्तः । आयुः। तेभ्यः । शकेम । हविषा । नक्षमाणाः । ज्योक् । जीवन्तः । शरदः । पु- रूचीः ॥ २९॥ इह अस्मिन् यज्ञे नः अस्माकं स्वाः ज्ञातयो गोत्रजाः पितरः पि- तृपितामहप्रपितामहाः सं विशन्तु सम्यग् उपविशन्तु । उपविष्टास्ते स्यो- नम सुखम् अस्माकं कृण्वन्तः कुर्वन्तः आयुः जीवनं प्रतिरन्ते ।प्र पूर्वस्तिरतिर्वर्धनार्थः । प्रवर्धयन्तु । चिरकालम् अस्मान् जीवयन्तु इत्यर्थः । दक्षमाणाः वर्धमाना वयं तेभ्यः पितृभ्यो हविषा चरुपुरोडा- शादिलक्षणेन शकेम परिचरितुं शक्ता भूयास्म । शक्ल शक्तौ इ- त्यस्माद् आशिषि लिङि “लिड्याशिष्यङ्" इति अङ् प्रत्ययः । पु. रूचीः पुरु बहुलम् अञ्चन्ति गच्छन्तीति पुरूच्यः । अञ्चते: “ऋ- त्विग्" इत्यादिना क्विन् । अनिदिताम्" इति नलोपः । “अचः इति अकारलोपे "चौ" इति दीर्घः । अञ्चतेश्वोपसंख्यानम्" इति ङीप् । पुरूचीः बह्वीः शरदः संवत्सरान् । अत्यन्तसंयोगे So we with A BCR RV Dc. Cr has asfaral. Přesfach i. Såyana afarta. But the accent in the Sanhità ag well as the context cloustless suggest asfarcas in the pada-påtha, which we accordingly adopt in spite of the pada-MSS. Prof. Whitney has rightly adopted the correction in his Index terbrun to his edition. स्वानः1, and CP स्वानः for स्वाः।नः।। 18 कृण्वतः. 29 PP १०८ नि- 1 अथर्वसंहिताभाष्ये द्वितीया। ज्योक् चिरकालं जीवन्तः पितृप्रसादाजीवितारो भवेम ॥ दशमी ॥ यां ते धेनुं निपृणामि यमु ते क्षीर ओदनम् । तेना जनस्यासो भर्ता योडत्रासदजीवनः ॥ ३० ॥ () याम् । ते। धेनुम् । निऽपृणामि । यम् । ऊ इति । ते । क्षीरे । ओदनम् । तेन । जनस्य । असः । भर्ता । यः । अत्र । असत् । अजीवनः ॥३०॥ हे प्रेत ते तुभ्यं यां धेनुम दोग्धीं गां निपृणामि प्रयच्छामि । नि पूर्वः पृणातिः पित्र्ये दाने वर्तते । त्वाम् उद्दिश्य गां दत्तवान् अस्मीत्यर्थः । तथा क्षीरे पयसि पक्कं यम् उ यं च ओदनं ते तुभ्यं नि- पृणामि तेन धेनुसहितेन ओदनेन जनस्य जनिमतो लोकस्य भर्ना धा- रयिता पोषयिता वा असः भवेः डुभृञ् धारणपोषणयोः। यो जनः अत्र अस्मिन् लोके अजीवनः जीवनरहितः असत् भवेत् । तस्य जनस्येति संबन्धः । यद्वा अस्मिन् लोके जीवनरहितः असत् । पुरुषव्य- त्ययः । स त्वम् इति संबन्धः । अस इति । अस्तेलेंटि अडा- गमः। इतश्च लोपः परस्मैपदेषु" इति इकारलोपः ॥ इति द्वितीयेनुवाके तृतीयं सूक्तम् ॥ पितृमेधे "अश्वावतीम्" [३१] इत्यृचा शवदाहानन्तरं स्नानं कृत्वा नदीं तरतो2ऽनुमन्त्रयेत । पिण्डपितृयज्ञे “ये निखाताः" [३४] इति द्वाभ्यां द्वे समिधावादध्यात् । “शं तप" [३६] इत्यृचा प्रेतशरीरे पुत्रेण दप्तम् अग्निं पुत्रो गोत्रिणो वा दीपयेयुः । “ददामि" [३७] इत्यनया का- म्पीलशाखया दहनस्थानं संप्रोक्षेत् । “इमां मात्रां मिमीमहे"[३९] इत्यादिभिः सप्तभिः श्मशानदेशं प्रतिदिशं मिमीते3। दिष्टिवितस्यादिभिः Å E. We with A BR V Dc. २ CP ओदने । 23 नदीतरोनु for नदी तरतोनु° which is conjectural. Kausika has: अश्वावतीमिति नदी तारयते। Kesava: अश्वावतीत्यृचा नदीतरतामनुमंत्रयते ।. 33 " 18 आडागमः. मिमीत. १०९ करभूता नदी। [अ०२. सू०२.] ५४२ अष्टादशं काण्डम्। प्रमाणैः सा दक्षिणतो मिमीते । सप्त उत्तरतः । पञ्च पुरस्तात् । पञ्च पश्चात् इत्यादिक्रमेणेत्यर्थः॥ तत्र प्रथमा॥ अश्वावती प्र तर या सुशेवार्क्षाकं वा प्रतरं नवीयः । यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद् विदत भागधेय॑म् ॥३१॥ अश्वऽवतीम्।मातर। या। सुऽशेवा । ऋक्षाकम्।वा। मातरम् । नवीयः । यः । त्वा । जघान । वध्यः । सः । अस्तु । मा। सः । अन्यत् । विदत । भागऽधेयम् ॥ ३१॥ हे प्रेत अश्वावतीम् अश्वा अस्यां सन्तीति अश्वावती अश्वानाम् आ1- करभूता नदी ।[मन्त्रे] सोमाश्वेन्द्रिय" इति मतौ दीर्घः । सं- ज्ञाशब्दोयम् । एतत्संज्ञां नदीं प्र तरय प्रकर्षेण तारय उत्तारय । सा च नदी सुशेवा अस्मभ्यं सुसुखा भवतु । तथा ऋक्षाकं वा । वाश- ब्दश्चार्थे । ऋक्षाकम् ऋक्षैः भालूकैरुपेतं दुष्टमृगनिषेवितं नवीयः नवत- रम् 2अदृष्टपूर्वम् अरण्यमपि प्रतरम् प्रकर्षेण तरामि । हे प्रेत त्वा त्वां यः पुरुषः जघान स वध्यः वधार्हः अस्तु भवतु । स घातकः पुरुषः अन्यद् भागधेयम् पूर्वम् उपभुक्ताद् अन्यद् उपभोग्यं वस्तु मा विदत मा लभताम् । निर्धनो भवत्वित्यर्थः । विद् लाभे । अस्मात् माङि लुङि आत्मनेपदैकवचने लृदित्वात् श्लेः अङ् आदेशः ॥ द्वितीया ॥ यमः परोडवरो विवस्वान् ततः परं नाति पश्यामि किं चन। यमे अध्वरो अधि मे निविष्टो भुवो विवस्वानन्वाततान ॥ ३२॥ PC ऋक्षाकाम् ।.. IPCP बध्यः।. ३ A KC R पुरोवरो विव'. D यमः परोवरी विवस्वान् changed to यमः परोवरो विवस्वान्. CP यमः । पुरः । अवरः । षिवस्थान् ।. BV यमः परोवरो विवस्वान्. We with BY De. ४८. भुवों विवस्वान. We with A Bk RV. 18 अकार for भाकर. 23 मष्टपूर्वरण्युमपि. ११० अथर्वसंहिताभाष्ये यमः । परः । अवरः । विवस्वान् । ततः । परम् । न । अति । पश्यामि । किम् । चन। यमे । अध्वरः । अधि । मे। निडविष्टः । भुवः । विवस्वान् । अनुऽआत- तान ॥ ३२॥ यमः विवस्वतः पुत्रः परः तेजसा 1अधिकोभवत् । विवस्वान् यमस्य पिता आदित्यः अवरः तेजसा न2िकृष्टोभवत् । यमस्तेजसा पितुरपि अ- धिकोभवद् इत्यर्थः । 3ततः तस्माद् यमात् परम् उत्कृष्टं किं चन कि- मपि प्राणिजातं नाति पश्यामि अतिक्रान्तं न जानामि । तस्मिन् सर्वो- त्कृष्टे यमे मे मदीयः अध्वरो यज्ञः अधि निविष्टः अधिकम् अवस्थितः । तत्प्रीतिकरो वर्तत इत्यर्थः । 4यज्ञस्य सिद्धये विवस्वान् तत्पिता सूर्यः भुवः भूप्रदेशान् अन्वाततान स्वकिरणैर्विस्तारितवान् । तनु विस्तारे॥ तृतीया ॥ अपागूहन्नमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते । उताश्विनावभरद् यत् तदासींदजहादु द्वा मिथुना सरण्यूः ॥ ३३ ॥ अपं । अगृहन् । अमृताम् । मर्त्येभ्यः । कृत्वा । सऽवर्णाम् । अदधुः । विवस्वते । उत । अश्विनौ । अभरत । यत् । तत् । आसीत् । अजहात । ऊ इति । द्वा। मिथुना । सरण्यः ॥ ३३ ॥ "त्वष्टा दुहित्रे" [१. ५३] इत्यत्र इतिहासोभिहितः । सोत्र ऋगर्थ- प्रतिपत्तये पुनः स्मार्यते । तष्ट्रदुहिता सरण्युर्नाम विवस्वत आदित्याद् यमौ मिथुनौ जनयांचकार । तौ च यमलौ यमश्च यमी चेत्याहुरैति- हासिकाः । माध्यमिकोग्निमाध्यमिका वाक् चेति नैरुक्ताः । ततः सर- १R °मृतान् for °मृतां. Dc °मृतान् changed to °मृतां. P* अमृताम् ।. CP अमृता ।. We with A BC K. २ अगूहम् ।. Cr गृहन् (sic)1. ३ CP सरण्यः । 18 अधिकोमवतु. 28 निकृष्टोभवतु. 48' has are repeated. 38 अतः. 5Shsa for ततः. १११ [अ०२. सू०२.] ५४२ अष्टादशं काण्डम्। ण्युस्तत्तेजः असहमाना स्वसमानरूपाम् अन्यां प्रतिनिधाय आश्वं रूपं कृत्वा प्रदुद्राव । सोपि विवस्वान् तज्जानन् आश्वमेव रूपं कृत्वा तां स- मभवत् । ततः अश्विनौ जज्ञाते । प्रतिनिहितायां सवर्णायां विवस्वत आ- दित्याद् मनुर्जज्ञ इत्ययम् अर्थोत्र प्रतिपाद्यते ॥ मर्त्येभ्यः मरणधर्मभ्यो म- नुष्येभ्यः अमृतानं् मरणधर्मरहितान् आत्मनः देवा अपागूहन् तिरोहि- तान् अकुर्वन् । अमृतत्वप्रापकं स्वकीयं रूपं देवा मनुष्येभ्यः 1प्राच्छाद- यन् । गुहू संवरणे ।तथा सवर्णाम् समानरूपाम् अन्यां स्त्रियं कृत्वा विवस्वते आदित्याय अदधुः अधारयन् । प्रायच्छन्नित्यर्थः । उत अपि च सरण्य्वा यद् आश्वं रूपं तदानीं स्वीकृतम् आसीत् तत् अश्विनौ अभरत समभरत । उदपादयद् इत्यर्थः । यद्वा अश्वभूतयोः सरण्युविवस्वतोर्यद् रेत आसीत् तद् अश्विनावजनयद् इत्यर्थः । सा च सरण्यस्त्वष्टृदुहिता निर्गमनसमये द्वा द्वौ मिथुना मिथुनौ स्त्रीपुंसात्मकौ अजहात् पर्यत्यजत् । ओहाक् त्यागे । उशब्द: अवधार- णे मिथुने2त्यत्र “वा छन्दसि” इति पूर्वसवर्णदीर्घः ॥ चतुर्थी ॥ ये निखाता ये परोप्ता ये दुग्धा ये चोद्धिताः । सर्वास्तानग्न आ वह पितॄन् हविषे अत्तवे ॥ ३४ ॥ ये। निऽखाताः । ये । पराऽउप्ताः । ये । दुग्धाः । ये । च। उद्धिताः । सर्वान् । तान् । अग्ने । आ । वह । पितृन् । हविर्षे । अत्तवे ॥ ३४ ॥ ये पितरः भूमौ निखाताः निखननसंस्कारेण संस्कृताः । ख- नु अवदारणे । कर्मणि निष्ठा । जनसनखनां सन्झलोः” इति आ- त्वम् । ये च पितरः परोप्ताः परावपनं दूरदेशे काष्ठवत्परित्या- गः । तेन संस्कृताः । ये च दग्धाः अग्निना संस्कृताः । ये च उद्धि- ताः संस्कारोत्तरकालम् ऊर्ध्वदेशे पितृलोके स्थिताः । एवं बहुविधाव- PP sfegat: 1. We with Ch. 13 प्रच्छादयन् for प्राच्छादयन्. 28 om. नेत्यत्र या छन्दसि इति पू° and has a la- उद्धिताः । ख- & “ cuna for ten letters instead. ११२ अथर्वसंहिताभाष्ये स्थितान् तान् सर्वान् पितॄन् हविषे अत्तवे अस्माभिर्दतं हविर्भक्षयितुम् हे अग्ने आ वह आनय । "क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानत्वात् हविःशब्दाच्चतुर्थी । अद भक्षणे इत्यस्मात् "तुमर्थे सेसेन्' इति तवेन् प्रत्ययः ॥ पञ्चमी॥ 1 ये अग्निग्धा ये अनग्निदग्धा मध्ये दिवः स्वधयो मादयन्ते । त्वं तान् वेत्थ यदि ते जातवेदः स्वधयां यज्ञं स्वर्धितिं जुषन्ताम् ॥३५॥ ये। अग्निऽदग्धाः । ये । अनग्निऽदग्धाः। मध्ये। दिवः । स्वधया । मादयन्ते त्वम् । तान् । वेत्थ । यदि । ते । जातऽवेदः । स्वधया । यज्ञम् । स्वडधि- तिम् । जुषन्ताम् ॥ ३५॥ ये पितरः अग्निदग्धाः अग्निना संस्कृताः । ये च अनग्निदग्धाः अ- निदाहरहितेन खननादिसंस्कारेण संस्कृता दिवः धुलोकस्य मध्ये स्वध- या । अन्ननामैतत् । पुत्रादिभिर्दतेन पिण्डरूपेण हविषा । यद्वा स्वधा- कारोपलक्षितेन पिण्डपितृयज्ञादिकर्मणा मादयन्ते ह्रष्टास्तृप्ता वर्तन्ते हे जातवेदः जातानां वेदितरग्ने. त्वं तान् सर्वान् पितृन् यदि वेत्थ जा- नासि । “यदि वेदाः प्रमाणं स्युः” इतिवद् निश्चये यदिशब्दः । त्वमेव तान् निश्चयेन जानासीत्यर्थः । ते सर्वे स्वधायाः संबन्धिनम् अस्मदीयं यज्ञं स्वधितम् । स्वधा संजाता यस्य स तथोक्तः । xतारकादित्वाद् इतच् प्रत्ययः । यद्वा स्वैर्ज्ञातिभिः पुत्रपौत्रादिभिः हितं विहितं कृतम् ईदृशं यज्ञं जुषन्ताम् सेवन्ताम् ॥ षष्ठी॥ शं तप माति तपो अग्ने मा तन्वं १ तपः । वनेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः ॥ ३६ ॥ १C B यदि ते जातवेदः. CP ते।. D यदि ते जातवेदः changed to यदि ते जातवेदः. We with A KR. CP af. We with the Sarīlitâ. ABCÔR Dcera I तपः. CP तपः. Only v recites : तन्वं तपः. The latter is the correct accent, but re. quires further confirmation. मा अ- [अ०२. सू०२.] ५४२ अष्टादशं काण्डम् । ११३ शम । तप । मा। अति । तपः । अग्ने। मा। तन्वम् । तपः। वनेषु । शुष्मः । अस्तु । ते । पृथिव्याम्। अस्तु । यत् । हरः ॥३६॥ हे अग्ने शम् सुखं यथा भवति तथा प्रेतशरीरं तप दह। मा अ- ति तपः अतितापं मा कार्षीः । अतिदहने हि अस्थीन्यपि भस्मीभव- न्ति तेषां संचयनादिसंस्कारेण प्रतिविधानाद् अतिदाहो निषिध्यते । तथा तन्वः शरीराणि अस्मासंबन्धीनि मा तपः मा धाक्षीः । तथा ते त्व- दीयः शुष्मः शोषको ज्वालासमूहो वनेषु अरण्येषु अस्तु भवतु । हरः रसहरणशीलं यत् त्वदीयं तेजस्तत् पृथिव्याम् भूम्याम् अस्तु भवतु ॥ सप्तमी॥ 1 ददाम्यस्मा अवसानमेतद् य एष आगन् मम चेदभूदिह । यमश्चिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह ॥ ३७॥ ददामि । अस्मै । अवऽसानम् । एतत् । यः । एषः । आऽअगन् । मम । च । इत् । अभूत् । इह यमः । चिकित्वान् । मति । एतत् । आह । मम । एषः। राये । उप। ति- ष्ठताम् । इह ॥३७॥ यमो ब्रूते । अस्मै मृताय पुरुषाय अवसानम् । अवस्यन्ति निक्स- न्ति अस्मिन्निति अवसानम् आवासस्थानम् । एतत् स्थानं ददामि [यत यस्मात् कारणात् एष पु]रुषः आगन् मत्समीपम् अगमत् । मेर्लुडि मन्त्वे पस इति ब्लेर्लृक् । “मो नो धातोः" इति न- त्वम्। स च आगतः पुरुषः इह अस्मिन् लोके मम संबन्धी अभूच्चेत् । यदि मत्संबन्धी मत्परिचरणशीलो भवेद् इत्यर्थः । तदा अस्मै आगतायेति पूर्वेण संबन्धः । एवं चिकित्वान् जानन् यमो मृतं पुरुष प्रति एतद् वाक्यम् आह ब्रवीति । एषः मासमीपम् आगतः पुरुषः See foot-note on the previous page. Cryh: 1. CP TI. Craft 1. 18 has ETA for fH and then a lacuna for about ten letters. is supplied from Sảyana's text which reads can instead of 4 4. "मन्त्रे घस " 2 This यत् १५ रायः । । ११४ अथर्वसंहिताभाष्ये रार्यः । रै शब्दे । रायति स्तौतीति रायः मम स्तोता भू- त्वा इह अस्मिन् मदीये लोके उप तिष्ठताम् सेवताम् ॥ अष्टमी॥ इमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा ॥ ३॥ इमाम् । मात्राम् । मिमीमहे । यथा । अपरम् । न । मासातै । शते । शरतऽसु । नो इति । पुरा ॥ ३ ॥ इमाम् इति इदंशब्देन सूत्रोक्ता मात्रा अभिनयेन प्रदर्श्यते । इमाम् एतावती श्मशानदेशस्य मात्राम् परिमाणं मिमीमहे अरत्निप्रादेशादिमि- तेन दण्डेन. परिच्छेदयामः ।माङ् माने। यथा येन प्र- कारेण अपरम अन्यत् श्मशानकर्म माँ मां न आंसातै नासीत न प्रा- प्राप्नुयात् । आस उपवेशने । अस्मात् लेटि आडागमः । “वैतोन्य- त्र" इति ऐकारः । तथा मिमीमह इति संबन्धः । श्म1शानक- र्माप्राप्तेरवधिमं आह शते शरत्स्विति । शतसंख्याकेषु संवत्सरेषु अमाकं जीवनं ब्रह्मणा परिकल्पितम् ततः पुरा शतसंवत्सरमध्ये नो नैव अस्मान् श्मशानकर्म प्राप्नोतु । अकालमृतिरस्माकं मा भूद् इत्यर्थः ॥ एवम् उ- त्तरे षण्मन्त्रा व्याख्येयाः ॥ भुयात् । नवमी ॥ प्रेमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा ॥ ३९ ॥ प्र । इमाम् । मात्राम् । मिमीमहे । यथा । अपरम् । न। मासातै । शते । शरतऽसु । नो इति । पुरा ॥ ३९ ॥ प्रत्ये2तावान् अत्र विशेषः । प्रकर्षेण मिमीमहे इति श्मशानदेशमान- स्य प्रकर्षगुणः प्रतिपाद्यते । अन्यत् पूर्ववत् ॥ PCP मासते. 18 स्मशान. 28 पतावान् for प्रेत्येतावान्. ११५ [अ०२. सू.२.] ५४२ अष्टादशं काण्डम् । दशमी ॥ अपेमां मात्रां मिमीमहे यथापरं न मासातै । शते शरस्तु नो पुरा ॥४०॥ (१०) अप । इमाम । मात्राम । मिमीमहे । यथा । अपरम् । न । मासातै। शते । शरतऽसु । नो इति । पुरा ॥ ४० ॥ (१०) अत्र1 अप इत्युपसर्गेण अपगतदोषता मानस्य प्रतिपाद्यते । तदोषाश्च श्मशान2लक्षणे निषिध्यन्ते । यथाह भारद्वाजः । “दहनदेशं जोषयते द- क्षिणाप्रत्यक्प्रवणम् अनिरिणम् असुषिरम् अनूषरम् अभङ्गुरम्” इत्या- दिना । अन्यात् पूर्ववत् ॥ [इति] द्वितीयेनुवाके चतुर्थ सूक्तम् ॥ “वीमा मात्रां मिमीमहे” इति आदितश्चतसृणाम् ऋचां श्मशानप्र- माणकरणे विनियोग उक्तः ॥ "अमासि मात्राम्"[४५] इति तिसृभिः पूर्वोक्तप्रकारेण मितं श्म- शानप्रदेशम् अनुमन्त्रयेत ॥ "उदन्वती" [४०] इति द्वाभ्यां मेतम् उत्थाप्य शकटे शयने वा निदध्यात् ॥ "ये नः पितुः पितरः"[४९] इति द्वाभ्यां प्रेतशरीरे संदीपितेऽनौ या3म्यहोमं कुर्यात् ॥ "इदमिद् वा"[५०] इति तिसृभिः श्मशानदेशं विषमसंख्याकाभिः शलाकाभिः इष्टकाभिर्वा प्रसव्यं चिनुयात् ॥ तत्र प्रथमा। वीइमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा ॥ ४१॥ वि। इमाम् । मात्राम् । मिमीमहे । यथा । अपरम् । न । मासातै । शते । शरतऽसु । नो इति । पुरा ॥ ४१ ॥ 18 तत्र. 28 स्मशान. 38' यम्य. ११६ अथर्वसंहिताभाष्ये अत्र वीत्युपसर्गेण 1श्मशानदेशमानस्स विशिष्टगुणयोगः प्रदर्शितः । अन्यत् पूर्ववत् ॥ द्वितीया ॥ निरिमा मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा ॥ ४२ ॥ निः । इमाम् । मात्राम् । मिमीमहे । यो । अपरम् । न । मासातै । शते । शरतऽसु । नो इति । पुरा ॥ ४२ ॥ 2अत्र निरित्युपसर्गेण निर्गतदोषता मानस्य प्रतिपाद्यते । अन्यात् समा- नं पूर्वेण ॥ तृतीया ॥ उदिमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा ॥ ४३ ॥ उत् । इमाम् । मात्राम् । मिमीमहे । यथा । अपरम् । न । मासातै । शते । शरतऽसु । नो इति । पुरा ॥ ४३ ॥ उद् इत्युपसर्गेणात्र मानस्य उत्कर्षगुणोभिधीयते । गतम् अन्यत् ॥ चतुर्थी ॥ समिमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा ॥४४॥ सम् । इमाम् । मात्राम् । मिमीमहे । यथा । अपरम् । न । मासातै । शते । शरतऽसु । नो इति । पुरा ॥ ४४ ॥ इमां श्मशानदेशस्य मात्रां सं मिमीमहे । उदीरितगुणयोगेन सम्यग् मिमीमहे3 । अत्र प्रत्यृचं यथापरं न मासातै इत्यादिरावर्त्यते । तस्या- यम् अभिप्रायः । पुनःपुनःप्रार्थनया आदरातिशयद्योतिन्या प्रार्थमानोऽर्थः सर्वथा सिध्यतीति । गतम् अन्यत् ॥ १CP मासते। 18 स्मशान: 28 तत्र. 38 om. महे । अत्र प्रत्यृचं यथा and has instead a lacund for about twelve letters. ११७ 1 [अ०२. सू०२.] ५४२ अष्टादशं काण्डम्। पञ्चमी । अमासि मात्रां स्वरगामायुष्मान् भूयासम् यथापरं न मासातै शते शरत्सु नो पुरा॥४५॥ अमासि । मात्राम् । स्वः । अगाम। आयुष्मान । भूयासम् । यथा । अपरम् । न । मासातै। शते । शरतऽसु । नो इति । पुरा ॥४५॥ मात्राम् श्मशानदेशस्य परिमाणम् अमासि परिच्छेदितवान् अस्मि । उदीरितरीत्या समीचीनं मानम् अकृषीत्यर्थः । माङ् माने इत्य- स्मात् लुङि उत्तमैकवचने रूपम् । तेन मानेन स्वः अगाम स्व- र्ग लोंकं गतोस्मि । भाविस्वर्गलोकप्राप्तिस्तस्य मानस्य फलम् इत्यर्थः । .द्वा अन्तर्भावितण्यर्थे एतिर्वर्तते । अगाम् अगमयम् इत्यर्थः“इणो गा लुङि" इति गादेशः ।तेन च मा- नकर्मणा अहम् आयुष्मान् शतसंवासरपरिमितेन आयुषा युक्तो भूया- सम् । यथापरं न मासातै इत्यादि मागुक्तार्थम् ॥

षष्ठी ॥ प्राणो अपानो व्यान आयुश्चक्षुर्दृशये सूर्याय । अपरिपरेण पथा यमराज्ञः पितॄन् गच्छ ॥ ४६ ॥ प्राणः । अपानः । विऽआनः । आयुः । चक्षुः । दृशये । सूर्याय । अपरिऽपरेण । पथा। यमराज्ञः। पितॄन् । गच्छ ॥ ४६ ॥ मुख्यप्राणस्य तिस्रो वृत्तयः प्राणाद्याः । 1मुखनासिकाभ्यां बहिर्निःस- रन् वायुः प्राणः । अन्तर्गच्छन् अपानः । मध्यस्थः सन् अशितपीता- दिकं विविधम् आनिति कृत्स्नदेहं व्यापयतीति व्यानः । आयुः जीवनं शतसंवत्सरपरिमितम् । चक्षुः नीलपीतादिदर्शनसाधनम् इन्द्रियम् । ए- तच्च उपलक्षणम् अन्येषाम् इन्द्रियाणाम् । सर्वम् एतद् अनुक्रान्तं सू- १CP मासते. RPPUT I. Cp qu. The Sahità SS. all give got and not यथा. 18 मुख्य ११६ अथर्वसंहिताभाष्ये र्याय । षष्ठ्यथें चतुर्थी। सूर्यस्य दृशये दर्शनाय भवतु । प्राणादिभिः सहिताः सूर्य पश्यन्तश्चिरकालम् 1अवतिष्ठेमहीत्यर्थः ॥ हे मृ- तपुरुष त्वं यमराज्ञः यमश्चासौ राजा यमराजा तस्य स्वभूतेन अप रिपरेण । परिपरिणः पर्यवस्थातारश्वोराः । तद्रहितेन पथा मार्गेण पि- तृन् गच्छ प्राप्नुहि ॥ सप्तमी॥ ये अग्रेवः शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः । ते धामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥ ४७ ॥ ये। अग्रवः । शशमानाः । पराऽईयुः । हित्वा । द्वेषांसि । अनपत्यऽवन्तः । ते। धाम । उतऽइत्यं । अविदन्त । लोकम् । नाकस्य । पृष्ठे । अधि । दी- ध्यानाः॥४७॥ शशमानाः । शशमानः शंसमान इति यास्कः [नि०६..] । य- द्वा शश पुतगतौ । ताच्छीलिकश्चानश् । पुतगमनशीला अग्रवः अग्रगामिनो ये पितरः अनपत्यवन्तः अपत्यरहिता द्वेषांसि द्वे. षणीयानि पापानि हित्वा त्यक्त्वा परेयुः पराजग्मुः । अमृषतेत्यर्थः । ते पितरो द्याम् अन्तरिक्षम् उदित्य उद्गत्य ऊर्ध्व गत्वा नाकस्य दुःखसंस्पर्श- रहितस्य स्थानस्य पृष्ठे उपरिभागे । अधिः सप्तम्यर्थानुवादी । अधिकं वा दीध्यानाः दीप्यमाना लोकम् सुकृतफलोपभोगस्थानम् अविदन्त अल- भन्त । विदू लाभे । लृदित्वाद् आत्मनेपदेपि व्यत्ययेन च्लेः अङ् आदेशः । यद्वा लङि “अनित्यम् आगमशासनम्" इति नुमभावः ॥ . अष्टमी॥ उदन्वती द्यौरवमा पीलुमतीति मध्यमा । तृतीया ह प्रद्यौरिति यस्यौ पितर आसते ॥ ४ ॥ RCB अग्रवः. De अनवः corrected to अग्रवः. We with Bk VOP. RCP अविद- न्त। ३ ACR उदन्वती. Dc उदन्वती corrected to उदन्वती. C उन्हवती ।. We with BKV De. 15 अवतिष्ठतही• for अवतिष्ठेमही. [अ०२. सू०२.] ५४२ अष्टादशं काण्डम् । ११९ उदनऽवती । द्योः। अवमा । पीलुऽमती । इति । मध्यमा। तृतीया । ह । प्रडद्यौः । इति । यस्याम् । पितरः । आसते ॥ ४ ॥ पितृलोकस्य सर्वोत्कृष्टतां वक्तुं दिवस्वैविध्यं प्रतिपाद्यते । अवमा अ- धःकक्ष्यां गता द्यौः उदन्वती उदकवती यस्याम् अवस्थिता मेघाः प्रव- र्षन्ति तस्या उदन्वतीति संज्ञेत्यर्थः ॥ मध्यमा 1मध्यकक्ष्यां गता द्यौः पीलुमती इत्युच्यते । पालयन्तीति पीलवः ग्रहनक्षत्रादियः । ते यस्यां सन्नीति पीलुमती । तृतीया ह । 2हशब्दः प्रसिद्धौ । प्रद्यौरिति प्रसि- द्वा । प्रकृष्टफलोपेता द्यौः प्रद्यौः । यस्यां तृतीयस्यां दिवि नाकपृष्ठाख्ये स्थाने पितरः पितृदेवता आसते निवसन्ति ॥ नवमी॥ ये नः पितुः पितरो ये पितामहा य आविविशुरुवन्तरिक्षम् । य आक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥ ४९ ॥ ये। नः । पितुः । पितरः । ये । पितामहाः । ये । आऽविविशुः । उरु । अन्तरिक्षम्। ये। आऽक्षियन्ति । पृथिवीम् । उत । द्याम् । तेभ्यः । पितृऽभ्यः । नम॑सा । विधेम ॥४९॥ नः अस्माकं पितुस्तातस्य ये पितरः जनकाः । ये च पितामहास्त- ज्जनकाः । पूजार्थं बहुवचनम् । ये च अन्ये उरु विस्तीर्णम् अन्तरि- क्षम् आविविशुः आविष्टवन्तः । ये च पृथिवीम् आक्षियन्ति अभिनिव- सन्ति । पृथिव्यां वर्तन्त इत्यर्थः । उतशब्दः अप्यर्थे । ये च द्याम् स्व- र्गलोकम् आक्षियन्ति आश्रित्य निवसन्ति । इत्थं लोकत्रयं व्याप्य वर्तन्त इत्यर्थः । तेभ्यः सर्वेभ्यः पितृभ्यः । तादर्थ्ये चतुर्थी ।न- मसा । नम इति अन्ननाम । हविर्लक्षणेन अन्नेन नमस्कारेण वा विधे- म परिचरेम । विधतिः परिचरणकर्मा ॥ See foot-note on the previous page. 18 मध्यकक्षा 2 S has a lacuna of about seventeen letters here. १२० अथर्वसंहिताभाष्ये दशमी॥ इदमिद् वा उ नापरं दिवि पश्यसि सूर्यम् । माता पुत्रं या सिचाभ्येनं भूम ऊर्णुहि ॥ ५० ॥ (११) इदम् । इत् । वै। ऊ इति । न । अपरम् । दिवि । पश्यसि । सूर्यम् । माता । पुत्रम् । यो । सिचा । अभि । एनम् । भूमे । ऊर्णिहि ॥५०॥ हे मृतपुरुष इदम् इद् वा उ इदमेव खलु तव जीवनम् यद् अ- स्माभिः श्राद्धेषु दीयते । अपरम अन्यद् न किंचिद् अस्ति । अत्रैव श्म- शानदेशे निवसन् सूर्य दिवि आकाशे पश्यसि ॥ उत्तरोर्धर्चः परोक्षकृतः । यथा येन प्रकारेण माता जननी सिचा चेलाञ्चलेन स्वकीयं पुत्रम् अ- भिवृणोति आच्छादयति हे भूमे पृथिवि एनं 1श्मशानस्थं मृतम् अभ्यू- र्णुहि स्वतेजसा प्रच्छादय । शीतवातोष्णादिकं यथैनं न प्राप्नोति तथा त्वत्स्वरूपे अन्तर्भावयेत्यर्थः । ऊर्णुञ् छादने ॥ [इति ] द्वितीयेनुवाके पञ्चमं सूक्तम् ॥ “इदमिद् वै” इति ऋचोराद्ययोः श्मशानदेशे शलाकाभिश्चयनकर्म- णि विनियोग उक्तः ॥ 'अग्नीषोमा पथिकृता"[५३] इति तिसृभिः प्रेतम् उत्थाप्य दहनाय शकटे निदध्यात् ॥ "इमौ युनज्मि" [५६] इत्यनया सप्रेते शकटे वृषभद्वयम् अभिमन्त्र्य “ युञ्ज्यात् ॥ 66 एतत् त्वा वासः"[५७] इत्यनया वासोऽभिमन्त्र्य प्रेतं प्रच्छादयेत् ॥ अग्नेर्वर्म" [५] इत्यनया सप्तच्छिद्रया गो(वपया] प्रेतमुखं प्रच्छा- दयेत् ॥ "दण्डं हस्तात्" [५९] इत्यनया प्रेतब्राह्मणहस्ताद् वेदयष्टिं पुत्रो गृ- ह्णियात् ॥ 'धनुर्हस्तात्"[६०] इत्यनया प्रतक्षत्रियहस्ताद् धनुर्गह्णीयात् ॥ 66 ". १०सिचा अभ्यैनं. We with ABRDc. RC पश्यसि । १२१ [अ०२. सू०२.] ५४२ अष्टादशं काण्डम्। तत्र प्रथमा । इदमिद् वा उ नापरं जरस्यन्यदितोपरम् । जाया पतिमिव वाससाभ्ये नं भूम ऊर्णुहि ॥ ५१ ॥ इदम्। इत् । वै। ऊ इति । न । अपरम् । जरसि। अन्यत् । इतः। अपरम्। जाया। पतिमऽइव । वाससा । अभि। एनम् । भूमे। ऊर्णुहि ॥५१॥ जरसि जरायां जीर्यदवस्थायां यद् अन्नादिकम् उपभुक्तम् इदम् इद् वा उ इदमेव खलु परिशिष्टम् नापरम् अन्यद् भोक्तव्यम् अस्ति । इ. तः अस्मात् श्मशानदेशाद् अन्यत् स्थानमपि अस्य न विद्यते अपरं कार्यजातमपि अस्य न संभवति । इत्थं श्मशाने परित्यक्तम् एनम् हे भूमे जाया भार्या पतिं वाससेव अभ्यूर्णुहि अभिप्रच्छादय ॥ द्वितीया ॥ अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया । जीवे भद्रं तन्मयि खधा पितृषु सा त्वयि ॥ १२ ॥ अभि । त्वा । ऊर्णोमि । पृथिव्याः । मातुः । वस्त्रेण । भद्रया । जीवेषु । भद्रम् । तत् । मयि । स्वधा । पितृषु । सा । त्वयि ॥ ५२ ॥ मातुः सर्वजनन्याः भद्रया । षष्ठ्यर्थे तृतीया। भद्रायाः कल्याण्याः पृथिव्याः भूम्याः संबन्धिना वस्त्रेण वाससा हे मृतपुरुष त्वा त्वाम् अभि प्रोणोमि अभिच्छादयामि । जीवेषु प्राणधारिषु जीवद- वस्थावित्सु मनुष्येषु मध्ये यद्] दानाय [भद्रम्] शोभनं वस्वस्ति तन्मयि संस्कर्तरि भवतु । पितृषु पितृदेवतासु या स्वधा विद्यते । स्वधेति अ- न्ननाम् । स्वधाकारेण हूयमानं हविर्लक्षणम् अन्नं यद् अस्ति सा स्वधा त्वयि मृतपुरुषे भवतु । यद्वा स्वैज्ञातिर्भिर्धीयते विधीयत इति स्वधा पिण्डोदकदानादिरूपा पितृतृप्तिकरी क्रिया स्वधा । सा त्वयि भव-त्वित्यर्थः ॥ 18 Fira, 2 So S'. The text in 8 is for front and not authorit. १२२ अथर्वसंहिताभाष्ये तृतीया ॥ अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम् । उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतम् ॥ ५३ ॥ अग्नीषोमा। पथिऽकृता । स्योनम् । देवेभ्यः । रत्नम् । दधथुः । वि। लोकम्। उप । प्र । ईष्यन्तम् । पूषणम् । यः । वहाति । अञ्जऽयानैः । पथिभिः । तत्र । गच्छतम् ॥ ५३॥ अग्नीषोमा अग्निश्च सोमश्च अग्नीषोमौ । "सुपां सुलुक्" इति पूर्वसवर्ण आकारः। पथिकृता पन्थानं पुण्यलोकगमनसाधनं मार्ग कुरुत इति पथिकृतौ। लेनैव सूत्रेण विभक्तेराकारः । एवं- गुणविशिष्टावग्नीषोमौ स्योनम् सुखकरं रत्नम् रमणीयं यद्वा रत्नवद् उ. त्कृष्टं लोकम् स्वर्गाख्यं देवेभ्यः । तादर्थ्ये चतुर्थी । देवा- नाम् अर्थे वि दधर्तुः चक्रतुः । "छन्दसि परेपि" इति उपस- र्गस्य परत्र प्रयोगः । यद्वा । पुरुषव्यत्ययः । हे पथिकृतावग्नीषो- मौ देवेभ्यः देवार्थ देवान् उद्दिश्य होतुं रत्नं रमणीयं लोकम् स्थानं वि दधयुः युवां कृतवन्तौ स्थः । श्रूयते हि । 'राजानौ वा एतौ दे- वतानां यद् अग्नीषोमौ । अन्तरा देवता · इज्येते देवताना विधृत्यै" इति [तै सं०२.६.२.२] । यो लोकः उप समीपे प्रेष्यन्तम् प्रगच्छ- न्तं पूषणम् पूषाख्यं देवम् यद्वा सर्वप्राणिनां1 पोषकं सूर्य वहाति वह- ति धारयति तत्र तस्मिन् लोके अर्ञ्जयानैः अञ्जसा आर्जवेन यान्ति १B दधतु'. De दधतु° corrected to दधथु'. We with A BOK Pkv Dr. RA BC k RV प्रेप्यन्तं. Do reads उपप्रेष्यत correctert from उपप्रेष्यतं. ३ वहांत्यजायानैः. K वहात्यजौयानैः (vic). BCR वहांत्यंजोयानैः. Dc वहोत्यंजोयानैः corrected to वहात्यं- starati, wliere it must clvubtless tuu ve been intruded to cancel not only the but ther also from the it, but where the appears to liave remained intact by over- sight. If this conjecture is right the reading of V must be the result of a similar incomplete correction of a MS. A, Sayana and Sayan's text have spectatorulat:. ४ PF प्राईप्यंतम् ।. Cr प्राईभ्यतम् ।. The accent on ईप्यन्तम् is mine. 18 प्राणानां for प्राणिनां. 6C १२३ [अ०२. सू०२.] ५४२ अष्टादशं काण्डम् । गच्छन्ति एभिरिति अञ्जयानाः तैः पथिभिर्गच्छतम् इमं प्रेतं गमय- तम् । प्रयोज्यव्यापारवाचिना प्रयोजकव्यापारो लक्ष्यते ॥ चतुर्थी ॥ पूषा त्वेतश्च्यावयतु प्र विधाननष्टपशुर्भुवनस्य गोपाः । स त्वैतेभ्यः परि ददत् पितृभ्योडग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥ ५४॥ पूषा । वा। इतः । च्यवयतु । प्र। विद्वान् । अनष्टऽपशुः । भुवनस्य । गोपाः। सः । त्वा । एतेभ्यः । परि । ददत् । पितृऽभ्यः । अग्निः । देवेभ्यः । सुऽवि- त्रियेभ्यः ॥ ५४॥ हे प्रेत त्वा त्वां विद्वान् जानन् पूषा एतत्संज्ञको देवः इतः अस्मात् स्थानात् प्र च्यावयतु निर्गमयतु । कीदृशः पूषा । अनष्टपशुः अनष्ठा अहताः पशवो येन स तथोक्तः । स खलु गवादिपशूनां पोषयिता । 'पूषा पोषयतु" [ ब्रा॰ १. ६.२.२] “पूषा गा अन्वेतु नः पूषा र- क्षावर्वतः” इत्यादिश्रुतेः [ऋ० ६. ५४. ५] । भुवनस्य भूतजातस्य गो- पाः गोपायिता। गुपू रक्षणे । “गुपूधूपविच्छि” इति आयम- त्ययः । क्विपि अतो ल1ोपे यलोपविधिं प्रति न2 स्थानिवद् भवतीति त- स्य स्थानिवत्वनिषेधात् “लोपो व्योर्वलि" इति यकारलोपः । स पूषा त्वा त्वाम् एतेभ्यः पितृभ्यः । एतच्छब्देन संनिहितार्थवाचिना मृत. पुरुषसंबन्धिनः पितरः परामृश्यन्ते । त्वदीयेभ्यः पितृपितामहप्रपितामहे- भ्यः परि ददात् परिददातु । रक्षणार्थ दानं परिदानम् । तद्यो- गे चतुर्थी विभक्तिर्भवति । “अग्नये त्वा परिददामि" [कौ॰ ७.७] इत्यादौ तथा दर्शनात् । परिपूर्वाद् ददातेर्लेटि आडागमः । " इतश्च लोपः" इति इकारलोपः । तथा अग्निर्देवः दहनसंस्कारेण त्वा सुविदत्रियेभ्यः । सुविदत्रं शोभनविज्ञानम् यद्वा सुखेन लब्धव्यं धनं सु- PA Koppement aft°. Corazzhy alfatº ( for ofta atritº?). We with B RV २ CP प्रऽविद्वान् ।. P। विद्वान् । 66 स तद्यो- De. 18 लोप. 28 प्रतिवस्थानि for प्रति न स्थानि १३२ अथर्वसंहिताभाष्ये अयं ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ॥ ४॥ प्रऽजानती। अन्ये । जीवऽलोकम।देवानाम। पन्थाम् । अनुऽसंचरन्ती । अयम् । ते । गोऽपतिः । तम् । जुषस्व । स्वऽगम् । लोकम् । अधि। रोहय । एनम् ॥ ४॥ हे अग्न्ये । गोनामैतत् । अहन्तव्ये हे गौ: जीवलोकम् जीवानां लोको जीवलोकः भूलोकः । तं प्रजानती प्रकर्षेण जानाना ।ज्ञा अ- वबोधने इत्यस्मात् लटः शत्रादेशः । “ज्ञाजनोर्जा" इति जादेशः । "श्नाभ्यस्तयोरातः" इति आल्लोपः । 'उगितश्च" इति डीप् । “श- तुरनुमः” इति नद्या उदातत्त्वम् । तथा देवानाम् इन्द्रादीनां पन्थाम् पन्थानं मार्ग यज्ञलक्षणम् अनुसंचरन्ती अनुलक्ष्य गच्छन्ती क्षी- रदध्यादिहविर्निष्पादयन्ती । त्वम् आगच्छेति शेषः । ते तव अयं गोप- तिः गोस्वामी । तं जुषस्व सेवस्व । एनं मृतं पुरुषं स्वर्ग लोकम् अधि रोहय प्रापय ॥ पितृमेधे 1चतुर्थेऽहनि संचयनाख्ये कर्मणि “उप द्यामुप वेतसम्" इति पञ्चमीषष्ठीभ्यां मन्त्रो2क्ता ओषधीरभिमन्त्र्य ताभिः क्षीरेण ब्राह्मण- स्य अस्थीनि अवसिञ्चे3त् । तांश्च ओषधयः वेतसाश्च कर्णी [च] नदीफेनं च अवका च गर्हका च बृहद्दूर्वा च मण्डूकपर्णी 4चेत्येवमाद्याः ॥ पञ्चमी ॥ उप द्यामुपं वेतसमवेतरो नदीनाम् । अग्ने पित्तमपामसि ॥ ५॥ RkR वेतस. We with CV. D: वेतस changeel to वेतस. RBK V Dc fara-

  1. º. We with ACR.

15 चतुयें इति for चतुर्थेऽहनि. 2 So Kesata too: उपद्यामुप वेतसमिति वे शं ते नी- हार इत्येका। पताभिऋग्भिर्मन्त्रोक्तानाम् ओषधीनाम् उदकं क्षीरं चैकत्र कृत्वा अभिमन्त्र्य ब्राह्मण- स्थास्थीनि निषिञ्चति । मन्त्रोक्ता ओषधय उच्यन्ते । वेतसश्च कर्णश्च नदीफेनश्च अवका च गरुहेरु- का च बृहर्वा च आकाशफेनश्च मण्डूकपर्णी च श्रक्तिका च । एता मन्त्रोक्ता ओषधयः ॥ (XI-3). 3 After this S las a lacuna for about sixteen letters and omits the text of the next (fifth ) verse giving merely the commentary. 4 S omits à 5 This portion is in S mixed up with the commentary on verec 5. उप । घाम । उप । वेर्तसम् । अवतऽतरः । नदीनाम् । अग्ने। पित्तम् । अपाम् । असि ॥ ५ ॥ नदीनाम् नदनशीलानाम अपाम् । नदनान्नध इति यास्कः [नि २.२४] । मन्त्रवर्णश्च भवति । “अहावनदता हते । तस्मादा नद्यो ना- म स्प" इति ३.१३.१] । पचादिषु नदट् इति पाठात् "टिड्डा- णञ्" इत्यादिना ङीप्। नदनशीलानाम् अपां संबन्धिनी द्याम् उप । [1अत्र द्योशब्दः अवकावाची] । जलस्योपरि प्ररूढा भूसंस्पर्शर- हिता अवका उच्यन्ते । तत्समीपे । तथा वेतसम् उप । वेतसो नदीती- रगतो वृक्षविशेषः । तस्य समीपे । यद्वा सप्तम्यर्थप्रतिपादकावुपशब्दौ । अवकासु वेतसे चेत्यर्थः । अवतरः अतिशयेन अवन् रक्षणसमर्थः सारभू- तांशो विद्यते । वेतसस्य च अवकानां च अप्सारत्वं तैत्तिरीये समाम्नाय- "अपां वा एतत् पुष्पं यद् वेतसः । अपां शरोऽवका । वेतसशा- खया चावकाभिश्च विकर्षति" इति [तै सं०५. ४.४.२] । हे अग्ने त्वमपि अपां पितम् अप्संबन्धी पित्तधातुरसि । “शुचिरप्पित्तम् और्व- स्तु" इति अभिधानकारः । यतस्त्वम् अपां संबन्ध्यसि अतस्त्वाम् अप्संब- धिनीभिः अवकावेतसशाखानदीफेनबृहदूर्वाद्योषधीभिः शमयामीति शेषः । ओषधयः केशवेन पद्धतिकारेण परिगणिताः । वेतसाश्च 3कर्णौ [च] न- दीफेनं चावका च 4बर्हका च बृहदूर्वा च मण्डूकपर्णी चेति ।अ- वत्तर इति । अव रक्षणे इत्यस्मात् लटः शत्रादेशः । ततः प्रकर्षार्थे तरप् ॥ षष्ठी॥ यं त्वमग्ने समदहस्तमु निर्वापया पुनः । १CP वेतसम्।. २.CP अवऽत्तरः। ३ CP पित्वम् ।. पित्वम् ।. P पित्तम् ।. 1 In 8' the words from arm to rentet: in the introductory purugrapilo of the comment on this verse are found in place of the words [अत्र द्योशब्दः अव- Farf] which we have restored from guese. 38 कर्ना. 4 Kesava गरुहेरुका. 28 om. ओषध.. Kosava Fore. नि- १३४ अथर्वसंहिताभाष्ये क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥ ६ ॥ यम् । त्वम् । अग्ने। समऽअदहः । तम् । ऊं इति । निः। वापय। पुनः । क्याम्बूः । अत्र । रोहतु । शाण्डऽदूर्वा । विऽअल्कशा ॥ ६ ॥ हे अग्ने त्वं यं पुरुषं समदहः सम्यग् दग्धवान् असि तमु तं खलु त्वं पुनर्निर्वापय निर्वृतं सुखितं कुरु । दाहजनितीण्य1परिहारेणेत्यर्थः । एतद- र्थमेव हि पूर्वम् अपां पित्तम् असीति अग्नेरप्कार्यवम् उक्तम् । नि- रुपसृष्टाद् “वा गतिगन्धनयोः" इत्यस्मात् णिचि “•आतां पुङ्णौ” इति पुगागमः दाहनिर्वापणस्य परां काष्ठाम आह क्याम्बूरित्युत्तरा- र्धेन । अत्र अस्मिन् दहनप्रदेशे क्याम्बूः ओषधिविशेषः रोहतु प्ररोहतु उत्पद्यताम् । तथा शाण्डदूर्वा जलसमीये उत्पद्यमाना अण्डाकृतिमूलस- हिता दीर्घकाण्डा वा दूर्वा शाण्डदूर्वा सा बृहद्दूर्वेत्युच्यते । सा व्यल्क- शा अल्काः शाखाः । श2ो मत्वर्थीयः । विविधशाखोपे- ता। रोहत्वित्ति संबन्धः ॥ 'इदं त एकम्" इत्यनया सप्तम्या आहिताग्नेः प्रेतस्याग्ने अग्नित्रयं धारयित्वा अनुमन्त्रयते ॥ तत्पाठस्तु [सप्तमी] ॥ इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे ॥ ७ ॥ इदम् । ते। एकम् । परः । ऊं इति । ते । एकम् । तृतीयेन । ज्योतिषा। सम् । विशस्व । समऽवेशने । तन्वा । चारूः । एधि । प्रियः । देवानाम् । परमे । स- धऽस्थे ॥ ७ ॥ BKV ateistt. De ategat. Cr fasaner. We with AR CR संवेशने. C" सम्ऽवेशते ।. PP सम्ऽवेशने ।. We with A KR V Dc. ३Kkvr- न्वा श्वा". D तन्वाश्चारु० changed to तन्वीश्चारु०. We with A BC R. 15' परिहारेत्यर्थः, 28' सो. 64 BC 66 तत्तः [अ०३. सू०३.] ५४३ अष्टादशं काण्डम् । १३५ हे प्रेत .ते तव परलोकगमनाय इदम् एकम् गार्हपत्याख्यं ज्योतिः । तथा परः परस्तात् ते तव । उशब्दः अप्यर्थे । अन्वाहार्यपचनाख्यम- पि एक ज्योतिः । तृतीयेन त्रित्वसंख्यापूरकेण ज्योतिषा आहवनीयाख्ये- न सं विशस्व 1संगतो भव । साकल्येन आत्मानम् आहवनीयं गमये- त्यर्थः । इत्यम् अग्निसंवेशने सति तन्वा संस्कारजनितेन देवशरीरेण चारुः शोभन: एधि भव । ४ अस. भुवीत्यस्माल्लोटि "ध्वसोरेद्धा- वभ्यासलोपश्च" इति अकारस्य एवम् । तस्य 'असिद्धवद् अत्रा भात" इति असिद्धत्वात् "हुझल्भ्यः" इति हेर्धित्वमः । परमे उत्कृष्टे सधस्थे सहस्थाने देवलोके देवानाम् इन्द्रादीनां प्रियंः प्री- तिविषयो भव ।सह तिष्ठन्ति अस्मिन्निति सधस्थः । “घञर्थे कविधानम्" इति अधिकरणे तिष्ठते: कप्रत्ययः । “सध मादस्थयोश्छ- न्दसि" इति सहस्य सधादेशः । यद्वा अग्निसंस्कारजनितदेवश- रीरेण चारुर्भूवा देवलोके देवानां प्रिय एधीत्येकवाक्यता ॥ "उत्तिष्ठ प्रेहि" इत्यष्टम्या "म च्यवस्व" इति नवम्या च दहनप्र- देशं नेतुं प्रेतम् उत्थापयेत् ॥ तत्र अष्टमी॥ उतिष्ठ मेहि प्र द्वौकः कृणुष्व सलिले सधस्थे । तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः ॥ ८ ॥ उत् । तिष्ठ।प्र। इहि ।प्र। द्रव । ओकः । कृणुष्व । सलिले । सधऽस्थे । तत्र । त्वम् । पितृऽभिः। समऽविदानः । सम। सोमेन । मदस्व । सम्। स्वधाभिः॥॥ हे प्रेत उत्तिष्ठ अस्मात् स्थानाद् ऊर्व॑ तिष्ठ ।

  • "उदो-

नूर्धकर्मणि" इति पर्युदासात् तिष्ठतेरात्मनेपदाभावः । उत्थाना- नन्तरं प्रेहि प्रगच्छ । ततः प्र द्रव प्रकर्षेण धाव । शीघ्रं गच्छेत्यर्थः । सलिले । अन्तरिक्षनामैतत् । अन्तरिक्ष सधस्थे सहस्थाने अलौकिके ओ- 1S has a blank space for some cight letters before a. 2 S inscrits before अग्नि. 38 वावद्धता for वाक्यता. "प्र च्यवस्व १३६ अथर्वसंहिताभाष्ये कः गृहं कृणुष्व कुरु । कृवि हिंसाकरणयोश्च । “धिन्विकृण्व्योर च" इति उप्रत्ययः । तत्र तस्मिन् लोके त्वं पितृभिः बर्हिषद- ग्निष्वात्ताख्याभिः पितृदेवताभिः संविदानः संजानानः ऐक1मत्वं गतः सन् सोमेन सं मदस्व ।मद तृप्तियोगे।सोमपानेन तृप्तो भ- वेत्यर्थः । सोमयागेषु हि नाराशंसाख्यः सोमरसस्य भागः पितॄणाम् अस्ति । तदुपभोगेन आत्मानं हर्षयेति भावः । यद्वा सोमेन राज्ञा पि- तॄणाम् अधिपतिना सह मदस्वेत्यर्थः । तथा स्वधाभिः स्वधाकारसहितैः श्राद्धैः पुत्रादिभिः कृतैः सं मदस्व । संविदान इति । विद ज्ञा- ने । “समो गम्यृच्छि” इत्यादिना आत्मनेपदम् ॥ प्र च्यवस्व " इत्यनया प्रेतस्य गात्राणि इतस्ततश्च व्याकुलीकुर्यात् ॥ तत्पाठस्तु [नवमी] ॥ प्र च्यवस्व तन्वं सं भरव मा ते गात्रा वि हायि मो शरीरम् । मनो निविष्ठमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गच्छ ॥९॥ प्र। च्यवस्व । तन्वमि । सम् । भरस्व । मा । ते । गात्रा । वि । हायि । मो इति । शरीरम्। मनः । निऽविष्टम् । अनुऽसंविंशस्व । यत्र । भूमेः । जुषसे। तत्र। गच्छ ॥९॥ हे प्रेत त्वं प्र च्यवस्व अस्मात् स्थानात् प्रच्युतो भव । तदर्थं तन्वम् शरीरं हस्तपादादिसहितं सं भरस्व संभृतम् एकीभूतं कुरु । ते तव गा- त्रा गात्राणि हस्तपादादीनि मा वि हायि परित्यक्तानि मा भूवन् । तथा शरीरम् अवयविभूतो मध्यदेहश्च मो मैव त्याक्षीः । यत्र यस्मिन् स्थाने त्वदीयं मनो निविष्टम् अवस्थितं मनसो विषयभूतं तत् स्वर्गादि- लक्षणम् अनुसंविशस्व संप्रविष्टो भव । तथा यत्र यस्यां भूमौ भूप्रदेशे जुषसे प्रीयसे । जुषी प्रीतिसेवनयोः । तत्र गच्छ । तं भूप्रदेशं प्राप्नुहीत्यर्थः ॥ १ PF भूमे ।. CP भूमें। 28 पाण्यादि. 18 एकमत्यं. [अ°३. सू०३.] ५४३ अष्टादशं काण्डम् । १३७ पिण्डपितृयज्ञे “वर्चसा माम्" इति दशम्या उत्तरसूक्तस्य आद्यया च आचामेत् । वर्चसा माम् इत्याचामति" इति हि सूत्रितम् [को॰ ११.२] ॥ दशमी ॥ वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन । चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥ १० ॥ (१३) वर्चसा । माम् । पितरः । सोम्यासः । अञ्जन्तु । देवाः । मधुना । घृतेन । चक्षुषे । मा । प्रडतरम् । तारयन्तः । जरसे । मा । जरतऽअष्टिम् । वर्ध- न्तु ॥ १० ॥ (१३) पितरः पितृदेवताः सोम्यासः सोम्याः सोमार्हा- ।“सोमम् अर्हति यः' इति सोमशब्दाद् अर्हार्थे यप्रत्ययः । “आज्जसेरसुक्" । त थाविधाः पितरो मां यजमानं वर्चसा. तेजसा अञ्जन्तु अक्तं संश्लिष्टं कु- र्वन्तु । तथा देवाः विश्वे देवा मधुना माधुर्योपेतेन घृतेन दीप्तिकरेण आज्येन माम् अञ्जन्तु । अपि च चक्षुषे दर्शनाय मा मां प्रतरम् प्र- कृष्टतरं तारयन्तः प्लावयन्तः । दीर्घकालदर्शनार्थं रोगादिभ्यो मां व्याव- र्तयन्त इत्यर्थः । तथा जरसे जरायै मा मां जरदष्टिम् जरती जीर्णा अ- ष्टिः अशनं यस्य । जृष् वयोहानौ । “जीयतेरतृन" इति भूतेर्थे अतृन प्रत्ययः । “जराया जरस् अन्यतरस्याम्” इति जराशब्दस्य ज- रस् आदेशः । तादर्थ्ये चतुर्थी : जरार्थम् यावता कालेन जरा भवति तावत्कालपर्यन्तं मां जरदष्टिं कृत्वा वर्धन्तु वर्धयन्तु ॥ [इति] अष्टादशकाण्डस्य तृतीयेनुवाके प्रथम सूक्तम् ॥ “वर्चसा माम्" इति आद्याया ऋचः पूर्वया ऋचा सह उक्तो वि- 1 नियोगः । तत्पाठस्तु [प्रथमा] ॥ वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्य निक्त्वासन । १R अजंतु. PP अजंतु ।. Cr अजंतु । " १३६ अथर्वसंहिताभाष्ये रयिं मे विश्वे नि यच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥ ११ ॥ वर्चसा । माम् । सम् । अनक्तु । अग्निः । मेधाम् । मे । विष्णुः । नि। अ- नक्तु । आसन्। रयिम् । मे । विश्वे । नि । यच्छन्तु । देवाः । स्पोनाः । मा। आपः । प- वनैः । पुनन्तु ॥ ११ ॥ अग्निः अङ्गनादिगुणयुक्तो देवः मा मां वर्चसा तेजसा समनक्तु सं- योजयतु । अञ्जू व्यक्तिम्लक्षणगतिषु । रुधादित्वा श्र्नम् "श्र्ना- न्नलोपः” इति नलोपः ॥ तथा विष्णुः मे मम आसन् आसनि आस्ये मुखे मेधां नि अनक्तु नितरां संयोजयतु ।“पद्दन्" इ- त्यादिना आस्यशब्दस्य आसन् आदेशः । “सुपां सुलुक्” इति सप्तम्या लुक् ।। तथा विश्वे देवाः स्योनाम्1 सुखकरीं रयिम् धनं मे मह्यं नि यच्छन्तु नियतां कुर्वन्तु । यम उपरमे । “इघुगमियमां छः' इति छत्वम् । यद्वा नियमेन ददतु । दाण् दाने इत्यस्य पाघ्रा' इत्यादिना यच्छादेशः ॥ तथा आपः उदकानि पवनैः शोधनसाधनैः स्वांशैः [मा] मां पुनन्तु पूतं शुद्धं कुर्वन्तु ॥ "मित्रावरुणा परि माम्" इति द्वितीयया ऋचा पिण्डपितृयज्ञे पाणी कर्ता प्रक्षालयेत् । तत्पाठस्तु [द्वितीया]॥ मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु । वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु ॥ १२ ॥ मित्रावरुणा । परि । माम् । अधाताम् । आदित्याः । मा। स्वरवः । व- र्धयन्तु । वर्चः । मे । इन्द्रः । नि। अनक्तु । हस्तयोः । जरतऽअप्टिम् । मा । सवि- ता। कृणोतु ॥ १२ ॥ २ BC K R मित्रांवरुणा. D मित्रावरुणा corrected to मित्रावरुणा. 66 १Cस्योना। We with AKV De [अ०३. सू०३.] ५४३ अष्टादशं काण्डम् । १३९ मित्रावरुणा मित्रश्च वरुणश्च मित्रावरुणौ । "देवताद्वन्द्वे च" इति पूर्वपदस्य आनङ् आदेशः । “सुपां सुलुक्” इति पूर्वसवर्णदी- र्थः। अहरभिमानी देवो मित्रः । वरुणो रात्र्यभिमानी । ता- वुभौ मां पर्यधाताम् परितो धारयताम् । यद्वा वस्त्रादिना परिहितं कु- रुताम् ॥ तथा आदित्याः अदितेः पुत्रा अन्ये देवाः स्वरवः ।स्वृ शब्दोपतापयोः । शृस्वृस्त्रिहीत्यादिना [उ.१.१०] उप्रत्ययः ।स्व- रवः शोभनशब्दं कुर्वाणाः यद्वा अस्मच्छत्रुविषयम् उपतापं कुर्वन्तो मा मां वर्धयन्तु ॥ अपि च इन्द्रो देवः मे मम हस्तयोर्वर्चः बलं नि अ- नक्तु नियोजयतु । बाहुजातात्वाद् इन्द्रस्य बाहुबलं 1तत्प्रसादाल्लभ्यम् इ. त्यभिप्रायः ॥ सविता सर्वस्य प्रसविता देवो मा मां जरदष्टिम् जीर्यद- वस्थभोजनं दीर्घायुषं कृणोतु करोतु ॥ तृतीया ॥ यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा| सपर्यंत ॥ १३ ॥ यः । ममारे । प्रथमः । मर्त्यानाम् । यः । प्रऽईयाय । प्रथमः । लोकम् । एतम्। वैवस्वतम् । समऽगमनम् । जनानाम् । यमम् । राजानम् । हविषा । स- पर्यत ॥ १३॥ मृङ् " 66 यो यमो राजा मर्त्यानाम् मरणधर्मणां मनुष्याणां मध्ये स्वयमपि एकः सन् प्रथमः प्रथमभूतो ममार [मरणं प्राप्तवान् । मृञ् प्राण त्यागे । म्रियतेर्लुंलिङोश्च इति नियमात् लिटः परस्मैप- पदम्। एतं लोकं यो यमो राजा प्रथमः प्रथमभूतः प्रेयाय प्र. गतवान् । प्रथमं मरणम् पश्चात् लोकान्तरमाप्तिः इत्युभयं यमोपज्ञम् आसीद् इत्यर्थः । अत एव यमस्य मनुष्यवत् कामयितृत्वादिकं यागाद् १Pईयाय । Cr याय. 18 त्वत्प्रसादा. दम् । १४०


अथर्वसंहिताभाष्ये राज्यप्राप्तिश्च आम्नायते । “यमो वा अकामयत पितॄणां राज्यम् अभि- 1जयेयम् इति । स एतं यमायापभरणीभ्यश्चरूं निरवपत्" इति [तै ब्रा ३. १. ५. १४] । इत्थं यः यमो राजा मरणपूर्वकं प्रथमं प्रेयाय अस्मा- ल्लोकात प्रगतो बभूव तं वैवस्वतम् विवस्वान् आदित्यः तस्य पुत्रं ज- नानाम् जनिमतां प्राणिनां संगमनम् संगच्छन्ते अस्मिन्निति संगम- नः। अधिकरणे ल्युट् ।जनिमद्भिः सर्वैः प्राणिभिः सं- प्राप्यम् इत्यर्थः । एवंगुणविशिष्टं यमं राजानम् ईश्वरम् । प्राणिकृतसु- कृतदुष्कृतानुरूपेण शिक्षाकरम् इति यावत् । हविषा आज्यपुरोडाशादिना सपर्यत पूजयत । हे ऋत्विज इति शेषः । gसपर पूजायाम् । कण्ड्वादिभ्यो यक्” इति यक् प्रत्ययः ॥ अथ वा प्रथमः प्रथ- मभावी कल्पादौ वर्तमानो यो जनः प्राणी ममार यश्च जनः प्रथमः कल्पादौ वर्तमानः एतं लोकं यमस्य स्वभूतं प्रेयाय प्रगतवान् । तदाप्र- भृति वर्तमानानां सर्वेषां जनानां संग*। उप संप्राप्यं राजानम् इत्यादि पूर्ववत् ॥ पिण्डपितृयज्ञे "परा यात" इति चई***'त्वा पितृन् विसर्जयेत् । तत्पाठस्तु [चतुर्थी] ॥ परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः । दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात ॥ १४ ॥ परा । यात । पितरः । आ । च । यात । अयम् । वः । यज्ञः । मधुना । समऽअक्तः दत्तो इति । अस्मभ्य॑म् । द्रविणा । इह । भद्रम् । रयिम् । च । नः । स- र्वऽवीरम् । दधात ॥ १४ ॥ हे पितरः पितृदेवताः अस्माभिः कृतेन पितृयज्ञरूपेण कर्मणा संतु- ष्टाः सन्तः परा यात परागच्छत । पराङ्मुखतः स्वस्थानं गच्छतेत्यर्थः ।


$ 18' अभिजयेदिति. 1 [अ०३. सू०३.] ५४३ अष्टादशं काण्डम्। १४१ पुनर्यागार्थम् अस्माभिराहूताः सन्तः आ यात च आगच्छत च ॥ इदानीं परागमने कारणम् आह । वः युष्मभ्यं मधुना मधुरेण आज्येन । “ए- तद्वै मधु दैव्यं यद् आज्यम्” इति हि ऐतरेयकम् [ऐ ब्रा०२.२] । समक्तः सम्यक् संसिक्तः अयं यज्ञः अस्माभिर्दतः ॥ तं स्वीकृत्य अस्म- भ्यम् अस्मदर्थं भद्रम् कल्याणं द्रविणा द्रविणं धनम् इह अस्मिन् गृहे दधात धारयत ॥ तथा सर्ववीरम् वीर्याजायन्त इति वीराः पुत्रपौत्रादि- रूपाः प्रजास्तैः सर्वैरुपेतं रयिम् प्रजापश्वादिरूपं धनं नः अस्माकं द- धात धारयत । “तप्तनप्तनथनाश्च” इति तस्य तवादेशः । पि- त्त्वेन ङीत्त्वाभावाद् आल्लोपाभावः ॥ पञ्चमी ॥ कण्वः कक्षीवान् पुरुमीढो अगस्यः श्यावाश्वः सोभर्यर्चनानाः विश्वामित्रोयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥ १५ ॥ कण्वः । कक्षीवान् । पुरुऽमीढः । अगस्त्यः । श्यावऽअश्वः । सोभरी । अ- र्चनानाः। विश्वामित्रः । अयम् । जमत्ऽअग्निः । अत्रिः । अवन्तु । नः । कश्यपः । वामडदेवः ॥१५॥ कण्वादयो द्वादशसंख्याका ऋषयो नः अस्मान अवन्तु रक्षन्तु । क्र- णतिः शब्दार्थः । अशूमुषिलटिकणिस्वटिविशिभ्यः क्वन् [उ १. १४९] इति क्वन् प्रत्ययः । [नित्त्वाद् आद्युदात्तः] कण्वशब्दः । कक्ष्या रज्जुरश्वस्य कक्षं सेवते [नि०२.२] इति यास्कः । तद्वान् कक्षी- वान् । g “आसन्दीवद् अष्ठीवच्चक्रीवत् कक्षीवत्" इति मनुपि नि- पात्यते । पुरुमीढः । मिह सेचने इत्यस्मात् कर्मणि नि- ष्ठा । पुरूणि मीढानि सिक्तानि अपत्यानि यस्य स तथोक्तः । यद्वा मीढम् इति धननाम । पुरूणि मीढानि धनानि यस्य स तथो- क्तः । बहुधन इत्यर्थः । अगस्यः प्रसिद्धः । श्यावाश्वः श्यावाः कृष्णवर्णा 18 has a lacuna for alvout ten letters, after which it reads : q:. 28 ou. °णि निष्ठा । पुरूणि मीढानि. पात्यते । १४२ अथर्वसंहिताभाष्ये अश्वा यस्य स तथोक्तः । सोभरी प्रसिद्धः। अर्चनानाः अर्चनम् अर्चनी- यम् अनः शकटं यस्य स तथोक्तः । संज्ञाशब्दोयम् । स च अत्रीणां प्र- वरमध्ये पठ्यते । 'आत्रेयार्चनानसश्यावाश्वेति । श्यावाश्ववद् अर्चनानस- वद् [अत्रिवत्]" इति । विश्वामित्रः । विश्वं सर्व जगत् मित्रं यस्य स तथा।"मित्रे चर्षौ" इति विश्वशब्दस्य दीर्घः । अयम् इति इदंशब्देन पुरोवर्तिवस्तुवाचिना सर्वजनसंनिहितत्वेन सर्वमित्रत्वम् उ- पपाद्यते । जमदग्निः । जमतिर्ज्वलतिकर्मा ।जमन्तो ज्व- लन्तः अग्नयो यस्य स तथोक्तः । अत्रिः । आध्यात्मिकाधिदैविकाधिभौ- तिकभेदभिन्नास्त्रिविधा दुःखानुभवा यस्य न विद्यन्ते स तथा । अत एव यास्को निरवोचत । तस्माद् अत्रिर्न त्रय इति [नि ३.१७] । क- श्यपः । आद्यन्तवर्णविपर्ययः । सर्व जगत सर्वदा सौक्ष्म्येण पश्यतीति कश्यपः । श्रूयते हि । "कश्यपः 1पश्यको भवति यत् सर्व परिपश्य- तीति सौक्ष्म्यात्" इति [तै आ०१...] । वामदेवः । वामो व- ननीयो देवो 2द्योतकोस्ति तत्वविषये बोधो यस्य स तथा । स खलु गर्भावस्थ एव सन उत्पन्नतत्त्वज्ञानः स्वस्य सार्वात्म्यम् अनुसंदधौ । श्रूयते हि । 'अहं मनुरभवं सूर्यश्च" इति । [ऋ०४.२६.१] ॥ षष्ठी ॥ । मृः विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव । शर्दिर्नो अत्रिरग्रभीन्नमोभिः सुसंशासः पितरो मृडता नः ॥ १६ ॥ विश्वामित्र । जमतऽअग्ने । वसिष्ठ । भरतऽवाज । गोतम । वामऽदेव । शर्दिः । नः । अत्रिः । अग्रभीत् । नमःऽभिः । सुऽसशासः । पितरः। मृ- डत । नः ॥ १६॥ १ BCV शर्दिों. D शर्दि clhanged to शर्दि'. We with A KR. . २ K सुसंशास:. A B R V मुमैशामः पिनरो. C मुशंशासः पितरो. D सुसंशासः पितरौ corrected to सु- सँशासः पितरी. Cr सुऽसंशासः । पितरः ।. We with A BR V CP. ३ Cr बामऽदेव । ४ Cशर्दिः। 28' द्योतकनास्त for द्योतकोऽस्ति. IS पश्यक: [अ०३. सू°३.] ५४३ अष्टादशं काण्डम् । १४३ पूर्वार्धेन षट्ख्याका ऋषयः संबोध्यने । तत्र वसिष्ठो वसुमतमः एत- न्नामा ऋषिः । भरणाद् भारद्वाज इति यास्कः [नि°३. १७] । अ- न्ये शब्दा उक्तार्थाः । मृडता नः इत्येतद् वक्ष्यमाणं पदद्वयम. अत्रापि सं- बध्यते । हे विश्वामित्रादय ऋषयः नः अस्मान् मृडत सुखयत । अत्रिः एतत्संज्ञो महर्षिनः अस्माकं शर्दिः छर्दिः । गृहनामैतत् ।उछृ- दिर् दीप्तिदेवनयोः इत्यस्माद् अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः [उ. २. १०७] इति इसिप्रत्ययः । वर्णव्यत्ययः ।नः अस्मदीयं गृहम् अग्रभीत् अग्रहीत् । रक्षणार्थं गृहीतवान् इत्यर्थः । ग्रह उपादा- ने । “हग्रहोर्भः" इति भत्वम् । यद्वा 1शर्दतिर्बलकर्मा । 2शर्द- यति बलयतीति शर्दिः । एवंगुणविशिष्टः अत्रिर्नः अस्मान् अग्रहीत आ- त्मीयत्वेन गृहीतवान् । अथ वा शर्दिर्नाम कश्चिद् ऋषिः । अन्यत् पू- र्ववत् । तथा नमोभिः नमस्कारैः । यद्वा अन्ननामैतत् । दीयमानैरन्नैः कव्यरूपैहेतुभिः3 हे पितरः पितृदेवताः यूयं सुशंसासः सुष्टु शंसितुं स्तोतुं शक्याः । xशंसु स्तुतौ इत्यस्मात् “ईषदुःसुषु०” इति कर्मणि खल् प्रत्ययः । “आज्जसेरसुक्" । सुष्टुताः संस्तुिताः सन्तः नः मृडत अस्मान् सुखयत । मृडत । मृडं] सुखने ४ ॥ शवदहनदिवसे रात्रौ 5रिक्तकलशभञ्जनकर्ता “कस्ये मृजानाः” इति सप्तमीम् ऋचं जपेत् । ऋक्पाठस्तु [सप्तमी] ॥ कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः । आप्यायमानाः प्रजया धनेनाध स्याम सुरभयौ गृहेषु ॥ १७ ॥ कस्ये। मृजानाः । अति । यन्ति । रिप्रम् । आयुः । दधानाः । प्रऽतरम् । नवीयः। १ A BC R V htre कस्ये मुजाना. D• कस्ये मृजाना clhanol 10 कस्य मुजाना. Ch कस्ये। मृजानाः ।. P" कस्ये । मृजानाः। K कस्य मृजाना. २C आयः ।। 18शर्धति. as amit in हेतुभिः. । S las alia से । lacuna for about sixty Jetters at the end of'n bieh cuker's garà instead of gah. at. Neither Nex'ike nor the keuri throw light 28 शर्धयति. IS रिक्तलशभंजन on the passage. १४४ अथर्वसंहिताभाष्ये आऽप्यार्यमानाः । प्रऽजया । धनेन । अध । स्याम । सुरभयः । गृ- हेषु ॥ १७ ॥ कसः कीकसः । कीशब्दलोपश्छान्दसः ।कसम् अर्ह- तीति कस्यो दहनदेशः तस्मिन् मृजानाः बान्धवमृतिजनितं दुःखम् उ- पलिपन्तः । परित्यजन्त इत्यर्थः । रिप्रम् । पापनामैतत् । शवसंस्पर्श- जनितं पापम्।रपो रिप्रम् इति पापनामनी भवतः इति हि नि- रुक्तम् [नि०४.२१] । मरणनिमित्तं पापम् अति यन्ति अतीत्य गच्छन्ति । इति प्रथमः पादः परोक्षकृतः । यद्वा पुरुषव्यत्ययः । अती- मः । अतीत्य गच्छाम इत्यर्थः । इण् गतौ । अदादित्वान् शपो लुक् । “इणो यण्” इति यण् आदेशः । यतो वयम् उक्तरी- त्या दुःखम् अतिक्रान्तास्ततो हेतोः नवीयः अतिशयेन नवम् उत्कृष्टम् आयुः जीवितं प्रतरम् प्रकृष्टतरं दधानाः । दीर्घकालजीवनं धारयन्त इ- त्यर्थः । एवम् अनेन द्वितीयपादेन चिरकालजीवनं प्रार्थितम् ॥ जीवत एव पुरुषस्य प्रजापश्चाद्यपेक्षेति तृतीयेन पादेन प्रतिपाद्यते । प्रजया पु- त्रपौत्रादिरूपया धनेन कनकरजतादिलक्षणं गवाश्वादिकं च धनम् तेन आप्यायमानाः वर्धमाना भवेम ॥ अध अथ अनन्तरं गृहेषु सुरभयः शोभनगन्धोपेताः श्लाघ्यगुणयुक्ताः स्याम भवेम ॥ पिण्डपितृयज्ञे “अञ्जते व्यञ्जते' इति ऋचा पिण्डेषु घृतेन अभिधा- रणं कुर्यात् । सैषा सूक्ते अष्टमी॥ अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते । सिन्धोरुच्छ्रासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्णते ॥ १६ ॥ अञ्जते । वि। अञ्जते । सम् । अञ्जते । क्रतुम् । रिहनि । मधुना। अभि। अञ्जते । १PP अधास्याम | lior अध ।स्याम् ।। I SMS. Should not we rather read fyra? 23 इता for इत्यर्थः. १४५

[अ०३. सू०३.] ५४३ अष्टादशं काण्डम् । सिन्धोः । उतऽश्वासे । पतयन्तम् । उक्षणम् । हिरण्यऽपावाः । पशुम् । आसु । गृह्णते ॥ १ ॥ पितृवं प्राप्ताः कर्मिणो जना धूमादिमार्गेण चन्द्रलोकं प्राप्य तत्र या- गहोमादिसुकृतजनितं फलं भुञ्जत इति स सोमः अनया स्तूयते । सो- मयागं 1प्रवर्तयन्तः प्रथमम् ऋत्विजः अञ्जते यजमानम् अञ्जनेन संस्कुर्वन्ति । तथा च ऐतरेयकम् । “आञ्जन्त्येनम् । तेजो वा एतद् अक्ष्योर्यद् आञ्जनम् । सतेजसमेवैनं तत् कृत्वा दीक्षयन्ति" इति [ऐ ब्रा॰ १.३] ।अञ्जू व्यक्तिम्लक्षणगतिषु । “श्र्नसोरल्लोपः” इति अकारलोपः ।त- स्याञ्जनस्य लौकिकाद् वैशिष्ट्यं प्रतिपाद्यते व्यञ्जत इति । विविधम् अ- ञ्जते । लौकिकाद् अञ्जनाद् अन्येन प्रकारेण यजमानस्याक्षणोरञ्जनं कु- र्वनतीत्यर्थः । तत्प्रकारश्च तैतिरीये समाम्नायते । “दक्षिणं पूर्वम् आङ्क्ते । सव्यं हि पूर्व मनुष्या आञ्जते" [नै सं० ६.१.१.६] इत्यादिना । तथा समञ्जते सम्यग् अक्तं कुर्वन्ति । उक्तस्याञ्जनस्य सम्यक्त्वविशेषणप्रतिपाद- नाय पुनरनुवादः । तथा ऋतुं रिहन्ति । क्रतुः सोमयागसंकल्पः । तं लिहन्ति आखादयन्ति । लिह आस्वादने । कपिलकादित्वात् लत्व- विकल्पः ।सोमेन यक्ष्य इत्येवमात्मकं 2वचो यजमानम् उच्चारय- न्तीत्यर्थः । मधुना माधुर्योपेतेन नवनीतेन अभ्यञ्जते अभ्यक्त3शरीरं कुर्व- न्तिि । तथा च ऐतरेयकम् । “नवनीतेनाभ्यञ्ज4न्ति । स्वेनैवैनं तद् भा- गधेयेन समर्धयन्ति" [ऐ ब्रा० १.३] इति ॥ यद्वा अञ्जनादिसंस्कारैः सोम एव स्तूयते । 5सोमयागे प्रवृत्ती ऋत्विग्यजमानाः सोमम् अञ्जते दीक्षणीयादिषु हूयमानेनाज्येन सोममेव अञ्जन्ति । संस्कुर्वन्तीत्यर्थः ॥ तथा व्यञ्जते दण्डकृष्णाजिनादिदीक्षाव्यञ्जनद्रव्येण यजमानद्वारा तमेव सोमं संस्कुर्वनीत्यर्थः ॥ तथा समञ्जते सोमयागोपयुक्तं यूपं सम्यग् आमूलाग्रम् अञ्जते6 । तेन च समञ्जनेन यूपद्वारा सोम एव संस्कृतो भवतीत्यर्थः ॥ 18 वर्त प्रथममृजः for प्रवर्तयन्तःप्रथमम् ऋत्विजः. 4 S' has a blank space for about nine letters in place of other I Faded ag. iS सोमयागप्रवृत्य. 68 अञ्जति. 28 वाचा. 38' अभ्यक्तंशरीर. १६ १४६ अथर्वसंहिताभाष्ये ऋतुं रिहन्ति । यूपवान् यागः क्रतुः । अत्र तत्साधनभूतः सोमो लक्ष्य- ते । ऋतुम् सोमं लिहन्ति क्रयाभिषवादिसंस्कारपूर्वकं सोमम् अग्नौ हु- त्वा हुतशेषं लिहन्ति । आस्वादयन्तीत्यर्थः । मधुना माधुर्योपेतेन क्षी- रादिना श्रयणद्रव्येण तं सोमम् अभ्यञ्जते अभितः अक्तं संयुक्तं संस्कृतं कुर्वन्तीत्यर्थः ॥ दिवि स्थितश्चन्द्र एव लतारूपसोमात्मना पृथिव्याम् अव- स्थित इति 1प्रतिपादयति सिन्धोरुच्छ्वास इति । सिन्धोः स्पन्दनशीलस्य समुद्रस्य [उच्छ्वासे] । उच्छ्वास उद्गमः अभिवृद्धिः । तस्मिन् समये प- तयन्तम् गच्छन्तम् । उद्यन्तम् इत्यर्थः । xपत गतौ । चुरादिरद- न्तः । अतो लोपस्य स्थानिवत्त्वाद् उपधावृद्ध्यभावः । उक्षणम् सेक्तारम् अमृतमयैः किरणैरभिषिञ्चन्तम् । यद्वा सिन्धोः स्पन्दनशील- स्य वसतीवरीजलस्य उच्छ्वासे उद्गमे सति अभिषवकाले पतयन्तम् गच्छ- न्तम् । अभिषवसंस्कारेण द्रवीभवन्तम् इति यावत् । उक्षणम् सेक्तारं सर्वजगदुत्पत्तेः आहुतिद्वारा बीजभूतम् इत्यर्थः । स्मर्यते हि । अग्नौ 2प्रास्तांहुतिः सम्यग् आदित्यम् उपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । इति [म° ३.७६] । तथा पशुम् । पश्यति सर्व जगत् स्वकिरणैः प्र-. काशयतीति पशुश्चन्द्रमाः । पशुः पश्यतेरिति यास्कः [नि ३.१६.] । एवंगुणविशिष्टं सोमं रसात्मना अवस्थितं हिरण्यपावाः हिरण्येन पावयन्तीति हिरण्यपावाः अभिषोतार ऋत्विजः । अभिषवपा- वनादिषु तेषां हिरण्यपाणित्वं भगवता आपस्तम्बेनोक्तम् । “हिरण्य- पाणिरभिषुणोति गृह्णाति जुहोतीत्यत्यन्तप्रदेशः” इति [आपः १२.७. १२] । आसु स्थालीषु । सोमयागे हि प्रधानभूतानाम् आग्रयणा- दीनां ग्रहाणां ग्रहणाय चतस्रः स्थाल्यो 3विहिताः । तासु गृर्भ्णते गृ- ह्णत्ते । उपलक्षणम् एतत् । स्थाल्युपलक्षितग्रहचमसपात्रेषु सोमरसग्रहणेन संस्कुर्वन्तीत्यर्थः ॥ एवं पितृदेवताभूतसोमाञ्जनलिङ्गात् पिण्डाभिधारणे विनियोग उपपन्नः ॥ 18 प्रतिपादयितु. 28 प्रस्थाहुतिः and onits °ग् आदित्य'. 3 S has ftat: for विहिताः and leaves a blank space for four letters after स्थाल्यो. [अ०३. सू°३.] ५४३ अष्टादशं काण्डम् । १४७ नवमी॥

यद् वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वय॑शसो हि भूत । ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हूयमानाः ॥ १९ ॥ यत् । वः । मुद्रम् । पितरः । सोम्यम्। च। तेनो इति । सचध्वम । स्वऽय- शसः । हि । भूत। ते। अर्वाणः । कवयः। आ। शृणोत। सुऽविदत्राः । विदथे । हूयमानाः॥१९॥ हे पितरः वः युष्माकं संबन्धि मुद्रम् मोदकं हर्षजनकम् । मुद हर्षे इत्यस्मात् स्फायितञ्चीत्यादिना [उ°२. १३] रक् । यद्वा मुदम् हर्ष राति1 ददातीति मुद्रम् ।"आतोनुपसर्गे कः" इति कप्रत्य- यः। प्रीतिकरं यद् धनम् सोम्यम् सोमार्हं च विद्यते तेनो2 [तेनै- व धनेन सह यूयं] सचध्वम् अस्माभिः संगता भवत । षच सम- वाये । तादृग् धनम् अस्मभ्यं प्रयच्छतेत्यर्थः ॥ तत्र हेतुरुच्यते । हि यस्माद् यूयं स्वयशसः स्वायत्तयशस्का [भूत] भवथ । तस्माद् इ- ष्टफलदानं भवतां युक्तम् इत्यर्थः ॥ ते यूयम् अर्वाणो गन्तारः कवयः क्रान्तदर्शनाः सुविदत्राः शोभनज्ञानाः शोभनधना वा विदथे यज्ञे हूय- मानाः अस्माभिराहूयमाना आ शृणोत अस्मदाह्रानं शृणुत । श्रु श्रवणे । लोटि तस्य तबादेशः ॥ दशमी ॥ ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः । दक्षिणावन्तः सुकृतो य उ स्वासद्यास्मिन बर्हिर्षि मादयध्वम् ॥२०॥(११) ये। अत्रयः। अङ्गिरसः। नवऽग्वाः । इष्टऽवन्तः। रातिऽसाचः। दधानाः। CÂRPDC 74. We with BV. ?BC RV De graçar. Crasfer- TT: I. There is no manuscript or Vaidika authority for the necessary correction to aferant. See Rw. ३ Cr पितरः।. ~ Cr भूत ।. PF भूतम् । ५ R BV अत्रयोगि. Dcertet sifato changed to è tutto. We with A CĂ. 18 arfa. 2$ mica and then a lacuna for some ten letters in place of a sit [तेनैव धनेन सह यूयं]. १४६ अथर्वसंहिताभाष्ये दक्षिणाऽवन्तः । सुऽकृतः । ये । ऊ इति । स्थ । आऽसद्य । अस्मिन् । ब- हिर्षि । मादयध्वम् ॥ २० ॥ ११४) ये पितरो यूयम् अत्रयः अत्रिगोत्रोत्पन्नाः । ये वा अङ्गिरसः अङ्गि- रोगोत्रजाः । यद्वा अत्रिमहर्षिरूपेण अङ्गिरोरूपेणावस्थिताः । नवग्वाः अभिनवगमनाः । अथ वा अङ्गिरसो हि केचन 1सत्त्रयागं कुर्वाणा न- वभिर्मासैः [स्वर्ग] गतास्ते नवग्वा उच्यन्ते । अपरे दशभिर्मासैर्गतास्ते दशग्वाः । तथा चाम्नायते । "नवग्वासः सुतसोमास इन्द्रं दशंग्वा- सो अभ्यर्चन्त्यर्कैः” इति [ऋ०५.२९.१२] । इष्टावन्तः इष्टाः दर्श- पूर्णमासादियागास्तद्वन्तः इष्टावन्तः । रातिषाचः रातिर्दानम् तत् सचन्ते समवयन्तीति दक्षिणादानयुक्तक्रिया रातिषाच इत्युच्यन्ते । ता दधानाः धारयन्तः । ये च अन्ये हे पितरो यूयं दक्षिणावन्तः दक्षिणादानयुक्ताः सुकृतः पुण्यकृतः स्य भवथ । उशब्दः अप्यर्थे । अस्मिन् बर्हिषि यज्ञे आस्तीर्णे दर्भे वा आसद्य उपविश्य ते सर्वे यूयं मादयध्वम् अस्मदी- येन हविषा तृप्ता भवत ॥ [इति ] अष्टादशकाण्डे तृतीयेनुवाके द्वितीयं सूक्तम् ॥ "अधा यथा नः" इति आदितश्चतसृणाम् ऋचां प्रेतोपस्थाने वि- नियोग उक्तः ॥ तत्र प्रथमा ॥ अधा या नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः । शुचीदयन् दीध्यत उक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन ॥२१॥ अध । यथा । नः । पितरः । परासः । प्रत्नासः । अग्ने । ऋतम् । आऽश शानाः। शुचि । इत् । अयन् । दीध्यतः । उक्थऽशसः । क्षाम । भिन्दन्तः । अरुणीः । अप । व्रन् ॥२१॥ २Pक्षामा। १P शासः।। 18 सत्रयोगं. . [अ०३. सू°३.] ५४३ अष्टादशं काण्डम् । १४९ अध अथ अनन्तरम् । यद्वा अप्यर्थः अधेति निपातः । अपि च यथा येन प्रकारेण नः अस्माकं पितरः पितृपितामहाः । यद्वा अस्माकं पितृभूता अङ्गिरसः परासः । परशब्दः उत्कृष्टवाची । "आज्ज- सेरसुक्" । परा उत्कृष्ठाः प्रत्नासो पुराणाः हे अग्ने त्वत्प्रसा- दाद् ऋतम् यज्ञम् आशशानाः व्याप्नुवन्तः । अशू व्याप्तौ इत्य- स्मात् कानचि रूपम् । एवंभूतास्ते शुचि दीप्तं स्थानं नाकपृ- ष्ठाख्यम् अयन् अगच्छन् । इच्छब्दः अवधारणे । इण् गतौ । अस्मात् लङि पूर्वम् “इणो यण्” इति यणि कृते तस्य असिद्धवद्भा- वेन प्राप्तस्य आटश्छान्दसावाद् निवृतौ अडागम एव भवति । दी- ध्यतः दीप्यमानाः । * दीधीङ् दीप्तिदेवनयोः इत्यस्मात् लट् । व्य- त्ययेन शत्रादेशः । उक्थशासः । उक्थानि शस्त्राणि । तेषां शंसि- तारः एवंगुणविशिष्टास्ते पितरः क्षमा रात्रिः तत्संबन्धि तमः क्षाम शार्वरं तमो भिन्दन्तः स्वतेजसा निवर्तयन्तः 2अरुणीः अरुणवर्णा उषसः उषः- कालान् अप व्रन् अपावृण्वन् 3प्रकाशयन् ॥ यद्वा पणिनामानोऽसुरा अङ्गिरसां यज्ञसाधनभूता गा अपहृत्य भूम्यां बिलं प्रावेशयन् 4अङ्गिरस- स्त[जानन्तः इन्द्रसहाया बिलं विवृत्य ता गा अलभन्तेत्याख्यायिका । तद् एतद् उच्यते । क्षाम क्षमां भूमि भिन्दन्तः विदारयन्तः अरुणीः अरुणवर्णा गा अप व्रन् अपावृण्वन् बिलद्वारापवरणेन अलभन्तेत्यर्थः ॥ द्वितीया ॥ सुकर्माणः सुरुचो देवयन्तो अयो न देवा जनिमा धमतः । शुचन्तो अग्निं वावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् ॥ २२ ॥ सुऽकर्माणः । सुऽरुचः । देवऽयन्तः । अयः। न। देवाः । जनिम । धमन्तः । शुचन्तः । अग्निम् । ववृधन्तः । इन्द्रम् । उर्वीम् । गव्याम् । परिऽसदम् । नः। अक्रन्॥ २२ ॥ सुकर्माणः शोभनकर्माणः सुरुचः सुदीप्तयो देवयन्तः देवान् आत्मन 38 प्रकाशयन्. 18 अंगिर- 1 So S. No correlative follows. 25 अरुणा TYPTE and then n lacıma for some eleven letters. १५० अथर्वसंहिताभाष्ये इच्छन्तः अयो न । नेति उपमार्थे । यथा अयस्कारा अयो धमन्ति धमनेन परिशुद्धं कुर्वन्ति एवं स्वकीयं जनिम जन्म धमन्तस्तपसा शोध- यन्तो देवाः देवत्वं प्राप्ताः अग्निम् गार्हपत्यादिकं शुचन्तः दीपयन्तः सा- मिधेनीभिः प्रज्वालयन्तः इन्द्रं ववृधन्तः स्तुतिभिर्वर्धयन्तः उर्वीम् महतीं गव्याम् गवां समूहम् । "खलगोरथात्" इति समूहार्थे यप्रत्य- यः।नः अस्माकं परिषदम् परितः सीदन्तीम् अक्रन् अका-

र्षुः । डुकृञ् करणे । “मन्त्रे घस" इत्यादिना च्लेर्लुक् ॥

तृतीया ॥ आ यूंथेव क्षुमति पश्वो अख्यद् देवानां जनिमान्त्युग्रः । मर्तासश्चिदुर्वशीरकृप्र्न वृधे चिदर्य उपरस्यायोः ॥ २३ ॥ आ। यूथाऽइव । क्षुऽमतिं । पश्वः । अख्यत् । देवानाम् । जनिम । अन्ति। उग्रः। मर्तासः । चित् । उर्वशीः । अकृप्रन् । वृधे । चित् । अर्थः । उपरस्य । आयोः ॥ २३॥ उग्रः उद्गूर्णबलोयमग्निः देवानाम् यष्टव्यानाम् इन्द्रादीनां जनिम जन्म प्रादुर्भावम् अन्ति अन्तिके समीपे । "कादिलोपो बहुलम् इति वक्तव्यम्" इति अन्तिकशब्दस्य कादिलोपः । आ अख्यत् अभि- पश्यति । आभिमुख्येन ज्ञातुं शक्नोतीत्यर्थः । यूथेव क्षुमति पश्व इति तत्र दृष्टान्तः । यूथा इव । ४ सप्तम्याः पूर्वसवर्णदीर्घः । यूथे समूहे क्षुमति शब्दवति गवां संघे पश्वः पशून् आत्मीयान् गवादीन्1 यथा R A B C R यूथेव क्षुमति. kv युथेव क्षुमति. D¢ युथैव क्षुमति corrected to युथेव क्षु- मति which we adopt. P क्षुम् । अपि ।. P क्षुम् । अति ।. CP क्षुम् । अति ।. There can be no cloubt that the older Athared-reading was यूथेव क्षुमति i. e. युथाऽईव । क्षुम् । अति ।, and that it was afterwards corrected to quat syafat in conformity with the Rigeela (IV. 2. 18). २ B°मान्त्युग्र. XCV मान्त्युनः. A R °मान्युन. P उग्रा ।. CP उग्रः । Pउग्रः।. De correets °मान्त्युम to °मान्त्युग्रः. The MSS. oscillate between the उम्र of the Rivreda and 34: peculiar to the Atharru-vedu. I 18 गवादीयान्, अक्षत्।. १५१ [अ°३ सू°३.] ५४३ • अष्टादशं काण्डम् । स्वामी पश्यति तत् । अयं देवसंघे 1यष्टव्यान् जानातीत्यर्थः ॥ यद्वा दा- हकोग्निः संबोध्यः । हे अग्ने त्वया दह्यमानोऽयं यजमानस्वत्प्रसादाद् उ- ग्रः उद्गूर्णबलः क्षुमति शब्दवति पशुसंघे पश्वः पशूनां यूथा यूथानीव देवानां जनिम आख्यत् अभिपश्यतीति । देवलोकं गतस्य तस्य देवा अ- न्तिके प्रादुर्भवतीत्यर्थः ॥ मर्तासश्चित् मर्त्या अपि मनुष्यजातीया अपि त्वत्प्रसादाद् उर्वशीः 2उर्वश्यांद्या अप्सरसः अकृप्रन् अकल्पयन् । उपभोक्तुं समर्था 3भवन्तीत्यर्थः। कृपू सामर्थ्ये इत्यस्मात् लुङि च्लेः अङ् आ- देशः । “बहुलं छन्दसि" इति रुडागमः ।ततश्च त्वत्प्रसादाद् देवत्वं प्राप्तः अर्थः स्वामी भूत्वा उपरस्य उप्तस्य गर्भाशये निषिक्तस्य आयोः मनुष्यस्य गर्भावस्थस्य वृधे चित् वर्धनाय च । भवतीति शेषः । पितृप्रसादात् पुत्रपौत्राद्यभिवृद्धिरिति भावः ॥ चतुर्थी ॥ अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभातीः । विश्वं तद् भद्रं. यदवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ २४ ॥ अकर्म । ते । सुऽअप॑सः । अभूम । ऋतम् । अवस्नन् । उपसः । विडभातीः । विश्वम् । तत् । भद्रम् । यत् । अवन्ति । देवाः । बृहत् । वदेम । विदथे । सुऽवीराः ॥२४॥ हे अवस्वन् अवनवन् पालक अग्ने ते तुभ्यम् अकर्म परिचरणम् अकार्ष्म.।"मन्वे घस” इत्यादिना ब्लेर्लुक् । अतस्व- त्प्रसादात् स्वपसः शोभनकर्माणः अभूम अस्माभिः कृतानि यागहोमदा- नादीनि कर्माणि शोभनानि फलायुक्तानि येषां तथोक्ता अभवाम । अ- स्माकर्माणि फलयुक्तानि 4भवन्वित्यर्थः ॥ तथा विभाती: विभात्यः व्युच्छ- नय उषसश्च ऋतम् । सत्यनामैतत् । सत्यं यागदानादिकर्मफलम् । कु- र्वन्तु इति शेषः ॥ यत् शास्त्रविहितं कर्म देवा अवन्ति रक्षनि तद् वि- BÅR AV De aha. Wc with C. 28 उर्वश्याचा for उर्वश्याद्या. 33 भवती. 48 अवनस्वन्. अकार्म । . २CP अवरन् ।। 18 य इष्टव्यान. S' has here a lacuna for some fifteen letters. १५२ अथर्वसंहिताभाष्ये श्वम् सर्वं भद्रम् कल्याणं भवति । वयमपि सुवीराः शोभनपुत्रादियुक्ताः सन्तो विदथे यज्ञे बृहत् महत् स्तोत्रं वदेम ब्रूयाम ॥ 'इन्द्रो मा मरुत्वान्" इत्यादिभिः एकादशभिर्ऋग्भिः श्मशानचय- नकर्मणि आज्यं जुहुयात् ॥ तथा “इन्द्रो. मा मरुवान्" इत्यादिपञ्चभिर्ऋग्भिः प्रेतशरीरे अग्नि- दानानन्तरम् आज्येन सारस्वतहोमान् कुर्यात् ॥ पञ्चमी॥ इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ २५ ॥ इन्द्रः । मा । मरुत्वान् । प्राच्याः । दिशः । पातु । बाहुऽच्युता । पृथिवी। द्यामऽईव । उपरि। लोकऽकृतः । पथिऽकृतः । यजामहे । ये। देवानाम् । हुतऽभागाः । इह । स्थ ॥२५॥ मरुत्वान् मरुद्भिः एकोनपञ्चाशत्संख्याकैर्देवैः ‘सहितः इन्द्रो मा मां संस्कर्तारं प्राच्या दिशः प्राचीदिक्संबन्धिभयहेतोः पातु रक्षतु । तत्र दृ- ष्टान्तः । बाहुच्युता1 बाहुभ्यो दातृसंबन्धिभ्यश्च्युता विनिर्गता । यहद्वा बा- हुषु प्रतिग्रहीतृसंबन्धिषु च्युता प्राप्ता । उदकपूर्वं दत्तत्यर्थः । तादृशी दातृसात्कृता पृथिवी द्यामिव यथा द्याम् दिवं स्वर्गं भूदानप्राप्यमं उ. परि आगामिनि काले दातृप्रतिग्रहीतृभ्याम् उपभोग्यं लोकं पाति त- द्वत् । मां पात्विति संबन्धः । भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ। इति ॥ अपि च लोककृतः लोकस्य पुण्यफलभूतस्य स्वर्गादेः कर्तृन् प- थिकृतः तत्प्राप्त्युपायभूतस्य मार्गस्य कर्तृन् यजामहे हविषा पूजयामः । १C स्थ। 18' बाहुच्युताः [अ°३. सू°३.] ५४३ अष्टादशं काण्डम् । १५३ हे देवाः [ये] यूयं देवानाम इन्द्रादीनां मध्ये हुतभागाः हुतः स्वाहा- कारवषट्काराभ्याम् अग्नौ प्रक्षिप्तो1 हविर्भागः अंशो येषां ते हुतभागा इह अस्मिन् पितृमेधकर्मणि स्थ भवथ । तान् देवान् लोककृत इति पूर्वेण संबन्धः ॥ षष्ठी ॥ धाता मा निर्ऋत्या दक्षिणाया दिशः पातु बाहुच्युतां पृथिवी द्यामि- वोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ २६ ॥ धाता । मा। निःऽऋत्याः । दक्षिणायाः । दिशः । पातु । बाहुऽच्युता । पृथिवी । धाम्ऽइव । उपरि। लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥२६॥ धाता सर्वस्य जगतो विधाता धारयिता वा एतत्संज्ञो देवः निर्ऋ- त्याः । निर्ऋतिः आर्तिकरी पापदेवता । तद्युक्ताया दक्षिणाया दिशो मा मां पातु दक्षिणदिगवस्थिताद् रक्षःपिशाचादेर्मां संस्कर्तारं रक्षतु ॥ बाहुच्युतेत्यादेः पूर्ववद् योजना ॥ सप्तमी ॥ अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये दे॒वाना हुतभागा इह स्थ ॥ २७ ॥ अदितिः । मा। आदित्यैः । प्रतीच्याः । दिशः । पातु । बाहुऽच्युता । पृ. थिवी । द्याम्ऽइव । उपरि। लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥२७॥ अदितिः अदीना देवमाता । सा आदित्यैः स्वपुत्रैः सह प्रतीच्या 18 प्रक्षिप्त. १५४ अथर्वसंहिताभाष्ये दिशः सकाशात् मा मां पातु प्रत्यग्दिगवस्थितरक्षःपिशाचादेमा रक्षषि- त्यर्थः : ॥ अन्यद् उक्तार्थम् ॥ अष्टमी ॥ सोमो मा विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्प ॥ २ ॥ सोमः । मा। विश्वैः । देवैः । उर्दीच्याः । दिशः । पातु । बाहुऽच्युता । पृथिवी । द्यामऽईव । उपरि। लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ॥२८॥ विश्वः सर्वैः [देवैः] सह सोमः [एतन्नामको देवः] मा माम उ- दीच्या दिशः पातु उत्तरदिगवस्थिताद् राक्षसादेः 1श्मशानवासिनः सका- शाद् रक्षतु ॥ नवमी ॥ धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये दे॒वानां हुतभागा इह स्थ ॥ २९ ॥ धर्ता। ह । त्वा। धरुणः । धारयाते । ऊर्ध्वम् । भानुम् । सविता । द्याम्ऽई- व। उपरि । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इ- ह। स्थ॥ २९॥ धरुणः सर्वस्य जगतो धारयिता धर्ता एतत्संज्ञक ऊर्ध्वदिगभिमानी देवः हे प्रेत त्वा त्वाम् ऊर्ध्वम् अर्ध्व दिगवस्थितं लोकान्तरं गन्तुम् उद्यतम् ऊर्ध्वमुखं का धारयातै धारयतु । "लेटोडाटौ” इति आडागमः । “वैतोन्यत्र" इति ऐकारः । तत्र दृष्टान्तः । स- 1 S kas liere a spare for alont live letters, 28 Ttº. 38' inserts syft हे ऊर्ध्वायां दिशि before धरुणः. १५५ [अ°३. सू°३.] ५४३ • अष्टादशं काण्डम्। विता सर्वप्रेरकः सूर्यः भानुम् दीप्तां धाम धुलोकं यथा उपरि धारयति तद्वद् इत्यर्थः ॥ लोककृत इत्यादि पूर्ववद् व्याख्येयम् ॥ दशमी ॥ प्राच्यां त्वा दिशि पुरा संवृतः स्वधायामा द॑धामि बाहुच्युतां पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवाना हुतांगा इह स्थ ॥ ३० ॥(१५) प्राच्याम । वा । दिशि । पुरा । समऽवृतः । स्वधायाम् । आ । दधामि । बाहुऽच्युता । पृथिवी । द्याम्ऽईव । उपरि । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्य॥३०॥ (१५) प्राच्यां दहनदेशात् पूर्वस्यां दिशि पुरा पूर्व् संवृतः संछादितः कम्ब- लेन आवेष्टितोहम् यद्वा पू: शरीरम् तेन संवृतः सशरीर एव सन् हे प्रेत त्वा त्वां स्वधायाम् पितॄणां तृप्तिकरी देवता स्वधा तस्याम् आ द- धामि स्थापयामि । संस्कारकर्मणा प्रेतत्वप्रच्युतिपूर्वकं1 पितृदेवतात्वं गम- यामीत्यर्थः । बाहुच्युता दातृबाहुभिः प्रच्युता ब्राह्मणेभ्यो दत्ता पृथिवी उपरि उपरिष्टादेशस्थितां द्याम् दिवं नाकपृष्ठाख्यं स्थानं यथा पालयति । यद्वा उपरि आगामिनि काले भूदानमाप्यां दिवं यथा दत्ता पृथिवी पालयति तथा वां सैव पृथिवी पालयत्वित्यर्थः ॥ [इति ] तृतीयेनुवाके तृतीयं सूक्तम् ॥ "दक्षिणायां त्वा दिशि" इत्यादितः पञ्चानाम् आज्यहोमे अभिमन्त्र- णे च विनियोग उक्तः ॥ तत्र प्रथमा। दक्षिणायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथि- वी द्यामिवोपरि। 13' पूर्वक° for °पूर्वकं. १५६ अथर्वसंहिताभाष्ये लोककृतः पथिकृतो यजामहे ये देवाना हुतभागा इह स्थ ॥ ३१ ॥ दक्षिणायाम् । वा। दिशि । पुरा । समऽवृत्तः । स्वधायाम् । आ । दधा- मि। बाहुऽच्युता । पृथिवी । द्यामऽईव । उपरि । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ ३१॥ हे प्रेत त्वा त्वां दक्षिणायां दिशि दक्षिणदिग्भागे पुरा पूर्वमेव संवृ- तः आत्मरक्षार्थे1 कम्बलादिना प्रावृतः स्वधायाम् पितृदेवतायाम् आ द- धामि स्थापयामि । स्वधाकारभाजं करोमीत्यर्थः ॥ अन्यद् व्याख्यातम् ॥ द्वितीया ॥ प्रतीच्या वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ ३२ ॥ प्रतीच्याम् । त्वा । दिशि । पुरा । समऽवृतः । स्वधायाम् । आ । दधामि । बाहुऽच्युता । पृथिवी । द्यामऽइव । उपरि । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ ३२ ॥ दहनदेशात् पश्चिमायां दिशि पुरा संवृत इत्यादि पूर्ववत् ॥ तृतीया ॥ उदीच्यां वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुताभागा इह स्थ ॥ ३३ ॥ उदीच्याम् । वा । दिशि । पुरा । समऽवृतः । स्वधायाम् । आ । दधामि। बाहुऽच्युता । पृथिवी । द्यामऽईव । उपरि । 18 omits the anustiire in रक्षार्थ. १५७ [अ°३. सू°३.] ५४३ 'अष्टादशं काण्डम् । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ॥३३॥ उदीच्याम् उत्तरस्यां दिशि अन्यत् पूर्ववत् ॥ चतुर्थी ॥ ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युतः पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ ३४ ॥ ध्रुवायाम् । त्वा । दिशि । पुरा । समऽवृतः । स्वधायाम् । आ । दधामि । बाहुऽच्युता । पृथिवी । धाम्ऽईव । उपरि । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥३४॥ ध्रुवा स्थिरा अधरा दिक् । तस्यां दिशि ॥ गतम् अन्यत् ॥ पञ्चमी ॥ ऊर्ध्वाया त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ ३५ ॥ ऊर्धायाम् । त्वा। दिशि । पुरा । समऽवृतः । स्वधायाम् । आ। दधामि । बाहुऽच्युता । पृथिवी । द्यामऽइव । उपरि । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥३५॥ ऊर्धायाम् उपरितन्यां दिशि हे प्रेत त्वा त्वां स्वधायाम् स्वधाकारे आ दधामि स्थापयामि पुरा पूर्वमेव संवृतः प्रावृतोऽहम् ॥ बाहुच्युता पुण्यकृतां बाहुभिर्दता पृथिवी च त्वां पातु । उपर्यवस्थितां द्यामिव दा- CP El १५ अथर्वसंहिताभाष्ये नफलभूतं स्वर्ग यथा सा पालयति तद्वत् ॥ लोककृतः स्वर्गादिलोकस्य कर्तृन् यजामहे हविर्भिः पूजयामः । देवानाम् हविर्भुजां मध्ये हे देवाः ये यूयम् इह अस्मिन लोके हुतभागाः स्थ भवथ ॥ षष्ठसप्तमौ द्वौ यजुर्मन्त्रौ ॥ धर्तासि धरुणोसि वंसंगोसि ॥ ३६ ॥ धर्ता । असि । धरुणः । असि । वंसंगः । असि ॥ ३६ ॥ उदपूरसि मधुपूरसि वातपूरसि ॥ ३७ ॥ उद्ऽपूः । असि । मधुऽपूः । असि । वातऽपूः । असि ॥ ३७ ॥ हे अग्ने त्वं 1धर्तासि सर्वेषां धारयितासि । धरुणः । धार्यत इति धरु- णः।धारेणिलुक् च [उ ३.५] इति उनन् प्रत्ययः ।गा- र्हपत्यादिरूपेण सर्वैर्धार्यमाणोसि । वंसगः वननीयगतिर्वृषभः असि भ- वसि । तथा "चत्वारि शृङ्गा” इत्यस्याम् ऋचि [१०४.५६.३] वृषभरूपकल्पनाग्नेः समाम्नाता । अत एव “तिग्मशृङ्गो न वंसगः" इति अन्यत्रापि [ऋ०६.१६.३९] आम्नातम् ॥ तथा हे अग्ने त्वम् उदपूः उदकस्य पूरयितासि । तथा मधुपूः मधुनो माक्षिकस्य पूरयि- ता असि भवसि । तथा वातपूः वातस्य प्राणात्मकस्य वायोः पूरयिता असि भवसि । एवंगुणविशिष्टस्वम् इमं यजमानं पालयेत्यर्थः ॥ सोमयागे हविर्धानाख्यशकटे प्रवर्त्यमाने "इतश्च मा" इति द्वाभ्याम् अभिमन्त्रयेत । तथा च वैतानं सूत्रम् । “हविर्धाने प्रवर्त्यमाने इतश्च मेति द्वाभ्याम् अनुमन्त्रयते” इति [वै० ३.५] ॥

अष्टमी ॥ इतश्च मामुतश्चावतां यमे ईव यतमाने यदैतम् । प्र वो भरन् मानुषा देवयन्तो आ सीदतां स्वमु लोकं विदाने ॥ ३ ॥ C cancels op anoi reads on. We with A BR Ř V DE. A Cated corrent- rd to qua. We with BËRV De, and Sayaga's text. AKBRV DC atarai. सीदतं. PP सीदताम्।. C सीदताम् ।. 1S las a blauk space for about twelve letters instead of Enai Nº. [अ०३. सू०३.] ५४३ अष्टादशं काण्डम् । १५९ इतः । च । मां । अमुतः । च । अवताम् । यमे इवेति यमेऽइव । यतमाने इति । यत् । ऐतम्। प्र। वाम् । भरन् । मानुषाः । देवड्यन्तः । आ । सीदतांम। स्वम् । ऊं इ. ति। लोकम् । विदाने इति ॥ ३ ॥ इ1तश्च इतः अस्माद् भूलोकाद् अमुतश्च अमुष्मात् स्वर्गलोकात् लोक- द्वयावस्थिताद् भयहेतोः मा मां यजमानम् अवताम् हविर्धाने रक्षताम् । इति परोक्षकृतो निर्देशः ॥ 2अथ प्रत्यक्षकृतः । [हे] हविर्धाने यमे इव यमले युगपद् उत्पन्ने अपत्ये इव यतमाने समानव्याप्रियमाणे जगतः पो- षणाय प्रयत्नं कुर्वाणे [3यत् यस्मात् कारणाद् युवाम् ऐतम् गच्छथः] ॥ वाम् युवाभ्यां देवयन्तः देवान् आत्मन इच्छन्तो मानुषाः मनुष्या ऋत्वि- ग्यजमानाः प्र भरन् हवींषि समभरन् । तदानीं युवां स्वम् स्वकीयं लोकम् स्थानं 4विदांने जानती आ 5सीदतम् उपविशतम् । उ इति पदपूरणः ॥ नवमी॥ स्वासंस्थे भवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः । वि श्लोक एति पथ्थेवि सूरिः शृण्वन्तु विश्वे अमृतास एतत् ॥ ३९ ॥ स्वासंस्थे इति सुऽआसस्थे । भवतम् । इन्दवे। नः।युजे। वाम्। ब्रह्म । पूर्व्यम् । नमःऽभिः। वि।श्लोकः । एति। पथ्याडइव सूरिः। शृण्वन्नु। विश्वे। अमृतासः। एतत्॥३९॥ हे हविर्धाने नः अस्माकम् इन्दवे सोमाय स्वासस्थे सुखासनस्थ सु- स्थिरे भवतम् । अहं च वाम् युवयोः पूर्व्यम् पूर्वकाले भवं चिरंतनं ब्रह्म परिवृढं स्तोत्रं नमोभिः नमस्कारैः सहितं युजे युनज्मि । यद्वा १CP मा. See note on previous page. 18 इतश्च लोपः for इतश्च. Sin-crts अथ प्रत्यक्षकृतो निर्देशः lione अथ प्रत्यक्ष- ga:. 38 has no empty space in place of this bracket. 18 विजाने for विदाने. 58 जानत्यौ for जानती. १६० अथर्वसंहिताभाष्ये नमोभिः नमस्कारप्रतिपादकैर्मन्त्ररित्यर्थः । श्लोकः श्लोकनीयस्तुतिसंघः व्येति विशेषेण युवां गच्छति । तत्र दृष्टान्तः । पथ्या सूरिरिव । पथो- नपेतं पथ्यम् ।

"सुपां सुलुक्” इति तृतीयायाः पूर्वसवर्णदी-

र्थः। पथोनपेतेन धर्मेण सूरिः विद्वान् अभिमतं फलं प्राप्नोति तद्वद् इत्यर्थः ॥ एतत् अस्माभिः कृतं स्तोत्रम् अमृतासः अमृता मरण- रहिता विश्वे सर्वे देवाः शृण्वन्तु आकर्णयन्तु । श्रु श्रवणे । "श्रु- वः शृ च” इति नुप्रत्ययः शृभावश्च ॥ "त्रीणि पदानि" इत्यनया 1दह्यमानं प्रेतशरीरं बान्धवा उपतिष्ठेरन् ॥ दशमी ॥ त्रीणि पदानि रूपो अन्वरोहच्चतुष्पदीमन्वैतद् व्रतेन । अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति ॥ ४० ॥ (१६) त्रीणि । पदानि। रुपः। अनु । अरोहत् । चतुःऽपदीम् । अनु। एतत् । व्रतेन । अक्षरेण । प्रति । मिमीते । अर्कम् । ऋतस्य । नाभौ । अभि । सम् । पुनाति ॥ १० ॥ (१६) रुप्यति मुह्यतीति रुपो मृतः पुरुषः । युप रुप लुप विमोह- ने । इगुपधलक्षणः कप्रत्ययः त्रीणि त्रिसंख्याकानि पदानि 2। १ AC रूपो. CP रूपः। P रूपाः।. We with Bk Rky What can this • ? A BK R. Do read us elbove. C °मन्वैतेन changeel to °मन्वैततेनं. The two panda wanuscriptx PP lave vara 1. Cr has īra . But all the Sanīhita Mss. (ancl Suyant's text also ) rearl °मन्वैततेन. The higratis has : पञ्च पदानि रूपो अन्धरोहं चतुष्पदीमन्वेमि व्रतेन. In our passage the sandhi ought to give us °मन्तकृतेन and the necent °मन्वतहतेन, if एतत् the pronoun is meant. एतहतेन as a compount woull be very un-Vedic. Is gat a later corruption of in which once read and which CP actually rcads ? That seems probable, and would give us ऐत् [«version, and would consist with the victre as it wonld be equivalent to a metrical elongation TC or 377. If my conjecture is right, the corruption of our into force (which the pada-writers could only equate with the absurd TT) is much older than the time of Sayana. 1 दाहमानं. 2 रोपेति. 3S leaves a blank space for about thirteen letters after the word पदानि. 1 as the [अ०३. सू०३.] ५४३ 'अष्टादशं काण्डम् । १६१ द्युस्थानानि अन्वरोहत् क्रमेण आरूढवान् । प्राप्तवान् इत्यर्थः । केन साधनेन इत्याह । एतत् एतेन अनुष्ठीयमानेन व्रतेन कर्मणा पैतृमेधि- कसंस्कारेण चतुष्पदीम् चत्वारः पादा यस्याः सा तथोक्ता • ताम् अनु- स्तरण्याख्यां गाम् अनुलक्ष्य । अन्वरोहद् इति संबन्धः । संस्कारमा- हात्म्येन 1मृतो लोकत्रयं व्याप्नोद् इत्यर्थः । अक्षरेण । अश्नुते व्याप्नोति स्वफलभूतं स्थानम् इत्यक्षरं स्वार्जितं सुकृतम् । यद्वा 2क्षरो विनाशः । तद्रहितम् । तेन स्वार्जितेन सुकृतेन । यद्वा परिच्छेदकशरीरे त्यक्ते 3अ- क्षरेण व्यापकेन विनाशरहितेन आत्मस्वरूपेण अर्कम् अर्चनीयं सुकृतफ- लं स्वर्गादिकं सूर्यमेव वा प्रति मिमीते प्रतिमुखं मिमीते परिच्छिन- न्ति । व्याप्नोतीत्यर्थः । यहा प्रतिमानं प्रतिबिम्बम् । सूर्यस्य प्रतिबिम्बं भवति । सूर्यसदृशो भवतीत्यर्थः । ऋतस्य योनौ । ऋतम् इति सत्य- स्य उदकस्य यज्ञस्य वा नामधेयम् । तस्य योनिः उत्पत्तिस्थानं सूर्यम- ण्डलम् तत्र अभि अभितः सर्वतः आभिमुख्येन वा सं पुनाति सम्यक् पूतो वर्तते ॥ [इति] तृतीयेनुवाके चतुर्थं सूक्तम् ॥ "देवेभ्यः कम्" इत्यादिकं पञ्चमं सूक्तम् । तत्र "त्वमग्न ईळित" इ- त्यनया पिण्डपितृयज्ञे समिधम् आदध्यात् । “त्वमग्न ईळिंतः [१६.३.४२] आ त्वाग्ने [१६.४.४] इत्यादधाति" इति हि [को०११.१०] सूत्रम् ॥ "अग्निष्वात्ताः पितरः” [४४] इत्यनया पिण्डपितृयज्ञे बर्हिः स्तृणीयात् ॥ "उपहूता नः पितरः" [४५] इति उत्तराभ्यां द्वाभ्यां च पिण्डपितृ- यज्ञे बर्हिः स्तृणीयात् ॥ "ये तातृषुः” [४७] इत्यूचा “ये सत्यासः" [४] इत्युत्तरया च पि- ण्डपितृयज्ञे समिधावादध्यात् ॥ उप सर्प"[४९] इति तिसृभिर्ऋग्भिः 3श्मशानदेशं शलाकाभिः इ. ष्टकाभिर्वा प्रसव्यं चिनुयात् ॥ 18' त्यामृतो for मृतो. 28' अक्षरो° for क्षरो. 38 तिसृक्षरेण for अक्षरेण. 18 स्मशान. २१ अथर्वसंहिताभाष्ये १६२ तत्र प्रथमा॥

देवेभ्यः कमवृणीत मृत्यु प्र॒जायै किममृतं नावृणीत । बृहस्पतिर्यज्ञमतनुत ऋषिः प्रियां यमस्तन्व मा रिरेच ॥ ४१ ॥ देवेभ्यः । कम्। अवृणीत । मृत्युम् । प्रऽजायै। किम्।अमृतम्।न। अवृणीत। बृहस्पतिः । यज्ञम् । अतनुत । ऋषिः । प्रियाम् । यमः । तन्वमि । आ । रिरेच ॥४१॥ देवेभ्यः दीव्यन्तीति देवाः इन्द्रादयः । तेभ्यः । तादर्थ्ये चतु- र्थी । तदर्थं कम् कीदृशं मृत्युम् अवृणीत सृष्ट्यादौ विधाता वृत- वान् । देवानाम् अर्थे स्रष्टा कमपि मरणहेतुं न कृतवान् इत्यर्थः काका द्योत्यते । अतो देवानां मृत्युसंबन्धविरहात् तेषाम् अमृतत्वम् उत्पत्तिसि- द्धम् इत्यर्थः । प्रजायते उत्पद्यत इति प्रजा मनुष्यादिरूपा । तस्यै वेधाः [किम्] किंकारणम अमृतम् अमरणं न अवृणीत न वृतवान् । म- नुष्यादीनां देववद् अमृतत्वं न कृतवान् । तत्र कारणं किमपि नास्तीत्य- र्थः । प्रजापतिना केचन इन्द्राद्याः अमृताः सृष्टाः मनुष्याद्याः प्राणि- नो मरणधर्मोपेताः कल्पिताः । अतो देवानाम् अमरणं मनुष्याणां म- रणं च अनादिसिद्धम् । अतस्तत्र कारणगवेषणं न कार्यम इत्यर्थः ॥ बृहस्पतिः बृहतां महतां देवानां पतिः स्वामी ऋषिः अतीन्द्रियार्थद्रष्टा यज्ञम् सोमयागम् अतनुत अकरोत् । भूलोके ऋषिरूपेणावस्थितो बृहस्प- तिः स्वस्य ऐहिकामुष्मिकफलप्राप्तये तत्प्राप्त्युपायभूतं1 यज्ञं कृतवान् इत्य- र्थः । श्रूयते हि । “बृहस्पतिरकामयत देवानां पुरोधां गच्छेयम् इति । स एतं बृहस्पति[सवम् अपश्यत् । तम् आहरत् । तेनायजत" इति तै. ब्रा २.७.१.२] । बृहस्पतेः प्रियां तन्वम् प्रेमास्पदं मानुषं शरीरं य- मो वैवस्वतः आ रिरेच आसमन्ताद् रितं निःसारं मृतं कृतवान् । ऋ- षिरूपेणावस्थितस्य बृहस्पतेरपि यमः प्राणान् अपाहार्षीत् किल किमु व- क्तव्यम् अन्येषां मनुष्यादीनां यमः प्राणान् अपहरतीति । यद्वा नावृ- IS units the anusvåra in Tai. [अ°३. सू०३.] ५४३ अष्टादशं काण्डम् । १६३ णीत इति पूर्वत्रापि संबध्यते । देवानां कं मृत्यु नावृणीत । सर्वमपि मृत्युं वृतवान् । अतस्तेषाम् अमृतत्वसिद्धये तैः प्रार्थितो बृहस्पतिः ऋ- षिर्भूत्वा यज्ञम् अतनुत । तस्माद् यज्ञात् ते देवा अमृताः संपन्नाः । तथा प्रजायै मनुष्यादिरूपायै किमपि अमृतं नावृणीत अतः सा मर्त्या भूता । तस्माद् यमो मनुष्यादिशरीरम् आरेचितवान इति ॥ द्वितीया ॥ त्वमग्न ईडितो जातवेदोडवाड्ढव्यानि सुरभीणि कृत्वा। प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवीषि ॥ ४२ ॥ त्वम् । अग्ने । ईडितः । जातऽवेदः । अवाट् । हव्यानि । सुरभीणि । कृत्वा । प्र। अदाः । पितृऽभ्यः । स्वधा । ते । अक्षन् । अद्धि । त्वम् । देव । प्रऽयं- ता। हवीषि ॥ ४५॥ हे जातवेदः जातानां जनिमतां प्राणिनां वेदितः हे अग्ने ईळिंतः अ- स्माभिः स्तुतस्वं हव्यानि अस्मदीयानि चरुपुरोडाशादीनि सुरभीणि सु- गन्धीनि रसवन्ति कृत्वा अवाट् देवेभ्यो वह । “छन्दसि लुङ्ल- ङ्लिटः” इति लोडर्थे लुङ् । वह प्रापणे इत्यस्मात् लुङि सिपि “ब- हुलं छन्दसि" इति इडभावे "झलो झलि” इति सिज्लोपः । “हल्- ड्याभ्यः" इति सलोपे रूपम् ॥ तथा पितृभ्यः पितृदेवताभ्यः स्वधया स्वधाकारेण सह कव्यसंज्ञकानि हवींषि प्रादाः प्रतवान् असि । ते च पितरस्त्वया दत्तानि कव्यानि हवींषि अक्षन् अभुञ्जत । अ- द भक्षणे । “लुङ्सनोर्घस्लृ" इति घस्लादेशः । “मन्त्रे पसह्वर" इत्यादिना च्लेर्लुक् । “गमहनजनस्वनपसां लोप: ०" इति उपधालोपः । चार्वषत्वे॥ हे देव द्योतमान अग्ने त्वमपि 1प्रयता प्रयतानि प्रक- र्षेण अस्माभिर्दत्तानि हवींषि अद्धि भुङ । अद भक्षणे । “हु- झल्भ्यो हेर्धिः" इति हेर्धिरादेशः ४ ॥ 1 प्रयाता. १६४ अथर्वसंहिताभाष्ये तृतीया ॥ आसीनासो अरुणीनामुपस्थे रयिं धत दाशुषे मर्त्याय । पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥ ४३ ॥ आसीनासः । अरुणीनाम् । उपऽस्थे । रयिम् । धत्त । दाशुषे। मर्त्याय । पुत्रेभ्यः । पितरः । तस्य । वस्वः । प्र । यच्छत । ते । इह । ऊर्जम् । द- धात ॥ ४३ ॥ हे पितरः अरुणीनाम् अरुणवर्णानां मातृणाम् उपस्थे उत्सङ्गे आ- सीनासः आसीना उपविशन्तो दाशुषे हविर्दत्तवते मर्त्याय मरणधर्मणे य- जमानाय रयिम् धनं धत्त दत्त प्रयच्छत ॥ पुत्रेभ्यः । पुंनाम्नो नरकात त्रायन्त इति पुत्राः । तेभ्यः अस्मभ्यं तस्य वस्वः । कर्मणि ष- ष्ठी x। तत् प्रसिद्धं वसु धनं प्रयच्छत दत्त । दाण् दाने । "पाप्राध्मास्थाम्ना]दाण्" इत्यादिना यच्छादेशः ॥ हे पितरः ते यूयम् इह अस्मिन भूलोके ऊर्जम् बलकरम् अन्नम् अस्मभ्यं दधात धत्त॥ चतुर्थी ॥ अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः । अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥ ४४ ॥ अग्निऽस्वाताः । पितरः । आ । इह । गच्छत । सदःऽसदः । सदत । सुऽ- प्रनीतयः। अत्तो इति । हवींषि । प्रऽयतानि । बर्हिषि । रयिम् । च । नः । सर्वऽवी- रम् । दधात ॥ ४४ ॥ हे अग्निष्वात्ताः [पितरः] । पितरो द्विविधाः । बर्हिषदः अग्निष्वात्ता- श्चेति । तेषां भेदस्तैत्तिरीयके स्पष्टम् आम्नातः । “पितॄन बर्हिषदो यज- १ BV वसु. Do वस्वः changed to वसु. CP वसु ! PP वस्वः।. We with A CK R. So we read with A BC k RV Dc. [अ°३. सू°३.] ५४३ अष्टादशं काण्डम् । "ति । ये वै यज्वानस्ते पितरो बर्हिषदः तानेव तद् यजति ॥ पितृन् "अग्निष्वात्तान् यजति । ये वा अयज्वानो गृहमेधिनस्ते पितरोग्निष्यात्ताः" इति [तै ब्रा०१.६.९.६] । कृतसोमयागाः पितरो बर्हिषासंज्ञकाः अ- कृतसोमयागास्तु अग्निष्वातसंज्ञका इत्यर्थः । हे एतासंज्ञकाः पितरः इह अस्मिन् यज्ञे आ गच्छत ॥ हे सुप्रणीतयः । प्रणीतिः प्रकृष्टं फलप्राप- णम् । शोभना प्रणीतिर्येषां ते तथोक्ताः । आगतास्ते यूयं सदःसदः । सी1दन्ति अस्मिन्निति सदः उपवेशनस्थानम् पितृपितामहप्रपितामहादीनां य- धत स्थानं परिकल्पितं तत् स्थानं सदत प्राप्नुत । स्वेस्वे स्थाने उपविशते- त्यर्थः ॥ बर्हिषि यज्ञे प्रयतानि प्रतानि यद्वा शुद्धानि हवींषि चरुपुरोडा- शादीनि अत्तं भक्षयत ॥ हविरदनेन संतुष्टा यूयं नः अस्मभ्यं सर्ववीरम् सर्वैर्वीरैरुपेतं रयिम् धनं दधातनं धत्त । प्रयच्छतेत्यर्थः । डुधाञ् दानधारणयोः । लोटि "तप्तनप्तनथनाश्च" इति तस्य तनबादेशः ॥ पञ्चमी॥ उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेडवन्त्वस्मान् ॥ ४५ ॥ उपऽहूताः । नः । पितरः । सोम्यासः । बर्हिष्येषु । निऽधिषु । प्रियेषु । ते । आ । गमन्तु । ते । इह । श्रुवन्तु । अधि । ब्रुवन्तु । ते । अवन्तु । अ- __ स्मान् ॥ ४५ ॥ नः अस्माकं पितरः उपहूताः समीपम् आहूताः ॥ सोम्यासः सो- म्याः सोमार्हा एवंगुणविशिष्टाः पितृपितामहप्रपितामहाः बर्हिष्येषु बर्हि- षि यज्ञे भवा बर्हिष्याः तेषु प्रियेषु प्रीतिविषयेषु निधिषु निधीयमाने- षु हविःषु सासु प्रागुदीरितास्ते पितरः आ गमन्तु आगच्छन्तु ॥ इह अस्मिन् यज्ञे ते पितरः श्रुवन्तु अस्मदीयं स्तोत्रं शृण्वन्तु । श्रु श्रवणे । “बहुलं छन्दसि" इति विकरणस्य लुक् । अधि ब्रु- १ CP प्रवंतु । 18 सीदति. अथर्वसंहिताभाष्ये वन्तु अधिवचनं पक्षपातेन वचनम् । 1अधिवचनेन अस्मान् स्वीकुर्वन्तु । न केवलम् अधिवचनमात्रम् अपि तु ते पितरः अस्मान् अवन्तु ऐहि- कामुष्मिकफलप्रदानेन रक्षन्नु ॥ षष्ठी ॥ ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः । तेभिर्यमः सैरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥ ४६ ॥ ये। नः । पितुः । पितरः । ये। पितामहाः । अनुऽजहिरे । सोमऽपीथम् । वसिष्ठाः। तेभिः । यमः । समऽरराणः । हवींषि । उशन् । उशत्ऽभिः । प्रतिऽका- मम् । अत्तु ॥ ४६॥ नः अस्माकं पितुर्जनकस्य ये पितरः सन्ति ये च पितामहास्तजनका व2सिष्ठाः वसुमत्तमाः एवंगुणविशिष्टा ये पितृपितामहप्रपितामहाः सो- मपीथम् सोमपानम् अनुजहिरे अनुक्रमेण हरन्ति आत्मसात् कुर्वन्ति स्म तेभिस्तैः 3पितृभिः संरराणः सह रममाणो यमः उशन कामयमानः उ- शद्भिः कामयमानैस्तैः पितृभिः सह हवींषि अस्मदीयानि चरुपुरोडाशा- दीनि हवींषि प्रतिकामम् । कामः अभिलाषः । अभिलाषं प्रति । अ- भिलाषानुसारेणेत्यर्थः । अत्तु भक्षयतु ॥ सप्तमी॥ ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोम॑तष्टासो अर्कैः । अग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिर्षिभिर्धर्मसद्भिः ॥ ४७ ॥ ये। ततृषुः । देवऽत्रां । जेहमानाः । होत्राऽविदः । स्तोम॑तष्टासः । अर्कैः । kv D¢ अनुजहीरे. A B अनुजहिरे. C अनूजहिरे. R अनूजहीरे. Cr अनु जहिरे । PP अनुऽजहिरे। Sityana's toist : अनूजहिरे. The Pilverlee reading is अनूहिरे, of which अनूजहिरे muys lye a perversion. २ Cr सोमऽपीथम् । ३CP देषत्रा।.. 18' आधिक. 28 वशिष्ठाः. 38 पितृभिः सह संरराणः रममाणः. [अ०३. सू०३.] ५४३ अष्टादशं काण्डम। १६७ आ। अग्ने। याहि । सहस्रम् । देवऽवन्दैः । सत्यैः । कविऽभिः । ऋषिऽ- भिः। धर्मसतऽभिः ॥ ४७॥ देवत्रा देवेषु जेहमानाः । जेह प्रयत्ने । 'प्रयतमानाः व्याप्रियमाणा होत्राविदः होत्राः सप्त वषट्कर्तारः । तत्कृतान् यागान् जा- नन्तः अर्कैः अर्चनीयैः स्तोत्रैः स्तोमतष्टासः स्तोमस्य स्तुतेः [1कर्तारः स्तोमकर्तारः। तक्षू तनूकणे । तस्मात् कर्तरि [निष्ठा]z। ए. वंगुणविशिष्टा ये पितरः तातृषुः तृष्यन्ति पिपासन्ति । तैर्देववन्दैः देवान् व2न्दन्ते प्रणमन्तीति देववन्दाः [तैः] सत्यैः सत्यफलैः कविभिः क्रान्तद- र्शिभिर्ऋषिभिः अतीन्द्रियद्रष्टृभिः धर्मसद्भिः धर्मः प्रवर्ग्यः तदुपलक्षिते सोमयागे सीदन्तीति धर्मसदः । सहार्थयोगे तृतीया । एवं- गुणविशिष्टैः पितृभिः सह हे अग्ने त्वम् अस्माकं सहस्रम् अपरिमितं धनं यथा भवति तथा आ याहि आगच्छ । आगत्य च अस्मदीयेन हविषा पितॄणां तृषं निवर्तयेति भावः ॥ अष्टमी॥ ये सत्यासो हविरदो हविष्यां इन्द्रेण देवैः सरथं तुरेण । आग्ने याहि सुविदत्रेभिरर्वाङ् परैः पूर्वैर्ऋषिभिर्धर्मसद्भिः ॥ ४ ॥ ये। सत्यासः । हविःऽअदः । हविःऽपाः । इन्द्रेण । देवैः । सऽरथम् । तुरेण । आ। अग्ने । याहि । सुऽविदत्रैभिः । अर्वाङ् । परैः । पूर्वैः । ऋषिऽभिः । धर्मसतऽभिः ॥ ४ ॥ ये पितरः सन्यासः सत्याः सत्प्रभवाः सत्यभाषणोपेता वा हविरदः हवींषि चरुपुरोडाशादीनि अदन्ति भक्षयन्तीति हविरदः । हविष्याः ह- विः सोमरसं पिबन्तीति हविष्याः । तुरेण त्वरमाणेन शत्रूणां हिंसकेन PC ऋषिभिः । Is not the मध्योदात्त to the accounteel for lhy the fact that the Rirela reading (पितृभिः in 15.0, 10) is मध्योदात्त? २ A B हविष्या, Iul might he intended for हविष्पा. We with ck RV Dr. 18 leaves a blank space for about ten letters. 28' वंदते. १६. अथर्वसंहिताभाष्ये वा इन्द्रेण देवैः अन्यैश्च सरथम समानो रथो यया भवति तथा । व- र्तन्त इति शेषः । इन्द्रेण देवैः सह एकं रथम् उपारूढा वर्तन्त इत्य- र्थः । तैः सुविदत्रेभिः सुविदत्रैः शोभनधनैः शोभनप्रज्ञैर्वा परैः उत्कृष्टैः पूर्वैः पूर्वपुरुषैः पितृपितामहप्रपितामहैः ऋषिभिः अतीन्द्रियार्थदर्शिभिः धर्मसद्भिः यज्ञे सीदद्भिः एवंगुणविशिष्टपितृभिः सह हे अमे वम् अ- र्वाङ् अस्मदभिमुखः सन् आ याहि [आ]गच्छ ॥ नवमी ॥ उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वां पातु प्रपथे पुरस्तात् ॥४९॥ उप । सर्प । मातरम् । भूमिम् । एताम् । उरुऽव्यर्चसम् । पृथिवीम् सुऽशेवाम्। ऊर्णऽम्रदाः । पृथिवी । दक्षिणाऽवते । एषा । त्वा । पातु । प्रऽपथे । पुरस्तात् ॥ ४९॥ हे प्रेत मातरम् जननीम् एतां भूमिम् उप सर्प उपगच्छ । कीदृ- शीम् । उरुव्यवसम् । व्यचतिर्व्याप्तिकर्मा। विस्तीर्णव्यापनां पृथिवीम् प्रथितां प्रख्यातां सुशेवाम् सुसुखाम् ॥ एषा त्वया उपसृप्ता पृथिवी दक्षिणावते दक्षिणा अस्य सन्तीति दक्षिणावान् बह्नीभिर्यज्ञसंब- धिनीभिर्दक्षिणाभिर्युक्ताय तुभ्यम् ऊर्णम्रदाः ऊर्णाभिर्विरचितकम्बलवन्म्र- दीयसी मार्दवेन सुखकरी सती पुरस्तात् पूर्वस्यां दिशि पूर्वमेव वा प्र- पथे पथे मार्गस्य प्रारम्भः प्रपथः । “ऋक्पूरब्धूः" इति अ- कारः समासान्तः । तत्र वर्तमानं त्वा वां पातु रक्षतु ॥ दशमी॥ उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा । माता पुत्रं यर्था सिचाभ्येनं भूम ऊर्णुहि ॥ ५० ॥ (१७) बांधयाः, We with A BC De. [अ°३. सू°३.] ५४३ अष्टादशं काण्डम् । १६९ उत् । श्वञ्चस्व । पृथिवि । मा। नि । बाधथाः । सुऽउपायना। अस्मै । भ- व। सुऽउपसर्पणा। माता । पुत्रम् । यथा । सिचा। अभि । एनम् । भूमे । ऊर्णुहि ॥ ५० ॥ हे पृथिवि भूदेवते त्वम् उच्छृञ्चस्व । श्वञ्चतिर्गतिकर्मा । उ च्छ्वनावयवा पुलकिता भव । एनम् उपसृप्तं पुरुषं मा नि बाधथाः कार्कश्येन मा बाधस्व । अपि च अस्मै पुरुषाय सूपायना सुखेन उ- पगन्तुम् अर्हा सूपसर्पणा शोभनोपसर्पणयुक्ता च भव । यथा येन प्र. कारेण माता जननी स्वकीयं पुत्रं सिचा चेलाञ्चलेन अभिच्छादयति त- था एनं त्वाम् उपगतं पुरुषम् हे भूमे त्वमपि अभ्यूर्णुहि अभितः प्र- च्छादय । यथा अस्य शीतवातोष्णादिजनितदुःखं न भवति तथा एनं त्रायस्वेत्यर्थः । X ऊर्णुञ् छादने । अदादित्वात् शपो लुक् ४ ॥ [इति ] तृतीयेनुवाके पञ्चमं सूक्तम् ॥ 'उच्छ्वञ्चमाना" [५१] इत्याद्याया ऋचो विनियोग उक्तः ॥ पात्रचयनकर्मणि यजमानस्य उदरे इडापात्रं निधाय "इमम् अग्ने" [५३] इति द्वाभ्याम् अनुमन्त्रयते ॥ यदि आहितानिः एकाग्निर्वा सर्पव्याघ्रादिभिर्म्रियेत तर्हि “यत् ते कृ- ष्णः शकुनः" [५५] इत्यनया सर्प1दंशनस्थानं दंष्ट्यादिकृतव्रणस्थानं वा अ- ग्निना दहेत् ॥ पयस्वतीः" [५६] इति ऋचा शवदहनानन्तरं स्नानं कुर्यात् ॥ "शं ने नीहारः"[६०] इत्यनया अभिमन्त्रिताभिर्जलक्षीरमिश्रिता- भिरोषधीभिर्ब्राह्मणस्य अस्थीनि सिञ्चेत् ॥ तत्र प्रथमा॥ उच्छ्वच्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥ ११ ॥ Roxy. We will. A B C DEK. 18 °दर्शन° for °दंशन. १२ १७० अथर्वसंहिताभाष्ये उतऽश्वञ्चमाना । पृथिवी । सु । तिष्ठतु । सहस्रम् । मितः । उप । हि । श्रयन्ताम्। ते। गृहासः । घृतऽश्चुतः । स्योनाः । विश्वाहा । अस्मै । शरणाः । सन्तु । अत्र ॥ ५१॥ उच्छृञ्चमाना उच्छूय1मानावयवा पुलकितशरीरा पृथिवी सु तिष्ठतु सु- खेन अवतिष्ठताम् । तत्र श्मंशानदेशे सहस्रम् सहस्रसंख्याका अपरिमि- ता मिथः मीयमानाः स्थाप्यमाना ओषधयः उप श्रयन्ताम् उपेत्य आ- श्रिता भवन्तु । हिशब्दो यस्मादर्थे । यस्माद् ओषधिवनस्पतयस्तत्र उ- पाश्रितास्तस्मात् ते घृतश्चुतः घृतस्राविणः अत एव स्योनाः सुखकरा अ- स्मै मृतपुरुषाय गृहासः गृहाः विश्वाहा सर्वाणि अहानि । अ- त्यन्तसंयोगे द्वितीया । सर्वकालम् अत्र 2श्मशानदेशे शरणाः रक्ष- काः सन्तु भवन्तु ॥ द्वितीया ॥ उत्ते स्तभ्नामि पृथिवीं त्वत् परीमं लोगं निदधन्मो अहं रिषम् । एतां स्थूणां पितरो धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥ ५२ ॥ उत् । ते । स्तन्नामि । पृथिवीम् । त्वत् । परि । इमम् । 3लोगम् । निडद- धत् । मो इति । अहम् । रिषम् । एताम् । स्थूणाम् । पितरः । धारयन्ति । ते । तत्र । यमः । सदना । ते। कृणोतु ॥ ५२ ॥ हे मृतपुरुष ते तुभ्यं त्वदर्थम् इमां पृथिवीम् उत् ऊर्ध्वं स्तभ्नामि धारयामि । ष्टभि स्कभि गतिप्रतिबन्धे । त्रयादित्वात् श्ना प्रत्य- यः॥ त्वत् परि तव परितः इमं लोकम् सर्वप्राण्यधिष्ठितं भूलोकं १Cr सयंताम्। 2 Cr च्युतः ।. P°श्युतः। श्रुतः। ३ Cr अस्मै । * R लोकं. De लोकं cirangeal to लोग. P लोकम् ।. P लोगम् ।. We witli A BCDKV. A BC RV D रिपन्. PF रिपन् ।. C रिपन् ।. We with k. 28 स्मशान. Siyana's text too : मिथः. 18 °मानावयवावा. १७१ [अ०३. सू०३.] ५४३ अष्टादशं काण्डम्। निदधत निक्षिपन् अहं मो रिषम् मैव हिंसितो भूवम् ॥ तत्र तस्याम् उत्तम्भनेन धृतायां भूम्यां ते त्वदर्थं पितरः पितृदेवताः एतां प्रसिद्धां स्थूणां तव गृहनिर्माणाय धारयन्ति स्थापयन्ति । यमस्तत्र ते तव साद- ना सदनानि गृहाणि कृणोतु करोतु ।“शेश्छन्दसि बहुलम्" इति शेर्लोपः५ ॥ तृतीया ॥ इममग्ने चमसं मा वि जिह्वरः मियो देवानामुत सोम्यानाम् । अयं यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम् ॥ ५३ ॥ इमम् । अग्ने । चमसम् । मा। वि। जिह्वरः । प्रियः । देवानाम् । उत । सोम्यानाम्। अयम् । यः। चमसः । देवऽपानः । तस्मिन् । देवाः । अमृताः । माद- यन्ताम् ॥ ५३॥ हे अग्ने इमं चीयमानं चमसम् भक्षणसाधनम् इडापात्रं मा वि जि- ह्वरः कुटिलं मा कार्षीः । ह्णृ कौटिल्ये । अस्माण्ण्यन्तात् लुङि चङि रूपम् । “न माड्योगे" इति अडभावः । यश्चमसो दे- वानाम् अन्यादीनां प्रियः प्रीतिकरः । उत अपि च सोम्यानाम् सो- मार्हाणां पितॄणां प्रियः । “उपहूता नः पितरः सोम्यासः” इति हि उक्तम् [४५] । देवपानः देवाः पिबन्ति अनेन अमृतम् इति देवपानः ॥ एवंगुणविशिष्टो योयं चमसस्तस्मिन् अमृताः अमरणधर्माणः सर्वे देवा इ. न्द्रादयो मादयन्ताम् माद्यन्तु । तत्रत्यहविरास्वादनेन तृप्ता भवन्तु इत्यर्थः ॥ चतुर्थी ॥ अथर्वा पूर्ण चमसं यमिन्द्रायाबिभर्वाजिनीवते । तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन्निन्दुः पवते विश्वदानीम् ॥ ५४॥ अथर्वा । पूर्णम् । चमसम् । यम् । इन्द्राय । अबिभः । वाजिनीऽवते । १K यमिन्द्रा'. Dc यमिंद्रा° changeel to यमिंदा We with A B C Rv. २ वा- जिनीऽषते ।। १७२

अथर्वसंहिताभाष्ये तस्मिन् । कृणोति । सुरुकृतस्य । भक्षम् । तस्मिन् । इन्दुः । पवते । विश्वs- दानीम् ॥ ५४॥ अथर्वा [एतन्नामकः अतीन्द्रियार्थद्रष्टा कश्चिद् ऋषिः] वाजिनीवते वाजः अन्नम् हविर्लक्षणम् अस्याम् अस्तीति वाजिनी यज्ञक्रिया । त- द्वते इन्द्राय पूर्णम् सोमादिहविषा पूरितं यं चमसम् अबिभः भूत-

वान् ।विभतेर्लङि प्रथ1मैकवचने रूपम् । इन्द्रप्रीत्यर्थ ह-

विर्भिः पूर्ण यं चमसं संभृतवान् इत्यर्थः । तस्मिन् चमसे सुकृतस्य सुष्टु कृतस्य यज्ञस्य2 संबन्धि भक्षम् भक्षणं हुतशिष्टहविषो भक्षणं कृणोति क- रोति । ऋत्विजां गण इत्यर्थः । तथा तस्मिन् अथर्वकृते चमसे विश्व- दानीम् सर्वदा इन्दुः सोमः पवते अमृतरसात्मकः स्रवति पूङ् पवने । भौवादिकः । विश्वदानीम् इति । विश्वशब्दाद् दानीं प्र- त्ययः ॥ पञ्चमी॥ यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । अग्निष्टद् विश्वादगदं कृणोतु सोम॑श्च यो ब्राह्मणाँ आविवेश ॥ ५५ ॥ यत् । ते । कृष्णः । शकुनः । आऽतुनोद । पिपीलः । सर्पः । उत । वा । श्वापदः। अग्निः । तत् । विश्वऽअत् । अगदम् । कृणोतु । सोमः । च । यः । ब्राह्म- णान् । आऽविवेश ॥ ५५ ॥ हे पुरुष ते त्वदीयं यत् अङ्गं कृष्णः कृष्णवर्णः शकुन: पक्षी काका- दिः आतुतोद व्यथितं दष्टं कृतवान् । नुद व्यथने । तथा पिपीलः विषदंष्ट्रः3 पिपीलिकाविशेषः उत वा अपि वा सर्पः श्वापदः शुनः पदानीव पदानि यस्य स श्वापदो व्याघ्रादिः आतुतोदेति सर्वत्र संबध्यते । तद् अङ्गं विश्वात् विश्वं सर्वम् अत्तीति विश्वात् सर्वभक्षकः तथा १CP यः। २C विश्वऽ अस् । 18 मध्यमैक. 28' यज्ञसंबंधित यज्ञस्य संबन्धि. 35 देशः for °दंष्ट्र: [अ°३. सू°३.] ५४३ अष्टादशं काण्डम्। १७३ अग्निः अगदम् गदो रोगः तद्रहितं कृणोतु करोतु । यः सोमः ब्राह्म- णान् ऋत्विग्यजमानान् आविवेश रसरूपेण अन्तः प्रविष्टवान् तादृशः सोमोपि । अगदं कृणोत्विति संबन्धः ॥ षष्ठी ॥ पयस्वतीरोषधयः पयस्वन्मामक पयः । अपां पयसो यत् पयस्तेन मा सह शुम्भतु ॥ ५६ ॥ पयस्वतीः । ओषधयः । पयस्वत् । मामकम । पर्यः । अपाम् । पर्यसः । यत । पयः । तेन । मा। सह । शुम्भतु ॥ ५६ ॥ ओषधयः व्रीहियवाद्याः प्रसिद्धाः याश्च अन्याः फलपाकान्ताः ताः स- र्वाः पयस्वतीः अस्मदर्थं पयस्वत्यः । पयःशब्देन सारभूतोंऽश उच्यते । सारवत्यो भवन्तु। जसि “वा छन्दसि” इति पूर्वसवर्णदीर्घः । मा- मकम् मत्संबन्धि मम शरीरस्थितं यत् पयः सारभूतं बलं तदपि पयस्वत सारवद् भवतु । तथा अपाम् उदकानां संबन्धिनः पयसः सारभूतांशस्य यत् पयः सारभूतः उकृष्टोंऽशः1 स तेन ओषध्यादिगतेन सर्वेण पयसा सह मा मां शुम्भनु शोभनं करोतु । जलाभिमानी वरुणः स्नानेन मां शोधयविति भावः ।शुभ शुम्भ दीप्तौ ॥

सप्तमी॥ इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् । अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्ने ॥ ५७ ॥ इमाः । नारीः । अविधवाः । सुऽपत्नीः । आऽअञ्जनेन । सर्पिषा । सम्। स्पृशन्ताम्। अनश्रवः । अनमीवाः । सुऽरत्नाः । आ । रोहन्तु । जनयः । योनिम् । अग्ने॥ ५७॥ १ BV शुभत. De शुभतु changed to शुभत. We will BC KR PP. २ B योनिमग्ने. W'c with ARS V De (as given at Bek XII. 2.31). 1S' oniits osशः स तेन. १७४ अथर्वसंहिताभाष्ये "इमा नारी:” इत्येषा सप्तमी पूर्वम् आम्नाता [१२.२.३१] । तत्रैव व्याख्याता ॥ अर्थस्तु । इमाः प्रेतकुलोत्पन्ना नार्यः वैधव्यरहिताः सुपतिकाः सत्यः सर्पिमिश्रेण आञ्जनेन संस्पृष्टा भवन्तु । अश्रुरहिता रोगरहिताः शोभनाभरणा अपत्यजनन्यः अपत्योत्पादनाय योनिम् आ रोहन्त्विति ॥ अष्टमी॥ सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमिन् । हित्वावद्यं पुनरस्तमेहि सं गच्छतां तन्वा सुवर्चाः ॥ ५ ॥ सम् । गच्छस्व । पितृऽभिः । सम् । यमेन । इष्टापूर्तेन । परमे । विs- ओमन् । हित्वा । अवद्यम् । पुनः । अस्तम् । आ । इहि । सम् । 1गच्छंताम् । त- न्वा । सुऽवर्चाः ॥ ५ ॥ हे मृतपुरुष त्व पितृभिः पितृपितामहप्रपितामहैः सं गच्छस्व पैतृमे- धिकेन सापिण्ड्यकरणावधिना संस्कारेण [हेतुना संगतो भव । पितृषु मध्ये प्राप्तस्थानो] भवेत्यर्थः । यस्तेषां राजा यमः तेनापि सं गच्छ- स्व । तथा परमे उत्कृष्टे पितृलोकादपि श्रेष्ठे व्योमन् व्योनि द्युलोके नाकपृष्ठाख्ये कर्मफलोपभोगस्थाने इष्टापूर्तेन । इष्टम् प्रत्यक्षश्रुतिचोदितं यागहोमदानादि । पूर्तम् स्मृतिपुराणागमचोदितं वापीकूपतटाकदेवागार- निर्माणादि । तेन उभयेन सं गच्छस्व । तत्फलम् उपभुङ्केत्यर्थः । तथा अवद्यम् पापं हित्वा त्यक्त्वा अस्तम् । गृहनामैतत् । उत्तमलोकस्थितं गृहं पुनरेहि प्राप्नुहि ॥ सुवर्चाः शोभनदीप्तिकस्तव आत्मा तन्वा स्वर्ग- लोकभोगयोग्येन शरीरेण सं गच्छताम संयुज्यताम् । "समो ग- म्यृच्छि” इति संपूर्वाद् गमेरकर्मकाद् आत्मनेपदम् ॥ KCR. We withi ABV Dc. The word occurs elsewhere in the Atharrı and is accenteel अवद्यम. २CP अवद्यम् । ३C गच्छस्व ।। 1 S' has a lactina here for about twelve letters. 28 हस्तम्. [अ०३. सू०३.] ५४३ अष्टादशं काण्डम्। १७५ नवमी॥

ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् । तेभ्यः स्वराडसुनीतिर्नो अद्य यथावशं तन्वः कल्पयाति ॥ ५९॥ ये। नः । पितुः । पितरः । ये । पितामहाः । ये । आऽविविशुः । उरु । अन्तरिक्षम् । तेभ्यः । स्वाराट् । असुऽनीतिः । नः । अद्य । यथाऽवशम । तन्वः । क- ल्पयाति ॥ ५९॥ नः अस्माकं पितुः जनकस्य ये पितरः जनका ये च पितामहास्ते- षामपि उत्पादयितारः । पूजार्थ बहुवचनम् । पितृपितामहप्रपितामहा इ- त्यर्थः । ये च अन्ये गोत्रजा उरु विस्तीर्णम् अन्तरिक्षम् आविविशुः आ- विष्टाः प्रविष्टाः । तेभ्यः । षष्ठ्यर्थे चतुर्थी । तेषां तन्वः शरीराणि अद्य इदानी स्वराट् स्वयमेव राजा असुनीतिः असूनां नेता एतत्संज्ञको देवः नः अस्माकं यथावशम् यथाकामं कल्पयाति कल्पयतु । तत्रतत्र फलोपभोगाय शरीराणि संपादयत्वित्यर्थः ॥ दशमी॥ शं ते नीहारो भवतु शं ते प्रुष्वावं शीयताम् । शीतिके शीतिकावति ह्लादिके हार्दिकावति । मण्डूक्य१प्सु शं भुव इमं स्वग्निं शमय ॥ ६० ॥ (१८) शम् । ते । नीहारः । भवतु । शम । ते । प्रुष्वा । अव । शीयताम् । शीतके । शीतिकाऽवति । ह्रांदिके । ह्रादिकाऽवति । मण्डूकी । अप्सु । शर्म । भुवः । इमम् । सु । अग्निम् । श- मय ॥६॥ हे प्रेतपुरुष नीहारः अवश्यायः ते तव शं भवतु सुखकरो भवतु । Ř V De guepart. RAVEFI (10 kanepa ). C has kampu and reads #- ण्डुक्य. २.CP हाईके । हादका. P हादके । हादका।. ३ Cr सम्. " अथर्वसंहिताभाष्ये. दाहजनितम् औष्ण्यं शमयत्वित्यर्थः । तथा प्रुष्वा1 विमुडूपेण सवन् उ. त्सः ते तव शम् सुखं यथा भवति तथा अव शीयताम् अवपततु । अ- धोमुखं स्रवत्वित्यर्थः ॥ हे शीतिके शीतस्य कारिणि । ओषधिविशेषस्ये- यं संज्ञा । हे शीतिकावति शीतिकाख्यौषधियुक्ते पृथिवि हे 2ह्लादके ह्ला- दः सुखम तत्कारिणि ओषधे हे ह्लादकावति ह्लादकाख्यौषधियुक्ते पृथिवि मण्डूक्यां मण्डूकस्य स्त्री मण्डूकी तया । यद्वा मण्डूकपर्णाख्यया ओष- ध्या अस्य दग्धस्य पुरुषस्य शं भवं । दाहशमनहेतुर्भवेत्यर्थः । तदर्थम् इमं दाहकम् अग्निं सुष्ठु शमय शान्तं कुरु ॥ [इति] तृतीयेनुवाके षष्ठं सूक्तम् ॥ "विवस्वान् नः"[६१] इत्यादिभिः सप्तभिर्ऋग्भिः श्मशानचयनकर्मणि कर्ता सर्वे गोत्रिणश्च 3श्मशानस्य पश्चाङ्भागे स्थित्वा प्रेतम् उपतिष्ठेरन ॥ पितृमधे चतुर्थेऽहनि वैवस्वते स्थालीपाके “विवस्वान् नो अभयम्' इति द्वाभ्यां प्रत्यूचं द्वे आहुती जुहुयात् । युक्ताभ्यां तृतीयाम् आहुतिं कुर्यात् ॥ तथा एताभ्यामेव हुतशेषम् अभिमन्त्य समानोदका गोत्रिणः कर्तारं प्राशयेयुः ॥ संचयने “विवस्वान् नः” इति व्द्यृचम् “इन्द्र ऋतुम्”[६७] इत्येतां च स्वस्ययनार्थं जपेत् ॥ “यास्ते धानाः" [६९] इति द्वाभ्यां तिलमिश्रा धाना अस्न्थाम् उप- रि आदध्यात् । “पुनर्देहि" [७०] इति ऋचा अस्थीनि वृक्षमूलाद् आ- ददीत यदि अस्थीनि वृक्षमूले4 पूर्वं स्थापितानि स्युः ॥ "आ रभस्व"[७१] इति तिसृभिः प्रेतशरीरे दत्तम् अग्निं काष्ठैर्दीपयेयुः ॥ "ये ते पूर्व परागताः" [७२] इति ऋचा सर्पिर्मधुभ्यां चरुम् अ- भिमन्त्र्य अस्थिसमीपे निदध्यात् ॥ तथा पिण्डपितृयज्ञे अनया निरुप्तानां पिण्डानाम् उपरि धृतधारां निनयेत् 18 पृथ्वा. Sasana's text : हादके हादुकावति, but the explains हादके and हाद- prafat "spectively. 3 S 1717°. 48' वृक्षमूलं. [अ°३. सू०३.] ५४३ अष्टादशं काण्डम्। १७७ तत्र प्रथमा॥

विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः । इहेमे वीरा बहवो भवन्तु गोमदश्ववन्मय्य॑स्तु पुष्टम् ॥ ६१ ॥ विवस्वान्। नः। अभयम्। कृणोतु । यः । सुडत्रामा । जीरऽदानुः । सुऽदानुः । इह । इमे । वीराः । बहवः । भवन्तु । गोऽमंत् । अश्वऽवत् । मयि । अ- स्तु । पुष्टम् ॥६१ ॥ विवस्वान् एतत्संज्ञक आदित्यो नः अस्माकम् अभयम मरणजनित- भीतिराहित्यं कृणोतु करोतु । तथा जीरदानुः जीवनस्य कर्ता । जी- व प्राणधारणे । “जीवे रदानुक्” इति । यद्वा रकि ज्यः संप्रसारणम् इति [उ०२.२३.] ज्या वयोहानौ इत्यस्माद् रक् प्रत्ययः संप्रसारणं च ।जीरस्य वयोहानेर्दाता जीरदानुः । सुदानुः शो- भनदानुः । एवंगुणविशिष्टो यः सुत्रामा सुष्ठु त्राता एतासंज्ञको देवः सोपि अस्माकम् अभयं कृणोत्विति संबन्धः ॥ इह अस्मिन् लोके इमे वीराः पुत्रपौत्रादयः अस्माकं बहवः बहुला भवन्तु । तथा गोमत ब- हुभिगोभिर्युक्तम् अश्ववत बह्वश्वोपेतं पुष्टम् पोषकं धनं मयि आत्मनि अस्तु भवतु । मरणजनितभीतिपरिहारेण पुत्रपौत्रादिसमृद्धिर्धनसमृद्धिश्च अस्माकं भववित्यर्थः ॥ द्वितीया ॥ विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु । इमान् रक्षतु पुरुषाना जरिम्णो मो ष्वे षामसवो यमं गुः ॥ ६२ ॥ विवस्वान् । नः । अमृतऽत्वे । दधातु । परी । एतु । मृत्युः । अमृतम् । नः । आ। एतु। BKV fatement. De feratate changed to fartearat. We with ACKR. I See the Kasika on l'anini 1 1. 1. 60. १७ अथर्वसंहिताभाष्ये इमान् । रक्षतु । पुरुषान् । आ । जरिम्णः । मो इति । सु । एषाम् । अ. संवः । यमम् । गुः ॥ ६२॥ विवस्वान् आदित्यो नः अस्मान् अमृतत्वे अमरणत्वे दधातु स्थापय- तु ॥ तत्प्रसादात् मृत्युः मरणकारी देवः परैतु पराङ्मुखो गच्छतु । अमृतम् अमरणं नः अस्मान् 1ऐतु प्राप्नोतु ॥ आ जरिम्णः । जराया भा- वो जरिमा । जरावस्थापर्यन्तम् इमान् अस्मदीयान् पुरुषान् पुत्रपौत्रा- दीन् रक्षतु पालयतु ॥ एषां पुरुषाणाम असवः प्राणाः सु सुष्टु मो मैव यमम् वैवस्वतं गुः गच्छन्तु । विवस्वता यमस्य पित्रा रक्षितत्वाद् इति भावः । ४ इण् गतौ । माङि लुङि “इणो गा लुङि” इति गादेशः ॥ तृतीया ॥ यो दध्रे अन्तरिक्षे न महा पितॄणां कविः प्रमतिर्मतीनाम् । तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥ ६३ ॥ यः । दध्रे । अन्तरिक्षे । न । मह्ना। पितॄणाम् । कविः । प्रऽमतिः । म- तीनाम्। तम् । अर्चत । विश्वमित्राः । हविःऽभिः । सः । नः । यमः । प्रडतरम् । जीवसे । धात् ॥ ६३॥ यो यमः कविः कान्तदर्शी प्रमतिः प्रकृष्टबुद्धिः महा स्वमहिम्ना म- तीनाम् 2मन्तॄणा स्तोतॄणां पितॄणाम् । "क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । पितृन् अन्तरिक्षेण अ- १C असर्वः। २ AC अन्तरिक्षन (bloubtlook 101 अन्तरिक्षेन'. D: अंतरिक्षेण changeet १) अंतरिक्ष न. R अन्तरिक्षेण ( doultless for अन्तरिक्षन). We with Bk P#V. St- yana's own text is starim (i.e. spartaa), lut his interpretation is certainly wrong. So BCÄRV Dc. Sảyana takes it as a vocative. But it can be taken as a nominative. Crai. I Suyapa's restling in his text: 10 : अमृतं न एतु, not अमृतं न पेतु. 25 मंचूणां स्तोत्रूणां पितॄणां for मन्तॄणां स्तोतॄणां पितॄणां. १७९ [अ°३. सू०३.] ५४३ अष्टादशं काण्डम् । न्तरा क्षान्तेन लोकेन दध्रे धारयति हे विश्वमित्राः सर्वजनमित्रभूता ब्राह्मणाः तं तादृशं यमं हविभिश्चरुपुरोडाशादिभिः अर्चत पूजयत ॥ सो- र्चितो यमो नः अस्मान् जीवसे जीवनाय प्रतरम् प्रकृष्टतरं धात् दधा- तु धारयतु । प्रशब्दात् तरप् । “अमु च च्छन्दसि" इति अ- मु प्राययः ॥ चतुर्थी ॥ आ रोहत दिवमुतमामृषयो मा बिभीतन । सोम॑पाः सोमपायिन इदं वः क्रियते हविरगन्म ज्योतिरुत्तमम् ॥ ६४ ॥ आ। रोहत । दिवम् । उतऽतमाम् । ऋषयः । मा। बिभीतन । सोमऽपाः । सोमऽपायिनः । इदम् । वः । क्रियते । हविः । अगन्म । ज्यो- तिः । उतऽतमम् ॥ ६४ ॥ हे ऋषयः मन्त्रदर्शिनो मनुष्याः उत्तमाम् उत्कृष्टां दिवम् स्वर्गम् आ रोहत यज्ञदानादिसत्कर्मभिः प्राप्नुत । मा बिभीतन भयं मा प्राप्नु- त । बिभतेर्लोटि "तप्तनप्तनथनाञ्च" इति तस्य तनादेशः ।ऋ- षयो विशेष्यन्ते । सोमं पिबन्तीति सोमपाः । स्वयं कृतसोमयागा इ- त्यर्थः । सोमपायिनः अन्यानपि यजमानान् सोमं पाययन्तीति सोमपा- यिनः । सोमयागस्य कारयितार इत्यर्थः । दिवम् 1आरूढानां वः यु- ष्माकम् इदं हविः क्रियते । तेन हविषा यूयं सुखेन द्युलोके वर्तध्वम् इत्यर्थः । वयं च युष्मत्प्रसादाद् उत्तमम् उत्कृष्टतमं ज्योतिः प्रकाशं चि- रकालजीवनम् अगन्म गच्छेम ॥ पञ्चमी ॥ प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति । दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥ ६५ ॥ प्र। केतुना । बृहता । भाति । अग्निः । आ । रोदसी इति । वृषभः । रो- रवीति । 18 दिविमारूढानां. १० अथर्वसंहिताभाष्ये दिवः । चित् । अन्तात् । उपऽमाम् । उत् । आनट् । अपाम् । उपऽस्थे । महिषः । ववर्ध ॥६५॥ अयम् अग्निः केतुना केतयित्रा ध्वजेन बृहता महता धूमेन प्र भाति प्रकर्षेण दीप्यते ॥ तथा रोदसी द्यावापृथिव्यौ आ अभिलक्ष्य वृषभः कामानां वर्षकः अयम् अग्नी रोरवीति भृशं शब्दं करोति ॥ माम् उप मत्समीपे दिवश्चिदन्तात् । चिच्छब्दः अप्यर्थे । आकाशस्य पर्यन्तादपि अयम् अग्निः उदानट् ऊर्ध्वं व्याप्नोत् ॥ तदनन्तरम् अपाम् उदकानाम् उपस्थे उपस्थाने अन्तरिक्षप्रदेशे महिषः । महन्नामैतत् । महान भूत्वा वव- र्ध ववृधे । प्रवृद्धोभूद् इत्यर्थः । xवृधु वृद्धौ । व्यत्ययेन परस्मैपदम् ॥ षष्ठी ॥ नाकै सुपर्णमुप यत् पतन हुंदा वेनन्तो अभ्यचक्षत वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥ ६६ ॥ नाके । सुऽपर्णम् । उप । यत् । पतन्तम् । हृदा । वेन॑न्तः । अभिऽअर्च- क्षत । त्वा। हिरण्यंऽपक्षम्। वरुणस्य । दूतम्। यमस्य । योनौ। शकुनम्।भुरण्युम्॥६६॥ कं सुखम् अकं दुःखम् । नास्मिन् अकम् अस्तीति नाकः । "न- भ्राण्नपात्” 1इत्यादिना नञः प्रकृतिभावः । तस्मिन नाके स्व- र्गलोके पतन्तम् गच्छन्नं सुपर्णम् शोभनपतनम् उपलक्ष्य हृदा मन- सा वेनन्तः । वेनतिः कान्निकर्मा । कामयमानाः हे प्रेत त्वा त्वां यत् यदा अभ्यचक्षत अभिपश्यन्ति 2तदानीम् हिरण्यपक्षम् हि- रण्मयपक्षोपेतं वरुणस्य एतत्संज्ञस्य देवस्य दूतम् । वरुणः खलु सत्यानृत- विभागेन प्राणिनां शिक्षकः । श्रूयते हि । “यासां राजा वरुणो या- ति मध्ये सत्यानृते अवपश्यन् जनानाम् इति [ऋ०७.४९.३] । १P उपऽमाम् ।. Pउप । माम् ।. Cr उप । माम् । २ R °मुपयत्पततं. De °मुपयत्पतंतं channel to °मुपयत्पततं. पयत्पतंतं. ३ Bहूदा. Dc हवा changed to हृदा. We witli ACKRV, So PP CP. ५CP हिरण्यऽपक्षम् ।। 18 om. त्यादि. 28 इदानी. " १८१

[अ°३. सू०३.] ५४३ अष्टादशं काण्डम्। 'अनृते खलु वै क्रियमाणे वरुणो गृह्णाति" इति च [तै ब्रा १.७. २.६] । अतो वरुणस्य शिक्षकत्वात् तत्समीपे दूतवद् वर्तमानम् इत्य- र्थः । यमस्य योनौ गृहे शकुनम शकुनिवद् वर्तमानं भुरण्युम् भर्ता- रम् । हे मृत वां पश्यन्तीति शेषः ॥ सप्तमी ॥ इन्द्र क्रतु न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥ ६७ ॥ इन्द्र । क्रतुम् । नः । आ । भर । पिता । पुत्रेभ्यः । यथा । शिक्ष । नः । अस्मिन् । पुरुहूत । यामनि । जीवाः । ज्योतिः । अशी- महि ॥ ६७ ॥ हे इन्द्र परमैश्वर्ययुक्त देव क्रतुम् कर्म सोमयागादिलक्षणम् यद्वा त- द्विषयं ज्ञानं नः अस्मभ्यम् आ भर आहर यथा येन प्रकारेण पिता पुत्रेभ्यः अभिमतं फलम् आहरति तद्वत् ॥ हे पुरुहूत पुरुभिर्यजमानैरा- हूत1 अस्मिन् यामनि याने संसारगमने नः अस्मान् शिक्ष अनुशा- धि । यद्वा शिक्षतिर्दानकर्मा । नः अस्मभ्यम् अभिमतफलं प्रयच्छेत्यर्थः । वयं च त्वत्प्रसादात् जीवाः चिरकालजीवनोपेता ज्योतिः प्रकाशम् इह- लोकसुखानुभवम् अशीमहि प्राप्नुयाम् ॥ अष्टमी ॥ अपूपापिहितान् कुम्भान यांस्तै देवा अधारयन् । ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥ ६ ॥ अपूपऽअपिहितान् । कुम्भान् । यान् । ते । दे॒वाः । अधारयन् । ते। ते । सन्तु । स्वधाऽवन्तः । मधुऽमन्तः । घृतऽश्चुतः ॥ ६ ॥ + A Bordat $. We with C RV De. A B C k RV DC अधारयन्. We ३ Cr ञ्युतः। 18 omits ottaa safa, anil leaving a blank acc for about eight letters reads यानि यान संसार°&c. with CP. १.२ अथर्वसंहिताभाष्ये _हे प्रेत ते तुभ्यं त्वदर्थम् अपू्पापिहितान अपूपैरपिहितान् छादितान् यान् कुम्भान् घृतमध्वादिपूर्णान् देवा अधारयन् तवोपभोगाय धारित- वन्तः1 ते कुम्भाः स्वधावन्तः अन्नवन्तः मधुमनाः मधुनोपेता घृतश्चुतः घृतस्राविणश्च ते तुभ्यं सन्तु भवन्तु ॥ नवमी॥ यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः । तास्ते सन्तु विभ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥ ६९॥ याः । ते । धानाः । अनुऽकिरामि । तिलमिश्राः । स्वधाऽवतीः। ताः । ते । सन्नु । विऽभ्वीः । प्रऽभ्वीः । ताः । ते । यमः । राजा । अनु । मन्यताम् ॥ ६९॥ हे प्रेत ते तुभ्यं तिलमिश्राः तिलैमिश्रिताः स्वधावतीः स्वधाकारवतीः स्वधोदकवतीर्वा या धानाः । भृष्टयवा धाना उच्यन्ते । अनुकिरामि आनुपूर्व्येण विक्षिपामि । समर्पयामीत्यर्थः । विक्षेपे । तुदा- दित्वात् शप्रत्ययः । ता धानास्ते तुभ्यं विभ्वीः विभ्व्यः विविधा भव2न्त्यः विभुत्वगुणोपेता वा प्रभ्वीः प्रभव्यः प्रभवन्त्यः तृप्तिजननसमर्था- श्च सन्तु भवन्तु ॥ राजा राजमान ईश्वरो यमः ते तव ता धाना अ- नु मन्यताम् भोक्तुम् अनुजानातु । विभुशब्दात् प्रभुशब्दाच्च "वो- तो गुणवचनात्" इति ङीष् । जसि “वा छन्दसि” इति पूर्वसवर्ण- दीर्घः ॥ दशमी॥ पुर्नर्देहि वनस्पते य एष निहितस्त्वयि । यथा यमस्य सादन आसातै विदथा वदन् ॥ ७० ॥ पुनः । देहि । वनस्पते । यः । एषः । निऽहितः । त्वयि । या । यमस्य । सदने । आसातै । विदथा । वदन् ॥ ७० ॥ १. मन्यताम्. We with A B C R V Dr. 18 कुभास्ते for ते कुम्भाः . भवत्यः . [अ°३. सू०३.] ५४३ अष्टादशं काण्डम् । १६३ हे वनस्पते वृक्षविशेष त्वयि य एषः अस्थ्यात्मकः पुरुषो निहितः नि- क्षिप्तः पूर्वम् तं पुनर्देहि अस्मभ्यं प्रयच्छ । किमर्थम् इति चेत् उच्यते । यथा येन प्रकारेण यमस्य राज्ञः सदने गृहे विदथा विदथानि विज्ञा- नानि । यद्वा यज्ञनामैतत् । यज्ञात्मकानि स्वार्जितानि कर्माणि वदन् ब्रुवन् प्रकाशयन् आसातै आसीत उपविशेत । तदर्थं पुनर्देहीत्यर्थः ॥ एकादशी॥ आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते। शरीरमस्य सं दहाथैनं धेहि सुकृतामु लोके ॥ ७१ ॥ आ। रभस्व । जातऽवेदः । तेजस्वत् । हरः । अस्तु । ते । शरीरम् । अस्य । सम् । दह । अर्थ । एनम । धेहि । सुऽकृताम्। ऊं इति । लोके ॥ ७१॥ हे जातवेदः जातानाम् उत्पन्नानां1 प्राणिनां वेदितरग्ने आ रभस्व मृ- तं दग्धुम् उपक्रमस्व ॥ ते तव तेजस्वत् तेजोभिर्वालाभिर्युक्तं हरः र. सहरणशीलं दहनसामर्थम् अस्तु भवतु ॥ अस्य मृतस्य शरीरं सं दह सम्यग् दह । यथा भस्मसाद् भवति तथा कुर्वित्यर्थः ॥ अथ शरीरद- हनानन्तरम् एनं पुरुषं सुकृताम् पुण्यकृतां लोके स्वर्गे धेहि स्थापय । यत्र पुण्यकृतो निवसन्ति तं लोकं प्रापयेत्यर्थः ॥ द्वादशी ॥ ये ते पूर्वे परागता अपरे पितरश्च ये। तेभ्यो घृतस्य कुल्यै तु शतधारा व्युन्दती ॥ ७२ ॥ ये। ते । पूर्व । पराऽगताः । अपरे। पितरः । च । ये । तेभ्यः । घृतस्य । कुल्या । एतु । शतऽधारा । विऽउन्दती ॥ ७२ ॥ ते प्रसिद्धा ये पूर्वे पूर्वभाविनः पूर्वम् उत्पन्ना ज्येष्ठाः पितरः पराग- कुल्येतु. Do कुल्यैतु clhangeel to कुल्यैतु. CA कुल्या ।. B कुल्यैतुं. We will A CRV. 18 प्राणानां for प्राणिनां. १८४ अथर्वसंहिताभाष्ये ताः पराङ्मुखं गताः । अपुनरावृत्तये गता इत्यर्थः । ये च अपरे अ- परभाविनः पश्चाद् उत्पन्नाः पितरः तेभ्यः सर्वेभ्यः । तादर्थ्ये च- तुर्थी र । घृतस्य कुल्या क्षरणशीलस्य सर्पिषः कुल्या एतु गच्छतु । कुल्या कृत्रिमा सरित इति निघण्टुः । घृतपूर्णा कुल्या प्रवहत्वित्यर्थः । कीदृशी सा । शतधारा शतसंख्यधाराभिरुपेता । अत एव व्युन्दती विविधम् आद्रींकुर्वती ॥ त्रयोदशी ॥ एतदा रोह वयं उन्मृजानः स्वा इह बृहदु दीदयन्ते । अभि प्रेहि मध्यतो माप हास्थाः पितॄणां लोकं प्रथमो यो अत्र ॥७३॥ (१५) एतत् । आ । रोह । वयः । उत्ऽमृजानः । स्वाः । इह । बृहत् । ऊं इति । दीदयन्ते । अभि । प्र । इहि । मध्यतः । मा। अप । हास्थाः । पितॄणाम् । लोकम् । प्रथमः । यः । अत्र ॥ ७३ ॥ (१९) । हे मृतपुरुष एतत् परिदृश्यमानं संनिहितं वयः । वियन्ति गच्छन्ति अस्मिन्निति वयः अन्तरिक्षम् । एतद् आ रोह आरूढो भव । किं कु- र्वन् । उन्मृजानः उन्मार्जनं कुर्वन् । शरीराद् उत्क्रमणेन स्वात्मानं शो- धयन्नित्यर्थः ॥ स्वाः ज्ञातयः इह अस्मिन् लोके बृहत् अधिकं दीदयन्ते दीप्यन्ताम् । समृद्धा निवसन्तु । दीदयतिर्दीप्तिकर्मा । उ- शब्दः पदपूरणः ॥ आरोहणार्थ मध्यतः बन्धुजनमध्याद् अभि प्रेहि लो- कान्तरम् अभिलक्ष्य प्रकर्षण गच्छ ॥ अत्र अस्मिन् धुलोके यः पितॄणां संबन्धी प्रथमः मुख्यो लोकः तं लोकं मा अप हास्थाः मा परित्य- जेः । चिरं तत्रैव निवसेत्यर्थः । ओहाक् त्यागे ॥ [इति] तृतीयेनुवाके सप्तमं सूक्तम् ॥ अष्टादशकाण्डे तृतीयोनुवाकः ॥ १ ABC KRV उन्मजानः, D: उन्मृजानः changeel to उन्मजानः. C उत्ऽमृजानः। We with Ci amil the original readling of Dr. [अ०४. सू०४.] ५४४ अष्टादशं काण्डम। १७५ चतुर्थेनुवाके नव सूक्तानि । तत्र "आ रोहत जनित्रीं जातवेदसः" इत्यादिभिः पञ्चदशभिर्ऋग्भिश्चितिस्थम् आहिताग्निं तम् उपतिष्ठेत ॥ "आ रोहत जनित्रीम" [१] इत्यनया ऋचा देशान्तरमृतस्य आ- हिताग्नेरेकाग्नेश्च अरणिद्वयम् अग्नौ प्रतापयेत् ॥ __ "जुहूर्दाधार द्याम्" [५] “ध्रुव आ रोह" [६] इत्याभ्याम् ऋ - ग्भ्यां प्रेताङ्गेषु 1प्रक्षेप्याणि यज्ञपात्राणि अनुमन्त्रयेत ॥ तत्र प्रथमा ॥ आ रोहत जनित्रीं जातवेदसः पितृयाणैः सं व आ रोहयामि । अवाढव्येषितो हव्यवाहं ईजानं युक्ताः सुकृतौ धत्त लोके ॥ १ ॥ आ। रोहत । जनित्रीम् । जातऽवेदसः । पितृऽयानैः । सम् । वः । आ । . रोहयामि। अवाट् । हव्या । इषितः । हव्यऽवाहः । ईजानम् । युक्ताः । सुऽकृताम् । धत्त । लोके ॥१॥ हे जातवेदसः । वैतानिकाग्न्यपेक्षया बहुवचनम् । “पश्चा हि स तर्हि भवति" इति श्रुतेः प्रत्यहं होमानन्तरम् आहवनीयशक्तेर्गार्ह- पत्येऽनुप्रवेशाद् 2एतद्योनेर्दक्षिणाग्नेश्च तत्रैवानुप्रवेशाद् बहुवदुक्तिः । स्मा- र्ताग्निपक्षे पूजायां बहुवचनम् । जातानि भूतानि विदन्ति जातैः प्रा- णिभिर्विद्यन्ते ज्ञायन्त इति वा जातवेदसः । कर्तरि कर्मणि वा असुन् ४ । यद्वा वेद इति धननाम । जातस्य प्राणिमात्र- स्य वेदो धनं येभ्योग्निभ्यो भवति । उपलक्षणम् एतत् । सर्वेषां वैदि- So A BC KRV DCr. 50 BCK RV DECr. Sirana takes हव्यवाहः । the singular, but that is not inccessary. The plural suits the pussage neell and con- sists with the aecent of the ass. In Tuitinyu Drimame. 1.2. It it is doubt- tul whether हव्यवाही is the dual of हव्यवाट् or of हव्यवाह. See Rv. ३C इपिता।. PPाषितः।. So Cr. 18' प्रक्षेपाणि. 28 एनयोने २४ १४६ अथर्वसंहिताभाष्ये कानां स्मार्तानां च कर्मणाम् अग्निसाध्यात्वात् तत्कर्मफलस्य प्रापयितारः हे गार्हपत्यादयोग्नयः जनित्रीम स्वोत्यादिकाम् अरणिम् । “ज- निता मन्त्रे” इति निपातनात् णिलोपः । प्रत्येकविवक्षया एकवच- नम् । आ रोहत शक्त्यात्मना प्रविशत ॥ अहमपि अरणी आ रोहतो वः युष्मान् पितृयाणैः । पितरो यान्ति एभिः पथिभिः पित्र्यं लोकम् इति पितृयाणाः पन्थानः । करणे ल्युट । द्वि- विधो हि मार्गः देवयानः पितृयाण इति । देवलोकप्राप्तिसाधनभूतो दे- वयानः । पितृलोकप्रापक इतरः । तत्र तैः पितृयाणैः समा रोहयामि सम्यक् विधिपूर्वकम् अधिरोहयामि . अरण्योः । अग्नीनां तत्रानुप्रवेशे प- था भाव्यम् इति पितृसंबन्धात् पन्थास्तादृश उक्तः । आहिताग्नेर्मृतत्वाद् उत्तरत्र तेन अग्निभिः साध्यानां कर्मणाम् अभावात् समारोपणम् ॥ इतः पूर्व तु हव्यवाहः । द्विविधं हि हविः । दैवं हविर्हव्यम् पित्र्यं हविः कव्यम् । 1पूर्व पित्र्यहविःसंबन्धाभावात् हव्यम् इत्युक्तम् । हव्यं दैवं व- हत्तीति हव्यवाहः अग्निः । “कर्मण्यण्” । हविर्वोढृत्वाकारेण एकत्वाद् एकवचनम्। अग्निरपि द्विविधः । हव्यवाहनः कव्यवा- हन इति । इषिता इषितानि इष्टानि । “तीषुसह” इति इडा- गमः । ततत्फलसाधनत्वेन अभिमतानि यजमानेन दत्तानि हव्या हव्यानि हवींषि अवाट् अवाक्षीत् । उद्दिष्टान् देवान् 2प्रापिपत् । व- हेर्लुङि सिच् । “वदव्रज” इति हलन्तलक्षणा वृद्धिः । “बहुलं छ- न्दसि" इति इडभावः । "झलो झलि” इति सकारलोपः । “ह- ल्ड्या" इत्यादिना तिपो लोपे ढत्वजशवचर्त्वानि । अतः हे अग्नयः यूयं युक्ताः परस्परं समवेताः सन्तः ईजानम् येन यूयम् आहि- ता इष्टाश्च तम् इष्टवन्तं देशान्तरे मृतं यजमानं सुकृताम् सुकृतकर्मणां लोके स्थाने धत धारयत स्थापयत । ईजानम इति । यजेर्लिटः कानचि “वचिस्वपि०” इति संप्रसारणे "लिट्यभ्यासस्य” इति अ- भ्यासस्य संप्रसारणम् ५ ॥ यद्वा हे जातवेदसः जनित्रीम् अरणीम् 15 पूर्य. 23 प्रापिपन्. १८७ [अ॰ ४. सू० ४.] ५४४ अष्टादशं काण्डम् । आ रोहत आहवनीयादिशक्तिरूपेण । अरणी आरूढवतो वः युष्मान् पितृयाणैर्मागैः समा रोहयामि । पुण्यलोकम् इति शेषः । यजमानस्य देशान्तरे मरणात् तत्प्रतिनिधित्वेन तदाहितानाम् अग्नीनां परलोकनय- नम् । अत एव अग्नीनामपि पितृयाणः पन्था उक्तः । गार्हपत्याद्या- कारेण परलोकनयने तदर्थं हविषोऽपेक्षितत्वात् हविःसद्भावं तन्नेतारम् अग्निं च दर्शयति । हव्यवाहः । अत्र हविषः अग्निदेवत्यत्वात् हव्यम् इ- त्युक्तम् । तद्वहतीति हव्यवाहः अग्निः । इषिता इषितानि । इष गताविति धातुः । अस्माभिः संस्कर्तृभिः 1प्रेषितानि प्रत्तानि हव्या हव्यानि अवाट् अवाक्षीत् वक्ष्यति प्रापयिष्यति युष्मान् । वहेश्छा- न्दसो लुङ् । एवं पुण्यलोकं प्रापिताः हविर्भिः प्रीणयिष्यमाणाश्च हे अग्नयः यूयं युक्ताः समाहिताः सन्तः । -युज समाधौ इति धातुः । ईजानम् इष्टवन्तं पुण्यलोके स्थापयतेति ॥ द्वितीया ॥ देवा यज्ञमृतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि । तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्गं यन्ति लोकम् ॥ २ ॥ देवाः । यज्ञम् । ऋतवः । कल्पयन्ति । हविः । पुरोडाशम् । स्रुचः । य- ज्ञऽआयुधानि । तेभिः । याहि । पृथिऽभिः । देवऽयानैः । यैः । ईजानाः । स्वःऽगम् । य- न्ति । लोकम् ॥२॥ देवाः इन्द्राद्या यष्टव्या देवताः ऋतवः वसन्ताद्याश्च कालाः यज्ञं क- ल्पयन्ति कुर्वन्ति । स्वयं हविःस्वीकारार्थ यष्ट्रणां च फलसिद्धयर्थं 2यज्ञं नि- र्मिमते । तत्स्वरूपं 3दर्शयति । हविः । चर्वाज्यसोमलक्षणं हविः । पुरोडा- शम् पिष्टमयम् । स्रुचः । उपलक्षणम् एतत् । जुह्वादीनि यज्ञोपयुक्तानि । 4यज्ञायुधानि पात्राणि आयुधवद् आयुधानि । यथा योद्धारः आयोधन- 1 प्रेतानि for प्रेषितानि . 2 S' यज्ञग्निमिमवते. 5 दर्शयतीति. ।' आयु- धानि for यज्ञायुधानि. १६ अथर्वसंहिताभाष्ये साधनैः शस्त्रादिभिर्द्विषो1 निघ्नन्ति एवं यष्टारोपि एतैः स्रुगादिपात्रैर्यज्ञविद्वे- षकारिणः स्वोपद्रवकारिणश्च परिहरन्तीति आयुधवोपचारः । एवं देवर्तु- निर्मितपुरोडाशयज्ञायुधात्मकयज्ञम् अनुष्ठितव2त् हे आहिताग्ने प्रेत त्वं दे- वयानैः ] देवा यान्ति 3एभिरिति देवयानास्तैर्देवलोकमाप्तिसाधनस्तेभिस्तैः पथिभिः मार्गैः याहि गच्छ । गन्तव्यं स्थानं दर्शयति । ईजानाः इष्टव- न्तः कृतयज्ञाः पुरुषा यैः पथिभिः स्वर्गम् सुखात्मकं लोकम् स्थानं य- न्ति गच्छन्ति ॥ तृतीया ॥ ऋतस्य पन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति । तेभिर्याहि पथिभिः स्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व ॥ ३॥ ऋतस्य । पन्थाम् । अनु। पश्य । साधु । अङ्गिरसः । सुऽकृतः । येन । यन्ति । तेभिः । याहि । पथिऽभिः । स्वःऽगम् । यत्र । आदित्याः । मधु । भक्षय- न्ति । तृतीये । नाके । अधि । वि । श्रयस्व ॥ ३ ॥ ऋतस्य सत्यभूतस्य यज्ञस्य पन्थाम् पन्थानम् । सुपो डादे- शः ४ । साधु सम्यक् । पयो वा विशेषणम् । सुपो लु- क्। साधुं समीचीनम् अचिरादिमार्गम् अनु पश्य अनुक्रमेण जानीहि । पश्यतिर्ज्ञानार्थः । सुकृतः सुकर्माणः अङ्गिरसः एतत्संज्ञका महर्षयः अङ्गारोत्पन्नाः । “येङ्गारा आसंस्तेऽङ्गिरसोऽभ- वन्” इति ऐतरेयकश्रुतेः [ऐवा ३.३४] । येन पथा यन्ति स्वर्ग- लोकम् । अङ्गिरसां सत्त्रयागानुष्ठानेन स्वर्गलोकप्राप्तिः ऐतरेयके श्रूयते । "अङ्गिरसो वा इमे स्वर्गाय लोकाय सत्त्रम् आसते” इति । "तं स्वर्य- न्तोब्रुवन्नेतत् ते ब्राह्मण सहस्रम् इति” [इति ऐ ब्रा० ५.१४]। तेभिः १K नेभ्यो या. D तभिर्या changeal to तेभ्यो या. We with BRVOCr. २k अधि विश्रयस्व. We with BC RV DCr. ३C भक्षयति ।. 15 द्विषे. 2S' अनुष्ठिनत for अनुष्ठितवन्.38 येभि. [अ॰ ४. सू० ४.] ५४४ अष्टादशं काण्डम् । १९९ तैः पथिभिः मागैः स्वर्गं याहि । प्रेत एव संबोध्यते । यत्र यस्मिन् स्वर्गे आदित्याः अदितेः पुत्रा देवाः मधु मधुवत्प्रीतिकरं मधुरम् अमृतं भक्षय- न्ति आस्वादयन्ति । गत्वा च तृतीये त्रित्वसंख्यापूरके उत्तमे नाके । कम् सुखम् । अकम् दुःखम् । न विद्यते अकं यस्मिन् । " नभ्राण्न- पात्” इति 1नाकशब्दो नलोपाभावेन निपातितः । अधिः सप्तम्यर्था- नुवादी छु । तस्मिन् सुखात्मके स्वर्गे वि श्रयस्व विश्रितः प्रतिष्ठितो 2भंव । यद्वा स्वर्गस्य लोकस्य उत्तममध्यमाधमभेदेन त्रिवृत्वात् तृतीये नाक इत्युक्तम् । तथा च ऐतरेयकम् । “त्रयो वा इमे त्रिवृतो लोकाः" इति [ऐ ब्रा०२.१७.] । मन्त्रवर्णोपि “तिस्रो भूमीर्धारयन् त्रीरुत द्यून्" [ऋ०२.२७..] इति । तथा “यदिन्द्राग्नी 3परमस्यां पृथिव्यां मध्य- मस्याम् अवमस्याम् उत स्थः” इति च [ऋ°१. १०७.१०] ॥ चतुर्थी ॥ त्रयः सुपर्णा उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः । स्वर्गा लोका अमृतेन विष्ठा इषमूर्जं यज॑मानाय दुह्वाम् ॥ ४ ॥ त्रयः । सुऽपर्णाः । उपरस्य । मायू इति । नाकस्य । पृष्ठे । अधि । विष्ट- पि । श्रिताः। स्वःऽगाः । लोकाः । अमृतेन । विऽस्थाः । इषम् । ऊर्जम् । यजमानाय । दुह्वाम् ॥ ४॥ त्रयः त्रिसंख्याकाः सुपर्णाः सुपतना अग्निसूर्यसोमाः उपरस्य । “उ- पर उपलो मेघो भवति" इति यास्कः [नि०२.२१] । तस्य मेघस्य संबन्धिनौ मायू । 4मायुशब्दो लुप्तमावर्थीयः । मायुमन्तौ शब्दकारिणौ वायुपर्जन्यौ । तौ हि मेघसंबन्धेन शब्दकारिणौ । एते अ- ज्यादयः अधिष्ठातृदेवाः क्रमेण नाकस्य स्वर्गस्य पृष्ठे उपरिभागे तृतीय- कक्ष्यायां विष्टपि । विष्टपशब्दः अन्तरिक्षवचनः । सप्तम्येकवचने १C विष्टा. We with kv R DE CP. २ Ch नाकस्य ।। 18 नाकशब्देन नाकशब्दे for नाकशब्दो. 2Sou. भव । यद्वा स्वर्ग. BS अव 1 पर . +5 मायुःfo मायु. १९० अथर्वसंहिताभाष्ये अन्त्यलोपश्छान्दसः ४ । तस्मिन् विष्टपे अधि श्रिताः । अग्न्यादयः स्वर्गलोकम् वायुपर्जन्यावन्तरिक्षलोकम अधितिष्ठन्तीत्यर्थः । एतैरन्यादिभि- रधिष्ठिताः स्वर्गाः सुखात्मका लोकाः स्वकर्मभिरार्जिताः । कर्मभेदात् फ- लवैविध्येन उतमादिभेदेन वा स्वर्गा लोका इति बहुवचनम् । 1अमृते- न अमरणसाधनेन सुधारसेन विष्टाः व्याप्ताः पूर्णाः । विष व्या- प्तौ । अस्मात् निष्ठाप्रत्ययः । यजमानाय यज्ञं स्मार्तं वैदिकं वा अनुष्ठितवते प्रेताय इषम् इष्यमाणम् अन्नम् उर्जम् बलकरम् अन्नरसं च दुह्राम दुहतां प्रयच्छन्तु । दुहेर्लोटि झस्य अदादेशः । “आम् एतः" । "लोपस्त आत्मनेपदेषु" इति तकारलोपः । “बहुलं छन्द- सि” इति झादेशस्य तस्य रुडागमः ॥ पञ्चमी॥ जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् । प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामकामं यजमानाय दुह्राम् ॥ ५ ॥ जुहूः । दाधार । द्याम् । उपऽभृत् । अन्तरिक्षम् । ध्रुवा । दाधार । पृथि- वीम् । प्रतिऽस्थाम्। प्रति । ईमाम् । लोकाः । घृतऽपृष्ठाः । स्वःऽगाः । कामम्ऽकामम् । यज- __ मानाय । दुह्राम् ॥ ५॥ जुहूः जुहोति हूयते वा अनया हविरिति जुहूर्होमसाधनभूतः पात्र- विशेषः । ४ जुहोतेर्द्वे च इति किप् द्विर्वचनं चकाराद् धातोर्दी- र्घश्च । द्यामं धुलोकं दाधार धृतवती । धरतेर्भौवादि- कस्य लिटि तुजादित्वाद् अभ्यासस्य दीर्घः । उपभृत उप स- मीपे जुह्वाः भ्रियते धार्यत इति उपभृत एतत्संज्ञकः पात्रविशेषः अ- न्तरिक्षम् अन्तरा क्षान्तं मध्यमलोकं धरति । ध्रुवा बर्हिषि आसा- .१ A BC K RV D. प्रतीमा iplicly 1 )elieve is for प्रतिमां, with the d elongateel. P प्रतिऽमाम्।. C प्रतिऽमाम्।. We with Siy.mt. २B V°लोका. Ife with AC K R. ३K दुहाम्. We witlr A B C BV.De. 18 insert- उतेहि before अमृतेन. [अ॰ ४. सू०४.] ५४४ अष्टादशं काण्डम् । १९१ दनम् आरभ्य यज्ञपरि1समाप्तेरचल1भावा ध्रुवा प्रतिष्ठिता एतत्संज्ञका स्रुक् प्रतिष्ठाम् चराचरात्मकस्य जगत आश्रयभूतां पृथिवीम् प्रथितां भूमि दा- धार । एवं जुह्वाद्यास्तिस्रः स्रुचो धुलोकादिधारकत्वेन प्रशस्ताः ॥ इमाम् ध्रुवया धारितां पृथिवीं प्रति अभिलक्ष्य घृतपृष्ठाः । घृ क्षरणदी- त्योः । दीप्तोपरिभागाः सर्वतो ज्योतिष्मतः स्वर्गाः सुखात्मका लोकाः । कक्ष्यात्रयवत्त्वाद् बहुवचनम् । यजमानाय इष्टवते कामका- मम् । “नित्यवीप्सयोः" इति द्विर्भावः । काम्यमानानि सर्वाणि फलानि दुह्राम ॥ पूर्वस्मिन् मन्त्रे तृतीये नाके अधि2 वि श्र- यस्वेति उत्तमं स्वर्गं लोकम् आरूढवतो यजमानस्य स्वकर्मार्जिताः पु- ण्यलोकाः सुकृतफलं प्रयच्छन्तु इत्युक्तम् । अस्मिंस्तु मन्त्रे पुण्यक्षयानन्तरं मर्त्यलोकं प्राप्तवतः अस्यैवाहिताग्नेः पूर्वजन्मार्जितसुकृतवासनाबलाद् इह लोकेपि पुनः स्वर्गलोकप्रापकाणि यज्ञादीनि समीचीनानि कर्माणि भ- वन्तु इत्याशास्यते । तथा च भगवतोक्तम् । त्रैविद्या3 मां सोमपाः [पूतपापा] यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्र्नन्ति दिव्यान् दिवि देवभोगान् । ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ॥ इति [भ गी०९.२०,२१] ॥ प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ इति च [भ गी० ६.४३] ॥ षष्ठी ॥ ध्रुवं आ रौह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व । १ A BR Kध्रुव. व. Cr ध्रुवे।. PPध्रुवे ।. We with V De. Do once real वव आ. २८KR 'मुपभृदा. We with De Cr. De conce. real °मुपभृदा. 18 समाप्तेः चल°t समाप्तेरचल. 28 m. धि वि श्रय.38 त्रयीविद्या. १९२ अथर्वसंहिताभाष्ये जुहु द्यां गच्छ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वां धु- क्ष्वाहणीयमानः ॥ ६ ॥ ध्रुवे । आ। रोहु । पृथिवीम् । विश्वऽभोजसम् । अन्तरिक्षम् । उपऽभृत् । आ । क्रमस्व । जुहु । द्याम् । गच्छ । यज॑मानेन । साकम् । स्रवेणं । वत्सेन । दिशः । ___ प्रऽपीनाः । सर्वाः । धुक्ष्व । अह्रणीयमानः ॥ ६ ॥ हे ध्रुवे एतन्नामधेये स्रुक् । “आमन्त्रितस्य च" इति षाष्ठि- कम् आधुदातत्त्वम् । विश्वभोजसम् विश्वस्य भोजयित्रीं सस्यादि- द्वारेण विश्वभोगाधिकरणभूतां वा पृथिवीम् आ रोह अधितिष्ठ । यज- मानेन साकम् इति तृतीयवाक्ये समाम्नातस्य सर्वत्रानुषङ्गः । यजमा- नोपि पृथिवीम् अधितिष्ठतु । “सहयुक्तेऽमधाने" इति तृती- या । ध्रुवा नाम स्रुक् बर्हिषि आसादिता यज्ञपरिसमाप्तिपर्यन्तम् आज्येन संपूर्णा अविचलिता वर्तते । पृथिव्यपि स्थिरा । 1अतस्तस्या 2सां अधिष्ठात्रीत्युच्यते ॥ हे3- 4उपभृतं अन्तरिक्षम् मध्यमलोकम् आ क्रमस्व आक्राम । ज्योतिरुगमनाभावेपि “आङ उद्गमने” इति आङ्क- र्वात् क्रमेयंत्ययेन आत्मनेपदम् । अध्वर्युणा हि हस्ताभ्यां जुहू- रुपभृच्च यागकाले धार्येते । तत्र उपभृतं सव्यहस्तेन गृहीत्वा दक्षिणेन जुह्वा जुहोति । अतोत्र जुह्वा उपभृत 5अधस्तनीति मध्यमलोकाधि- ,ष्ठातृत्वेन उच्यते ॥ हे जुहु6 द्याम् दिवं यजमानेन साकम् सह गच्छ । हे ध्रुवादिस्रुचः यूयं क्रमेण पृथिव्यादिलोकान्7 यजमानेन अधिष्ठापयतेत्यर्थः ॥ अथ प्रत्यक्षवदुक्तिः । एवं स्रुग्भिर्लोकत्रयं प्रापितो यजमानस्त्वम् अह्वणीय- मानः। “ह्रणीङ् रोषे लज्जायाम्" इति कण्ड्वादौ पठ्यते । क- १ B जुहु. R जुहु. D: जुहु changeel 10 जुहु. We with c ky D. २ B णीयमानः A हायमानाः. file with BC k RPP V Dr. ३Se foot-note on the prerious jage. 15' यत° for अत. 'S' वा for सा. inserts साकर्मक इति उदात्तत्वम् after' उ- पभृत्. ।' उपभृत for उपभृतं. 5S' अधस्तानिति. 68 जुहूः which is also the reading of Siyana's test.78 लोकन्, [अ० ४. सू० ४.] ५४४ अष्टादशं काण्डम् । १९३ थम् अहं व्याप्ता दिशः अभिलषितानि दुहीयेति विचिकित्साम् अकुर्वन स्रुवेण वत्सेन वत्सवद् वत्सः वासो यथा प्रथमं स्तन्यपानेन मातरं1 पीनोन्घीं करोति तद्वत् स्रुवोपि सर्वाणि जुह्वादीनि पात्राणि आज्यपूरितानि करो- तीति वत्सत्वेन रूपितः । वत्सरूपेण स्रुवेण प्रपीनाः प्रकर्षेण प्रवृद्ध[स्त- नीः । प्रस्नुतस्तनीरित्यर्थः । ताः सर्वा दिशः प्राच्याद्या दश दिशः कर्म धुक्ष्व अभिलषितानि फलानि । दुहिर्ड्ढिकर्मकः । प्रपीना इ- ति । प्यायतेर्निष्ठायां पीभावः । “ओदितश्च” इति निष्ठानत्वम् ॥ सप्तमी॥ तीप्थैस्तरन्ति प्रवतो महीरिति यज्ञकृतः सुकृतो येन यन्ति । अत्रादधुर्यज॑मानाय लोकं दिशो भूतानि यदकल्पयन्त ॥ ७ ॥ तीर्थैः । तरन्ति । प्रऽवतः । महीः । इति । यज्ञऽकृतः। सुऽकृतः । येन । यन्ति । अत्र । अदधुः । यजमानाय। लोकम् । दिश। भूतानि। यत् । अकल्पयन्त॥७॥ तीर्थैः । तरन्ति दुष्कृतानि एभिरिति करणे क्थन प्रत्य- यः । तरणसाधनैर्यज्ञादिभिः प्रवतः । छु" उपसर्गाच्छन्दसि धात्वर्थे" इति वतिमत्ययः । वतेः अव्ययत्वेपि अर्थग्रहणसामर्थ्याल्लिङ्गसंख्या- योगः। प्रवतः प्रकृष्टा महीः महतीः आपदस्तरन्ति अतिक्रामन्ति इति एवं यज्ञादीनि आपदुत्तरकाणि भवन्तीति बुद्ध्या यज्ञकृतः यज्ञं वै- दिकं स्मार्तं च कुर्वाणा आत एव सुकृतः सुकृतकर्माणो येन पथा यन्ति प्राप्नुवन्ति 2पुण्यलोकम् अत्र अस्मिन् पुण्यलोकप्ताप्तिसाधने पथि तं पन्था- नम् अनुसृत्य आगच्छते यजमानाय तदर्थ लोकम् पुण्यार्जितम् अदधुः वि- दधनु यज्ञकृतः सुकृतकर्तारः दिशो भूतानि वा । दधातेश्छान्दसो लुङ्४। यत् सुपो लुक् । यं लोकं दिशः “स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्व" इति पूर्वमन्त्रे अभिलषितफलप्रदत्वेन उपवर्णिता दिशः भूतानि भवनवन्ति सर्वदिगवस्थितप्राणिजातानि [च] अ- कल्पयन्त यजमानार्थ समपादयन् । तं लोकम् अदधुरिति पूर्वेण संबन्धः ॥ १CP प्रऽवता। 1S' मातरध्येपानोनी. 28 पुण्यं लोकं. १९४ अथर्वसंहिताभाष्ये अष्टमी ॥ अङ्गिरसामयनं पूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः। महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः ॥ ४ ॥ अङ्गिरसाम् । अय॑नम् । पूर्वः । अग्निः । आदित्यानाम् । अयनम् । गा- __ रडहऽपत्यः । दक्षिणानाम् । अयनम् । दक्षिणडअग्निः। महिमानम् । अग्नेः । विहितस्य । ब्रह्मणा । समऽअङ्गः । सर्वः । उप । याहि । शग्मः ॥ ७ ॥ परितश्चिताम्1 आहिताग्नेर्गार्हपत्यादयोऽग्नयो विह्रता यथाप्रदेशं वर्तन्ते । तेऽग्नयः अभिलषितप्रदा भवन्तु इत्ययम् अर्थः इत उत्तरैर्मन्तैः प्रतिपा- द्यते । अङ्गिरसाम् अयनं नाम सत्त्वात्मकः क्रतुविशेषः । स एव पूर्वः पूर्वस्यां दिशि वर्तमानोग्निः आहवनीयः । आदित्यानाम् अयनम् एत- त्संज्ञकः सत्त्रयागः गार्हपत्योग्निः । “गृहपतिना संयुक्ते ञ्यः" इति ञ्यप्रत्ययः । दक्षिणानाम् दक्षा एव दक्षिणाः दक्षा2णाम् अ- यनं सत्त्रविशेषः स एव दक्षिणाग्निः दक्षिणस्यां दिशि वर्तमानोग्निः ॥ ए- वं ब्रह्मणा3 मन्त्रेण मन्त्रसाध्यसत्त्रयागात्मना वा विहितस्य निर्मितस्य पृ- थगायतनेषु स्थापितस्य अग्नेमहिमानम् आहवनीयादिसंज्ञाभिर्व्यवह्रियमा- णां विभूति समङ्गः संहतावयवः सर्वः संपूर्णावयवः अतः शग्मः । सु- खनामैतत् । सुखितः सन् उप याहि । सर्वैरग्निभिर्दह्यमानः प्रेत ए- वम् उच्यते ॥ नवमी ॥ पूर्वो अग्निष्ट्वा तपतु शं पुरस्ताच्छं पश्चात् तपतु गार्हपत्यः । दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद् दिशोदिशो ___ अग्ने परि पाहि घोरात् ॥ ९॥ 18 °श्चितम्. 28 दक्षिणाम्. 3' ब्रह्मणामिति tor ब्रह्मणा. [अ० ४. सू० ४.] ५४४ अष्टादशं काण्डम्। १९५ पूर्वः । अग्निः । त्वा । तपतु । शम् । पुरस्तात् । शम् । पश्चात् । तपतु । गाहेऽपत्यः। दक्षिणडअग्निः । ते । तपतु । शर्म । वर्म । उत्तरतः । मध्यतः । अन्तरि- क्षात् । दिशःऽदिशः । अग्ने । परि । पाहि । घोरात् ॥ ९ ॥ हे अग्निभिर्दह्यमान प्रेत पूर्वो अग्निः पूर्वस्यां दिशि दीप्यमान आ- हवनीयः पुरस्तात् पूर्वस्यां दिशि शम् सुखं यथा तथा त्वा त्वां त. पतु तापयतु दहतु । तथा गार्हपत्यः गृहपतिना यजमानेन आहितः सर्वाग्नियोनिभू1तोग्निः पश्चात् पश्चिमभागे शम् सुखं तपतु त्वां दहतु । दक्षिणाग्निः दक्षिणस्यां दिशि निहितोग्निस्ते 2त्वदर्थ शर्म सुखं यथा तथा वर्म कवचं 3पराभेद्यं यथा तथा तपतु । कवचं यथा 4सर्ववारकम् यद्वा शर्म गृहम् गृहं यथा सर्वाच्छादकम् एवं सर्व त्वदीयशरीरम् आवृत्य दहत्वित्यर्थः ॥ अथ अग्नेः प्रत्यक्षस्तुतिः । हे अग्ने । आहवनीयाद्यनुगतत्वा- कारेण एकवचनम् । उत्तरतः। "पञ्चम्यास्तसिल्"। उत्तरस्या दिशः । “तसिलादिष्वाकृत्वसुचः” इति पुंवद्भावः । म- ध्यतः पूर्वादीनां चतसृणां मध्यप्रदेशाद् अन्तरिक्षात् आकाशाद् दिशो- दिशः सर्वस्या अवान्तरदिशः परि पाहि परितो रक्ष ॥ न केवलं दि- शो घ्नन्ति किं तु तत्रस्थो भयंकरः पुरुषो हिनस्ति । तथा च महार- ण्यं प्रस्तुत्य मन्त्रवर्णः । “न वा अरण्यानिर्हन्त्यन्यश्चेन्नाभिगच्छति" इति [ऋ० १०.१४६.५] । अतो भीतिकारणम् आह घोरादिति । घो- रात् क्रूरात् हिंसकात् परि पाहि । “भीत्रार्थानां भयहेतुः” इति सर्वत्र अपादानसंज्ञा । “अपादाने पञ्चमी” इति पञ्चमी ॥ दशमी ॥ यूयमग्ने शर्तमाभिस्तनूभिरीजानमभि लोकं स्वर्गम् । १C दक्षिण अग्निः ।. 1S' भूताग्निः. 25 तदर्थ. 5 पुरा°. 4 $' सर्वारकम् for सर्ववारकम्. १९६ अथर्वसंहिताभाष्ये अश्वा भूवा पृष्टिवाहो वहाथ यत्र देवैः संधमादं मदन्ति ॥ १० ॥ (२०) यूयम् । अग्ने । शमऽतमाभिः । तनूभिः । ईजानम् । अभि । लोकम् । स्वःऽगम्। अश्वः । भूवा । पृष्टिऽवाहः । वहाथ । यत्र । देवैः । सधऽमादम् । म- दन्ति ॥ १० ॥ (२०) हे अग्ने यूयम् । एकस्यैवाग्नेस्रेधाभवनाद् यूयम् इति बहुवचनम् । पृथगायतनेषु स्थापिता यूयं शंतमाभिः अत्यन्तं सुखकरीभिस्तनूभिः श- रीरैः । द्विविधाः खलु अग्नेस्तन्वः घोराश्च शिवाश्चेति । उभय्यस्तन्वस्तै- त्तिरीयके श्रूयन्ते । “ये ते अग्ने शिवे तनुवौ विराट् च स्वराट् च ते "मा विशतां ते मा जिन्वताम् । सम्राट चाभिभूश्च । विभूश्च परिभूश्च । "प्रभ्वी च प्रभूतिश्च । यास्ते अग्ने शिवास्तनुवः” इत्यादि [तै ब्रा १.१.७.३] । “यास्ते अग्ने घोरास्तनुवः । क्षुच्च तृष्णा च । अस्रुक् "चानाहुतिश्च । अश1नया च पिपासा च । सेदिश्चामतिश्च । एतास्ते “अग्ने घोरास्तनुवः" इति [तै आ°४.२२] । तत्र शिवाभिस्तनूभिः स- ह ईजानम् येन यूयम् आहिता इष्टाश्च तम् इष्टवन्तं पुरुषं स्वर्गम् सु- खेन गन्तव्यं सुखात्मकं लोकम् अभि वहाथ अभिगमयत । अग्नित्रयस्य गन्तव्यप्रापणे दृष्टान्तम् आह अश्वो भूवेति । प्रष्टिवाहः अश्वो भूत्वा । पुरस्ताद् एकः पश्चाद् द्वौ इत्येवं त्रिभिरश्चैर्युक्तो दैवो रथः प्रष्टिः । तं वहन मष्टिवाहः अश्वो भूता । समष्टिरूपेण एकवचनम् । एवं त्रिधा- भवन्तो यूयम् एनम् आहिताग्निं स्वर्गं लोकम् अभिगमयतेति । व- हतेलेंटि आडागमः । यत्र यस्मिन् स्वर्गे लोके देवैः अमृतपैः सधमादम् सह मदो यस्मिन् कर्मणि तथा मदेमं ह्रष्यास्म । उपस्तो- तृन् गोत्रिणोऽपेक्ष्य उत्तमपुरुषो2 बहुवचनं च । “सध मादस्य- १ A B C K R V अश्वा. PP अश्वाः 1. Ci• अश्वः ।. De readls अश्वो corrected from अश्वो. शिवाहाँ चहा. D अश्वा भृत्वा पृष्टिवाही changed to अश्वो भूत्वा पृष्टिवाहो. CP पृष्ठिऽवाहः ।. C KR पृष्टिवाहो वहाथ. We with A BV Dc. ३Cr मदति changed to मदंति. ISS', and the printed text also. 28 °पुरुषे. . १९७ [अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । योश्छन्दसि" इति सहस्य सधादेशः । मदेमेति । माद्यतेः आशीर्लिङि 'लिड्याशिष्यङ्" इति अङ् प्रत्ययः ॥ [इति] चतुर्थेनुवाके प्रथमं सूक्तम् ॥ शमग्ने" इति द्वितीयसूक्ते आदितः पञ्चानाम् ऋचां चितिस्थाहिता- म्युपस्थाने विनियोग उक्तः । 'ईजानश्चितमारुक्षत्" [१४] इति द्वा- भ्याम् ऋग्भ्यां चितावुत्तानम् आहितं प्रेतं कर्ता अनुमन्त्रयेत । “अपू- पवान् क्षीरवान्" [१६] इति नवभिर्ऋग्भिर्मन्त्रोक्तद्रव्ययुतान् नवसं- ख्याकांश्चरून अभिमन्त्र्य अस्न्थां1 समीपे पश्चिमदिक्प्रभृत्यष्टसु दिक्षु एकं मध्य इति क्रमेण निदध्यात् ॥ 66 . तत्र प्रथमा॥ शर्मग्ने पश्चात् तप शं पुरस्ताच्छमुतराच्छमधरात् तपैनम् एकस्त्रेधा विहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥ ११ ॥ शम् । अग्ने । पश्चात् । तप । शम्। पुरस्तात् । शम् । उत्तरात् । शम् । अ- धरात् । तप । एनम्। एकः । त्रेधा । विहितः । जातऽवेदः । सम्यक् । एनम् । धेहि । सुऽकृ- ताम् । ऊं इति । लोके ॥ ११ ॥ हे अग्ने त्वं पश्चात् ।“पश्चात्" इति निपातितोयं श- ब्दः। पश्चिमभागे गार्हपत्यः सन् शम् सुखं तप दह । पुरस्तात् पूर्वभागे शम् । तपेत्यनुषङ्गः । उत्तरात् उतरदिक्प्रदेशे । अधरान् । अ- धरशब्देनात्र उत्तरप्रतियो2गिनी3 दक्षिणा दिग् उच्यते ।उभयत्र "उत्तराधरदक्षिणाद् आतिः” इति आतिप्रत्ययः ४ । वाक्यभेदात् शं- पदस्य आवृत्तिः । एनम् आहिताग्निं तप ॥ हे जातवेदः जातानां वेदि- तरग्ने त्वं पूर्वम् एकोपि त्रेधा विहितः गार्हपत्यादिरूपेण त्रिप्रकारं 4स्था- { K Cay. We with: BR V Dc. ? CR srca. Cappears to have rund 31- palat: once. We with B De V. TH. Wc with B CRV De 18' अस्थ्ना, 28 योगिना. 33 दक्षिण इति for दक्षिणा. 48 स्थापिस्त्वं. उभयत्र १९८ अथर्वसंहिताभाष्ये पितः एनम् अन्वादिष्टम् अग्न्याहितं प्रेतम् । उशब्दः अवधारणे । सु- कृताम् सुकृतकर्मणां लोके स्थाने स्वर्गाख्य एव सम्यक् समीचीनं यथा तथा धेहि स्थापय । सम्यकत्वं नाम अविकलं चिरकालावस्थायित्वम् ॥ द्वितीया ॥ शमग्नयः समिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः । शृतं कृण्वन्त इह माव चिक्षिपन् ॥ १२ ॥ शम् । अग्नयः । समऽइद्धाः। आ। रभन्ताम् । प्राजाऽपत्यम् । मेध्यम् । जातऽवेदसः। शृतम् । कृण्वन्तः । इह । मा । अव । चिक्षिपन् ॥ १२ ॥ आभ्याम् अग्नीन् संभूय प्रार्थयते । जातवेदसः जातानां वेदितारो- ग्नयः समिद्धाः सम्यक् प्रदीपिताः सन्तः प्राजापत्यम् प्रजापतिदेवत्यं1 मेध्यम मेधो यज्ञः पितृमेधाख्यः तदर्हम् इमं प्रेतरूपं पशुं समा रभ- न्ताम् 2संस्पृशन्तु परितो दहन्नु । इह अस्मिन् दहनकर्मणि शृतम् प्राजा- पत्यम् इमं यज्ञार्हं पशुं पक्वं कृण्वन्तः कुर्वन्तः मा अ3व चिक्षिपन् अवक्षि- प्तम् अव4कीर्ण् मा कुर्वन्तु । यथा निरवशेषं दह्यते तथेति । "सा- स्य देवता" इत्येतस्मिन्नर्थे “ पत्युत्तरपदाण्ण्यः” इति ण्यः । शृतम् इ. ति । श्रा पाके इत्येतस्मात् कर्मकर्तरि निष्ठायां "शृतं पाके” इति नि- पातनात् शृभावः ॥ तृतीया ॥ यज्ञ एति विततः कल्पमान ईजानमभि लोकं स्वर्गम् । तमग्नयः सर्वहुतं जुषन्तां प्राजापत्यं मेध्यं जातवेदसः । शृतं कृण्वन्त इह मा चिक्षिपन् ॥ १३ ॥ १R विततः कल्पमान. C विततः कल्पान. De: विततः कल्पमान changeeti to विततः क- ल्पमान. C विततः । कल्पमानः ।, We with Bkv D.. Kजातवेदसः. Ife with B CRVD. Kara . We with BCRV De. 15 देवत्वं ! देवत्यं. 'S' ताः स्पृशंतु for संस्पृशन्तु. 8' वि for अव. २ IS न अव'. १९९ [अ°४. सू०४.] ५४४ अष्टादशं काण्डम् । यज्ञः। एति। विऽततः। कल्पमानः । ईजानम् । अभि। लोकम् । स्वःऽगम् । तम् । अग्नयः । सर्वऽहुंतम् । जुषन्ताम् । प्राजाऽपत्यम् । मेध्यम् । जा- तऽवेदसः। शृतम् । कृण्वन्तः । इह । मा। अव । चिक्षिपन् ॥ १३ ॥ विततः प्राच्योदीच्याङ्गैर्विस्तृतः कल्पमानः इष्टं प्रदेशं प्रापयितुं स- मर्थो यज्ञः पितृमेधाख्यः ईजानम् इष्टवन्तम् एनं स्वर्गम् सुखात्मकं लोकम् अभ्येति । अन्तर्भावितण्यर्थोयम् एतिः । अभिगम- यति अभिप्रापयति ॥ अतो जातवेदसः अग्नयः प्राजापत्यं मेध्यं तम् ईजानं प्रेतरूपं पशुं सर्वहुतम् सर्वः निरवशेषः हुतो दग्धः तं जुषन्ताम् सेवन्ताम् ॥ शृतम् इत्यादि व्याख्यातम् ॥ चतुर्थी॥ ईजानश्चितमारुक्षदग्निं नाकस्य पृष्ठाद् दिवमुत्पतिष्यन् । तस्मै प्र भाति नभसो ज्योतिषीमान्त्स्वर्गः पन्थाः सुकृते देवयानः ॥१४॥ ईजानः । चितम् । आ । अरुक्षत् । अग्निम् । नाकस्य । पृष्ठात् । दिवम् । उतऽपतिष्यन्। तस्मै । प्र । भाति । नभसः । ज्योतिषीऽमान् । स्वःऽगः । पन्थाः । सुऽकृ- ते । देवयानः ॥ १४ ॥ ईजानः इष्टवान् पुरुषः चितम् विषमसंख्याकाभिः शलाकाभिरिष्टका- भिर्वा चयनेन संस्कृतम् अग्निम् प्रदेशम । इष्टकचितः प्रदेशः अग्निरि- त्युच्यते । उक्तं हि भगवता आपस्तम्बेन । “अग्निष्टोम उत्तर1वेदिरुत- रेषु ऋतुष्वग्निः" इति [आप० २५.४] । तम् आ अरुक्षात् आरूढ- वान्। g रुहेर्लुङि “शल इगुपधाद् अनिटः” इति क्सः । कि- RSee fiot-note १ on the previous nge. २"सं। रभंताम् । to: सर्वऽहुतम् । जयन्ताम् ।। Ř V DC ontº. We with CRPÅ. K ofzº. He with CRVDE उतऽपतिष्यन् । 18 वेदिचतरेषु. CV अथर्वसंहिताभाष्ये त्त्वाद् गुणाभावः । किमर्थम् नाकस्य दुःखरहितस्य स्वर्गस्य पृष्ठे उपरिभागे दिवम् तृतीयकक्ष्यारूपं धुलोकम् । “त्रयो वा इमे त्रिवृतो लोकाः” इति श्रुतेः [ऐ ब्रा० २. १७ ] एकैकस्य लोकस्य त्रिवृत्त्वाद् एकस्यापि स्वर्गलोकस्य उत्तमाधममध्यभेदेन त्रैविध्यम् । मध्यमायाः स्व- र्गकक्ष्यायाः परमां तृतीयकक्ष्याम् उत्पतिष्यन् । उत्पतनाद्धेतोरित्यर्थः । तस्मै दिवम् उत्पतिष्यते सुकृते सुकृतकर्मणे तदर्थं नभसः मध्याकाशस्य ज्योतिषीमान् ज्योतिप्मान् प्रकाशकः देवयानः देवा यान्ति अनेनेति सः स्वर्गः सुखेन गन्तव्यः परमः स्वर्गमाप्तिसाधनभूतो वा पन्थाः मार्गः प्र भाति प्रकर्षेण दीप्यतां प्रकाशताम् । भातेः पञ्चमलकारः ॥ पञ्चमी॥ अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु । हुतोयं संस्थितो यज्ञ एंति यत्र पूर्वमयनं हुतानाम् ॥१५॥ अग्निः । होता । अध्वर्युः । ते । बृहस्पतिः । इन्द्रः । ब्रह्मा । दक्षिणतः । ते । अस्तु । हुतः । अयम् । समऽस्थितः । यज्ञः । एति । यत्र । पूर्वम् । अय॑नम् । हु. तानाम् ॥ १५॥ हे चितस्थ प्रेत ते तव पितृमेधाख्ये यज्ञे अग्निर्होता वषट्कर्ता एतत्सं- ज्ञक ऋत्विग् अस्तु । बृहस्पतिः बृहतां देवानां पतिः पालको देवः अ- ध्वर्युः अध्वरं यज्ञं यजमानस्य कामयमानः एतत्संज्ञक ऋत्विग् अ- स्तु । अध्वरशब्दात् “छन्दसि परेच्छायाम्” इति क्यच् । “कप्य- ध्वरपृतनस्यर्चि लोपः” इति अन्त्यलोपः । “क्याच्छन्दसि" इति उप्र- त्ययः । अध्वर्युष्ट इत्यत्र “युप्मत्तत्ततक्षुःषु०” इति सांहितिको मूर्धन्यादे- शः । इन्द्रो दक्षिणस्यां दिशि आसीनो ब्रह्मा एतत्संज्ञक ऋत्विक् ते तव पितृमेधाख्ये यज्ञे अस्तु भवतु । अस्मिन् प्रेतसंस्काररूपपितृमेधे १B हुतायं. AV हुतो ! यं. Deadliest cultuently. c k R lhave no kamxt. We with c k R. K संस्थिती. De संस्थितो changed to सेंस्थितो. We with CR. V. ३ C वहस्पतिः। [अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । २०१ अग्न्यादीनां होत्रादिमहर्विग्भावेन रूपणम् अस्य कर्मणो वैकल्याभावद्यो- तनायेति मन्तव्यम् । होत्रादिकीर्तनम् अन्येषाम् ऋत्विजाम् उपलक्षणा- र्थम् । एवं होत्रादिरूपैरग्न्यादिभिरनुष्ठितोयं यज्ञः पितृमेधाख्यः संस्थितः समापितः सन् एति गच्छति । गन्तव्यं स्थानं दर्शयति । यत्र य- स्मिन् स्थाने हुतानाम् इष्टानां यज्ञानां पूर्वम् पूर्वकालीनम् अयनम् गमनं प्राप्तिर्विद्यते । यज्ञस्य उत्तमलोकप्राप्त्या तत्संस्कृतस्य पुरुषस्य स्व- र्गलोकप्राप्तिरुक्तेत्यनुसंधेयम् ॥ षष्ठी ॥ अपूपवान् क्षीरवाश्चरुरेह सीदतु। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १६ ॥ अपूपऽवान् । क्षीरऽवान् । चरुः । आ । इह । सीदतु । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ १६ ॥ अपूपवान् गोधूमादिपिष्टविकारा अपूपाः तद्वान् । क्षीरवान् क्षीरं गो- पयः तद्वान् । चरुः कुम्भ्यां पक्व ओदनः इह अस्मिन् संचयनकर्मणि अस्यां समीपे पश्चिमदिग्भागे आ सीदतु आसन्नो भवतु ॥ चर्वासादन- मेव देवानां प्रीणनकारीति 1दर्शयति । लोककृतः संस्क्रियमाणस्य प्रेतस्य लोकं स्वर्गं कुर्वन्तीति लोककृतः तान् पथिकृतः गन्तव्यस्थानस्य मार्गक- र्तॄन् मार्गप्रदर्शकान् देवान् यजामहे प्रीणयामः । इह अस्मिन् संचयन- कर्मणि अपूपक्षीरयुक्तचर्वासादने देवानां यष्टव्यानाम् इन्द्रादीनां मध्ये ये2 यूयं हुतभागाः हुतं हविः । भागः भजनीयोंऽशः । कर्मणि घञ्। हविर्भागवन्तः स्थ भवथ तान यजामहे ॥ एवम् उत्तरेऽष्टौ पर्याया व्याख्येयाः । विशेषस्तु वक्ष्यते ॥ सप्तमी॥ अपूपवान् दधिवांश्चरुरेह सींदनु । १CP स्थ ।. 18' दर्शयंति. 25 वा for ये. २६ २०२ अथर्वसंहिताभाष्ये लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १७ ॥ अपूपऽवान् । दधिऽवान् । चरुः । आ। इह। सीदतु ।। लोकऽकृतः । पथिडकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह। स्थ ॥१७॥ अप्पसाहित्यं सर्वेषां चरूणां साधारणम् । दधिवान् दधिमान् । भू- स्त्रि मतुप् । “छन्दसीरः” इति मतुपो वावम्। दधियोगो द्वि- तीयचरोविशेषः ॥ अष्टमी ॥ अपूवान् द्रुप्सवांश्चरुरेह सीदतु। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १४ ॥ अपूपऽवान् । 1द्रप्सऽवान् । चरुः । आ । इह । सीदतु । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥१६॥ द्रप्सा दधिकणाः । तद्वत्त्वम् अस्य चरोविशेषः ॥ नवमी॥ अपूपवान् घृतवाश्चरुरेह सीदतु। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १९॥ अपूपऽवान् । घृतंऽवान्1 । चरुः । आ । इह । सीदतु । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ १९॥ घृतवान् घृतं भूयोस्यास्तीति घृतवान् ॥ दशमी ॥ अपूपवान् मांसवांश्चरुरेह सीदतु। २ द्रप्सऽवान्. २ Cr घृतऽवान्. [अ०४. सू० ४.] ५४४ अष्टादशं काण्डम् । २०३ लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२०॥ (५१) अपूपऽवान् । मांसंऽवान् । चरुः । आ । इह । सीदतु। लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ २० ॥ (२१) 1मांसवत्वम् अस्य विशेषः ॥ [इति] चतुर्थेनुवाके द्वितीयं सूक्तम् ॥ "अपूपवानन्नवांश्वरः” इति आदितश्चतसृणाम् ऋचाम् अस्थिसमीपे मन्त्रोक्तचरुस्थापनकर्मणि उक्तो विनियोगः ॥ “अपूपापिहितान्” [२५] इत्यनया पूर्वस्थापितान् नवचरु2कुम्भान् अ- भिमन्त्रयेत । मिश्रा धाना आदध्यात् ॥ "द्रप्सश्चस्कन्द" [२६] इत्यनया अग्निष्टोमादिक्रतुषु बहिष्पवमानप्रस- र्पणकाले वैमुषहोमं कुर्यात् ॥ “शतधारम्" [२९] इति द्वाभ्याम् ऋग्भ्याम् अभिमन्त्रितेन शत- च्छिद्रपात्रपतितोदकेन अस्थीनि आप्तावयेत् ॥ तत्र प्रथमा ॥ अपूपवानन्नवांश्चरुरेह सीदतु। लोककृतः पथिकृतो यजामहे ये दे॒वानां हुतभागा इह स्थ ॥ २१ ॥ अपूपऽवान् । अन्नऽवान् । चरुः । आ । इह । सीदतु । लोकऽकृतः । पथिऽकृतः । यजामहे। ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥२१॥ अन्नम् अदनीयम् ओदनम् स्थालीपक्वे3 चरौ पात्रान्तरपक्वम् ओदनं प्रक्षेप्तव्यम् इत्यर्थः । ओदनान्तरयुक्तश्चरुरिति यावत् ॥ १CP मासऽवान्. 18' मांसत्वम्. 28 ° भुंभान् for °कुम्भान्.:S पाके tor पक्वे. २०४ अथर्वसंहिताभाष्ये द्वितीया ॥ अपूपवान् मधुमांश्चरुरेह सीदतु । लोककृतः पथिकृतौ यजामहे ये देवानां हुतभागा इह स्थ ॥ २२ ॥ अपूपऽवान् । मधुऽमान् । चरुः । आ । इह । सीदतु । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ २२ ॥ मधुमान मधु माक्षिकं तद्वान् ॥ तृतीया॥ अपूपवान् रसवांश्चरुरेह सीदतु । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ २३ ॥ अपूपऽवान् । रसऽवान् । चरुः । आ । इह । सीदतु । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ २३॥ रसवान् रसाः स्वाहम्ललवणतितोषणकषायाख्याः षटुंख्याकाः तद्वान् ॥ चतुर्थी ॥ अपूपवानपवांश्वरुरेह सीदतु। लोककृतः पथिकृतो यजामहे ये देवाना हुतभागा इह स्थ ॥ २४ ॥ अपूपऽवान् । अपडवान् । चरुः । आ । इह । सीदतु । . लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ २४॥ अपूपवान् । भिन्नप्रकृतिका अपूपा विवक्षिताः । तद्वान् चरुः इह म- ध्यप्रदेशे आ सीदतु ॥ लोककृत इत्यादि पूर्ववत् ॥ So C K R PPVDO Cr. All omanthorities of the sumihittant padu tests have अपवान् and not. अपू- पवान् for the seconal word as explaincel thy Siyan. [अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । २०५ पञ्चमी॥ अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् । ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥ २५॥ अपूपऽअपिहितान् । कुम्भान् । यान् । ते । दे॒वाः । अधारयन् । ते । ते । सन्तु । स्वधाऽव॑न्तः । मधुऽमन्तः । घृतऽश्चुतः ॥ २५ ॥ पूर्वानुवाके व्याख्यातेषा [३.६] । अपूपापिहितान् अपूपराच्छादितान् यान् कुम्भान् चरुपूर्णान् नवकलशान् देवाः तत्तद्धविर्भागिनो मन्त्रो- क्ता देवताः ते संचितास्थिरूप हे प्रेत त्वदीयान् अधारयन् स्वस्वभाग- त्वेन धारितवन्तः स्वीकृतवन्तः ते हुतभागैर्देवैः स्वीयत्वेन परिगृहीताः कु- म्भस्याश्चरवः ते परलोकप्राप्तवते तुभ्यं स्वधावन्तः स्वम् आत्मानं दधाति पुष्णाति धिनोतीति [वा] स्वधा अन्नम् तद्वन्तः सन्तु । मधुमन्तः मधुस- हिताः घृतश्चुतः बह्वाज्यक्षारिणो भवन्तु । भवदीयास्थिसमीपे स्थापिता- श्वरवः परलोकं प्राप्तस्य तव प्रीणनाय बह्वन्नराशयो मधुघृतकुल्यायुक्ता भवन्नु इत्यर्थः ॥ यास्तै धाना अनुकिरामि तिलमिश्राः स्वधावतीः । तास्तै सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥ २६ ॥ याः। ते । धानाः । अनुऽकिरामि । तिलऽमिश्राः । स्वधाऽव॑तीः । ताः । ते । सन्तु । उतऽभ्वीः । प्रऽभ्वीः । ताः । ते । यमः । राजा । अनु। मन्यताम् ॥२६॥ __अक्षितिं भूयसीम् ॥ २७ ॥ __ अक्षितिम् । भूयसीम् ॥ २७ ॥ षष्ठी ॥ हे संचितास्थिरूप प्रेत ते त्वदर्थं तिलमिश्राः कृष्णतिलयुक्ताः PHere B reauls अधारयन् and not अधारयन् , which shows that here as well arial 3, 68 above we should read अधार. २ Sec hymn 8. GS ayone. ३ BV किरामि नि- लेमिश्राः. Do °मि तिलमिश्राः changed to °मि तिलमिश्राः. Ile rity CK R. २०६ अथर्वसंहिताभाष्ये स्वधावतीः अन्नवतीर्या धानाः भृष्टयवान् अनुकिरामि अनुक्रमेण विकि- रामि अनूचीनं वा विक्षिपामि ता धानास्ते परलोकं प्राप्तवतस्तव प्रीण- नाय अभ्वीः । महन्नामैतत् । 1महत्यो भवन्तु । प्रवीः प्रभूताश्च सन्तु भ- वन्तु । “भुवश्च" इति ङीष् । प्रभ्वीरिति । “वा छन्दसि” इ. ति पूर्वसवर्णदीर्घः । ता महतीः प्रभूताश्च धानास्ते तव भोगाय यमः नियन्ता पितॄणां राजा अनु मन्यताम् अनुजानातु । अनुमतेर्निर- वधित्वं दर्शयति अक्षितिं भूयसीम् इति । भूयसीम् अत्यन्तं बहुम् अक्षि- तिम् अक्षयम् । बहुकालपर्यन्तम् इति यावत् । “कालाध्वनोः" इति द्वितीया । यथा लोके 2नगरे तिष्ठन् पुरुषः स्वीयं बहुधनं पु- रः स्वामिनोनुज्ञया भुङ्क्ते एवं यमराज्यं प्राप्तवतः प्रेतस्य अन्नभोगाय पितृराजस्य यमस्य अनुज्ञा प्रार्थते ॥ द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥ २० ॥ द्रप्सः । चस्कन्द । पृथिवीम् । अनु । द्याम् । इमम् । च । योनिम् । अनु। यः। च । पूर्वः। समानम् । योनिम् । अनु । समऽचरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्राः ॥ २४ ॥ सप्तमी ॥ पितृत्वं प्राप्ता जना 3धूमादिमार्गेण पितृलोकम् आसाद्य तत्र सोमयागजनितं सुकृतफलम् उपभुञ्जत इति अस्मिन् पित्र्ये प्रकरणे सोमे स्थितस्य उदकस्य कणः सोमो वा अनया स्तूयते । द्रप्सः सोमरस- स्थितोदककणः पृथिवीम् भूमि द्याम् दिवं च अनुलक्ष्य 4चस्कन्द स्कन्नो विप्रकीर्णोभवत्5 । लक्षणार्थे अनुः कर्मप्रवचनीयः । “कर्ममव- चनीययुक्ते द्वितीया” इति द्वितीया । ग्रावभिरभिषवकाले भूमौ १PP च । स्कंद ।. IT'e witli CP. मानदि tor धूमादि. Som. स्कन्द from च- 18 महंत्यो.28 नगरी. स्कन्द. 8 °कीणोभवतु. [अ°४. सू०४.] ५४४ अष्टादशं काण्डम्। सोमरसः स्कन्दति । दशापवित्राद् द्रोणकलशं प्रति धारापातसमये अन्त- रिक्षे सोम1कणो विप्रकीर्णो भवतीति यावत् । एतदेव उच्यते इमं च योनिम् इति । इमं योनिम् सर्वस्य चराचरात्मकस्य जगतः कारणं पृथिवीम्2 अनुलक्ष्य तथा पूर्वः पूर्वम् उत्पन्नो यो धुलोकस्तम् अनु । प- रस्परसमुच्चयार्थों चकारौ । योनिशब्दः पुंलिङ्गोपि विद्यते । स- मानम् एकविधं योनिम् द्यावापृथिवीलक्षणं स्थानम् अनुलक्ष्य संचर- नतम समन्ताद् विप्रकीर्ण द्रप्सम् सोमरसकणं सप्त सप्तसंख्याका होत्राः । वषट्कर्तृणां संज्ञा होत्रा इति । सप्त होतृमैत्रावरुणब्राह्मणाच्छंसिपोतृनेष्ट्रा- ग्नीप्राच्छावाकसंज्ञकान् वषट्कर्तृन् अनुलक्षीकृत्य जुहोमि अग्नौ प्रक्षिपामि । उत्तरत्र होत्रादिवषट्कारे सोमरसः अध्वर्युभिर्हूयते । तदर्थं स्कन्नं सोमरसं द्रप्सदेवतार्थं करोमीत्यर्थः । वाजसनेयब्राह्मणे खलु एष द्रप्सः आदित्या- त्मना स्तुतः । तथा च आम्नायते । “असो वा आदित्यो द्रप्सः । स दिवं च पृथिवीं च स्कन्दति । इमं च योनिमनु यश्च पूर्व इति । इमं "[च] लोकम् अमुं चेत्येतत् । समानं योनिमनु संचरन्तम् इति । समानं “ह्येष एतं योनिमनु संचरति3 । द्रप्सं जुहोम्यनु सप्त होत्रा इति । असौ वा आदित्यो द्रप्सः । दिशः सप्त होत्राः । अमुं तदादित्यं4 दिक्षु प्र. 'तिष्ठापयति" इति [शबा७.४.१.२०] ॥ शतधार वायुमर्क स्वर्विदै नृचक्षसस्ते अभि चक्षते रयिम् । ये पृणन्ति प्र च यच्छन्ति सर्वदा ते दुहते दक्षिणां सप्तमातरम् ॥२९॥ शतऽधारम् । वायुम् । अर्कम् । स्वःऽविदम् । नृऽचक्षसः । ते । अभि । चक्षते । रयिम्। ये। पृणन्ति । प्र। च । यच्छन्ति । सर्वदा । ते । दुहते । दक्षिणाम् । स- प्तमातरम् ॥ २९ ॥ अष्टमी ॥ शतधारम् शतसंख्याकच्छिद्रपतितोदकप्रवाहयुक्तम् अत एव १C यछंति । 18 °करणो. 2 3 om. °म् अनुलक्ष्य तथा. 39 संचरंति. 13 om. °दित्यं. " 66 २० अथर्वसंहिताभाष्ये वायुम् । लुप्तमत्वर्थीयः । वायुमन्तम् । सच्छिद्रे वस्तुनि वायुर्वाति । यद्वा वायुम् वातारं चरन्तं वायुवदेव कुम्भोपि हस्ताद्वस्त- प्रापणेन सर्वदा चरति तम् अर्कम् अर्चनीयं स्वर्विदम् स्वः स्वर्गस्य ल. म्भकम् एतं कुम्भं नृचक्षसः नृणां द्रष्टारो देवास्ते त्वदर्थम् । यु- प्मच्छब्दस्य “तेमयावेकवचनस्य” इति ते इत्यादेशो व्यत्ययेन उदा- त्तः। हे प्रेत त्वदर्थं रयिम् धनम् अभि चक्षते पश्यन्ति जान- न्ति । एतं कुम्भं तव धनम् इत्येव जानन्ति । ये गोत्रिणः संस्कर्तारः पृणन्ति अस्थिरूपं त्वां कुम्भोदकेन प्रीणयन्ति प्र यच्छन्ति च कुम्भोदकं ते सप्तमातरम् सप्तसंख्याका मातृभूता अग्निष्टोमादिसंस्था यस्या1स्ताम् यद्वा1 सप्तसंख्याका मातारः कर्मणां निर्मातारः कर्तारो होत्रादयः सन्ति [य- स्याः] तादृशीम् । अथ वा मातारः परिच्छेत्तारो यस्याम् एकधा दत्तां2 सप्तधा मान्ति परिच्छिन्दन्ति ताम् । "ऋतश्छन्दसि" इति कपः प्रतिषेधः.। तथाविधां दक्षिणां सर्वदा दुहते दुहते । उदकेन आ- प्लावनं नाम दक्षिणादोहनम् इत्यर्थः । * दुहेर्लटि झस्य “बहुलं छ- न्दसि” इति रुडागमः ॥ कोशं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये । ऊर्ज मदन्तीमदितिं जनेष्वग्ने मा हिंसीः परमे व्योमन् ॥ ३० ॥ ( २२ ) कोशम् । दुहन्ति । कलशम् । चतु:ऽबिलम् । इडाम् । धेनुम् । मधुऽम- तीम् । स्वस्तये। ऊर्जम् । मदनीम् । अदितिम् । जनेषु । अग्ने । मा । हिंसीः । परमे । विऽओमन् ॥ ३० ॥ (२२) नवमी ॥ चतुर्बिलम् । शतसंख्याकच्छिद्रस्य कुम्भस्य चतुर्णा छिद्राणाम् अवयुत्य स्तुतिः । चतुश्छिद्रं चतुःस्तनं कोशम् कोशवत् कोशः । कोशो यथा धनकनकादिसंपूर्ण3 स्तद्वत् पयःपूर्णं कलशमं कुम्भं कुम्भोपमम् ऊधः १C इडाम् ।। 13' यस्याः तयाद्वा for यस्यास्ताम् यद्वा.' दत्तः. S' °संपूर्ण. प्रतिषेधः । २०९ “ [अ°४. सू०४.] ५४४ अष्टादशं काण्डम् । मधुमतीम् मधुररसक्षीरयुक्ताम इडाम् । धेनुनामैतत् । एतासंज्ञकां धेनुम् । यद्वा इडा भूमिः । भूमिरूपां धेनुं दुहन्ति । दुहिर्द्विकर्मकः ।कि- मर्थम् । स्वस्तये । स्वस्तीत्यविनाशिनाम । तस्य सर्वदा परलोकनिवा- साय । चतुश्छिद्रकलशोदकेन आप्लावनं नाम चतुःस्तनधेनुदोहनमेवेत्यर्थः । मदन्तीम् मदयन्तीं तोषयन्तीम् अदितिम् अखण्डनीयाम् ऊर्जम् बलक- रम् अन्नं जनेषु पितृत्वं प्राप्तेषु मध्ये हे अग्ने मा हिंसीः पितॄणां म- ध्ये एतस्य प्रेतस्य भोगाय अन्नं मा च्छेत्सीः । परमे व्योमन्निति पदद्वयं कलशं दुहन्तीत्यनेन संबन्धनीयम् । परमे उत्कृष्टे व्योमन् ।स - प्तम्या लुक् । 'न डिसंबुद्धयोः” इति नलोपाभावः । व्योम- नि आकाशे शतच्छिद्रं कलशं दुहन्तीति ॥ [इति ] चतुर्थेनुवाके तृतीयं सूक्तम् ॥ एतत् ते देवः” इति सूक्तस्य आद्यया ऋचा वासोऽभिमन्त्य प्रेतं प्रच्छादयेत् ॥ "धाना धेनुरभवत्" [३२] "एतास्ते असौ धेनवः” [३३] "ए. नीर्धाना हरिणीः" [३४] इति तिसृभिर्ऋग्भिः अस्थाम् उपरि तिल- मिश्रा धाना आदध्यात् ॥ पितृमेधे द्वितीयेऽहनि “वैश्वानरे हविः” [३५] इत्यनया दहनस्थान- संनिधौ अन्यवत्साया गोः पयः पयसि शृतं स्थालीपाकं वा जुहुयात् ॥ 'सहस्रधारम" [३६] इत्यनया अभिमन्त्रितेन सहस्रच्छिद्रपात्रपतितो-1 दकेन अस्थीन्याप्लावयेत् ॥ "इदं कसाम्बु" [३७] इत्यनया गर्त् स्थापितानि अस्थीनि गोत्रिणः सर्वे वा ईक्षेरन् । कर्ता मन्त्रं ब्रूयात् ॥ 'इहैवैधि" इत्यनया पिण्डपितृयज्ञे दीप्तयोः काष्ठयोरेकं 2ह्रत्वा पासुषु प्रक्षिपेत् । सूत्रितं हि । “द्वे काष्ठे गृहीत्वा उशन्तः [१७.१.५६] इ. 'त्यादी3पयति । आदीप्तयोरेकं प्रतिनिदधाति । इहैवैधि धनसनिः [१४. "४.३.] इत्येकं 4ह्रत्वा पांसुष्वाधाय" इति [को०११...] ॥ 19 परितो for पतितो. 28 हत्वा. US' पयति अदीप्तयो. 43 हुत्वा. २१० अथर्वसंहिताभाष्ये "पुत्रं पौत्रम्" [३९] इत्यूचा पिण्डपितृयज्ञे पिण्डदानानन्तरम् आ. चामेत् ॥ "आपो अग्निम्" [४०] इत्युत्तरया अद्भिरग्निम् अवसिञ्चेत् ॥ सूत्रितं हि । “आपो अग्निम् इत्यद्भिरग्निम् अवसिच्य पुत्रं पौत्रम् अभितर्पयन्तीरित्याचामति" इति [को०११.९.] ॥ तत्र प्रथमा। एतत ते देवः सविता वासो ददाति भर्तवे। तत् त्वं यमस्य राज्ये वसानस्तार्प्यं चर ॥ ३१ ॥ एतत् । ते । देवः । सविता । वासः । ददाति । भर्तवे । तत् । त्वम् । यमस्य । राज्ये । वसानः । तार्प्यम् । चर ॥ ३१ ॥ हे प्रेत ते तव सविता सर्वस्य प्रेरको देवः एतत् इदं वासः वस्त्रं भतवे भरणाय आच्छादनाय ददाति प्रयच्छति । वं च तत् ताम तर्पणार्हं प्रीतिकरम् । यद्वा तृपा नाम तृणविशेषः । तन्निर्मितं घृताक्तं वस्त्रं तार्प्यम् इति अन्ये वदन्ति । तद् वस्त्रं वसानः आच्छाद- यन् । वस आच्छादने । आदादिकः अनुदात्तेत् । यमस्य प्रेताधिराजस्य राज्ये चर परिभ्राम्य ॥ द्वितीया ॥ धाना धेनुरभवद् वत्सो अस्यास्तिलो भवत् । नां वै यमस्य राज्ये अक्षितामुपं जीवति ॥ ३२ ॥ धानाः । धेनुः । अभवत् । वासः । अस्याः । तिलः । अभवत् । ताम् । वै। यमस्य । राज्य । अक्षिताम् । उप । जीवति ॥ ३२ ॥ धाना भृष्टयवः धेनुः प्रीणयित्री गौरभवत् । अस्या धेनुरूपाया धा- नायास्तिलः वत्सोऽभवत् । तां वत्सरूपतिलसहितां धेनुरूपां धानां य- १ A BKV ददातु. Do ददाति changed 10 ददातु. We with C CP. २ °नस्तार्थ चर, the of being for cát, and the accent on of being wrongly omitted. Both. V नस्तार्य. D वनिस्ता] चर changeel to वसानस्तार्य चर. We with A KE CP. ३ Dc अस्यास्तिलो changeel to अस्यास्तिलो. BV C अस्यास्तिलोभ. We with .R. २११

[अ०४. सू०४.] ५४४ अष्ठादशं काण्डम्। मस्य राज्ये अक्षिताम् क्षयरहिताम् उप जीवांति उपजीवेद् अयं प्रे- तः। जीवतेलेंटि आडागमः । वैशब्दः प्रसिद्धिद्योतनार्थः । यद्वा। तिङां तिङो भवन्तीति हेस्तिबादेशः । उपजीव हे प्रेत त्वम् इति । अक्षिताम् । क्षि क्षये । “निष्ठायाम् अण्यद- र्थे” इति पर्युदासाद् दीर्घाभावः । ण्यदर्थो भावकर्मणी । अत एव दीर्घाभावाद् नत्वाभावः ॥ तृतीया ॥ एतास्ते असौ धेनवः कामदुघा भवन्तु । एनीः श्येनीः सरूपा विरूपास्तिलव॑त्सा उप तिष्ठन्तु त्वात्र ॥ ३३ ॥ एताः । ते । असौ । धेनवः । कामऽदुधाः । भवन्तु । एनीः । श्येनीः । सऽरूपाः । विडरूपाः । तिलऽवत्साः । उप । तिष्ठन्तु । त्वा । अत्र ॥ ३३॥ असौ इति प्रेतस्य संबोधनम् । हे असौ अमुकनामधेय प्रेत ते तव एता धानाः कामदुधाः कामं काम्यमानं फलं दुहन्तीति कामदुधाः । हः कव्यश्च" इति कप् प्रत्ययो घश्च अन्तादेशः । इष्टफलदा1 धेनवो भवन्ति । ता एव विशिनष्टि । एनीः । एतः संध्यावर्णः । श्येतः शु- भ्रवर्णः। उभयत्र “वर्णाद् अनुदात्तात्" इति ङीम्नकारौ । “वा छन्दसि” इति पूर्वसवर्णदीर्घः ।एन्यः संध्यावर्णाः शुभ्रारुणव- र्णाः श्येन्यो धवलवर्णाः सरूपाः समानरूपाः विरूपाः विविधरूपाः ति- लवत्साः तिलात्मकवत्ससहिता धेनुरूपा धानाः अत्र अस्मिन् यमराज्ये हे प्रेत त्वा त्वाम् उप तिष्ठन्तु अभिमतफलदोहनार्थं समीपे सेवन्ताम् परिचरन्तु ॥ So BCKRV De PẾ. Ce alone has stafa I. २ BCV विरूपास्तिलवत्सा. Dr: विरूपास्तिलवत्सा changeel to विरूपास्तिलवत्सा. Ce तिलऽवत्साः ।. We with R K भ्रवर्णः । and Co. 18 °फलदो. २१२ अथर्वसंहिताभाष्ये चतुर्थी॥ एनीर्धाना हरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते । तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ॥ ३४ ॥ एनीः । धानाः । हरिणीः । श्येनीः । अस्य । कृष्णाः । धानाः। रोहिणीः । धेनवः । ते। तिलऽवासाः । ऊर्जम् । अस्मै । दुहानाः । विश्वाहा । सन्तु । अनपऽस्फु- रन्तीः ॥ ३४ ॥ पूर्वमन्त्रोक्तोर्थः अनया विव्रियते । एनीश्येनीशब्दौ व्याख्यातौ । हरि- णीः हरिण्यः हरितवर्णाः । कृष्णाः अतिभर्जनात् कृष्णवर्णाः । रोहिणीः रोहितवर्णा अरुणवर्णाः । ४ सर्वत्र पूर्ववद् ङीम्नकारदीर्घाः । धे- नुरूपा धानाः अस्य ते तव भवन्ति । तास्तिलवत्सा धेनवो विश्वाहा सर्वेषु अहःसु । g"कालाध्वनोः” इति द्वितीया । अ- नपस्फुरन्तीः अनपस्फुरन्त्यः । अपस्फुरणं नाम नाशः । अविनश्वर्यः 1अक्षीणाः सत्यः अस्मै अस्थिरूपाय ते तव ऊर्जम् बलकरम् अन्नं दु- हानाः प्रयच्छन्त्यः सन्तु भवन्तु ॥ 37- पञ्चमी॥ वैश्वानरे हविरिदं जुहोमि साहस्रं शतधारमुत्सम् । स बिभर्ति पितरै पितामहान् प्रपितामहान् बिभर्ति पिन्व॑मानः॥ ३५॥ वैश्वानरे । हविः । इदम् । जुहोमि । साहस्रम् । शतऽधारम् । उत्सम् । सः । बिभर्ति । पितरम् । पितामहान् । प्रऽपितामहान् । बिभर्ति । पिन्व- मानः ॥ ३५ ॥ PŘ Taftº. De grafto changed to gato. We with CBRV. २ B तिलवत्सा. De fazatar ehangul to faceret. Wc with CXRV Cr. सन्त्वनंपस्फुरन्ती. De संत्वनपस्फुरती changeel to संत्वनपस्फुरंतीः. P अनपऽस्फरती। अनपऽस्फुरतीः 1. CP अनपऽस्फुरन्ती. We with CR BV, except that C R omit the visarga after °न्ती, which vixaron ve take from BV De and Sayana. 18' क्षीणाः for अक्षीणाः, ३ K 66 [अ°४. सू०४.] ५४४ अष्टादशं काण्डम्। २१३ वैश्वानरे विश्वनरहितो विश्वानरः । “नरे संज्ञायाम्” इति पूर्वपदस्य दीर्घः । विश्वानर एव वैश्वानरः । तस्मिन् अग्नौ इदं पयोरूपं स्थालीपाकरूपं वा हविः जुहोमि प्रक्षिपामि । हविर्विशिनष्टि । साहस्रम् सहस्रविधोदकमवाहयुक्तम् । “तपःसहस्राभ्यां विनीनी"। 'अण् च" इति मत्वर्थीयः अण् प्रत्ययः । शतधारम् शत- प्रवाहोपेतम् । अवयुत्य स्तुतिः । उत्सम् प्रस्रवणम् । यथा एवंविध उ- सः स्वोपजीविनः प्राणिनः प्रीणयति एवम् इदं हविः नानाविधं सत् पितॄन् पुष्णातीति उत्सात्मना रूपितम् ॥ पिन्वमानः । पिविरिद- न्तः प्रीणनार्थो भौवादिकः । इदित्वान्नुम् । हविषा प्रीतः स वैश्वानरोग्निः पितरम् पितृत्वं प्राप्तं स्व1जनकं प्रेतं पितामहान पितुः पि- तृन् बिभर्ति प्रीणयति । तथा प्रपितामहान् प्रकृष्टान् पितामहान् स्वपि- तुः पितामहान् । बहुवचनेन पितामहादीन् सर्वान् स्ववंश्यान् । विभ- र्ति पुष्णातीति । "पितृव्यमातुलमातामहपितामहाः” इति पिता- महशब्दो निपातितः ॥ षष्ठी ॥ सहस्रधारं शतधारमुत्समक्षितं व्यच्यमानं सलिलस्य पृष्ठे । ऊर्जं दुहानमनपस्फुरन्तमुपासते पितरः स्वधाभिः ॥ ३६ ॥ सहस्रऽधारम् । शतऽधारम् । उत्सम् । अक्षितम् । विऽअच्यमानम् । स- लिलस्य । पृष्ठे। ऊर्जम् । दुहानम् । अनपऽस्फुरन्तम् । उप । आसते । पितरः । स्वधा- भिः॥३६॥ सहस्रधारम् सहस्रसंख्याकच्छिद्रपतितोदकप्रवाहयुक्तं शतधारम् । अव-2 युज्यैव स्तुतिः । उत्सम् । उत्सवद् उत्सः । उत्सोपमं कलशम् अक्षितम् २ B मान. Dc व्यच्यमान (sic) changed to व्य॒च्यमान. PF विऽअच्यमानम् ।. Cr विअध्य-मानम् ।. We with A C KEV CP. K °मुपासते. De स्फुरतमुपासते changeel to °स्फुरैतमुपासते. We with BC EV. 18 स्वे. 25 अवयुत्यव for अवयुत्यैव. २१४ अथर्वसंहिताभाष्ये क्षयरहितम् उदकपूर्णं सलिलस्य अन्तरिक्षस्य पृष्ठे उपरिभागे व्यच्यमा- नम् । व्यचतिर्व्याप्तिकर्मा तू ।व्याप्नुवन्तम् । आकाशे धार्यमा- णम् इति यावत् । ऊर्जम् बलकरम् अन्नम् । अन्नसाधनोदकम् इति यावत् । दुहानम्1 क्षारयन्तम् अनपस्फुरन्तम् बहुच्छिद्रसाहित्येपि अ- विदीर्यमाणं सम्यक् शोभमानं वा सहस्रच्छिद्रं कुम्भं पितरः प्रेतभू- ताः। पूजायां बहुवचनम् ।स्वधाभिः । ( हेतौ तृ- तीया । स्वप्रीणनसाधनैरन्नैर्हेतुभिः उपासते सेवन्ते उपगच्छन्ति ॥ सप्तमी॥ इदं कसाम्बु चयनेन चितं तत संजाता अव पश्यतेत । मर्त्योयममृतत्वमेति तस्मै गृहान् कृणुत यावत्सबन्धु ॥ ३७ ॥ इदम् । कसाम्बु । चयनेन । चितम् । तत् । सऽजाताः । अव । पश्यत । आ। इत। मर्त्यः । अयम् । अमृतऽत्वम् । एति । तस्मै । गृहान् । कृणुत । यावतऽस- बन्धु ॥ ३७॥ हे सजाताः सहजन्मानः समानकुले जाता गोत्रिणः यूयं चयनेन 2सं- चयनकर्मणा चितम् संचितम् एकत्र समूहीकृतं तद् इदं कसाम्बु कसाः कीकसाः अस्थीनि । आदिवर्णलोपरछान्दसः ।3कसाश्च अ- म्बूनि च कसाम्बु ।द्वन्द्वैकवद्भावः । पूर्वमन्त्रेण अस्थ्नाम् उदकेन आप्लावनम् उक्तम् । उदकाप्लावितान्यास्थीनि अव पश्यत अ- वधानेन ईक्षध्वम् । एत आगच्छत ॥ अयं मर्त्यः मरणधर्मा प्रेतः अमृतत्वम् एति अमरणधर्मं प्राप्नोति । तस्मै तदर्थं गृहान् स्थानानि कृणुत कुरुत । यावत्सबन्धु यावन्तः सबन्धवः समानगोत्रा भवथ ते Bi foret. Pfarrei. We with ACRVDEC P Sayanı's text in S alone renes raatt. All our Saüliti-SS. correctly real peace, and the pacli-MSS. KC मत्यों ३०. De मोयमclhungel to मोश्यम' and rechang- ed to AitTh°. We with BRV Dc. 15 दुहानां. 28 प्रसंचयन for संचयन. 38 कसांश्च. पश्यत । आ । इत 1. [अ०४. सू०४.] ५४४ अष्टादशं काण्डम। २१५ सर्वे यूयं तस्मै प्रेताय गृहान कुरुतेति । तस्यास्थिनिरीक्षणमेव परलोके स्थानकरणम् इत्यर्थः ॥ अष्टमी॥ इहैवैधि धनसनिरिहचित्त इहक्रतुः । इहैधि वीर्यवितरो वयोधा अपराहतः ॥ ३ ॥ इह । एव । एधि । धनऽसनिः । इहऽचितः । इहऽक्रतुः । इह । एधि । वीर्यवत्ऽतरः । वयःऽधाः । अपराडहतः ॥ ३ ॥ हे दीपपांसुष्वाहित 1उल्मुक त्वम् इहैव पांसुलक्षणे प्रदेश एव एधि भव । धनसनिः अस्माकं धनस्य दाता भव । "छन्दसि वनस- नरक्षिमद्याम्" इति सनोतेः इन प्रत्ययः । इह अस्मिन् प्रदेशे चितः प्रज्ञातो भव । चिती संज्ञाने । कर्मणि निष्ठा । 'श्वी- दितो निष्ठायाम्" इति इडभावः । इह क्रतुः कर्म अस्मदीयक- र्मसंपादको भव । तथा 2इहैवं प्रदेशे वीर्यवत्तरः अत्यन्तं बलवान् व- योधाः । वय इति अन्ननाम । तस्य धाता विधाता अपराहतः शत्रुभिर- पराजितश्च सन् एधि भव । अस्तेर्लोटि हौ रूपम् ॥ नवमी॥ पुत्रं पौत्रमभितर्पयन्तीरापो मधुमतीरिमाः । स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तिर्पयन्तु ॥ ३९ ॥ पुत्रम् । पौत्रम् । अभिऽतर्पयन्तीः । आपः । मधुऽमतीः । इमाः । स्वधाम् । पितृऽभ्यः । अमृतम् । दुहानाः । आपः । देवीः । उभयान् । त- र्पयन्तु ॥ ३९ ॥ मधुमती: मधुररसोपेता इमा आचमनार्हा आपः पुत्रम् अव्यवहितं १K वैधि धनसनि. D• वैधि धनसनि° chungeel to वैधि धनसनि. We with BC R V Dc. Kधीर्यवत्तरो. De वीर्यवत्तरो changeil to वीर्यवत्तरो. We with BC R VDe. ३C" धनऽसनिः। xŘ ortafhº. De altafito changed otsafaº. We with BCR V Dc. 18 उन्मुक. 2 Sayana's text rearls : इहैवधि वीर्यवत्तरो. २ २१६ अथर्वसंहिताभाष्ये पुमपत्यं पौत्रम् पुत्रस्य पुमपत्यम् । उभयत्र एकवचनम् अत- न्त्रम् । लिङ्गं तु विवक्षितम् । पुत्रान् पौत्रांश्च अभितर्पयन्ति अ- भितः सर्वतस्तर्पयन्त्यः प्रीणयन्त्यो भवन्ति1 यतः अतः पितृभ्यः स्वीयेभ्यः पिण्डोपजीविभ्यः अमृतम् अमरणसाधनं स्वधाम् आत्मप्रीणनकरम् अ- न्नं दुहानाः प्रयच्छन्त्यो देवीः देव्यो द्योतमाना आपः आचमनीया उ- भयान् पुत्रान् पौत्रांश्च उभयविधान् तर्पयन्तु वर्धयन्तु । अथ वा उभ- यशब्देन स्वीया मातृपितामह्यादयः पितृवंश्याश्च विवक्ष्यन्ते । तान् उभय- विधांस्तर्पयन्तु । पिण्डदानानन्तरं क्रियमाणेन अनेन आचमनकर्मणा तृ- प्तान् कुर्वन्तु । र अस्मिन् पक्षे पितृभ्य इत्यत्र “पिता मात्रा" इति एकशेषो द्रष्टव्यः ॥ दशमी ॥ आपो अग्निं प्र हिणुत पितृरुपेमं यज्ञं पितरो मे जुषन्ताम् । आसीनामूर्जमुप ये सचन्ते ते नो रयिं सर्ववीरं नि यच्छान् ॥ ४० ॥ (३३) आपः । अग्निम् । म। हिणुत । पितॄन् । उप । इमम् । यज्ञम् । पितरः। मे । जुषन्ताम् । आसीनाम् । ऊर्जम् । उप। ये। सचन्ते । ते । नः । रयिम् । सर्वऽवीरम् । नि । यच्छान् ॥ ४० ॥ (२३) हे आपः अवसेचनसाधनभूता यूयम् अग्निम् युष्माभिरवसिच्यमानं द- क्षिणाग्निं पितॄन् पितृपितामहादीन् उप । उपशब्दः समीपवचनः । पितृ- णां समीपं प्र हिणुत प्रेषयत । बर्हिर्दत्तान् पिण्डान् दातुम् इति शेषः ॥ मे मदीयम् इमम् इदानीम् अनुष्ठीयमानं यज्ञम् पिण्डपितृयज्ञाख्यं पि- तरः मदीया जुषन्ताम् सेवन्ताम् । पिण्डान् आस्वादयन्नु । ये पितरः आसीनाम् उपविष्टाम् । आस उपवेशने । "ईदासः" इति ई- कारः । बर्हिषि आसादिताम् ऊर्जम् बलकरपिण्डलक्षणम् अन्नम् ABCKKRPPV De stagra. We with Cr. २ CP ऊर्जे । उभये । सर्चते । for ऊर्जम् । उप। ये । सचन्ते । कार: 18 भवति. २१७ पनम् । [अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । उप सचन्ते स्वीकर्तुं समीपे समवयन्ति ते पितरो नः अस्मभ्यं सर्ववी- रम् । वीराः कर्मणि कुशलाः पुत्रपौत्रादयः । बहुपुत्रादिसहितं रयिम् धनं नि यच्छान् नियच्छन्तु प्रयच्छन्तु । नियमनं नाम स्थैर्येण अवस्था- पनम् । यमेर्लेटि "इतश्च लोपः परस्मैपदेषु” इति इकारलोपः ॥ [इति ] चतुर्थेनुवाके चतुर्थं सूक्तम् ॥ समिन्धते” इति आद्यया ऋचा पिण्डपितृयज्ञे समिधम् आद- ध्यात् । सूत्रितं [हि] । “उपसमादधाति ये निखाताः [१४.२.३४] समिन्धते [१६.४.४१] ये तानृषुः [१६.३.४७] ये सत्यासः” [१६. ३.४.] इति [कौ०११...] "यास्ते धानाः" [४३] इत्यस्या अस्थिषु तिलमिश्रधानाविकिरणे वि- नियोग उक्तः ॥ 'इदं पूर्वम्” [४४] इत्यनया दहनार्थं प्रेतम् उत्थाप्य शकटे निदध्यात् ॥ "सरस्वतीं देवयन्तः" [४५] इति तिसृणां प्रेतशरीरे अग्निदानानन्तरं सारस्वतहोमे विनियोग उक्तः ॥ 'पृथिवीं वा” [४] इत्यनया सवयज्ञेषु मृगोमयादिना चरुस्थालीम् आलिम्पेत् । पृथिवीं त्वा पृथिव्याम् इति कुम्भीम् आलिम्पति" इति [को०६.२.] सूत्रं प्रागेव प्रदर्शितम् ॥ "आ प्र च्यवेथाम्" [४९] इति ऋचा प्रेतवाहनवृषभौ अभिमन्त्य कर्ता गृह्णीयात् ॥ पितृमेध एव चतुर्थेऽहनि “एयमगन" [५०] इति ऋचा दक्षिणारूपां गाम अभिमन्त्य प्रतिगृह्णीयात् ॥ < 6 तत्र प्रथमा। समिन्धते अमर्त्यं हव्यवाहं धृतप्रियम् । स वेद निहितान् निधीन् पितॄन् परावतो गतान् ॥ ४१ ॥ सम् । इन्धते । अमर्त्यम् । हव्यवाहम् । घृतऽप्रियम् । सः । वेद । निऽहितान् । निऽधीन् । पितॄन् । पराऽवतः । गतान् ॥४१॥ २८ २१ अथर्वसंहिताभाष्ये ___ अमर्त्यम् अमरणधर्माणं घृतप्रियम् प्रियं प्रीतिकरं घृतम् आज्यं य- स्य । “वा प्रियस्य” इति प्रियशब्दस्य पूर्वनिपातविकल्पनाद अत्र परनिपातः । आज्येन अग्निः प्रवृद्धज्वालो भवतीति घृतप्रिय- त्वम् । हव्यवाहम् हव्यस्य हविषो वोढारम् अग्निं समिन्धते समिन्धन- साधनैः काष्ठैः सम्यग् दीपयन्ति कर्तारः । इन्धेर्लटि बहुवचने रूपम् । यद्वा तस्मादेव धातोलेंटि 1अडागमः । स- मिद्भिः समिन्धीत । यतः सोग्निः निहितान् भूमौ स्थापितान् निधीन् निक्षेपान् । लुप्तोपमम् एतत् । यथा 2भूम्यां निगूढा निधयः प्रदर्शकेन विना न प्रकाशन्ते एवं पितरोपि पुरःस्फूर्तिका न भवन्ति । 3निधीनिव स्थितान् परावतः । परावच्छब्दो दूरवाची। पराशब्दाद् “उपस- र्गाच्छन्दसि.” इति वतिप्रत्ययः । अतिदूरान् देशान् गतान् प्रा- प्तान् पितृन् वेद जानाति । अस्य पितरः अत्र देशे वर्तन्त इति स- म्यग् जानाति । वेतेः “विदो लटो वा” इति तिपो णल् आदेशः । अतः समिन्धत इति संबन्धः ॥ द्वितीया॥ यं ते मन्थं यमोदनं यन्मांसं निघृणामि ते। ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्श्रुतः ॥ ४२ ॥ यम् । ते। मन्थम् । यम् । ओदनम् । यत् । मांसम् । निऽपृणामि । ते। ते । ते । सन्तु । स्वधाऽवन्तः । मधुऽमन्तः । घृतऽश्चुतः ॥ ४२ ॥ प्रेतस्य हि प्रीणनाय सक्तुमन्यादयः प्रदीयन्ते । “ये अग्नयः [३. २१.१] इति दशर्चेन पलाशपर्णैः सक्तुमन्यं विकिरेत्” इति हि सूत्रम् [कौ०११.३] । “अपूपवान् मांसवान्" [२०] इति “अन्नवान्" [२१] इति च मन्त्रयोर्मासान्नदानं विहितम् । उपलक्षणम् एतत् क्षी- १ KCR मन्थ. D: यंत मंथं clingtol to यं ते मंथ. C मधम् ।. Elsexhere the worl is मन्थ:. As for the anssage in the kuntia (३. ३.) it is authority at all. We with VDr. २ पृणामि ते. D पृणामि ते changeal to प्रणामि ते. We with BCE VDr. ३ Cr °युतः।. 1S आडा. = I भ्यां for भूम्यां. : s las अत: yefore निधीनिय [अ॰ ४. सू०४.] ५४४ अष्टादशं काण्डम् । २१९ रौद1नदध्योदनतिलमिश्रधानादेः । यन्मन्थादिकम् हे प्रेत ते तुभ्यं निपृ. णामि ददामि । निपरणं नाम पित्र्योपवीतिना पराचीनपाणिना पित्रर्थ चोदितद्रव्यस्य प्रक्षेपः । ते मन्यादयः ते तव स्वधावन्तः बह्नन्ना [मधुम- न्तः] मधुयुक्ता [घृतश्श्रुतः] घृतसहिताश्च [सन्तु] भवन्तु ॥ तृतीया ॥ यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः । तास्तै सन्तूद्भ्वी प्रभ्वीस्तास्तै यमो राजानु मन्यताम् ॥ ४३ ॥ याः । ते । धानाः । अनुऽकिरामि । तिलमिश्राः । स्वधाऽवतीः । ताः। ते । सन्तु । उत्ऽभ्वीः । प्रऽभ्वीः । ताः । ते । यमः। राजा । अनु । मन्यताम् ॥ ४३ ॥ “यास्ते धानाः” इति तृतीया ऋग् अस्मिन्नेवानुवाके तृतीयसूक्ते व्या- ख्याता [२६] ॥ चतुर्थी॥ इदं पूर्वमपरं नियानं येना ते पूर्व पितरः परेताः। पुरोगवा ये अभिशाचो अस्य ते त्वा वहन्ति सुकृतामु लोकम् ॥४४॥ इदम् । पूर्वम् । अपरम् । निऽयानम् । येन । ते । पूर्वे । पितरः । पराऽइताः । पुरःऽगवाः । ये । अभिऽशाचः । अस्य । ते । त्वा । वहन्ति । सुऽकृताम् । ऊं इति । लोकम् ॥ ४४ ॥ इदं नियानम् । नीचीनं पराङ्मुखं यान्ति अनेन प्रेता इति नियानं शकटम् । इदं पुरोवर्ति प्रेतवहनाय संनद्धं नियानं शकटं पूर्वम् पुरातनम् अपरम् अद्यतनं2 च । पूर्वेषां प्रेतानां वहनाय एतदेव शकटम् अपरे- १ B °गवा. C गवा. We with R.VD. २ KR C अभिशाचौ. D.: अभिशाचौ chung. el to अभिषाचौ. vwith sajana. PF अभिऽशाचः।. Cr अभिऽशाचः1. अभिशाचः ॥1 Pears to the the ancient reading of the Athaarrn. 15. क्षीरोदन. पूर्वश्चातनं tor अद्यतनं. २२० अथर्वसंहिताभाष्ये षाम् इदानींतनानामपि इदमेव शकटम् इति पूर्वम् अपरं चेत्युच्यते । पूर्त्ववमेव उपपादयति । येन शकटेन ते तव पूर्वे पुरातनाः पितरः प- रेताः इतः पराङ्मुखं गताः ॥ अस्य अपरस्य इदानीं संनह्यमानस्य श- कटस्य अभिषांचः अभितः पार्श्वद्वये सचमानाः संगच्छमानाः पुरोगवाः शकटस्य पुरस्ताद्भागे धुरि युज्यमानाः अनड्वाहो ये सन्ति । “गो- रतद्धितलुकि" इति टच समासान्तः । ते पुरोगवास्त्वा त्वां सु. कृताम् सुकृतकर्मणाम् । उशब्दः अवधारणे । लोकमेव वहन्तुं प्राप- यन्तु । वहिर्ट्ढिकर्मकः ॥ पञ्चमी॥ सरस्वती देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने। __ सरस्वती सुकृतो हवन्ते सरखती दाशुषे वार्यं दात् ॥ ४५ ॥ सरखतीम् । देवऽयतः । हवन्ते । सरस्वतीम् । अध्वरे । तायमाने। सरस्वतीम् । सुऽकृतः । हवन्ते । सरस्वती । दाशुषे । वार्यम् । दात् ॥ ४५ ॥ "सरस्वती देवयन्तः” [१६.१.४१] इति पञ्चम्याद्यास्तिस्र ऋचः अ- स्मिन्नेव काण्डे प्रथमेनुवाके पञ्चमे सूक्ते व्याख्याताः ॥ षष्ठी ॥ सरस्वती पितरो हवन्ने दक्षिणा यज्ञमभिनक्षमाणाः । आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥ ४६ ॥ सरस्वतीम् । पितरः । हवन्ते । दक्षिणा । यज्ञम् । अभिऽनक्षमाणाः । आऽसद्य । अस्मिन् । बर्हिषि । मादयध्वम् । अनमीवाः । इर्षः। आ।धे- हि । अस्मे इति ॥ ४६॥ सप्तमी॥ सरस्वति या सरथं ययायोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती । सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥ ४७ ॥ 18 वोनड्डाही. [अ० ४. सू०४.] ५४४ अष्टादशं काण्डम् । २२१ सरस्वति । या । सऽरथम् । ययाथ । उक्थैः । स्वधाभिः । देवि । पितृऽभिः । मदन्ती। सहस्रऽअर्घम् । इडः । अत्रै । भागम् । रायः । पोषम् । यज॑मानाय । धे- हि ॥४७॥ अष्टमी॥ पृथिवीं त्वा पृथिव्यामा वेशयामि देवो नो धाता प्र तिरात्यायुः । परापरैता वसुविद् वो अस्त्वधा मृताः पितृषु सं भवन्तु ॥ ४ ॥ पृथिवीम् । वा । पृथिव्याम् । आ । वेशयामि । देवः । नः । धाता । प्र। तिराति । आयुः। पराऽपरता । वसुऽवित् । वः । अस्तु । अध । मृताः । पितृषु । सम् । भ- वन्तु ॥ ४ ॥ पृथिव्याम् पृथिवीविकारभूतायां कुम्भ्यां पृथिवीम् हे मृत्तिके1 त्वा वां मृदम आ वेशयामि आलिम्पामि । मृङ्गोमयादिलेपनेन चरुस्याली त्वा ईषद् 2करोमि । धाता विधाता सर्वस्य देवो नः अस्माकं सवयज्ञानुष्ठातॄणाम् आयुः जीवनं प्र तिराति । प्रपूर्वस्तिरतिर्वर्ध- नार्थः । प्रतिरतु प्रवर्धयतु । प्रपूर्वात् तिरतेलेंटि आडाग- मः । हे पराप3रेताः परावतं दूरदेशं पराङ्मुखम् इतो गता हे पितरः वः युष्माकं वसुवित् वसु अन्नलक्षणं धनम् तस्य 4लम्भयित्री प्रा- पयित्री [अस्तु] भवतु । एषा मृदालिप्ता चरुकुम्भीति लभ्यते ॥ अ- थ परोक्षस्तुतिः । अध अथ चरुवाहाकारानन्तरं पितृषु पितृत्वं प्राप्तेषु पुरातनेषु स्वपूर्वजेषु अमृताः अमरणधर्माणः सन्तः सं भवन्तु संप्राप्ताः संयुक्ता भवन्तु । इदानींतनाः पितरः स्वपूर्वजान् पितॄन् 5संयुञ्जन्तु । भ- वतिरत्र प्राप्त्यर्थः ॥ १PP पराऽपरैता।. CP पराऽपरीता।, prolably a refinement of पराऽपरिता - written for पराऽपारेता - परापरता. 1S inserts पृथिवी after मृत्तिके. त्यपदृढां for स्वा ईषद् दृढां. tyana's text too is परापरेताः. 18 भयित्री for लम्भयित्री. संयुजंतु. २२२ अथर्वसंहिताभाष्ये नवमी ॥ आ प्र च्यवेथामप तन्मृजेथां यद् वामभिभा अत्रोचुः । अस्मादेतमघ्न्यौ तद् वशीयो दातुः पितृष्विहभोजनौ मम ॥ ४९ ॥ आ।म। च्यवेथाम् । अप । तत् । मृजेथाम् । यतं । वाम् । अभिऽभाः। अब । ऊचुः। अस्मात् । आ । इतम् । अन्यौ । तत् । वशीयः । दातुः । पितृषु । इहऽभो- जनौ । मम ॥४९॥ हे प्रेतवाहनवृषभौ युवाम् आ अस्मदभिमुखं प्र च्यवेथाम् शकटात् प्रच्युतौ वियुक्तौ भवेतम् । च्युङ् पुङ् गतौ । भौवादिक आत्म- नेपदी । तत् वक्ष्यमाणं निन्दारूपं वाक्यम् [अप मृजेथाम् ] अ- पमार्जयतं शोधयतम् । मृजेर्लोटि व्यत्ययेन शः । “आतो डि- तः” इति इयादेशः । किं तद् अपमार्जनीयं तद् आह । अ- भिभाः अभिभावका दूषकाः पुरुषाः । अभिपूर्वाद् भवतेः “डो- न्यत्रापि दृश्यते” इति डः। अत्र अस्मिन् प्रेतवहनकर्मणि वाम् युवां यद् ऊचुः पुंगवौ किल अ1स्पृश्यम् अनिरीक्ष्यं प्रेतम् ऊढवन्तौ इत्यादिनिन्दारूपं यद् वाक्यम् उदितवन्तस्तच्छोधयतम् इति । अतो हेतोः हे अध्न्यौ अहन्तव्यौ हे वृषभौ युवाम् अस्मात् निन्दानिमित्ताच्छ- कटाद् एतम् आगच्छतम् । तत् आगमनं वसीयः श्रेष्ठं भवति युवयोः। ततः इहं अस्मिन् पितृमेधे पितृषु। विषयसप्तमी । पितृवि- १K मभिजा. We with AC BR V Dr. २ B अस्मादेतमन्यो तशीयो दातुः पितृविह भोजनौ मम. S A t"xcept tlat it hts भ्यो. KV अस्मादेतमध्यौ तद्वशीयो दातुः पितृष्वि- हभोजनौ मम; V (real- तद्द!). C अस्मादेतमन्यौ तद्वशीयो दातुः पितृनौविहभोजनौ मम. D. अस्मादेतमाम्यौ तद्वशीयो दातुः पितृविहभोजनौ मम, changeal to अस्मादेतमध्यौ तशी- यो दातुः पितृविहभोजनी मम. R अस्मादतमध्यौ तद्वशीयो दातुः पितृविहभोजनौ मम. ३C यत्र | for यत् । वाम् ।. PP यत् । वाम् ।. ४ Cr अस्मान् ।. PF अस्मात् ।। ५ CP इतम् । ६ Cr अन्यौ। PP अध्यौ।. Cr वशीयः ।. "वशायः।. P वशीयः। 15 अज्यस्पृश्यम्. [अ॰ ४. सू०४.] ५४४ अष्टादशं काण्डम् । २२३ षये पितॄन् उद्दिश्य दातुः अग्निं प्रदातिः हविः प्रदातुर्वा मम भोजनौ भोजयितारौ पालयितारौ भवतम् इति ॥ दशमी॥ एयमगन् दक्षिणा भद्रतो नो अनेन दत्ता सुदुघा वयोधाः । यौवने जीवानुपपृञ्चती जरा पितृभ्य उपसंपराणयादिमान् ॥५०॥ (३४) आ। इयम् । अगन् । दक्षिणा । भद्रतः । नः । अनेन । दत्ता । सुऽदुघा । वयऽधाः। यौवने । जीवान् । उपऽपञ्चती । जरा । पितृऽभ्यः । उपऽसंपरानयात् । इ- मान् ॥ ५० ॥ (२४) इयं दक्षिणा गोरूपा नः अस्मान् संस्कर्तृन् भद्रतः कल्याणात् प्रदे- शाद् आ अगन् आगच्छति । गमेर्लुङि “मन्त्रे घस” इति च्लर्लुक् । “हल्ड्या" इत्यादिना तिपो लोपे “मो नो धातोः” इति नावम् । अनेन प्रेतेन दत्ता वितीर्णा सुदुधा सुष्ठु दोग्ध्री वयो- धाः । वय इति अन्ननाम । अन्नस्य क्षीर1लक्षणस्य विधात्री प्रदात्री गोरूपा दक्षिणा यौवने । युवत्या भावो यौवनम् । “हायनान्तयु- वादिभ्योण्” इति अण् प्रत्ययः । यौवनं नाम शरीरस्य मध्या- वस्था तस्याम् । लुप्तोपमम् एतत् । यौवन इव वार्धके जरा उपपृ- ञ्चती [आत्मानं जरया] संपर्चयन्ती सं2योजयन्ती । अपिशब्दः अध्या- हार्यः । [संयोजयन्त्यपि] यौवने वर्तमानेव जी3वात् जीवतु । किं च गो- रूपा दक्षिणा पितृभ्यः पूर्वजेभ्यः । तादर्थ्ये चतुर्थी । इ- मान् अधुना संस्क्रियमाणान् पितृन् उप समीपं संपराणयात् सम्यक् पराङ्मुखं नयतु पूर्वजान् प्रापयतु । उभयत्र लेटि आडागमः ॥ [इति ] चतुर्थेनुवाके पञ्चमं सूक्तम् ॥ १BV De यौवने. kR यौवने. We witli AC. २.चन्ती. ३ BV उपसंपरा. K उपसंपरा. De उपसंपरा changeal to उपसंपरा . We with AC RCr. 19 °लवणस्य. 28 संवर्चयंती. Bhityamit's text also las : जीवादुपपृंचती. २२४ अथर्वसंहिताभाष्ये ___ “इदं पितृभ्यः” इति [५१] प्रथमायाः प्रथमार्धेन चितिकाष्ठानाम् उपरि दर्भान् स्तृणाति । उत्तरार्धेन आस्तीर्णदर्भाया चितौ प्रेतम् उ. त्तानशयं कुर्यात् ॥ तथा श्मशानचयनकर्मणि "इदं पितृभ्यः” इत्यर्धर्चेन गर्ते दर्भान् स्तृ- णीयात् । “तदा रोह" इत्युत्तरार्धेन अस्थीनि तस्मिन् गर्ते निदध्यात् ॥ "एदं बर्हिः” इति [५२] ऋचा कुले ज्येष्ठः अस्थीनि यथापरु सं- चिनुयात् ॥ “पर्णो राजा” इति [५३] ऋचा “अपूपवान् क्षीरवान्" इति म- न्त्रोक्तान् प्रतिदिशं मध्ये च स्थापितान् नव चरून् शतच्छिद्रसहस्रच्छि- द्रादिपात्राणि च मध्यपलाशपत्रैराच्छादयेत् ॥ “ऊर्जों भागः” इति [५४] ऋचा चरून् पात्राणि च पाषाणैरिष्ट- काभिर्वा पिदध्यात् ॥ “यथा यमाय” इति [५५] ऋचा शलाकाभिरिष्टकाभिर्वा प्रसव्यं चितं श्मशानप्रदेशं कुट्टयेयुः । सर्वत्र कर्तुरेव मन्त्रवचनम् । तत्र पितृगृ. हम् [उन्नतं] कुर्यात् “उन्नतं स्वर्गकामस्य" [इति ] श्रुतेः ॥ __"इदं हिरण्यम्” इति [५६] प्रथमार्धेन प्रेतहस्ते विद्यमानं हिर- ण्यम् आज्येन अभिधार्य ज्येष्ठपुत्रेण अग्नावादीपयेत् । “स्वर्गं यतः" इ- त्युत्तरार्धेन पुत्रः प्रेतहस्तं मार्जयेत् ॥ "ये च जीवाः” इति [५७] ऋचा सर्पिर्मधुसहितं चरुद्वयम् अ- भिमन्त्य अस्थिसमीपे निदध्यात् ॥ पिण्डपितृयज्ञे अनया बर्हिषि पित्रर्थं दतान् पिण्डान् घृतेन अभि- धारयेत् ॥ “वृषा मतीनाम्" [१६] इत्यादीनां तिसृणां पितृमेध एव काण्डोक्तो विनियोगोनुसंधेयः ॥ तत्र प्रथमा ॥ इदं पितृभ्यः प्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि । AS BC KR V Dr. Sayant's accent ought to he °जीव as he reals जीवन. 18 यज्ञत्यनया. [अ०४. सू० ४.] ५४४ अष्टादशं काण्डम् । २२५ तदा रोह पुरुष मेध्यो भवन् प्रति त्वा जानन्तु पितरः परैतम् ॥५१॥ इदम् । पितृभ्यः । प्र। भरामि । बर्हिः । जीवम् । देवेभ्यः । उतडतरम्। स्तृणामि। तत् । आ। रोह । पुरुष । मेध्यः । भवन् । प्रति । त्वा । जानन्तु । पितरः । पराऽइतम् ॥५१॥ पितृभ्यः पित्र1र्थम् इदं बर्हिः प्र भरामि प्रहरामि आस्तृणामि । त- स्मिन्नास्तीर्णे बर्हिषि देवेभ्यः देवार्थं जीवन् जीवनवान् अहं संस्कर्ता उत्तरम उपरितनं बर्हिः स्तृणामि । ४ स्तृञ् [आच्छादने । हे पुरुष त्वं मेध्यः ।] मेधो यज्ञः पितृमेधाख्यः । तदर्हो भवन् तत् बर्हिः आ रोह आतिष्ठ । भवतेः शत्रन्तं पदं भवन्निति । पि- तरः पूर्वजाः परेतम् इतः पराङ्मुखं गतं त्वा वां प्रति जानन्तु अनु- जानन्तु । बर्हिरारोहणाय अस्मदीयोयं पितृलोकं प्राप्नोत्विति स्मरन्तु इ- त्यर्थः । “संप्रतिभ्याम् अनाध्याने" इति आध्यानपर्युदासाद् आत्मनेपदाभावः ॥ द्वितीया ॥ एदं बर्हिरसदो मेध्योभूः प्रति त्वा जानन्तु पितरः परेतम् । यथापरु तन्वं१ सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥ ५२ ॥ आ। इदम् । बर्हिः । असदः । मेध्यः । अभूः । प्रति । त्वा । जानन्तु । पितरः । पराऽइतम् । यथाऽपरुं। तन्वम्।सम् । भरस्व । गात्राणि। ते। ब्रह्मणा । कल्पयामि ॥५२॥ हे प्रेत त्वम् इदं चितावास्तीर्ण बर्हिः आ असदः आरुक्षः। पूस- १R तया for तदा. RKCR मेध्यो. D मेध्यो changeel to मेध्यो. We with v pe. ३PP पुरुष । मेध्यः । CP पुरुऽमेध्यः . Our Samhitta authoritics and Siyana's test : पुरुषमेध्यो, and not पुरुमध्यो. ४ ABC K RV DCP पुरु. PP पुरु. We tritli Sayana. See IX.5.4. ५ CP असतः।. ६ CP परि।. PP प्रति । 18 पियर्थम्. २२६ अथर्वसंहिताभाष्ये देर्लृदित्वात् च्लेः अङ् ॥ अतो मेध्यः पितृमेधयज्ञार्हः अभूः । द- हनेन संस्कृतोभूरिति यावत् ॥ प्रति त्वेति पादो व्याख्यातः । जान- न्त्विति लोडन्तं पदं भूतकालपरतया व्याख्येयम् । अथ [वा] क्रिय- माणास्थिसंचयनार्थम् अनुजानन्त्विति यथास्थितम् अस्तु ॥ तन्वम् त- नूम् अस्थिरूपां यथापरु । परुशब्दः पर्ववाची । यथापर्व जीवदवस्था- यां येन संनिवेशेन अस्थीनि संहितानि तं निवेशम् अनतिक्रम्य । प- दार्थानतिवृत्तौ अव्ययीभावः । सं भरस्व संहरस्व । “ह्र- ग्रहोर्भ:" । संधेहि ॥ अहमपि कुले ज्येष्ठः ते तव गात्राणि अङ्गानि अस्थिरूपाणि ब्रह्मणा मन्त्रेण कल्पयामि पूर्वस्थितपर्वानतिक्रमेण समर्थानि संहितानि करोमि ॥ तृतीया ॥ पर्णो राजापिधानं चरूणामूर्जो बलं सह ओजो न आगन् । आयुर्जीवेभ्यो वि दधद् दीर्घायुत्वार्य शतशारदाय ॥ ५३ ॥ पर्णः । राजा । अपिऽधानम् । चरूणाम् । ऊर्जः । बलम् । सहः । ओजः । नः । आ। अगन्। आयुः । जीवेभ्यः । विडदधत् । दीर्घायुऽत्वार्य । शतऽशारदाय ॥ ५३॥ चरूणाम् “अपूपवान् क्षीरवान्" [१६] इति मन्त्रोक्तद्रव्ययुतानां नवा- नां चरूणां पिधानम् आच्छादनभूतः । “वष्टि भागुरिरल्लोपम् अ- वाप्योरुपसर्गयोः” इति अपिशब्दस्य आदिवर्णलोपः। पर्णः पला- शवृक्षः पलाशो राजा यज्ञियत्वात् सर्ववृक्षाणाम् अधिपतिः नः अस्मा- कम् ऊर्जः ऊर्जयति बलवन्तं करोतीति ऊर्जः अन्नरसः। उर्ज बलप्रा- णने । अस्मात् ण्यन्तात् पचाद्यच् । बलम् शारीरं बाह्यं च मनु- ष्यसंपत्त्यादिलक्षणं द्विविधं बलं सहः शत्रुधर्षणसामर्थम् । स- हतेरभिभवार्थाद् असुन् ४ । ओजः तेजः शरीरकान्तिः सर्वधा- १ जीवेभ्यो विदध. D. जीवेभ्यो विदध chungal 10 जीवेभ्यो विध. We with c K RCe. The reading of Vant Dris lugically lax:ttey. But cKRCP are support- ifl by Siyana tul w. therefore follow them. २ 50 our adu-MSS. ३P विदधात् । [अ॰ ४. सू० ४.] ५४४ अष्टादशं काण्डम् । २२७ त्वान्तरभूतः शरीरधारकोष्टमधातुर्वा आ अगन् । सकलचरुपिधायकः पलाशपणे: अस्माकम् उर्जबलाद्यात्मक एव आगच्छतु । यद्वा ऊर्जो ब- लम् 1इत्यादीनि द्वितीयान्तानि पदानि । अन्नादीनि दातुम् आगच्छतु इति क्रियाध्याहारेण योज्यम् । गमेर्लुङि च्लेर्लुक् ॥ न केवलम् अन्नादिदानं किं नु जीवेभ्यः जीवनवद्भ्यः अस्मभ्यम् आयुः जीवनं [विद- धत् ] विदध्यात् प्रयच्छतु। दधातेर्लेटि शुः । “घोर्लोपो लेटि वा" इति धातोः आकारलोपः । “लेटोडाटौ" इति अडागमः । श- तशारदाय । शरच्छब्दः संवासरवाची । शतसंवत्सरपरिमिताय । उ- तरपदवृद्धिश्छान्दसी । दीर्घायुवाची दीर्घायुष्ट्वाय । पृषोद- रादित्वाद् अन्त्यलोपः ५ । चिरकालजीवनाय ॥ चतुर्थी ॥ ऊजों भागो य इमं जजानाश्मांन्नानामाधिपत्यं जगाम। तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥ ५४॥ ऊर्जः। भागः । यः । इमम् । जजान । अश्मा । अन्नानाम् । आधिऽप- त्यम् । जगाम। तम् । अर्चत । विश्वऽमित्राः । हविःऽभिः । सः । नः । यमः । प्रऽतरम्। जीवसे । धात् ॥ ५४॥ ऊर्जः अन्नस्य अस्थिसमीपस्थापितचरुलक्षणस्य भागः संभक्ता। एक- र्तरि व्यत्ययेन धञ् । यो यमः इमं प्रेतं जजान जनयामास । येन2 च यमेन अश्मा यमदेव3त्यचरुपिधायकः पाषाणः अन्नानां चरू- णाम् आधिपत्यम् अधिपतित्वम् उपर्यवस्थायित्वं जगाम प्राप्तवान् । हे विश्वमित्राः विश्वं मित्रं येषां ते सकलोपकारिजनवन्तो हे बान्धवाः तं kभार्ग. We with A BC RV DO. २ श्वानामधिपत्यं जगाम. B°श्मानानामा- धिपत्यं जगाम. Vश्मानानामधिपत्यं जगाम. Do °श्मानामाधिपत्यं जगाम corrected to °इमा- मानामधिपत्यं जगाम. We with AC R. ३ 80 we with BCK RV Dr. ४ Cr अधिऽप- त्यम् ।. Pअधिपत्यम् ।. P आधिपत्यम् ।. ५C जगाम् । 18 इत्यादि. 2S has here a blunk -pace of two or three letters in place of येन च यमेन अ. 38 देवेभ्यः चरु. २२९ अथर्वसंहिताभाष्ये यमं हविर्भिरर्चत प्रीणयत । अर्चतिर्भौवादिकः । स यमः नः अस्मान् प्रतरम् प्रकृष्टं जीवसे जीवनाय धात् विदधातु । अयम् अर्धर्चः पूर्वानुवाके व्याख्यातः [१६.३.६३.] ॥ पञ्चमी ॥ यथा यमाय हर्म्यमवपन् पञ्च मानवाः ।। एवा वपामि हर्म्यं यथा मे भूरयोडसत ॥ ५५ ॥ यथा । यमाय । हर्म्यम् । अवपन् । पञ्च । मानवाः । एव । वपामि । हर्म्यम् । यो । मे । भूरयः । असत ॥ ५५ ॥ पञ्च पञ्चसंख्याका मानवाः मनोरपत्यादिजनाः । निषादपञ्चमाश्चत्वा- रो वर्णाः पञ्च जना इति हि यास्कः [नि°३.] । अथ वा देवमनु- ष्यादयः पञ्च जनाः । तथा च ऐतरेयकब्राह्मणे समानायते । “सर्वेषां वा "एतत् पञ्चजनानाम् उक्थं देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां “च । एतेषां वा एतत् पञ्चजनानाम् उक्थम्" इति [ऐ ब्रा०३.३१] । एते पञ्च जना यथा येन प्रकारेण यमाय प्रेताधिपतये हर्म्यम् निवास- स्थानं सौधम् अवपन् निर्मितवन्तः एष एवं हर्म्यम् स्थानम् उन्नतं पितृ- गृहम् आंवपामि मृतिकया संपादयामि प्रेतनिवासार्थ विदधामि । यथा येन प्रकारेण मे मदीया बान्धवा यूयं भूरयः बहवः असत स्यात । प्रेतो1न्नतस्थानाकरणे बान्धवानां प्रत्यवायो भवतीति उन्नत2पितृगृहकर- णम् । अस्तेर्लेटि अडागमः ॥ षष्ठी ॥ . इदं हिरण्यं बिभृहि यत् ते पिताबिभः पुरा। स्वर्गं यतः पितुर्हस्तं निर्मृड्ढि दक्षिणम् ॥ ५६ ॥ १ ABC KR V D• °सतः. PF असतः 1. We with Cr. २kपितु.. D पितु (correctel re) पितु. Co पितुः।. We with R V. ३K निर्मेडि दक्षि. We with CR VDe. 18 प्रेतथोनाकरण. 2Shusabunk space for alrmt four letters instead ol उन्नतपि. [अ०४ सू०४.] ५४४ अष्टादशं काण्डम् । २२९ इदम् । हिरण्यम् । बिभृहि । यत् । ते । पिता । अबिभः । पुरा। स्वःऽगम् । यतः । पितुः । हस्तम् । निः । मृड्डि । दक्षिणम् ॥ ५६ ॥ हे प्रेत इदं हिरण्यम् सुवर्णनिर्मितम् अङ्गुलीयं पिपृहि पूरय । आ- ज्येन अभिधारयेत्यर्थः । पृ पालनपूरणयोः । जौहोत्यादिकः । "अतिपिपत्र्योश्च" इति अभ्यासस्य इत्त्वम् । यत् हिरण्यं ते तव पिता पुरा पूर्वम् अबिभः भृतवान् हस्ते धारितवान् । डुभृञ् धारणपोषणयोः । [शपः] नुः । “भृञाम् इत" इति अभ्यासस्य इ- त्त्वम् । तिपि धातोर्गुणे "हल्ड्या" इत्यादिना तिपो लोपे विसर्जनी- यः । स्वर्गम् सुखेन गन्तव्यं कर्मार्जितं लोकं यतः गच्छतः पितुः जनकस्य दक्षिणं हस्तं निर्मृड्डि निर्मार्जय शोधय । हिरण्यस्य दक्षिणहस्ते धारणात् तस्य प्रमार्जनम् । मृजेः आदादिकात् लोटि हित्वधि- त्वादिकार्याणि ॥ सप्तमी॥ ये च जीवा ये च मृता ये जाता ये च यज्ञियाः । तेभ्यो घृतस्य कुल्यैतु मधुधारा व्युन्दती ॥ ५७ ॥ ये। च । जीवाः । ये। च । मृताः । ये । जाताः । ये। च । यज्ञियाः । तेभ्यः । घृतस्य । कुल्या । एतु । मधुऽधारा । विऽउन्दती ॥ ५७ ॥ ये जीवाः जीववन्तः ये मृताः परासवः । समुञ्चयार्थाश्चकाराः । ये जाताः जनिमन्तः उत्पन्नाः ये र्जज्ञियाः जनिष्यमाणाः जज्ञिम् उत्पत्तिं यान्ति गच्छन्तीति जज्ञियाः । जनी प्रादुर्भावे । “आदृगम- हनजनः" इति किमत्ययः । लिड्घद्भावाद् द्विर्वचनादि कार्यम् । ज- ज्ञिपदोपपदाद् यातेर्विच् प्रत्ययः । तेभ्यः जीवादिभ्यः सर्वेभ्यस्तद- . See foot-note २ on the previous page. २ BK CV Dc कुल्यैतु. We with R Cr. ३ B मधुधारा. CV मधुधारा. Dc मधुधारा corrected to मधुधारी. Cr मधुऽधारा chang- ed to मधऽधारा।. We with kB. Y PP कुलमा।. Cr कुल्या । २३० अथर्वसंहिताभाष्ये र्थ मधुधारांः मधुप्रवाहान् व्युन्दती विशेषेण सिञ्चती अभिवर्षन्ती घृतस्य आज्यस्य कुल्या कृत्रिमा सरित् एतु तत्प्रीणनाय गच्छतु ॥ अष्टमी॥ वृषां मतीनां पवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः । प्राणः सिन्धूनां कलशाँ अचिक्रददिन्द्रस्य हार्दिमाविशन्मनीषया ॥५॥ वृषो । मतीनाम् । पवते । विऽचक्षणः । सूरः । अह्नाम् । प्रऽतरीता । उ. ष,ाम् । दिवः । प्राणः । सिन्धूनाम् । कलशान् । अचिक्रदत् । इन्द्रस्य । हार्दिम् । आऽवि- शन् । मनीषयां ॥ ५ ॥ पितृत्वं प्राप्ताः पुरुषा धूमादिमार्गेण पितृलोकं प्राप्य सोमयागादिज- नितसुकृतफलम् उपभुञ्जते । अतः अनया पित्र्यप्रकरणे सोमः स्तूयते । मतीनाम् मन्तॄणां स्तोतॄणां वृषा वर्षिता अभिमतफलवर्षकः मती- नाम् स्तुतीनां वा वर्षकः स्तुतिविषये1 विचक्षणः विशेषेण द्रष्टा स- र्वस्य सर्वैर्वा द्रष्टव्यः सोमः पवते । पवतिर्गतिकर्मा । ग- च्छति दशापवित्रात् स्यन्दते । यद्वा । पूञ् पवने । व्यत्ययेन क- र्मणि कर्तृप्रत्ययः शप् । पूयते शोध्यते अध्वर्युभिः । अह्नाम् । अहोरात्राणाम् इत्यर्थः । सूरः प्रेरयिता निष्पादयिता । पू प्रेरणे औणादिको रक् प्रत्ययः । उषसाम् उषःकालानां दिवः द्युलो- कस्य च प्रतरीता प्रवर्धयिता । *तरतेस्तृचि “वृतो वा" इति इ- डागमस्य दीर्घः। सिन्धूनाम स्यन्दमानानां वसतीवरीणाम अ- पां प्राणः प्राणभूतः स्वात्मरूपत्वेन् कर्ता सोमः कलशान् द्रोणकलशपूत- भृदावनीयान् ऐन्द्रवायवादिग्रहान् वा । अभिलक्ष्य इत्यध्याहारः । अ- चिक्रदत अत्यन्तं शब्दायते । अथ वा कलशान् अचिक्रदत् धारापातध्व- १० प्रतरीता उपसौ. R प्रतरीत उषसौ. D प्रतरीत उघसी corrected to प्रतरीतोषसौ. PP esattat: 1. Crusader: 1. We with ABÃV De. प्रेरणे। IS . [अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । २३१ निना तद्वतः करोति । यद्वा कलशान् अचिक्रदत कामयते ॥ ततः इ- न्द्रस्य सवनत्रये यष्टव्यस्य हार्दिम । हृदयम् इत्यर्थः । हृदयमेव हा- र्दिम्1 । पृथ्वादिषु पाठो द्रष्टव्यः । वार्थिकश्चमनिच् अवगन्त- व्यः । हृदययुक्तं जठरं वा मनीषया मनस ईषया यथामनोभि- लाषम् अविशंत प्रविशति । यद्वा मनीषया मननीयया इष्यमाणया धा- रया अविशत् ॥

नवमी॥

त्वेषस्तै धूम ऊर्णोतु दिवि षच्छुक आततः । सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥ ५९ ॥ त्वेषः । ते । धूमः । ऊर्णोतु । दिवि । सन् । शुक्रः । आऽततः । सूरः । न । हि । द्युता । त्वम् । कृपा । पावक । रोचसे ॥ ५९ ॥ अत्र प्रेताग्निः स्तूयते । हे प्रेताग्ने ते तव त्वेषः दीप्तो धूमः ऊर्णो- तु आच्छादयतु अन्तरिक्षं कर्म सर्वत्र मेघात्मना परिणतः । अथ वा त्वेषः. त्विष दीप्तौ । “अन्येभ्योपि दृश्यते” इति विच् प्रत्य- यः । लघूपधगुणः । द्वितीयाबहुवचनम् शस् । व्यत्ययेन अन्तोदात्त- त्वम् । दीप्तीः सूर्यस्य त्वदीयो धूम ऊर्णोतु । दिवि अन्तरिक्षे सन् भवन् शुक्रः 2शोचिष्मान् आततः विस्तीर्णः ॥ किं च हे पावक शो- धक दाहक प्रेताग्ने त्वं सूरो न सूर्य इव । हि इति पूरणः । द्युता दीप्त्या रोचसे दीप्यसे कृपा। तृतीयायाः पूर्वसवर्णदीर्घः । कृ- पया स्तुत्या सहितः । स्तूयमान इत्यर्थः ॥ दशमी॥ प्र वा एतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिरः। मर्य इव योषाः समर्षसे सोमः कलशे शतयामना पथा ॥ ६० ॥ (२५) १ ऊर्णोति 1. Cr अर्णोति। Pऊर्णोतु ।. २ CP नहि ।. ३ * संगिरः. D: संगिरः claung. al to fifTe:. We with BCRVDE x 80 BCËR V CPD. 13 हृदयमेवा 10 हृदयमेव हार्दिम.. शोचयिष्मान्. २३२ अथर्वसंहिताभाष्ये प्र। वै । एति । इन्दुः । इन्द्रस्य । निःऽकृतिम् । सखा । सख्युः । न ।। मिनाति । समऽगिरः। मर्यःऽइव। योषाः। सम्। अर्षसे। सोमः। कलशे। शतऽयामना। पथा ॥६०॥ पितृलोकाधिपतिः सोमः स्तूयते । इन्दुः स्पन्दमानः सोमः इन्द्रस्य निष्कृतिम् । जठरलक्षणं स्थानम् इत्यर्थः । वै प्रति प्र1गच्छति । वैश- ब्दः प्रसिद्धौ । "अस्मिन् यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुम् इन्द्र इति हि मन्त्रवर्णः [ऋ०३.३५.६] ॥ सखा सखेव हित- कारी सोमः सख्युः अभिषवस्तोत्रादिना सखिभूतस्य यष्टुः संगिरः सं- गीर्यमाणानि इदमेव फलं सोमादेव लभेय इत्येवं प्रतिज्ञायमानानि का- म्यमानानि वस्तूनि न प्र मिनाति न हिनस्ति मोघानि न करोति किं तु प्रयच्छति । यद्वा सखा सोमः सख्युः इन्द्रस्य संगिरः । ए- कवचनस्य बहुवचनम् आदेशः । संगिरम् । उदरम् इत्यर्थः । संगिरति 3निर्गिरति अत्र ओदनादिकम् इति व्युत्पत्तेः । न प्र हिनस्ति शून्यं न करोति । सर्वदा स्वेन पूर्णं करोतीत्यर्थः । xमीञ्4 हिं- सायाम् । “मीनातेर्निंगमे" इति ह्रस्वत्म् ४ ॥ मर्य इव मर्यो म- रणधर्मा मनुष्यः यथा योषा । तृतीयाया आकारः। यो- षया युवत्या संगच्छते एवं सोमः कलशे सोमाधारे द्रोणकलशे शतया- म्नां शतयानेन पथा मार्गेण समर्षसे । पुरुषव्यत्ययः ।श- मर्षते संगच्छते । ऋषी गतौ । भौवादिकः । व्यत्ययेन आत्म- उदकमिश्रितस्य सोमरसस्य दशापवित्रात् स्पन्दनसमये बहुधारासद्भावात् शतयाम्नेत्युक्तम् ॥ [इति ] चतुर्थेनुवाके षष्ठं सूक्तम् ॥ पिण्डपितृयज्ञे “अक्षन्नमीमदन्त" इति प्रथमया ऋचा पिण्डोपस्था- नानन्तरम् उत्तरपरिषेकं कुर्यात् ॥ १CP निःऽकृतिम् । २ 50 our pada-MSS. ३CP अर्षते ।. " अर्षते । 1% प्रयच्छति. 23 दुरम् for उदरम्. BS निगरति. 4S माङ्- स- नेपदम् । " 66 “ [अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । २३३ आ यात पितरः इति [६२] ऋचा पिण्डदानार्थ स्तीर्णे बर्हिषि तिलान् प्रकिरेत् ॥ "परा यात" इति [६३] ऋचा पितृन् विसर्जयेत् ॥ पिण्डपितृयज्ञ एव अनया सांय1वनांस्तण्डुलान् जुहुयात् ॥ पिण्डपितृयज्ञे “अभूद् दूतः” इति [६५] ऋचा समिदाधानानन्तरं सर्वप्रणीतम् अग्निं प्रत्यानयेत् । सूत्रितं हि । 'अभूद् दूत इत्यग्निं "त्रिः प्रत्यानयति यदि सर्वः प्रणीतः स्यात् । दक्षिणानौ त्वेतद् आहि- "ताग्नेः । गृह्येप्यनाहिताग्ने-” इति [को०११.१०] ॥ "असौ हा इह ते” इति [६६] द्वाभ्यां श्मशानदेशं विषमसंख्या- काभिः शलाकाभिरिष्टकाभिर्वा प्रसव्यं चिनुयात् ॥ “येस्माकं पितरः” इति [६] अर्धर्चेन पिण्डप्रदानार्थं बर्हिः स्तृणीयात् ॥ "उदुत्तमम्" इति [६९] ऋचा शवदाहानन्तरं सर्वे ब्राह्मणाः स्नानं कुर्युः ॥ 'प्रास्मत् पाशान्” इति [७०] ऋचं पितृमेधे दशरात्रपर्यन्नं सायं- प्रातः स्वस्ययनार्थं [पठेयुः] ॥ तत्र प्रथमा॥ अक्षन्नमीमदन्त ह्यव मियाँ अधूषत । अस्तोषत स्वभानवो विप्रा यविष्ठा ईमहे ॥ ६१ ॥ अक्षन् । अमीमदन्त । हि । अव । प्रियांन् । अधूषत । अस्तोषत । स्वऽभानवः । विप्रा- । यविष्ठाः । ईमहे ॥ ६१ ॥ अत्र पितरः स्तूयन्ते । अक्षन् अघसन् बर्हिषि दतान् पिण्डान्। अ- द भक्षणे । “लुङ्गनोर्घस्लृ" इति घस्लादेशः । “मन्त्रे घस.” इति च्लेर्लृक् ।“गमहन” इति उपधालोपः । “शासिवसिघसीनां च" इति षत्वम् ।"खरि च” इति चर्त्वेन धकारस्य ककारः । कषयोगे क्षः ।'लुङ्लङ्” इति अडागम उदातः । पादादित्वाद् अनिघा- ! Rutit. Å v gatitzt. De tre for corrcetal to gratinat. Poubtful. अप्रियान् ।. C अप्रियान् ।. We witli CBV. 1 So S. MSS. of Kensiku auud Kos'ara (XI. 9): ARIFTO. 28°° ३० 6 २३४ अथर्वसंहिताभाष्ये तः । अमीमदन्त । हिशव्दश्चार्थे । तिङ उत्तरत्वाद् नि- पाताभाव: । पिण्डभक्षणेन तृप्ताश्च अभूवन् ।मद तृप्ति- योगे । चुरादेरात्मनेपदिनश्चङि रूपम् । यद्वा हिशब्दो हेत्वर्थे । यतस्तृप्ता अतः प्रियान स्वकीयान् देहान् अवाधूषत अकम्पयन् । अ- तिशयितरसास्वादनेन 1गन्तुम् अशक्नुवन्तः शरीराण्येव अकम्पयन् । धू विधूनने । कुटादिः । लुङि सिच् । 'गाङ्कुटादिभ्यः" इति सिचो ङित्त्वाद् गुणाभावः । व्यत्ययेन आत्मनेपदम् । अनन्तरं स्वभान- वः स्वायत्तदीप्तयः पितरः अस्तोषत अस्ताविषुरस्मान् साधु कृतम् इ- ति । ष्टुञ् स्तुतौ । लुङि सिच् । “सार्वधातुकार्धधातुकयोः" इ. ति गुणः । एवं पिण्डभक्षणेन तृप्तान् पितृन् विप्राः मेधाविनो यविष्ठाः युवतमा वयम् ईमहे । याञ्जाकर्मा । याचामहे स्वेष्टानि फलानि । ईङ् गतौ । देवादिक आत्मनेपदी । श्यनो लुक् बाहुलकात् ॥ द्वितीया ॥ आ यात पितरः सोम्यासो गम्भीरैः पथिभिः पितृयाणैः । आयुरस्मभ्यं दधतः प्र॒जां च रायश्च पोषैरभि नः सचध्वम् ॥ ६२ ॥ आ । यात । पितरः । सोम्यासः । गम्भीरैः । पथिऽभिः । पितृऽयानैः । आयुः । अस्मभ्यम् । दधतः । प्रजाम् । च । रायः । च । पोषैः । अभि। नः । सचध्वम् ॥ ६२॥ हे पितरः सोम्यासः सोमार्हा यूयम् आ यात आगच्छत गम्भीरैः दुर्गमैः पितृयाणैः पितरो यान्ति एभिरिति तैः पथिभिः मार्गैः । आ- गत्य च अस्मभ्यं पिण्डदानार्थ 2स्तीर्णे बर्हिषि तिलान् विकिरभ्यः आयुः बहुकालजीवनं प्रजाम् प्रकर्षण जायमानां पुत्रपौत्रादिलक्षणां संतति च दधत धत प्रयच्छत ।

दधातेर्लेटि “घोर्लोपो लेटि" इति धा-
  • B truſt. \Ve with ACKRV De.

18' शक्तुम्. 2 स्तीर्ण. [अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । २३५ तोराकारलोपः । अडागमः । यद्वा दध धारणे । भौवादिक आत्मनेप- दी । अत्र व्यत्ययेन परस्मैपदम् । अथ वा श्लुश्च शश्चेति विकरणव- यम् । शस्य ङित्त्वात् "श्नाभ्यस्तयोरातः" इति आकारलोपः। किं च नः अस्मान् रायः धनस्य पोषैः समृद्धिभिः अभि सचध्वम् अभि- तः समवेत । रविपोषेण अस्मान् संयोजयतेति ॥ तृतीया ॥ परा यात पितरः सोम्यासौ गम्भीरैः पथिभिः पूर्याणैः । अधा मासि पुनरा यात नो गृहान् हविरत्तुं सुप्रजसः सुवीराः ॥६३॥ परा । यात । पितरः । सोम्यासः । गम्भीरैः । पथिऽभिः । पूःऽयानैः । अध । मासि । पुनः । आ । यात । नः । गृहान् । हविः । अत्तुम् । सुऽ- प्रजसः । सुऽवीराः ॥ ६३ ॥ हे पितरः सोम्यासो यूयं पूर्याणैः पू: पुरं स्वीयः पितृलोकस्तं यानित 1एभिरिति पूर्याणास्तैः स्वपुरप्राप्तिसाधनैः गम्भीरैः पथिभिः परा यात इतः पराङ्मुखा यात स्वस्थानं गच्छत ॥ अध अथ अनन्तरं मासि मासे पूर्णे । अमावास्यायाम् इत्यर्थः । हविरत्नून् हविरदन्ति2 एषु गृहेष्विति ते हविरत्नवः तान् हविर्भक्षस्थानभूतान् नः अस्मदीयान् गृ- हान् पुनरा यात आगच्छत । किंविशिष्टान् । सुप्रजसः । प्रजा सं. ततिः पुत्रलक्षणा । शोभनपुत्रयुक्तान् । "नित्यम् असिच् प्रजा- मेधयोः" इति असिच् समासान्तः । सुवीराः । वीरः कर्मणि कुशलः पौत्रादिः । शोभनपौत्रादिसमेतान्। शप्तो जसादेशः। ए वं3विधान् गृहान् आ यात । पितॄणां वा विशेषणम् । 4शोभनप्रजसः सुवीराः सन्तः अस्मभ्यं पुत्रपौत्रादिलक्षणां संततिं दातुं पुनरायातेति संबन्धः ॥ Sâyama's gracias woulil perluupis require us to read orgfaceast. Only C has विररने सु. De हविरत्न. Cr हविः। अनुम् । changent to हविः । अत्तुम् ।. P हविः । अ- स्तुम् । " हविः । अत्लुम् ।. So that none real in conformity with the accent which Siyaņa’s reading implies. We with A BÄRV PC. Pa I. Ci sarai 13 येभि. 28 रदंतु.35 त्यधान् for विधान्. ।' शोभनप्रजावीराः. २३६ अथर्वसंहिताभाष्ये "यद् वो अग्निः' इत्यनया चितिस्थानाद् विप्रकीर्णं प्रेतावयवं पुनर- ग्नौ प्रक्षिपेत् । सैषा सूक्ते चतुर्थी॥ यद् वो अग्निरजहादेकमङ्ग पितृलोकं गमयञ्जातवेदाः। तद् व एतत् पुनरा प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥६४॥ यत् । वः । अग्निः । अजहात् । एकम् । अङ्गम् । पितृडलोकम् । गमयन् । जातऽवेदाः। तत् । वः । एतत् । पुनः । आ । प्याययामि । सऽअङ्गाः । स्वःऽगे। पित- रः । मादयध्वम् ॥ ६४॥ हे प्रेताः वः युष्मान् पितृलोकम् पितृभिरधिष्ठितं स्थानं गमयन् प्रा- पयन् जातवेदाः जातानां वेदिता पुण्यापुण्यकर्मणः यद्वा जातानां कर्म- फलस्य लम्भयिता प्रापयिता अग्निः प्रेतदाहकः यद् युष्मदीयम् एकम् अङ्गम् अजहात् त्यक्तवान् । चितेर्विप्रकीर्णम् अवयवं नादहद् इत्य- र्थः । .ओहाक त्यागे । जौहोत्यादिकः । [वः युष्माकं तद् एतत् पुरोवर्ति अङ्गम् अवयवं पुनरा प्याययामि अग्नौ प्रक्षेपेण प्रवर्धयामि । यूयं साङ्गाः संपूर्णावयवाः पितरो भूत्वा स्वर्गे मादयध्वम् मोदध्वम्] ॥

पञ्चमी॥ अभूद् दूतः प्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः । पादाः पितृभ्यः स्वधया ते अक्षन्नद्धि वं देव प्रयता हवींषि ॥ ६५ ॥ अभूत् । दूतः । प्रहितः । जातऽवेदाः । सायम् । निऽअह्ने। उपऽवन्धः। नृऽभिः। ? Buda. So we with BCARD. Cr. CRT. P उप । वंद्यः ।. Dc न्यह clhingcd to न्य. We with Do Bk.cp #. ३C अज़हात्।। [अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । २३७ प्र। अदाः। पितृऽभ्यः । स्वधया । ते । अक्षन् । अद्धि । त्वम् । देव । प्रऽ- यता। हवींषि ॥६५॥ [सायं न्वह्ने सायं प्रातः नृभिरुपवन्द्यः मनुष्यैरुपासनीयो जातवेदाः ज्ञातानां वेदिताग्निः दूतः प्रहितोभूत् दूतत्वे नियुक्तः सन् प्रेषितोभूत् अस्माभिः पितॄन् मति ॥ अथ प्रत्यक्षनिर्देशः । हे अग्ने एतादृशस्त्वं पितृभ्यः प्रादाः अस्माभिः प्रयतानि हवींषि प्रयच्छ । ते पितरः स्वधया अक्षन् स्वधाकारेण दत्तानि हवींषि भक्षयन्तु । अनन्तरम् हे देव अग्ने त्वमपि प्रयता1 प्रयतानि तुभ्यमेव दत्तानि हवींषि अद्धि भक्षय ।अ- द भक्षणे । प्राप्तकाले लोट् । पित्रर्थे त्वदर्थ च अस्माभिस्त्वयि हुतानां हविषां पितृभ्यः प्रदानानन्तरं तावकीनहविर्भक्षणस्य कालः प्राप्त इति यावत् ॥ षष्ठी ॥ असौ हा इह ते मनः ककुत्सलमिव जामयः । अभ्ये नं भूम ऊर्णुहि ॥ ६६ ॥ असौ । है । इह । ते । मनः । ककुत्सलमऽइव । जामयः । अभि । एनम् । भूम । ऊर्णुहि ॥ ६६ ॥ असौ इति प्रेतस्य संबोधनम् । हे अमुकनामधेय प्रेत ते तव मनः इह अस्मिन् प्रसव्य2म् इष्टकचिते प्रदेशे वर्तते । हाँ संतोषे ॥ हे भूमे चितश्मशानदेश एनम् अन्वादिष्टम् अत्रैव अवतिष्ठ3मानं प्रेतम् अभ्यू- र्णुहि अभितः सर्वत आवृणु आच्छादय । तत्र दृष्टान्तः । जामयः भ- गिन्यः । उपलक्षणम् एतत् । आता बान्धवाः ककुत्स्थलमिव । ककु- च्छब्दः प्रधानवाची । प्रधानावयवप्रदेशमिव । यथा मात्रादय आप्ता S0 ABC RPC De. KRöth. We with C De. ३ भुम ऊMहि. We with RC De. 1 S omits as much of the commentary of the previous and of this mantra as is cnclosed within brackets and the whole of the text of the latter. The commentary which is supplied is from guessing. 28 प्रसव्याम्.35 अवतिष्ठासमानं. २३ अथर्वसंहिताभाष्ये बान्धवाः पुत्रादीना शिरःप्रभृतीन्यङ्गानि शीतातपवातनिवारणाय वाससा- च्छादयन्ति एवम् । यद्वा जामिशब्दः स्त्रीमात्रपरः । यथा स्त्रियः ककु- त्स्थलम् । ग्रीवापरभागः ककुत् । स्वकन्धरप्रदेशं वाससा पोर्णुवन्ति तद्वत् ॥ सप्तमी । द्विपदा ॥ शुम्भन्तां लोकाः पितृषद॑नाः पितृषदने वा लोक आ सादयामि ॥६७॥ शुम्भन्ताम् । लोकाः । पितृऽसदनाः । पितृऽसदने । वा । लोके । आ । सा- दयामि ॥ ६ ॥ हे प्रेत तव पितृसदनाः पितरः सीदन्ति अत्र इति पितृसदना लो- काः शुम्भन्ताम् प्रकाशन्ताम् । ४ शुभ शुम्भ शोभायाम् । तौदा- दिकः ।अहं संस्कर्ता पितृसदने पितृभिरधिष्ठिते लोके त्वा त्वाम् आ सादयामि स्थापयामि ॥ एकपदाष्टमी ऋक् एवम् आम्नायते । [अष्टमी ॥] येस्माकं पितरस्तेषां बर्हिरसि ॥ ६ ॥ ये। अस्माकम् । पितरः । तेषाम् । बर्हिः । असि ॥ ६ ॥ ये अस्माकं पितरः पितृत्वं प्राप्ताः पूर्वजास्तेषां बर्हिः आसदनस्थानम् असि भवसि । इति पिण्डदानार्थ स्तीर्यमाणं बर्हिः संबोध्यते ॥ नवमी॥ उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय । अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥ ६९ ॥ उत् । उतऽतमम् । वरुण । पाशम् । अस्मत् । अव । अधमम् । वि । म- ध्यमम् । श्रथय। अर्ध । वयम् । आदित्य । व्रते। तव । अनागसः । अदितये । स्याम ॥ ६९ ॥ १ BA 9 10 ३. D: येस्माकं corrected from ये स्मार्क. [अ०४. सू०४.] ५४४ अष्टादशं काण्डम् 1 २३९ एषा पुरस्ताद् व्याख्याता [७.६.३] । वरुणपाशास्त्रिविधा उत्तमा- धममध्य1मभेदेन । तत्र हे वरुण त्वदीयम् उत्तमं पाशम् अस्मत् अ- स्मतः उत् अथाय ऊर्ध्वम् उन्मोचय । अधमम् निकृष्टं पाशम् [अव श्रथाय] अवस्ताद् मोचय । मध्यमं तु पाशं [वि श्रथाय] विश्लेष- य।अन्य प्रतिहर्षविमोचनयोः । क्रैयादिकः । “छन्दसि शायज- पि" इति हो2 शायजादेशः ॥ अर्थ अनन्तरं विमुक्तपाशा वयम् हे आदित्य अदितेः पुत्र वरुण तव व्रते कर्मणि परिचरणरूपे अना- गसः निर्दोषाः प्रायवायरहिताः सन्तः अदितये अखण्डनाय अहिंसायै स्याम इति संग्रहार्थः । दो अवखण्डने । क्तिनि 'द्यतिस्यतिमा- स्यामित् ति 3किति" इति इत्त्वम् ॥ दशमी ॥ प्रास्मत् पाशान् वरुण मुञ्च सर्वान् यैः समामे बध्यते यैर्व्यामे । अधा जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणाः ॥ ७० ॥(२६) प्र । अस्मत् । पाशान् । वरुण । मुञ्च । सर्वान् । यैः । समऽआमे। बध्य- ते। यैः । विऽआमे। अध। जीवेम।शरदम्।शतानि। त्वया । राजन् । गुपिताः। रक्षमाणाः ॥७०॥ हे वरुण वारक देव पाशान् वक्ष्यमाणान् बन्धनसाधनभूतान् सर्वान् अस्मत् अस्मत्तः प्र मुञ्च प्रमोचय । यैः पाशैः समामे ब4ध्यते पुरुषः व्यामे च यैर्बध्यते । व्यामो नाम "व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यग- न्तरम्" इत्येवंविहितप्रमाणकः प्रदेशः । पञ्चारत्निर्व्याम इति याज्ञिकाः । समामो नाम व्यामसंज्ञितमदेशात् संकुचितप्रमाणको देशः । संनिहिते प्रदेशे दूरे प्रदेशे [च] इति यावत् ॥ अध अथ पाशमोचनानन्तरम् हे २K समाने. We with BC R De. ३ k बध्यते. De बध्यते channel 10 बध्यते. Cr बध्यते ।. We with C R Dr. * K TET:. We with ABCRÓPD. 4 Cu tratar. PÝ yfirati. Wc with Cr. IS मध्य. 28 हे.38 कति for किति ध्यते for वध्यते. १. प्रास्म. 66 “ २४० अथर्वसंहिताभाष्ये राजन् वरुण त्वया गुपिताः रक्षिताः पूर्व पालिता रक्षमाणाः । य- गभावश्छान्दसः । रक्ष्यमाणा इतः परमपि पाल्यमाना वयं श- तानि शरदम् शरदः । "कालाध्वनोः" इति द्वितीया ।ब - हुवर्षपर्यन्तं जीवेम जीवनवन्तः स्याम ॥ [इति ] चतुर्थेनुवाके सप्तमं सूक्तम् ॥ पिण्डपितृयज्ञे “अग्नये कव्यवाहनाय” इति त्रिभिर्मन्त्रैः "स्वधा पितृ- भ्यः पृथिविषद्भ्यः” इति अष्टमनवमदशमैश्च त्रिभिः स्थालीपाकं जुहुयात् । सूत्रितं हि । “ये रूपाणि" इति प्रक्रम्य “कुम्भीपाकम् अभिधारयति । "अग्नये कव्यवाहनायेति जुहोति । यथा निरुप्तं द्वितीयां यमाय पितृमते 'स्वधा पितृभ्य इति तृतीयाम्" इति [को० ११.९] ॥ निर्वापप्रकारस्तु एवं कौशिकेन [उक्तः] । “यज्ञोपवीती दक्षिणपूर्वम् अन्तर्देशम् अभि- 'मुखः शूर्प एकपवित्रान्तर्हितान् हविष्यान् निर्वपति इदम् अग्नये कव्य- वाहनाय स्वधा पितृभ्यः पृथिविषद्भ्यः इति । इदं सोमाय पितृमते स्वधा पितृभ्यः सोमवद्भ्यः पितृभ्यो वान्तरिक्षसद्भ्यः इति । इदं यमाय पितृमते स्वधा पितृभ्यश्च दिविषद्भ्यः” इति [को०११..] ॥ पिण्डपितृयज्ञ 1एव "एतत ते प्रततामह स्वधा” इति पञ्चमषष्ठसप्त- मैर्मन्त्रैर्बर्हिषि त्रीन् पिण्डान् संहितान् निदध्यात् । सूत्रितं हि । “उ- 'बद्धृत्याज्येन संनीय त्रीन् पिण्डान् 2संहितान् निदधाति एतत् ते प्रतता- 'महेति" [इति कौ ११.९.] ॥ एतत् सूक्तं सर्वं यजुर्मन्त्रात्मकम् ॥ तत्र प्रथमादितो मन्त्रचतुष्टयपाठस्तु अग्नये कव्यवाहनाय स्वधा नमः ॥ ७१ ॥ अग्नये । कव्यऽवाहनाय । स्वधा । नमः ॥ ७१ ॥ सोमाय पितृमते स्वधा नमः ॥ ७२ ॥ सोमाय । पितृऽमते । स्वधा । नमः ॥ ७२ ॥ 18' यज्ञमेव यज्ञ एव. 250S Katus ikke : संहतान्. 66 “ 66 २४१

[अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । पितृभ्यः सोमवद्भ्यः स्वधा नमः ॥ ७३ ॥ पितृऽभ्यः । सोमवत्ऽभ्यः । स्वधा । नमः ॥ ७३ ॥ यमाय पितृमते स्वधा नमः ॥ ७४ ॥ यमाय । पितृऽमते । स्वधा । नमः ॥ ७४ ॥ दैवहविःप्रापकोग्निः हव्यवाहनः । पित्र्यहविःप्रापकोग्नि कव्यवाहनः । तत्र कव्यवाहनाय कव्यं पित्र्यं हविः । तद्वहते पितृन् प्रापयते । क- व्योपपदाद् वहेञ्र्युट् प्रत्ययः । ञित्वाद् उपधावृद्धिः । तस्मै अ- ग्नये स्वधा स्वधाकारेण इदं हविः हुतम् अस्तु नमः नमस्कारोस्तु । स्वहाकारवषट्कारप्रदाना हि देवाः । स्वधाकारनमस्कारप्रदानाः खलु पितरः । स्वाहाकारवषट्कारौ विकल्पितौ । स्वधानमःशब्दौ समुच्चितौ1 । "स्वधा नम इति वषट्करोति । स्वधाकारो हि पितॄणाम" इति तैतिरी- यकश्रुतेः [तै ब्रा० १. ६.९.५] । “नमःस्वस्तिस्वाहा” इति अग्नय इति चतुर्थी x ॥ एवम् उत्तरे मन्त्रा योज्याः । सोमस्य पि- तरो विशेषणभूताः सोमो वा पितॄणां विशेषणम् ॥ पिण्डप्रदानमन्त्र्वा एवम् आम्नायन्ते । एतत् ते प्रततामह स्वधा ये च त्वामनु ॥ ७५ ॥ एतत् । ते । प्रतितामह । स्वधा । ये । च । त्वाम् । अनु ॥ ७५ ॥ एतत् ते ततामह स्वधा ये च त्वामनु ॥ ७६ ॥ एतत् । ते । ततामह । स्वधा । ये । च । त्वाम् । अनु ॥ ७६ ॥ एतत् ते तत स्वधा ॥ ७७ ॥ एतत् । ते । तत । स्वधा ॥ ७७ ॥ हे प्रततामह प्रपितामह । ततशब्दः पितृवचनः । सृष्ट्यादौ हि प्रजा- पतिना स्वजनकाहानार्थ ततेति तातेति व्याहृतम् । तथा च ऐतरेयकम १ Kc R एतसे ततः. D एतत्ते ततः changed to एतत्से तत. We with V De Ce. 18 समुतौ. २४२ अथर्वसंहिताभाष्ये "एतां वाव प्रजापतिः प्रथमां वाचं व्याहरद् एकाक्षरद्व्यक्षरां ततेति ता. तेति । तयैव तत् ततवत्या वाचा प्रतिपद्यते” इति [ऐ• आ°१.३.३] । अतः प्रशस्तत्वात् ततेति आम्नातम् । आश्वलायनेन तु स्वपित्रादीनां नाम- धेयान्य1जानानः पुत्रस्ततशब्दं प्रयुञ्जीतेति सूत्रितम् । “नामान्यविद्वांस्ततपि- तामहप्रपितामहेति" [इति । आश्व०२.६] । ततामहमततामहेत्यर्थः । यद्वा देवानां परोक्षनामप्रियावात ततेत्यादिना परोक्षनाम्ना व्यवहारः । अथ वा पितृलोकं प्राप्ताः सर्वेपि पितरः । तत्र शृङ्गग्राहिकया स्वजनकादीनाम् आह्वानाय ततेतिशब्दप्रयोगः । हे प्रततामह प्रपितामह तुभ्यम् एतत् पिण्डलक्षणं हविः स्वधाकारेण दतम् अस्तु । ये च पितरः भार्यापुत्रादयः पितरस्त्वाम् अनुसृत्य वर्तन्ते तेभ्योपि स्वधास्तु । ते च अत्र अंशभागि- नो भवेयुरिति ॥ एवम् उत्तरौ मन्त्रौ व्याख्येयौ । हे ततामह पितामह । हे तत पितः । अत्र तृतीये मन्त्रे पिण्डप्रदातरि पुत्रे जीवति सति अ- नुगामिनाम् अन्येषाम् अभावाद् ये च त्वाम् अनु इति मन्त्रशेषो ना-2 म्नात: ॥ अष्टमादिमन्त्रास्त्रय एवम् आम्नायन्ते। स्वधा पितृभ्यः पृथिविषद्भ्यः ॥ 78 ॥ स्वधा । पितृऽभ्यः । पृथिविसतऽभ्यः ॥ 78 ॥ स्वधा पितृभ्यो अन्तरिक्षसद्भ्यः ॥ ७९ ॥ स्वधा । पितृऽभ्यः । अन्तरिक्षसतऽभ्यः ॥ ७९ ॥ स्वधा पितृभ्यो दिविषद्भ्यः ॥ ४० ॥ (२७) स्वधा । पितृऽभ्यः । दिविसतऽभ्यः ॥ १०॥ (२७) पृथिविषयः पृथिव्यां सीदद्भ्यः । 8 पूर्वपदस्य ह्रस्वत्वं छान्दसम् । पूर्वपदात्" इति षत्वम् । पितृभ्यः स्वधा । इदं हविः स्व- धाकारेण हुतम अस्तु ॥ एवम् उत्तरौ व्याख्येयौ । दिविषयः दि- RRD fryrittº. We with CKV. 18'न्यजमानानः 28 नाम्ना. [अ०४. सू०४.] ५४४ अष्टादशं काण्डम्। २४३ वि द्युलोके सीदद्भ्यः । x “तत्पुरुषे कृति बहुलम्" इति सप्त- म्या अलुक् । पूर्ववद् उत्तरपदस्य मूर्धन्यादेशः४ ॥ [इति ] चतुर्थेनुवाके अष्टमं सूक्तम् ॥ "नमो वः पितरः” इति अष्टभिर्यजुर्मन्त्रैर्बर्हिषि पिण्डेषु आवाहि-1 तान् पितृन् उपतिष्ठेत । सूत्रितं हि । “नमो वः पितरः [१] इत्यु- 'पतिष्ठते । अक्षन् [६१]2 इत्युत्तरंसिचम् अवधूय परा यात [६३] इति "परायापयति" इति [को०११.९] ॥ तत्रैव कर्मणि “आ त्वाग्ने" इत्यनया समिधम् आदध्यात् । “समि- धोभ्यादधाति" इति प्रक्रम्य सूत्रितम् । “त्वमग्न ईळिंतः [१६.३.४२ ] आ त्वाग्न इधीमहि [१६.४.८]" इति [को०११.१०] ॥ "वारुणीं जलभये जलसंक्षये [च]" इति [न क० १७.] विहितायां व- रुणदेवत्यायां महाशान्तौ “चन्द्रमा अप्स्वन्तरा" इत्येनाम् ऋचम् आवपेत् । उक्तं हि नक्षत्रकल्पे । “यद् देवा देवहेळंनम् [६.११४.१] इति याम्याया चन्द्रमा अप्स्वन्तरा [१४.४.४९] इति वारुण्याम्" इति [न क°१६.] ॥ मन्त्रपाठस्तु नमो वः पितर ऊर्जे नमो वः पितरो रसाय ॥१॥ नमः । वः । पितरः । ऊर्जे । नमः । वः । पितरः । रसाय ॥१॥ नमो वः पितरो भामाय नमो वः पितरो मन्यवे ॥१२॥ नमः। वः । पितरः । भामाय । नमः । वः । पितरः। मन्यवै ॥१२॥ नमो वः पितरो यद् घोरं तस्मै नमो वः पितरो यन क्रूरं तस्मै ॥ ३ ॥ नमः । वः । पितरः । यत् । घोरम् । तस्मैं । नमः । वः । पितरः । यत् । क्रूरम् । तस्मै ॥३॥ नमो वः पितरो यच्छिवं तस्मै नमो वः पितरो यत् स्योनं तस्मै ॥४॥ नमः।। पितरः । यत । शिवम् । तस्मै । नमः । वः । पितरः । यत् । स्योनम् । तस्मै ॥४॥ 23 °त्युत्तरस्य समवधूय for °त्युत्तरसिचम् अवधूय. 18 अधाहता. घञ्॥ २४४ अथर्वसंहिताभाष्ये नमो वः पितरः स्वधा वः पितरः ॥ १५ ॥ नमः । वः । पितरः । स्वधा । वः । पितरः ॥ ५ ॥ एते मन्त्रा निगदव्याख्याताः । एतैर्मन्त्रैः पितृणां नमस्कारः प्रतिपाच- ते ।1 “नमस्करोति । नमस्कारो हि पितॄणाम्" इति श्रुतेः [नै ब्रा०१. ३.१०.] । नमस्कारस्य फलप्रतिपादकानि ऊर्जे इत्यादीनि । यद्वा पितृभियुप्माभिर्दीयमानाय ऊर्जे नम इति । एवम् उत्तरत्र । ऊर्जे अ- न्नाय रसाय अन्नरसाय ॥ भामाय ।भाम क्रोधे । अस्माद् पञ् ।। क्रोधाय । अत्र पितृसंबन्धी क्रोध एव नमस्कार्यः । तथा अ. न्यत्र समाम्नायते । “नमस्ते रुद्र मन्यवे” इति [सं० ४. ५.१.१] । मन्युः मानसः क्रोधविशेषः ॥ घोरम् अहितकारिणां भयंकरं रूपं तस्मै नमः । क्रूरम् हिंस्रं रूपं तस्मै नमः ॥ शिवम् मङ्गलं रूपं स्योनम् सुखप्रदं तस्मै च नमः नमस्कारोस्तु ॥ हे पितरः वः युष्मभ्यं नमः । हे पितरः वः युष्मभ्यं स्वधा स्वधाकारेण इदं हविर्हुतम् अस्तु । षष्ठादिमन्त्रपाठस्तु येत्र पितरः पितरो येत्र यूयं स्थ युष्मांस्तेनु यूयं तेषां श्रेष्ठा भूयास्थ ॥ 86॥ ये। अत्र । पितरः । पितरः । ये । अत्र । यूयम । स्थ । युष्मान् । ते । अ- नु । यूयम् । तेषाम् । श्रेष्ठाः । भूयास्थ ॥ 86 ॥ य इह पितरो जीवा इह वयं स्मः। अस्मांस्तेनु वयं तेषां श्रेष्ठो भूयास्म ॥87॥ ये। इह । पितरः । जीवाः । इह । वयम् । स्मः ॥ अस्मान । ते' । अनु। वयम् । तेषाम् । श्रेष्ठाः । भूयास्म ॥87॥ १ B ये पितरं पितरो यत्र यूयं स्यं 1. A येत्र पितरः पितरो येत्र यूयं स्य!. KK ये पितरः पितरो येत्र यूयं स्थं 1. C ये पितरः पितगे ये यूयं स्थ।. B ये पितरः पितरो येत्र पूर्य . De ये पितरः पितरो येत्र यूयं स्थ corrected to ये पितरः पितरो येत्र यूयं स्प।. CP ये । अब। पि- तरः । पितरः । ये । अत्र । स्थ । युष्मान् । ते । अनु । युयम् । तेषाम् । श्रेष्ठः । भूयास्त ।. We with the l'anchantedika and the Survinukramani. So we livide With ABK CR. See Rw. D वयं स्म: corrected to चयं स्मः ।. ३Cr ते । 18 नमस्कारोति. [अ०४. सू०४.] ५४४ अष्टादशं काण्डम्। २४५ 1अत्र अस्मिन् पिण्डपितृयज्ञे ये पितरो यूयं स्थ देवता2वं प्राप्ताः स्य । आदरार्थं व्यतिहारेण पुनर्वचनम् । युष्मान अनुसृत्य ते अधिकत्वेन प्र- सिद्धाः पितरो वर्तन्ते । तेषां यूयं श्रेष्ठाः प्रशस्यतमा उपजीव्या भूयास्थ भवत । युष्मत्प्रसादात् तेषां पिण्डांशभागित्वात् ॥ इह अस्मिन यज्ञे [ये] पितरः पितृत्वेन संभावितास्तेषां श्रेष्ठा भूयास्येति संबन्धः । इह अस्मिन् लोके वयं पिण्डदातारो जीवाः जीवनवन्तः आयुष्मन्तः स्मः । अस्मान् अनुसृत्य ते प्रसिद्धाः समानवयोवंशविद्या3धना वर्तन्ते । तेषां श्रेष्ठा भू- यास्म । इति पिण्डेषावाहितान् पितॄन् उपतिष्ठेत ॥ आ त्वाग्न इधीमहि द्युमन्तं देवाजरम् । यद् घ सा ते पनीयसी समिद् दीदयति धवि । इषं स्तोतृभ्य आ भर ॥1॥ आ । त्वा । अग्ने। इधीमहि । द्युऽमन्तम् । देव । अजरम् । यत् । घ । सा । ते । पनीयसी । समऽइत । दीदयति । द्यवि । इषम् । स्तोतृऽभ्यः । आ । भर ॥४॥ नवमी ॥ हे देव द्योतमान हे अग्ने धुमन्तम् दीप्तिमन्तम् अजरम् जरारहितं त्वा त्वाम आ इधीमहि समिधा अभिमुखं समिधीमहि दीपया- म-। इन्धेर्लिङि बाहुलकात् नमो लुक् । “अनिदिताम्" इति धातु- नकारलोपः।यत् । सुपो लुक्। यस्य ते तव । घेति पूरणः । सा प्रसिद्धा पनीयसी।पनतिः स्तुतिकर्मा । स्तुत्यत्तरा समित् सम्यक् प्रकाशिका दीप्तिः द्यवि । र धोशब्दाद् ओकारान्तात् सप्तम्येकवचनम् । दिवि अन्तरिक्षे दीदयति दीप्यते । दी- देतिर्दीप्तिकर्मा। हे अग्ने समिधा समिध्यमानस्त्वं स्तोतृभ्यः स्तुति- १ BR त्वा अग्न. De त्या अग्न changeel to त्याग्न. We with CV D. We with CÊRVDE. BC afarianif. We with ÄR V D. x So we divile with ABCKRV De and the Sarrdrukrumani. " CP artal. 28 दैवतात्वे. 38 विद्याना for विद्याधना. मः। २B द्युमंत. 18 तत्र. . २४६ अथर्वसंहिताभाष्ये कारिभ्यः अस्मभ्यम् इषम् इष्यमाणम् अन्नम् इष्टं फलं वा आ भर आहर देहि ।"हग्रहोर्भः." ॥ चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि । नवो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥४९॥ (२८) चन्द्रमाः । अप्सु । अनंतः । आ । सुऽपर्णः । धावते । दिवि । न । वः । हिरण्यऽनेमयः । पदम् । विन्दन्ति । विडद्युतः । वित्तम् । मे। अस्य । रोद॑सी इति ॥ ९ ॥ (२८) दशमी ॥ अत्र शाट्यायनिन इतिहासम आचक्षते । एकतो द्वितस्त्रित इति पुरा त्रय ऋषयो बभूवुः । एते कदाचिद् मरुभूमौ अरण्ये वर्त- मानाः पिपासया संतप्तगात्राः सन्तः एकं कूपम् अविन्दन् । तत्र त्रिताख्य एको जलपानाय कूपं प्राविशत् । प्रविश्य स्वयम् अपः पीत्वा इतरयोश्च कूपाद् उदकम् उद्धृत्य प्रादात् । तावुभौ तद् उदकं पीत्वा तं त्रितं कूपे पातयित्वा तदीयं धनं सर्वम् अपहृत्य कूपं च रथचक्रेण पिधाय प्रास्थिषाताम् । ततः कूपे पतितः स त्रितः कूपाद् उत्तरीतुम् अशक्नुवन् सर्वे देवा माम उद्धरन्तु इति मनसा सस्मार । अथ स त्रितो रात्रौ कूपस्य अन्तश्चन्द्रमसो रश्मीन् अपश्यन अनया ऋचा परिदेवयत इति ॥ अस्या ऋचः अयम् अर्थः । अप्सु 1आन्तरिक्षासु उदकमये मण्डले अ. न्तः मध्ये । यद्वा आप इति अन्तरिक्षनाम । तत्र मध्ये वर्तमानः सुपर्णः शोभनपतनः । यद्वा सुपर्ण इति रश्मिनाम । सुषुम्नाख्येन सूर्यरश्मिना युक्त2श्चन्द्रमाः चन्द्रम् आह्लादं सर्वस्य जगतो निर्मिमीत इति चन्द्रमाः । "चन्द्रे माङो डित् [उ०४.२२७] इति असुन् । दासीभारादिषु पाठात् पूर्वपदप्रकृतिस्वरत्वम् । आह्लाद- कारी सोमो दिवि द्युलोके आ धावते शीघ्रं गच्छति । Baria. Wasith Ř RV. B försifor. Ai farefa. Cp forferl. Posteri P विदंति।. ३ RB विद्युती. We hit k VDr. x CP विधुतः।. ५ CP अस्य । ६ PC रोदसी इति IS' आंतरिक्ष्यासु. 25 on. °श्चन्द्रमाः, मृ गतौ। [अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । २४७ "पामा." इत्यादिना वेगितायां गतो धाव् आदेशः । व्यत्ययेन आत्मनेप- दम्। तादृशस्य चन्द्रमसः संबन्धिनो हे हिरण्यनेमयः सुवर्णसदृशप- र्यन्ता हितरमणीयप्रान्ता वा हे विद्युतः विद्योतमाना रश्मयः वः युष्माकं पदं पादस्थानीयम अग्रं न विन्दन्ति मदीयानि इन्द्रियाणि कूपेन आवृतत्वाद् न लभन्ते । न पश्यन्तीत्यर्थः । अतः इदम् अनुचितम् । तस्मात् कू- पाद् माम् उत्तारयतेत्यर्थः ॥ अपि च हे रोदसी द्यावापृथिव्यौ मे मदी- यम् अस्य इदं स्तोत्रं वितम् जानीतम् । विद ज्ञाने । लोटि अ- दादित्वात् शपो लुक् । पादादित्वात् “तिङतिङः” इति निपाताभा- वः । यद्वा [मे मदीयं] कूपपतनरूपं यद् इदं दुःखं तद् अव- गच्छतम् । मदीयं स्तोत्रं श्रुवा मदीयं दुःखं ज्ञात्वा अस्मात् कूपाद् माम उत्तारयतम् इत्यर्थः । अस्येति । "क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानावाच्चतुर्थे षष्ठी । 'ऊडिदम्” इति विभक्तेरु- दात्तत्वम् ॥ चतुर्थेनुवाके नवमं सूक्तम् ॥ अनुवाकश्च समाप्तः ॥ श्रीमद्राजाधिराजराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहर- महाराजकारिते सायणाचार्यविरचिते अथर्ववेदार्थप्रकाशे अष्टादशकाण्डं समाप्तम् ॥ व: । 66 पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२४४ CE श्रीगणाधिपतये नमः। वागीशाद्याः सुमनसः सर्वार्थानाम् उपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ यस्य निश्वसितं वेदा यो वेदेभ्योखिलं जगत् । निर्ममे तम् अहं वन्दे विद्यातीर्थमहेश्वरम् ॥ एकोनविंशे काण्डे सप्तानुवाकाः । तत्र प्रथमेनुवाके दश सूक्तानि । तत्र “सं सं स्रवन्तु” इति प्रथमं सूक्तं सर्वपुष्टिकर्मणि संपाताभिम- न्त्रितमैश्रधान्यचरुप्राशने दधिमधुमिश्रसक्नुमन्थप्राशने च विनियुक्तम् । सूत्रितं हि । “सं सं 1स्रवनित्वति नाव्याभ्याम् उदकम् आहरतः सर्वत उपासेचं2 तस्मिन् मैश्रधान्यं शृतम् अन्नाति" इत्यादि [को॰३.२] । व्रीहियवादीनि मिश्रधान्यानि । 'व्रीहियवगोधूमोपवाकतिलप्रियङ्गुश्या- माका इति मिश्रधान्यानि” इति [को०१..] परिभाषासूत्रात्3 ॥ लक्ष्मीकरणेपि एतत् सूक्तम् । सूत्रितं हि । “यस्य श्रियं कामयते ततो व्रीह्याज्यपय आहार्य क्षीरौदनम् अश्र्नाति" इत्यादि [को०३.२] ॥ तथा अमृतादिमहाशान्तिसाधारणभूतायां शान्तौ शान्त्युदकार्थं नदीह्रदा. दिभ्यः समाहृतं4 जलम् अनेन सूक्तेन अभिमन्त्रयेत । तद् उक्तं नक्षत्रकल्पे । तन्त्रभूतां5 महाशान्तिं प्रवक्ष्यामो यथाविधि । अन्यासां सर्वशान्तीनाम् अमृतां विश्वभेषजीम् ॥ नदीभ्यो वा ह्रदेभ्यो वा जलं पुण्यं समाहरेत् । सं सं स्रवन्तु तद् विद्वान् अभिमन्त्र्यते6 ततः ॥ इति [न क° २०॥ 18 नवंति for स्रवन्त्विति which we with Kausike. सेचन ( in one Ms.) anil उपासेचं ( in another). 38 परिभाषसूत्रात्. +8 समा. हितं. 5 तंत्रभूतं. मंत्रयेत for °मन्त्रयते. SoS'. Kausiku उपा२५० " अथर्वसंहिताभाष्ये प्रथम1काण्डे “सं सं स्रवन्तु सिन्धवः” इति समाम्नातं चतुर्ऋचं सूक्तम् [१.१५] "इहैतु सर्वो यः पशुरस्मिन् तिष्ठतु या रयिः” इति “ते- भिर्में सर्वैः संस्रावैर्धनं सं स्रावयामसि" इति च धनरयिलिङ्गात सर्वपुष्टि- कर्मणि लक्ष्मीकरणे2 चं विनियुक्तम् । अत्रापि “यज्ञम् इमं वर्धयता गिरः” “रूपरूपं वयोवयः” इति लिङ्गात् सर्वपुष्टिकर्मणि लक्ष्मीकरणे च3 विनियुज्यते । अत एव उभयसाधारणं 4सूक्तंप्रतीकं कौशिकः सूत्रित- वान् “सं सं स्रवन्त्विति नाव्याभ्याम् उदकम् आहरतः इति [कौ. ३.२] 5“सं सं स्रवन्तु तद् विद्वान्" इति च [न. क०२०] । अतः सूक्तयोः समुच्चयेन विकल्पेन वानुष्ठानम् ॥ तत्र प्रथमा॥ सं सं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः । यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥१॥ सम् । सम् । स्रवन्तु । नद्यः । सम् । वाताः । सम् । पतत्रिणः । यज्ञम् । इमम् । वर्धयत । गिरः। समऽस्राव्येण । हविषा । जुहोमि ॥१॥ नद्यः नदनशीला निम्नगाः सं सं स्रवन्तु [सम्यक् प्रवहन्तु । वा- ताश्च सं स्रवन्तु] आनुकूल्येन वान्तु । तथा पतत्रिणः पतत्राणि पक्षा येषां सन्ति ते तदुपलक्षिताः सर्वे प्राणिनः सं स्रवन्तु । सम्यग् अनुकू- ल6स्वभावाश्चरन्नु । यद्वा एते नदीप्रभृतयः सं स्रवन्तु । अन्त- र्भावितण्यर्थः ।सं स्रावयन्तु । अस्मदभिलषितं फलं प्रयच्छ- न्तु इत्यर्थः ॥ हे गिरः गीर्यन्ते स्तूयन्त इति गिरः । कर्मणि क्विप् । हे देवाः स्तूयमाना यूयम् इमम् हविःप्रदं यज्ञम् यजमा- नम् । व्यत्ययेन कर्तरि नङ् प्रत्ययः । यस्य कृते पुण्यादि- कर्मशान्तिरनुष्ठीयते तं फलस्वामिनं यजमानं वर्धयत पशुपुत्रादिभिः समृद्धं कुरुत । अपि वा गृणन्तीति गिरः । कर्तरि क्विप् । BCDR for . We with KKV De C. 18 सप्तम for प्रथम,S करणेति for °करणे च.38 करणेन for °करणे च.18' सूक्तं lion सूक्त... Kausike nowhere give: सं सं सवन्तु तद्विछन्. GS om. स्वभा'. कर्मणि " 5) [अ०१. सू०१.] ५४५ एकोनविंशं काण्डम्। २५१ र्मप्रयोक्तारः संबोध्यन्ते । अत्र हविषः सद्भावं दर्शयति संस्राव्येणेति । सम्यक् स्रवणं संस्रावः । सृ गतौ । भावे षञ् । संस्रा वम् अर्हतीति संस्राव्यम् आज्यपयःप्रभृति । “तद् अर्हति" इति यत् प्रत्ययः । यद्वा संस्रावणीयेन । संपूर्वात् स्रवते- र्ण्य॑न्ताद् “अचो यत्" इति यत् प्रत्ययः । तादृशेन हविषा आ- ज्यादिना जुहोमि आज्यादिकं हविः देवान् उद्दिश्य अग्नौ प्रक्षिपामीत्य- र्थः। x“तृतीया च होश्छन्दसि इति हविषेति कर्मणि तृतीया ॥ द्वितीया ॥ इमं होमा यज्ञमवतेमं संस्रावणा उत । यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥२॥ इमम् । होमाः । यज्ञम् । अवत । इमम् । समऽस्रावणाः । उत । यज्ञम् । इमम् । वर्धयत । गिरः । समऽस्राव्येण । हविषा । जुहोमि ॥२॥ हे होमाः आहुतयः यूयम् इमं प्रवर्त्यमानं यज्ञम् आहुतिसमुदाया- त्मकं कर्म अवत तर्पयत । कतिपयाहुतीनां परित्यागे विपर्यासे वा त- त्समष्टिरूपस्य कर्मणो वैगुण्यं भवतीति व्यस्ता एव आहुतयः पृथक् प्रा- र्थ्यन्ते । यथा वनसभादिषु समूहिवृक्षाद्यभावात् समूहाभावः एवम् अत्रा- पि । उत अपि च हे संस्रावणाः । कर्मणि ल्युट् प्रत्ययः । सं स्रावणीयाः आज्यपयःप्रभृतयः यूयम् इमं यज्ञम् अवत । साधनाभावे साध्यस्य अनिष्पादनात् ॥ अथ वा हे होमाः होतव्या देवताः इमं यज्ञम् यष्टारं फलकामं यजमानम् अवत । पशुपुत्रादिभिः सर्वैः फलैः समर्धयत । जुहतीति होमा इति प्रयोक्तारो वा संबोध्यन्ते ॥ यज्ञम् इमम् इत्यादिरुतरार्धर्चो व्याख्यातः ॥ तृतीया ॥ रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे । So wc with A BCDKŘPÝJC: De. R forza. We with BCDVD.C. 18 हेम for हे होमा.. 6̟ >>

२५२ अथर्वसंहिताभाष्ये यज्ञमिमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥३॥ रूपमऽरूपम् । वयःऽवयः । समऽरभ्य । एनम् । परि । स्वजे । यज्ञम् । इमम् । चतस्रः । प्रऽदिशः । वर्धयन्तु । समऽस्राव्येणि । हवि- षा । जुहोमि ॥ ३॥ रूपंरूपं वयोवयः । “नित्यवीप्सयोः" इति द्विर्वचनम् । “नि- त्यं1 वा वयः"सप्तदश वयांसि ̟इति च श्रुतेः ।। समस्तं पशुपुत्रादिकम् अभिलषितं फलं संरभ्य गृहीत्वा एनं कर्मप्रयोजयितारं फलकामं यजमानं परि ष्वजे पशुपुत्रादिफलैः सर्वतः संबद्धं करोमि इति प्रयोक्ता ब्रूते । x“इदमोन्वादेशे०” एनादेशः । ष्वञ्ज परि- ष्वङ्गे । लटि उत्तमैकवचने "दंशसञ्जस्वञ्जां शपि" इति उपधानकारलो- पः । कथम् एकेन प्रयोक्ता सर्वरूपवयसां स्वीकारः । तत्राह । चतस्रः प्रदिशः प्रकृष्टाः प्राच्यादयो महादिशः तत्रस्था जनाः इमं य- ज्ञम् यजमानं वर्धयन्तु । अभिलषितैः सर्वैः समृद्धं कुर्वन्तु । संस्राव्येणे- ति पादः पूर्ववत् ॥ [इति ] एकोनविंशे काण्डे प्रथमेनुवाके प्रथमं सूक्तम् ॥ "शं त आपः” इति सूक्तेन तन्नभूतमहाशान्तौ नद्यादिसमाहृतं जलम् अभिमन्त्रयेत । सूत्रितं हि नक्षत्रकल्पे । नदीभ्यो वा हूदेभ्यो वा जलं पुण्यं समाहरेत् । सं सं स्रवन्तु तद् विद्वान् अभिमन्त्रयते ततः ॥ शंत आपो हैमवतीः॥ इति [न क° २० ॥ तत्र प्रथमा। शंत आपो हैमवतीः शमु ते सन्तूत्त्स्याः । शं ते सनिष्यदा आपः शमु ते सन्तु वर्ष्याः ॥१॥ १D: शमु ते clatungryl to शर्मु ते. Sayana's text शं ते संतूत्स्याः. २ AD सनिष्यद, ३ A C D Cs शमु ते सन्तु. Dशमु ते संतु changeal toशमु ते संतु. We with BKVDr. | नित्यवाइयः. २५३ "तत्र भ- ता आ- भवाः । [अ०१. सू०२.] ५४६ एकोनविंशं काण्डम् । शम् । ते । आपः । हैमऽवतीः । शम् । ऊ इति । ते । सन्तु । उत्स्याः । शम् । ते । सनिस्पदाः । आपः । शम्। ऊ इति । ते । सन्तु। वर्णाः ॥१॥ शान्तिकर्मकर्ता ऋत्विक प्रयोजयितारं फलकामं यजमानं संबोध्य आह । हे यजमान ते तव हैमवतीः हिमवतः पर्वताद् आगताः । "तत आगतः” इति अण् । हिमवति भवा वा । तत्र भ- वः" इति अण् “वा छन्दसि” इति पूर्वसवर्णदीर्घः ४ । ता आ- पः शम् सुखकारिण्यो भवन्तु । तथा उत्स्याः उत्सः प्रस्रवणम् तत्र भवाः । "भवे छन्दसि” इति यत् । ता आपः ते त- व शं सन्तु सुखकारिण्यो भवन्तु । तथा सनिष्पदाः सर्वदा स्यन्दमा- ना- । स्यन्दतेर्यङ्लुकि1 अभ्यासस्य छान्दसो निगागमः । स- ततं स्रवन्त्य2 आपः ते तव शं भवन्तु । उ अपि च वर्ष्याः वर्षासु भवा आपः ते तव शं3 सन्तु सुखकारिण्यो भवन्तु ॥ द्वितीया ॥ शं त आपो धन्वन्या३: शं ते सन्त्वनूप्याः । शं ते स्वनित्रिमा आपः शं याः कुम्भेभिराभृताः ॥ २ ॥ शम् । ते । आपः । धन्वन्याः । शम् । ते । सन्नु । अनूप्याः । शम । ते । स्वनित्रिमाः । आपः । शम् । याः । कुम्भेभिः । आऽभृ- ताः। स- ताः॥२॥ धन्वन्याः धन्वनि मरुदेशे भवाः । “भवे छन्दसि" इति यत् । "ये चाभावकर्मणोः" इति प्रकृतिभावात् "नस्तद्धिते” इति वि- हितष्टिलोपो न भवति । ता आपः ते तव शं भवन्तु । अनू- प्याः अनुगता आपो यस्मिन् देशे ।“ऋक्पूरव्धूःपथाम् आन- क्षे” इति अच् समासान्तः । “ऊदनोर्देशे” इति अप्शब्दाकारस्य ऊ- कारादेशेः । अनूपे जलसमृद्धे देशे भवा आपः । ४ पूर्व- १PJ सनिऽस्यदाः। 18 °लुङि. 23 स्रषंत'. 33 सं. कारादेशः । २५४ अथर्वसंहिताभाष्ये वद् यत् । ते शं सन्तु । तथा खनित्रिमाः खननेन निर्वर्त्याः कू- पतटा1कादिस्था आपः ते तव शं भवन्तु । खनतेर्बाहुलकात् क्रि- प्रत्ययः । “आर्धधातुकस्येड्वलादेः" इति इडागमः । “क्रेर्मनित्यम्" इति मप् प्रत्ययस्तद्धितः । तथा कुम्भेभिः कुम्भैः आभृताः आह्रता आनीता या आपः सन्ति ता अपि शं भवन्तु । x “ह्रग्रहोर्भश्छ- न्दसि" इति भः ॥ तृतीया ॥ अनभ्रयः खनमाना विमा गम्भीरे अपसः । भिषग्भ्यो भिषक्तरा आपो अच्छा वदामसि ॥ ३ ॥ अनभ्रयः । खनमानाः । विप्राः । गम्भीरे । अपसः । भिषक्ऽभ्यः । भिषक्डतराः । आपः । अच्छे । वदामसि ॥ ३॥ अनभ्रयः अभ्रिः खननसाधनं कुद्दालादि । तद्रहिताः सन्तः खन- मानाः काष्ठहस्तपादादिना खननशीला गम्भीरेअपसः गम्भीरे असाध्ये- पि विषये अपः कर्म येषां ते दुःसाध्य2मपि प्रयोजनं मन्त्रबलात् साध- यन्तो विप्राः मेधाविनः । इति सर्वम् ऋत्विग्विशेषणम् । एते वयं भि- षग्भ्यः वैद्येभ्योपि3 भिषक्तराः । भिषजो हि 4औषधानि अन्यतः समा- नीय चिकित्सन्ति । अपां5 तु मध्ये भेषजानि विद्यन्त इति लौकिकेभ्यश्चि- कित्सकेभ्योपि6 शिष्टा वैद्याः । तथा च निगमः ।'अप्सु मे सोमो अ- ब्रवीद् अन्तर्विश्वानि भेषजा" [ऋ०१०.९.६] “आपश्च विश्वभेषजी;" इति च [ऋ०१.२३.२०] । तथाविधा आपः । “अप्नृन्" इति असर्वनामस्थानेपि छान्दसो दीर्घः ।अच्छा वदामसि अभि- वदामः अभिष्टुमः । "इदन्तो मसिः" "अच्छ गत्यर्थवदेषु" इति अच्छशब्दो गतिसंज्ञकः ॥ अथ वा पूर्वार्धं सर्वम् अविशेष- णम् । अनभ्रयः अभ्र्यादिसाधनराहित्येन खनमानाः तटद्वयम् अवदार- 18 तडाकादि. 28 दुःसाधमपि. 38 वैद्योपि for वैद्येभ्योपि. 48 ओषधानि. 58 अप्सुपांतु for अपां तु. 60 °चिकित्सिकेभ्यो. (6 " २५५ STT- [अ॰ १. सू०२.] ५४६ एकोनविंशं काण्डम् । यन्त्यः1 विप्राः 2स्वोपजीविनां मेधाजननहेतवः विशेषेण पूर्णा वा गम्भीरे अ- गाधे स्थाने अ1पो व्याप्तिर्यासां ता महाहूदादिषु व्यापनशीलाः । आ- प्नोतेर्नुड् हूस्वश्च [उ० ४.२०७] इति असुन् । धातोर्ह्स्वश्च नुडागमस्तु विकल्पितः । एवंरूपा या आपः सन्ति ता वैद्येभ्योपि अत्यन्त- हितकारिणीरपः अभिष्टुम इति ॥ चतुर्थी ॥ अपामह दिव्या नामपां स्रोतस्यानाम् । अपामह प्रणेजनेश्वा भवथ वाजिनः ॥ ४ ॥ अपाम् । अहं । दिव्यानाम् । अपाम् । स्रोतस्यानाम् । अपाम् । अहं । प्रऽनेजने । अश्वाः । भवथ । वाजिनः ॥ ४ ॥ अहेति विनिग्रहार्थीयः । दिव्यानाम् दिवि भवानाम् अपाम् स्रोतस्या- नाम् स्रोतः [प्रवाहः । तद्भवानाम् अपाम्] अपाम् तदुभयव्यतिरिक्ता- नाम् अन्यासाम् अपां प्रणेजने 4शोधनंविषये अश्वाः । लुप्तोपमैषा । अ- श्वाः तुरगा इव वाजिनः वाजो वेगः तद्वन्तो भवथ इति ऋत्विजः प- रस्परं ब्रुवते यजमानो वा ऋत्विजो 5ब्रूते मदर्थ व्याप्रियमाणा यूयं शा- न्त्युदककर्मणि त्वरमाणा 6भवतेति ॥ पञ्चमी ॥ ता अपः शिवा अपोयक्ष्मंकरणीरपः । यथैव तृप्यते मयस्तास्त आ दत्त भेषजीः ॥ ५ ॥ नाः । अपः । शिवाः । अपः । अयक्ष्ममऽकरणीः । अपः । यो । एव । तृप्यते । मयः । ताः । ते । आ । दत्त । भेषजीः ॥ ५॥ २० प्रणेजनेश्वा. We with A B D Kk RV DCr. २J प्रऽने । जने ।. IF with P É. CD oHº. We wich A BKËRVDC x Su ABCDKRRPØJV C: De. ५ B आदुत (orrected froun आदत्त. K आदुत corrected from आदत में. A Cs आहेत. D• आदुतभे corrected to आतभै . R आदुत्त. C D आदुत. We witli sayant. Para: 1. Sảyana's text: 31:. We witli ÞJ. PřJ 2017 | 5 | for ST 18 अवदारयंतः. 28 स्वोपजीविना. 38' आपो. inserts another वा lnefiore छूते. ' भवेति for भषतेनि. IS धन शोधन . 5 Si (म- अपः । ते यूयम २५६ अथर्वसंहिताभाष्ये इदमपि प्रयोजकस्स वाक्यम् । ताः प्रसिद्धा या आपः1 शिवाः शिव- कारिण्य आपः अयक्ष्मकरणीः अरोगकारिण्यो या अपः आपः । प्र- थमार्थे द्वितीया । “आढ्यसुभग” इति विहितः ख्युन प्रत्ययः अयक्ष्म- शब्दोपपदादपि व्यत्ययेन उत्पन्नः । “खित्यनव्ययस्य” इति मुम् आग- मः । ता भेषजी भिषग्वद् 2आमयनिर्हारिकाः हितकारिणीश्च अपः। "केवलमामक” इति ङीप् प्रत्ययः । ते यूयम् [प्रयोक्तारः] । * युष्मच्छब्दादेशशब्दो न भवति । तच्छब्दस्य प्र- थमाबहुवचने रूपम् । निघातस्तु छान्दसः । आ दत्त आनय- ४ डुदाञ् दाने । लोटि मध्यमबहु4वचनम् । “आङो दोना- स्यविहरणे" इति आत्मनेपदं सर्वविधीनां छन्दसि विकल्पितत्वाद् न भ- वति । उदकानयने फलं दर्शयति यथैवेति तृतीयपादेन । मय इति सुखनाम् । सुखं यथैव । एवकारो भिन्नक्रमः । सुखमेव येन प्र- कारेण तृप्यते तृप्तम् अधिकं भवति । अधिकसुखलाभाय शान्त्युदकम् आनयतेत्यर्थः । यद्वा ते त्वदर्थम् आदत्त आनीतवान् इति प्रयोक्ता स्वा- त्मानं परोक्षणाह । “आङो दः” इति आत्मनेपदम् ॥ [इति ] प्रथमेनुवाके द्वितीयं सूक्तम् ॥ ["दिवस्पृथिव्याः" इति सूक्तद्वयं मेधाजननकर्मणि विनियुज्यते । एतेन सूक्तद्वयेन मेधाकामः सुप्त्वोत्थाय मुखं हस्तेन प्रक्षालयति । सूत्रितं हि ।] दिवस्पृथिव्याः इति संहाय मुखं विमार्ष्टि” इति । [कौ.२.१] ॥ वर्चस्कामोपि अनेन सूक्तद्वयेन दधिमधुनी संपात्य अभिमन्त्य अ- श्नीयात् ॥ तथा वर्चस्कामः क्षत्रियश्चेद् अनेन सूक्तद्वयेन 5भक्तमिश्रिते दधिमधु- नी संपात्य अभिमन्त्र्य क्षत्रियं प्राशयेत् ॥ वर्चस्कामो वैश्यशूद्रा6दिश्चेद् अनेन सूक्तद्वयेन केवलम् ओदनं संपात्य अभिमन्त्र्य प्राशयेत् ॥ 1 Sayarsa's text too: शिवा आपोयक्ष्म. 25 अनर्व tor आमय, 35 युष्मच्छब्दोदे- शशब्देन भवति । तुच्छब्दस्य. 18 बहुवचने for बहुवचनम्. 59 भक्ति . 65 शूदचे. २५७ 66 [अ॰१. सू°३.] ५४७ एकोनविंशं काण्डम् । सूत्रितं हि । “प्रातरग्निम् [३.१६] गिरावरगराटेषु [६. ६९] दिव- 'स्पृथिव्याः [९.१] इति दधिमध्वाशयति कीलालमित्रं क्षत्रियं कीला- 'लम् इतरान्" इति [कौ०२.३] ॥ यथा नवमकाण्डे समाम्नातयोः “दिवस्पृथिव्याः” इति [९.१.१- १०] "यथा सोमः प्रातःसवने” इति [९.१.११-२४] सूक्तयोः प्र- थमसूक्ते “मधुकशा हि जज्ञे” इति मन्त्रेषु कशेति वाङ्नामलिङ्गाद् द्वितीयसूक्ते “वर्चस्वतीं वाचम् आवदानि जनो अनु” इति वाग्लिङ्गाच्च मेधाजननकर्मणि विनियोगः तथा “यथा सोमः प्रातःसवने" [९.१. ११-२४] इति द्वितीयसूक्ते "एवा मे अश्विना वर्च आत्मनि प्रियताम्" इति वर्चोलिङ्गाद् वर्चस्यकर्मणि च विनियोग उक्तः एवम् अत्रापि प्र- थमसूक्ते वर्च:समानार्थमहिमपुष्ट्यादिलिङ्गाद् द्वितीयसूक्ते “अथो भगस्य नो धेहि" इति लिङ्गाच्च वर्चस्यकर्मणि “बृहस्पतिर्म आकूतिम् आङ्गि- रसः प्रति जानातु वाचम् एताम्" इति वाग्लिङ्गाच्च मेधाजननकर्मणि विनियोग उच्यते । एवम् अनयोरेव 1विनियोगान्तरेषु यथायथं लिङ्गम् अवगन्तव्यम् । अत एव कौशिको भिन्नप्रदेशस्थस्य सूक्तद्वयस्य सर्वत्र वि- नियोगं सूचयितुं "दिवस्पृथिव्याः" इति उभयसाधारणं सूक्तप्रतीकं सूत्र- यामास । यत्र सूक्तविशेषस्य विनियोगोपेक्षितस्तत्र सूक्तं विशिष्य सूत्रित- वान् । यथा वैताने । “दिवस्पृथिव्या इति 2मधुसूक्तेन राजानं [संश्रयति" इति [वै०३.६] ॥ तत्र प्रथमा॥ दिवस्पृथिव्याः पर्यन्तरिक्षाद् वनस्पतिभ्यो अध्योषधीभ्यः । यत्रयत्र विभृतो जातवेदास्तत स्तुतो जुषाणो न एहि ॥ १ ॥ दिवः । पृथिव्याः । परि । अन्तरिक्षात् । वनस्पतिऽभ्यः । अधि । ओर्ष- धीभ्यः। १० स्पतिभ्यो. PA K बिभ्रतो. C D R BV बिभृतो. D विभृतो changeal to बिभ्र- a. We with Cs. So we with DCRAB V De Cs PÞJ. 18 विनियोगो. 2 मधुयुक्तेन. We with the Vaitana. २५४ परिः अथर्वसंहिताभाष्ये यत्रऽयत्र । विऽभृतः । जातऽवेदाः। ततः । स्तुतः । जुषमाणः । नः । आ। इहि ॥१॥ धुलोकादीनि अग्नेरुत्पत्तिस्थानानि । अत एव "जनिकर्तुः प्र- कृतिः” इति अपादानसंज्ञायाम् “अपादाने पञ्चमी” इति द्युशब्दा- दिभ्यः पञ्चमी । दिवः द्युलोकात् पृथिव्याः भूमेः । परिः पञ्चम्यर्थानुवादी । अन्तरिक्षात् अन्तरा1 क्षान्ताद् मध्यमलोकाद् वनस्पतिभ्यः पुप्पैर्विना फलद्भ्यो वृक्षेभ्यः ओषधीभ्यः ओषः पाको धीयत आस्विति ओषध्यः फलपाकान्ताः ताभ्यश्च । अधिः पञ्चम्यर्थानु- वादी । द्युलोकादिभ्य उत्पन्नो2 जातवेदाः जातानि वेत्ति जातैर्वि- द्यते ज्ञायत3 इति वा जातवेदाः यत्रयत्र यस्मिन् यस्मिन् स्थाने विभृतः विशेषेण पूर्णो वर्तते । यद्वा विभृतो विह्रतो विभक्तो वर्तते ततस्ततः तेभ्यः सर्वेभ्यः स्थानेभ्यः नः अस्मान् जुषमाणः ।अन्तर्भावित-

ण्यर्थः । जोषयमाणः प्रीणयन् । "लक्षणहेत्वोः क्रियायाः"

इति हेतौ शानच् प्रत्ययः ।अस्मत्प्रीणनाद्वेतोः एहि आगच्छ ॥ द्वितीया ॥ यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुषप्स्वन्तः । अग्ने सर्वास्तन्व: सं रभस्व ताभिर्न एहि द्रविणोदा अज॑स्रः ॥२॥ यः । ते । अप्ऽसु । महिमा । यः । वनेषु । यः । ओषधीषु । पशुषु । अपऽसु । अन्तः । अग्ने । सर्वाः । तन्वः । सम् । रभस्व । ताभिः नः । आ । इहि । द्र. विणःऽदाः । अजस्रः ॥२॥ हे अग्ने ते तव यो महिमा अप्सु उदकेषु वर्तते । अनेरुदकप्रवेशः श्रूयते 'सोपः प्राविशत्" [तै सं० २.६.६.१] इति । दाशतय्यामपि ⓇPH Jferta: 1. ABCDR for . Wo with KÄV. ABCDRF afd. Prat: We wille KĀ V De aut with Ø und J (as originally). IS अंतरि for अन्तरा. 8 उत्पनाग्निः यहुना जातवेदाः. 38'जायत. श्रूयते लि- [अ॰१. सू°३.] ५४७ एकोनविंशं काण्डम् । २५९ मन्त्रवर्णः । “ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टम् अग्ने अप्स्वोषधीषु" इति [.१०.५१.३] । यश्च वनेषु वर्तते दावाग्निरूपेण । यश्च ओ.- षधीषु महिमा फलपाकनिमितभूतः । यश्च पशुषु पशूपलक्षितेषु सर्वप्रा- णिषु वैश्वानरात्मना वर्तते । अप्सु अन्तरिक्षस्थेषु उदकेषु । मेघेष्वित्यर्थः । तेषु अन्तः मध्ये वैद्युतात्मना यो महिमा वर्तते हे अग्ने सर्वाः अबादि- स्थानविशेषनिष्ठमहिमरूपाः तन्वः शरीराणि सं 1रभस्व संकलय । तत्रतत्र विभक्तास्तनूरेकत्र संमेलयेत्यर्थः । किमर्थं संकलनं तद् आह ताभिरि- ति । ताभिः सर्वाभिस्तनूभिः सह नः अस्मान् अजस्रः । लि ङ्गव्यत्ययः । अजस्रम् अनवरतं द्रविणोदाः धनस्य दाता सन् ए-. हि आगच्छ ॥ तृतीया ॥ यस्ते देवेषु महिमा स्वर्गो या ते तनूः पितृष्वाविवेश । पुष्टिर्या ते मनुष्येषु पप्रथेग्ने तया रयिमस्मासु धेहि ॥ ३ ॥ यः । ते । देवेषु। महिमा । स्वःऽगः । या । ते। तनूः । पितृषु । आऽविवेश। पुष्टिः । या । ते । मनुष्येषु । पप्रथे । अग्ने । तया । रयिम् । अस्मासु । धेहि ॥३॥ हे अग्ने ते तव 2स्वर्गच्छतीति स्वर्गः । “डोन्यत्रापि दृश्यते" इति डप्रत्ययः । दिवः प्रापणार्थ स्वर्लोकं गन्ता यो महिमा देवे- षु । विषयसप्तमी । देवविषये वर्तते । यजमानैर्दत्तं हविः देवान् प्रापयितुम् इहलोकसंचारी यो माहात्म्यगुणो वर्तते । या च ते त्वदीया तनूः 3पितृषु आविवेश पितृषु आविश्य 4स्वधाकारेण प्रत्तं कव्य- संज्ञकं हविः पितॄन् प्रापयितुं पितृलोकसंचारिणी वर्तते । या च ते त्व- दीया पुष्टिः मनुष्येषु मनुष्योपलक्षितेषु सर्वेषु चराचरात्मकप्राणिषु पप्रथे प्रथिता अशितपीतादिपाककरणाद् मनुष्यादिषु या त्वकर्तृका पुष्टिर्वर्तते 18 भरस्व, though its text has रभस्व. 28' स्वर्ग गच्छतीति. 38 पितृषु पितृषु आविवेश आविश for पितृषु आविवेश पितृषु आविश्य. 4 S' स्वकारेण. २६० अथर्वसंहिताभाष्ये तया । प्रत्येकविवक्षया एकवचनमः । ताभिस्तनूभिः सह अस्मासु रयिमd धनं धेहि प्रयच्छ ॥ चतुर्थी ॥ श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप यामि रातिम् । यतो भयमभयं तन्नो अस्त्वव देवानी यज़ हेडो अग्ने ॥ ४ ॥ श्रुतऽकर्णाय । कवये । वेद्याय । वचःऽभिः । वाकैः । उप । यामि । रातिम्। यतः । भयम् । अयम् । तत् । नः । अस्तु । अव । देवानाम् । यज । हे. ड: । अग्ने ॥ ४॥ हे अग्ने श्रुत्कर्णाय अस्मदीयस्तुतिश्रवणसमर्थकर्णयुक्ताय । xशृणो- तेः क्विप् । श्रुतौ कर्णौ यस्येति विग्रहः । कवये । कविः कान्त- दर्शी । अतीन्द्रियार्थदर्शिने वेद्याय सर्वैज्ञातव्याय वेदार्हाय वा। तद् अर्हति" इति यत् । "क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानत्वा- चतुर्थी । एवंगुणविशिष्टं त्वां [रातिम्] अभिलषितफलदानम् उप यामि । याञ्जाकर्मैतत् । उपयाचामीत्यर्थः । र याचतेर्लटि अन्यलो- पश्छान्दसः । कैः साधनैर्याचनं तद् आह । वचोभिः मन्त्ररूपैर्वा- क्यैः । 1वाकैः । एकदेशेन व्यपदेशः । अनुवाकैर्मन्त्रसंघात्मकैः । वाकैर्वक्तव्यैः सूक्तैर्वा । कीर रातिः । तत्स्वरूपं दर्शयति । यतः यस्माद् भयं भी- तिर्भवति तत् । x “सुपां सुलुक्" इति पञ्चम्या लुक् । त- स्माद् अभयम् भयराहित्यं नः अस्माकम् अस्तु भवतु । अथ वा तद् यतो भयं तत् सर्वं भयकारणम् अभयम् भयनिमित्तं न भववित्यर्थः । भयहेतौ विद्यमाने कस्माद् 2अभयप्रार्थनं तत्राह अवेति । हे अग्ने देवा- नाम् दीव्यतां हेडः । क्रोधनामैतत् । क्रोधम् ।हेडृ अनादरे इत्यस्माद् असुन् । अव यज तिरस्कुरु । ये ये अस्मभ्यं क्रुध्यन्ति तेषां क्रोधं निवारयेत्यर्थः ॥ [इति ] प्रथमेनुवाके तृतीयं सूक्तम् ॥ ABAT*HT. We with CDRV. Comits 37° in . We with ABDRV. IS' rearls वाकै: 11' एकदेशेन व्यपदेशः. 8 उभय. हेड अनादरे “ [अ॰१. सू०४.] ५४८ एकोनविंशं काण्डम् । 'यामाहुतिम्" इति सूक्तस्य मेधाजननकर्मणि वर्चस्वकर्मणि च वि- नियोगः पूर्वसूक्तेन सह उक्तः ॥ तत्र प्रथमा। यामाहुतिं प्रथमामथर्वा या जाता या हव्यमकृणोज्जातवेदाः । तां त एतां प्रथमो जोहवीमि ताभिष्टुप्तो वहतु हव्यमग्निरग्नये स्वाहा ॥१॥ याम् । आहुतिम् । प्रथमाम् । अथर्वा । या । जाता । या । हव्यम् । अ- कृणोत् । जातऽवेदाः । ताम् । ते । एताम् । प्रथमः । जोहवीमि । ताभिः । स्तुप्तः । वहतु । हु- व्यम् । अग्निः । अग्नये । स्वाहा ॥१॥ तिस्रः खलु अग्नेस्तन्वः । देवतारूपा हविःप्रापकदूतरूपा हविःप्रक्षेपा- धाराङ्गाररूपा चेति । तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन्” इति [ऋ०३.२०.२] मन्त्रवर्णात् । “तव मयाजा "अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः । तवाग्ने यज्ञो- 'यमस्तु सर्वस्तुभ्यं नमन्तां प्रदिशश्चतस्रः” [ऋ०१०. ५१.९] 1इत्य- त्र अग्नेर्देवतारूपत्वम् आम्नायते । हविःप्रापकदू2तरूपत्तम् अग्नेर्देवानां च उक्तिप्रत्युक्तिरूपाभ्यां मन्त्राभ्याम् अवगम्यते ।विश्वे देवाः शास्तन मा 'यथेह होता वृतो मनवै यन्निषद्य । प्र मे ब्रूत भागधेयं यथा वो येन "पथा हव्यमा वो वहानि" इति [.१०. ५२.१] । “कुर्मस्त आ- "युरजरं यद् अग्ने यथा युक्तो जातवेदो न रिष्याः । अथा वहासि सु- "मनस्यमानो भागं देवेभ्यो हविषः सुजात' इति [ऋ० १०.५१.७] । हविःप्रक्षेपाधाररूपत्वं तु सर्वलोकसंप्रतिपन्नम् । “त्वे देवा हविरदन्त्याहु- तम्" इति [ऋ०२.१.१३ ] श्रुतेः । तद् इदम् अत्रोच्यते । अथ- र्वा । “अथार्वाग् एनम् एतास्वेवाप्स्वन्विच्छेति । तद् यद् अब्रवीद् अथार्वाग् एनम् एतास्वेवाप्स्वन्विच्छेति तद् अथर्वाभवत्" इति [गो BK V and Sayana's text: art for Fiat TT. We with ACDKRD Cs PÞJ. 18 इति इत्यत्र for इत्यत्र. 25 दूतदूत. o २६२ अथर्वसंहिताभाष्ये ब्रा० १.४ ] ब्राह्मणे परब्रह्मसृष्टाखेवाप्सु परमात्मानम् अन्विष्येति अशरीरया वाचा भृगुं प्रति उक्तम् । तस्माद् अथर्वशब्दवाच्यत्वं परमात्मनोथर्ववेद- स्रष्टुराम्नायते ॥ अथर्वा अथर्वशब्दवाच्यः परमात्मा प्रथमाम् सर्वसृष्टेः प्राक्कालीनां याम् आहुतिम् अकृणोत स्वसृष्टदेवप्रीणनाम् अकरोत् । जा- तवेदाः जातानि वेत्ति जातैर्विद्यते ज्ञायत इति वा जातवेदा अग्निः या । द्वितीयाया लुक् । याम् अथर्वणा दत्ताम् आहुतिं जाताय प्रादुर्भूताय देवगणाय हर्व्याम् होतुं दातुम् अर्हा यथाभागं क- ल्पनीयाम् अकृणोत अकरोत् । जुहोतेः अर्हार्थे यत् प्रत्ययः । "वान्तो यि प्रत्यये” इति अव् आदेशः । ताम् एताम् आहु- तिं प्रथमः सर्वेभ्यो यजमानेभ्यः पूर्वभावी सन् ते । अग्निः संबोध्य- ते । विभक्तिव्यत्ययः । त्वयि अथ वा ते तव । आस्ये इत्य- ध्याहारः । जोहवीमि अत्यर्थं जुहोमि । यजमानेन सर्वयष्टृभ्यः पूर्वं देवताः परिग्रहणीया इत्यत्र मन्त्रवर्णः । 'वसून् रुद्रान् आदित्यान् इन्द्रेण सह देवतास्ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया" [तै वा ३.७. ४.३] इति । ताभिः तिसृभिस्तनूभिः सह स्तुतः स्तोतृभिरभिष्टुतोग्निः हव्यम् देवयोग्यं हविः वहतु प्रापयतु देवान् इति । सामान्यप्रतीतावाह अग्नये स्वाहेति । अग्नये अग्निशब्दप्रतिपाद्यायै देवतायै स्वाहा इदं हविः सुहुतम् अस्तु । एवं शरीरत्रययुक्तोग्निः अनेन मन्त्रेण प्रतिपाद्यते ॥ द्वितीया ॥ आकृतिं देवीं सुभगां पुरो दधे चितस्य माता सुहवा नो अस्तु । यामाशामेमि केवली सा मै अस्तु विदेयमेनां मनसि प्रविष्टाम् ॥२॥ आऽकृतिम् । देवीम् । सुऽभगाम् । पुरः । दधे। चितस्य । माता । सुऽह- 6 वा । नः । अस्तु । याम् । आऽशाम् । एमि । केवली । सा । मे। अस्तु । विदेयम् । एनाम् । मनसि । प्रविष्टाम् ॥२॥ ARCDBP fazi. Wo with KK DUCSÚJV. DKÄRSV DCC-PÉ J. So we with ABC [अ॰१. सू० ४.] ५४ एकोनविंशं काण्डम। २६३ इदमादिभिस्तिसृभिर्ऋग्भिर्वाग्देवता प्रार्थते । आकूतिम्1 तात्पर्यरूपाम् । लौकिकवैदिकसर्ववाक्यप्रतिपाद्याम् इत्यर्थः । देवीम् द्योतमानां सुभगाम् भगो भाग्यं शोभनभाग्ययुक्ताम् एवंरूपां वाग्देवतां पुरो दधे पुरस्कुर्वे प- रिचरामि । सर्वेष्वभीष्टकार्येषु वाग्देवतामेव पुरस्ताद् भावयामीत्यर्थः । अनर्थान्निवारकं हिते प्रवर्तकम् आप्तं जनं पुरोहितं कुर्वन्ति एवम अ- स्माभिः पुरतो2 निहिता चितस्य मनसः माता जननी यथा पुत्रो मा- तृवशे वर्तते एवं चितं 3स्वप्रभवं नियमयन्ती वाक् नः अस्माकं सुहवा सुष्टु ह्वातव्या अस्तु भवतु । आह्वानेन अस्मदनुकूला भवत्वित्यर्थः । किं च याम् आशां फलविषयां कामनाम् एमि प्राप्नोमि सा कामना मे मम केवली अस्तु असाधारणी4 भवतु । 5मदन्यं न कामयताम् इत्य- र्थः। g"केवलमामक." इति केवलशब्दाच्छन्दसि ङीप । न केवलं कामना किं तु मनसि प्रविष्टाम् निहितां सर्वदा मनसि प्रव- र्तमानाम् एनां फलविषयां कामनां विदेयम् फलपर्यवसायिनीं लप्स्या- सम् । विदेर्लाभार्थाद् आशीर्लिङि “लिड्याशिष्यङ्” इति अङ् प्रत्ययः । ङीत्वात् लघूपधगुणाभावः ॥ तृतीया ॥ आकृत्या नो बृहस्पत आकूत्या न उपा गहि । अथो भगस्य नो धेह्यथो नः सुहवो भव ॥ ३ ॥ आऽकृत्या । नः । बृहस्पते । आऽकूत्या । नः । उप । आ । गहि । अथो इति।भगस्य । नः। धेहि । अथो इति। नः । सुऽहवः । भव ॥३॥ हे बृहस्पते बृहतां देवानां हितोपदेष्टुत्वेन पालक एतन्नामक देव आ. कूत्या सर्ववाक्यतात्पर्यार्थरूपया वाचा सह नः अस्मान् उपागहि वाग्दे- वताम् अस्माकम अनुकूलयितुम् उपागच्छ । गमेर्लोटि “बहुलं छन्दसि" इति शपो लुक् । हेर्डित्त्वाद् “अनुदातोपदेश” इति अ- PODRŠC Tic. We with KÄVD.. 18' आकृती. Sityraria's text too: आकृती देवी.. एवमिति अस्माभिरवं पुरतो fion एवम् अस्माभिः पुरतो. 33 स्वप्रणवं. 18' असाधारणं. S मद्वदन्येन काम २६४ भाग्यम् । अथर्वसंहिताभाष्ये नुनासिकलोपः । “असिद्धवद् अत्रा भात्" इति अनुनासिकलोपस्य असिद्धत्वाद् “अतो हेः” इति हेर्लुक् न भवति । एतदेव आ- दरार्थं पुनरुच्यते आकृत्या न उपा गहीति ॥ अथो अपि च भगस्य भाग्यम् । “क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानत्वाच्चतु- र्थी । “चतुर्थ्यर्थे बहुलं छन्दसि" इति षष्ठी । नः अस्मभ्यं दे- हि यच्छ । एतत् सर्व वृहस्पतेराभिमुख्येन विना न1 घटत इति तदेव प्रार्थ्यते अथो न इति चरमपादेन । अथो अपि च नः अस्माकं सु- हवः सुष्ठु ह्वातव्यः आह्वानमात्रेणानुकूलो भव ॥ चतुर्थी ॥ बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम् । यस्य देवा देवतः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् ॥ ४ ॥ बृहस्पतिः । मे। आऽकूतिम् । आङ्गिरसः । प्रति । जानातु । वाचम् । एताम् । यस्य॑ । देवाः । देवताः । समऽबभूवुः । सः। सुऽप्रनीताः । कामः । अनु । एतु । अस्मान् ॥४॥ आङ्गिरसः अङ्गिरसां पुत्रः । बृहस्पतेरङ्गिरसः पुत्रत्वम् ऐतरेयब्राह्मणे समाम्नायते । “येङ्गारा आसंस्तेङ्गिरसोभवन् । यद् अङ्गाराः पुनरवशान्ता उददीप्यन्त तद् बृहस्पतिरभवत्" इति [ऐ० ब्रा०३.३४] । तादृशो दे- वः आकूतिम् सर्वाभिमायरूपाम् एतां सकलश्रुतिपुराणादिप्रसिद्धां वाचम् वाग्देवतां मे । x“क्रियार्थोपपदस्य” इति चतुर्थी । मह्यं दातुं प्रति जानातु स्मरतु ।“संप्रतिभ्याम् अनाध्याने" इति अ- नाध्यान इति निषेधात प्रतिपूर्वात जानातरात्मनेपदं न भवति छ । र्थिनं प्रति दातव्यस्मरणं प्रदानान्तं भवतीति तदेव प्रार्थते । यस्य बृह- १ BCD R S देवताः संवभूवुः. D• देवताः सर्वभूवुः corrected to Bषताः संबभुवुः. Ife with K KVD P. २ PJ सम् । बभूवुः. We with P. 1 Sन न for न. [अ०१. सू°५.] ५४९ एकोनविंशं काण्डम्। २६५ स्पतेः । व1श इति अध्याहारः । देवाः देवताश्च स्त्रीपुरुषात्मना प्रसि- द्धाः सकला देवताः सुप्रणीताः येन बृहस्पतिनैव कार्येषुः सुष्ठु प्रणीयमा- ना देवताः संबभूवुः संभूताः संगता ऐकमत्यं प्राप्ताः सकला देवता य- स्य वशे वर्तन्ते । स कामः काम्यमानफलप्रदाता बृहस्पतिः अस्मान् का- मयमानान् अभ्येतुं2 फलप्रदानाय अभिमुखम् आगच्छतु ॥ [इति ] प्रथमेनुवाके चतुर्थं सूक्तम् ॥ 'इन्द्रो राजा" इति एकर्चेन सूक्तेन धनकामः इन्द्रं यजेत उपति- ष्ठेत वा ॥ ऋक्पाठस्तु इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति । ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश्चिदुर्वाक् ॥१॥ इन्द्रः । राजा । जगतः । चर्षणीनाम् । अधि । क्षमि । विषुऽरूपम् । यत् । अस्ति। ततः। ददाति । दाशुषे । वसूनि । चोदत् । राधः । उपऽस्तुतः । चित् । अ- र्वाक् ॥१॥ जगतः त्रैलोक्यस्य चर्षणीनाम् । मनुष्यनामैतत् । मनुष्योपलक्षितानां दै- वीनां मानुषीणां [च] प्रजानां राजा स्वामी इन्द्रः परमैश्वर्यसंपन्नो देवः दा- शुषे हविर्दत्तवते जनाय वसूनि धनानि ततः तस्मात् । आनीयेति अध्या- हारः । त्यन्लोपे पञ्चमी । ददाति ददातु3 । तत इत्युक्तं किं तद् इति तद् आह । क्षमि क्षमायां पृथिव्याम् । क्षमाशब्दात् स- प्तम्येकवचने “आतः" इति योगविभागाद् आकारलोपः । अधिः सप्तम्य- र्थानुवादी । विषुरूपम् नानारूपं यद् अस्ति तस्माद् ददातु इत्य- न्वयः । एतदेवाह चोददिति । उपस्तुतः अस्माभिरभिष्टुतः सन् । चि- च्छब्द एवार्थे । अर्वाक् अस्मदभिमुखं राधः धनं चोदत् चोदयेत् प्रेर- Parl. We with ÞJ. 18 वंश. 2 Sayana's text also: अभ्येतु. दातु for ददातु. ३४ २६६ 66 66 अथर्वसंहिताभाष्ये येत् । प्रयच्छतु इति यावत् । ४ चुद प्रेरणे । अस्माण्ण्यन्ताल्लेटि 'छन्दस्युभयथा? इति लेटि आर्धधातुकत्वात् “णेरनिटि” इति णिलो- प: । "लेटोडाटौ” इति अडागमः ॥ [इति ] प्रथमेनुवाके पञ्चमं सूक्तम् ॥ 'सहस्रबाहुः पुरुषः” इति सूक्तद्वयं पुरुषमेधे क्रतौ पुरुषपश्वनुमन्त्रणे विनियुक्तम् । पुरुषमेधोश्वमेधवञ्चैत्र्याः पुरस्तात्" इति प्रक्रम्य वैताने सूत्रितम् । “स्नातम् अलंकृतम् उत्सृज्यमानं सहस्रबाहुः पुरुषः[१९.६] केन पार्ष्णी[१०.२] इत्यनुमन्त्रयते” इति [वै०७.२] ॥ तथा एतस्य सूक्तद्वयस्य शनैश्चरग्रहदेवत्यहविराज्यहोमे समिदाधानोप- स्थानयोश्च विनियोगः । “अथाज्यभागान्ते विषासहिम्[१७.१] इत्यादि- त्याय हविषो हुत्वाज्यं जुहुयात् समिध आधायोपतिष्ठते” इति प्रक्रम्य शान्तिकल्पे सूत्रितम् । “सहस्रबाहुः पुरुषः[ १९.६] केन पार्ष्णी [१०. २] प्राणाय नमः[११.४] इति शनैश्चराय" इति [शा क°१५.] ॥ सौवर्णभूमिदानेपि एतत् सूक्तद्वयम् आज्यहोमे विनियुक्तम् । रोहिण्याम् उपोषितो ब्रह्मा" इति प्रक्रम्य परिशिष्टेभिहितम् । "रभ्याथ जुहुयात् कामसूतं कालसूक्तं पुरुषसूक्तम् इत्यथ सुवर्णमयीं भू- "मिम् इत्यादि" [प°१०.१] ॥ सर्वातिशायित्वसर्वभूतात्मकत्वकामेन नारायणाख्येन पुरुषेण अनुष्ठितस्य पुरुषमेधक्रतोः प्रतिपादकत्वात् जगत्कारणस्य आदिनारायणपुरुषस्य प्रतिपा- दकत्वाद् वा एतत् पुरुषसूक्तम् इति उच्यते । अतः अस्य सूक्तस्य द्वि- विधोर्थः आधि1यज्ञिक एकः 2आद्यात्मिकोपरः । पुरुषमेधविधायकं वाजस- नेय3कब्राह्मण एवम् आम्नायते । “पुरुषो ह वै नारायणोकामयत4 । "अति5तिष्ठेयं सर्वाणि भूतानि अहमेवेदं सर्व स्याम् इति । स एतं पु- 'रुषमेधं पञ्चरात्रं यज्ञक्रतुम् अपश्यत् । तम् आहरत् । तेनायजत । 'नेनेष्ट्वात्यतिष्ठत् सर्वाणि भूतानि । इदं सर्वम् अभवत्" इति [श° प०१३.६.१.१] ॥ "अथ "अन्वा- 6 “ 38यिक +8 कामयतातिष्ठेयं for 'कामयत । 25 आध्यात्म 18' यज्ञक. अतितिष्ठेयं. तः। R"सं- [अ०१.सू० ६.] ५५० एकोनविंशं काण्डम्। तत्र सूक्ते प्रथमा ॥ सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात् । स भूमि विश्वतो वृत्वात्य॑तिष्ठद् दशाङ्गुलम् ॥ १ ॥ सहस्रऽबाहुः । पुरुषः । सहस्रऽअक्षः । सहस्रेऽपात । सः। भूमिम् । विश्वतः । वृत्वा । अति । अतिष्ठत् । दशऽअङ्गुलम् ॥१॥ पुरुषसंज्ञापेक्षितावरणस्थानीयो देहविशेषो यज्ञानुष्ठातुर्नारायणपुरुषस्य रू- प्यते । यथा परोक्षस्याग्नेः प्रत्यक्षैरग्निभिः स्तवः तद्वत् परोक्षस्यादिपुरुष- स्य लौकिकैः सहस्रबाहुत्वं 1बह्वक्षिपादत्वं च उच्यते । सहस्रबाहुः सह- स्रशब्दस्य उपलक्षणावाद् अनन्तैर्बाहुभिर्युक्तः सहस्राक्षः बहुभिरक्षिभिरुपे- तः। “बहुव्रीहौ सक्थ्यक्ष्णोः” इति षच् समासान्तः । सति शिष्टः समासान्तः स्वरः प्रवर्तते । सहस्रपात् अनेक चरणः। सं- ख्यासुपूर्वस्य” इति पादस्य लोपः समासान्तः ५ । एवंरूपो यः पु- रुषः यज्ञानुष्ठाता नारायणाख्यः पुरुषो वर्तते स पुरुषः भूमिम् सप्तसमु-2 द्रद्वीपां विश्वतः सर्वतो वृत्वा महिम्ना व्याप्य दशाङ्गुलम् दशाङ्गुलि3 प्र- माणं यस्येति । आहीर्यस्य ठकः “अध्यर्धपूर्वद्विगोः” इति लुक् । "तत्पुरुषस्याङ्गुले; संख्याव्ययादेः” इति अच् समासान्त । अत्र दशाङ्गुलशब्देन हृदयाकाशम् उच्यते । तद् अत्यतिष्ठन् । पूर्वं हृदयाका- शे परिच्छिन्नस्वरूपः सन् स्वानुष्ठितक्रतुसामर्थ्यात् परिच्छिन्नाकारतां प- रित्यज्य सर्वातिशायिस्वरूपोभवद् इत्यर्थः ॥ अध्यात्मपक्षे सर्वप्राणिसमष्टि- रूपः सूत्रामा प्रतिपाद्यते । सहस्रबाहुः ये व्यष्टिभूतसर्वप्राणिनां बाह- वस्ते सर्वे सूत्रात्मदेहान्तःपातित्वात् तदीया एवेति सहस्रबाहुत्वम् । एवम् अक्षिषु पादेष्वपि योजनीयम् । यद्वा सर्वत्र बाह्वादिसाध्यबहुकार्यसंभ- वात् तेषां सहस्रावव्यपदेशः । अत एव इमम् 4अर्थम् अभिप्रेत्य अन्यत्रा- म्नायते । “विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्" इति [ऋ० १०.४१.३] । पुरुषः पुरि देहे शेत इति पुरुषः । 18 बहक्षिकापादत्वं. 23 सप्तमुद्रद्वीपां. 35 दशांगुलिः. 45 किममर्थम्. एवंरूपो यः पु- अत्र २६ अथर्वसंहिताभाष्ये षोदरादिः । सर्वप्राणिदेहावस्थितः पूर्णो वा सहस्राक्षः सहस्रपात् । एवंरूपो यो वर्तते स पुरुषः भूमिम् । उपलक्षणम् एतद् अबादीना भूतानाम् । सकलभूतकार्यब्रह्माण्डं 1तदन्तर्गतान् भूम्यादीन् विकारान् वा विश्वतः सर्वतो वृत्वा मृदिव घटादीन् व्याप्य दशाङ्गुलम् दशाङ्गुलिप्रमा- णं 2देशम् अत्यतिष्ठत् अतिक्रम्य अवस्थितः । दशाङ्गुलम् इति उपलक्ष- णम् । ब्रह्माण्डाद् बहिरपि सर्वतो व्याप्य अवस्थितः । एकेनांशेन ब्र- ह्याण्डं व्याप्य दशभिरंशैः कार्यप्रपञ्चासंस्पृष्टः स्वप्रतिष्ठो वर्तत इत्यर्थः ॥ द्वितीया ॥ त्रिभिः पद्भिर्द्यामरोहत् पादस्येहाभवत् पुनः । तथा व्य क्रामद् विष्वङशनानशने अनु ॥ २ ॥ त्रिऽभिः । पतऽभिः । द्याम् । अरोहत। पात् । अस्य । इह । अभवत् । पुनः । तथा । वि । अक्रामत् । विष्वङ् । अशनानशने इत्यशनऽअनशने । अनु ॥ २॥ सोयं यज्ञानुष्ठाता नारायणपुरुषः त्रिभिः पद्भिः पादैः । पद्दन्नो मास्" इत्यादिना पादशब्दस्य पद्भावः । द्याम् दिवं स्वर्गलोकम् आ- रोहत् आरूढवान् आक्रान्तवान् । [अस्य] पुरुषस्य पादः चतुर्थः इह भू- लोके पुनरभवत् । पुनः3पुनराविर्भवति प्रकाशते । पादचतुष्टयेन सर्वलोक- व्याप्तिमेव दर्शयति । तथा तेन उक्तेन प्रकारेण अशनानशने अश्नातीति अ- शनम् । “कृत्यल्युटों बहुलम्" इति कर्तरि ल्युट् । अ- नशनम् अनश्नत् अशनानशने वस्तुनी अनु । लक्षणार्थे अनुः कर्मप्रवचनीयः । अशना मनुष्यतिर्यगादयः । अनशना4 देववृक्षाद- यः । तान् अभिलक्ष्य विष्वङ् सर्वतोञ्चनः विश्वव्यापनः व्यकामत् वि- १ KV मारोहत्पादो° with Sayama,' मरोहत्पादोस्ये changed fironm मरोहत्पादःस्ये'. We wilu ABCDRV De TAS 27°. Xone of our authorities have fast- कुश'. ४ A BK KC D REV D. शनानंशने. PJ अशनानशने इत्यशनऽशने ।. अ- शनानशने इत्यशन अनशने। ५P आरोहत्. ६PPJ पादस्य } for पात् । अस्य । TS त्वदंतर्गतान्. 25 दशम्, S' पुनःपुनःपुनरा. “पइन्नो- 48 अनशाभ्य, [अ०१. सू०६.] ५५० एकोनविंशं काण्डम् । २६९ क्रान्तवान् ॥ अध्यात्मपक्षे सोयम् उदीरितस्वरूप आदिपुरुषः त्रिभिः प- द्भिः पादैः अंशैः संसारस्पर्शरहितैः द्याम् दिवं द्योतनात्मकं स्वप्रकाश- स्वरूपम् आरोहत आरूढवान् आस्थितवान् । यद्यपि “सत्यं ज्ञानम् अ- न्तं ब्रह्म" [तै आ°१.१] इत्याम्नांतस्य परब्रह्मणः इयत्ताया अभावाद् अंशचतुष्टयं न निरूपयितुं शक्यं तथापि जगद् इदं ब्रह्मस्वरूपापेक्षया अ- त्यल्पम् 1इति विवक्षितुं पादत्वोपन्यासः । स पुरुषः संसारस्पर्शरहितः ज्ञा- नबहलस्वरूपो द्याम् आरोहत् अज्ञानकार्यात् संसाराद् बहिर्भूतः सन् अत्रत्यैर्गुणदोषैरस्पृष्टः स्वस्वरूपे वर्तत इत्यर्थः । अस्य पुरुषस्य योयं पादैः लेशश्चतुर्थः सोयम् इह जगति पुनरभवत् सृष्टिसंहाराभ्यां पुनःपुनरावि- र्भवति । अस्य सर्वस्य जगतः परमात्मलेशत्वं भगवताप्युक्तम् । विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥ इति [भ.गी. १०.४२.] । तथा तेन प्रकारेण तुरीयेण पादेन स पु- रुषो विष्वङ् विष्वगञ्चनः अशनानशने अनु स्थावरजङ्गमात्मकं जगद् अ- भिलक्ष्य व्यक्रामत् । अथ वा चेतनाचेतनात्मकम् उभयविधं जगद् यथा स्यात् तथा पुरुषः स्वयमेव 2द्विविधो भूत्वा व्याप्तवान् इति । यद्येकस्मिन् कल्पे एकस्य पादस्य जननमरणयुक्तसर्वभूतात्मकत्वं तर्हि कल्पान्तरेषु पा- दत्रयमध्ये एकैकस्य सर्वभूतात्मकत्वं संभवति । तथा च सति अंशचतुष्ट- यात्मकस्य परब्रह्मणः सर्वजगदात्मकत्वसंभवेन सांसारिकसुखदुःखादिद्वन्द्वसं- स्पर्शो भविष्यति इत्येषा शङ्का अंशत्रयेण द्याम् आरोहत इह पुनरभक्त इत्यनेन अपाक्रियते । तथा हि अंशत्रयात्मकं ब्रह्म सर्वदा स्वप्रतिष्ठं सं- सारस्पर्शरहितं सच्चित्सुखलक्षणं वर्तते । एको्शस्तु पुनःपुनर्जगदात्मना वि- वर्तत इति । यः पूर्वकल्पे जगदात्मा वि3वृत्तः स एव कल्पान्तरेपि स- र्वभूतात्मना विवर्तते नान्योंश इति ॥ तृतीया ॥ तावन्तो अस्य महिमानस्ततो ज्यायांश्च पूरुषः । १ A B D अस्य महिमा . We witli K KRCSVDe P. २८ पुरुषः. We with A DR. KÄVDS. 28 विविधे. 38' निवृत्तः. 18 अपि for इति. अथर्वसंहिताभाष्ये पादौस्य विश्वा भूतानि त्रिपादस्यामृतx दिवि ॥ ३ ॥ तावन्तः । अस्य । महिमानः । ततः । ज्यायान् । च । पुरुषः । पादः । अस्य । विश्वा । भूतानि । त्रिऽपात् । अस्य । अमृतम् । दिवि ॥३॥ यद् इदं देवतिर्यङ्मनुष्यात्मकं जगद् यावद् अस्ति तावान् सर्वोपि अस्य यज्ञानुष्ठातुः पुरुषस्य महिमा महत 1कर्म स्वकीयसामर्थविशेषः । ता- वन्तो महिमान इति पूजायां बहुवचनम् सृष्टिभेदापेक्षया वा । ततो म- हिम्नोपि महिमाधारः पुरुषः ज्यायान् प्रवृद्धः अतिशयितः । अस्य पा- दश्चतुर्थः विश्वा विश्वानि भूतानि भवनवन्ति स्थावरजङ्गमात्मकानि । व्या- वर्तत इति शेषः । अस्य त्रिपात् पादत्रयम् अमृतम् अमरणधर्मकं सत् [दिवि] द्युलोके स्वर्गलोके वर्तते ॥ अध्यात्मपक्षे यद् इदं देवतिर्यङ्मनुष्या- त्मकम् अनीतानागतवर्तमानम् अस्तिरूपं जगद् यावद् अस्ति तावान् सर्वोपि अस्य पुरुषस्य महिमा । इदं तु तस्य न वास्तवं स्वरूपम् । वास्तवस्तु पुरुषः । अतो महिम्नो यथोक्ता मामयलक्षणात्2 कार्यव- र्गात् ज्यायान् वृद्धतरः। वृद्धशब्दस्य ईयसुनि ज्यादेशः। नै- तावान् इति मन्तव्यं कथम् इत्यत आह । विश्वा विश्वानि सर्वाणि भू- तानि भवनवन्ति कालत्रयवर्तीनि प्राण्यप्राणिजातानि अस्य पुरुषस्य पादः चतुर्थाशः । अस्य 3अवशिष्टं त्रिपात् अंशत्रयात्मकं स्वरूपम् अमृतम् अमरणधर्मकं विनाशरहितं सत् दिवि द्योतनात्मके स्वप्रकाशे स्वरूपे अ- वतिष्ठते । तुरीय एव पादो जननमरणयुक्तः । तथा च तैत्तिरीया उत्त- रनारायणे समामनन्ति । "अ4जायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम्" इति [तै आ०३.१३.१] । यद्यपि परब्रह्मणः परि- च्छेदाभावाद् अंशचतुष्टयं न निर्देष्टुं5 शक्यं तथापि विश्वम् इदं ब्रह्मरूपापे- क्षया अत्यल्पम् इति विवक्षित्वा पादत्वोपन्यासः । त्रिपादिति । त्रयः पादाः अस्य “संख्यासुपूर्वस्य” इति लोपे “द्वित्रिभ्यां पाइन" इति उत्तरपदान्तोदात्तत्वम् ॥ 18' कर्मा. 25 यथोक्तान् मामर्त्यलक्षणान्.. विशिष्ट for अवशिष्ट. माना. न निर्दष्टमशक्यं. 45 सजाय२७१ [अ०१. सू०६.] ५५० एकोनविंशं काण्डम् । चतुर्थी ॥ पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् । उतामृतत्वस्येश्वरो यद्न्येनाभवत् सह ॥ ४ ॥ पुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च । भाव्यम्। उत । अमृतऽत्वस्य । ईश्वरः । यत् । अन्येन । अभवत् । सह ॥ ४ ॥ यद् भूतम् अतीतं जगत् यच्च भव्यम् भविष्यद् यदपि इदं प्रत्यक्षेण दृश्यमानं व्यक्तं स्थावरजङ्गमात्मकं वर्तमानं जगत् तत् सर्वं पुरुष एव । यथा अस्मिन् कल्पे वर्तमानाः प्राणिदेहाः सर्वेपि पुरुषस्यावयवाः तथैव अतीतागामिनोः कल्पयोरिति1 द्रष्टव्यम् । अथ वा एतत् सर्व पुरुष एव पुरुषस्यैवा2यं विवर्तः ॥ उत अपि च अयं पुरुषः अमृतत्वस्य देवत्वस्यापि ईश्वरः स्वामी । देवानामपि ईश्वर इति यावत् । यत् किंचिद् भूतम् अन्नेन अदनीयेन भोग्येन सहाभवत् भवति तस्यापीश्वरः । अयोनि- जानां देवानाम् अन्नरसपरिणामानां मर्त्यादीनां च ईश्वर इति यावत् । यज्ञानुष्ठातुर्नारायणस्य यज्ञनिर्वत्यै सार्वात्म्यम् । जगत्कारणस्य सूत्रात्मन- स्तु स्वाभाविकम् इतीयान् विशेषः । शिष्टं समानम् ॥ पञ्चमी॥ यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्य किं बाहू किमूरू पादा उच्येते ॥ ५ ॥ यत् । पुरुषम् । वि । अदधुः । कतिऽधा । वि। अकल्पयन् । मुखम् । किम् । अस्य । किम् । बाहू इति । किम् । ऊरू इति । पादौ । उच्यते इति ॥ ५॥ "विराड् अग्रे समभवद् विराजो अधि पूरुषः"[९] इति पुरुष-

  • KRV" *. We with A B CDRŠ DE. २C RB °मृतत्व. Wourith

ADSK kv De. So we with A B D R S. C यदन्य. K KV यदन्ने'. De यद्- न्ये changed to यदने . P अन्येन 1. We with PJ. ५ A B C D E KIV Dव्यं- Ty. We with R. PJ 1: 1. We with Ⓡ. 18 कल्पयोर्द्रष्टव्यम्. 23 पुरुषस्येवायं. ४ २७२ अथर्वसंहिताभाष्ये सृष्टिराम्नास्यते । “यत् पुरुषेण हविषा देवा यज्ञम अतन्यत" [१०] इति पुरुषेण साधनेन यज्ञसृष्टिश्च आम्नास्यते । तं पुरुषं निमित्तीकृत्य प्रश्नोतररूपेण ब्राह्मणादिसृष्टिं वक्तुम् अत्र ब्रह्मवादिनां प्रश्ना उच्यन्ते । यत् यदा पुरुषम् यज्ञं व्यदधुः विशेषेण अकुर्वन् साध्या नाम देवाः व- सवश्च तदा तं पुरुषं कतिधा कतिभिः प्रकारैः व्यकल्पयन् विविधं क- ल्पितवन्तः । एष सामान्यरूपः प्रश्नः । "इति च” इति संख्यासं- ज्ञकात् कतिशब्दात् "संख्याया विधार्थे धा" इति धा प्रत्ययः । मुखं किम् इत्यादयो विशेषप्रश्नाः । अस्य यज्ञात्मनः पुरुषस्य किं वस्तु मु- खम् आसीत् । किं वस्तु बाहू । किं वस्तु ( ऊरू । किं वस्तु] पादा उच्यते । बाहूरुपादवयात्मना किं वस्तु कथ्यते । "लोपः शा- कल्यस्य इति वकारलोपः। किम् इति सामान्यरूपत्वाद् नपुं- सकलिङ्गता एकवचनता च ॥ अध्यात्मपक्षे यत् यदा पुरुषम् वैराज व्यदधुः मनःसंज्ञकप्रजापतेर्विराजः प्राणरूपा देवाः संकल्पेन उत्पादितवन्तः तदानी कतिधा व्यकल्पयन् इत्यादि पूर्वेण समानम् ॥ [इति ] एकोनविंशे काण्डे प्रथमेनुवाके षष्ठं सूक्तम् ॥ ब्राह्मणोस्य मुखम् आसीद्” इति सूक्तस्य पुरुषमेधे उत्सृज्यमान- पुरुषपश्वनुमन्त्रणे शनैश्चरग्रहदेवत्यहविराज्यहोमे च पूर्वसूक्तेन सह उक्तो विनियोगः । " तत्र प्रथमा। ब्राह्मणोस्य मुखमासीद् बाहू राजन्योडभवत् । मध्यं तदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥ ६ ॥ ब्राह्मणः । अस्य । मुखम् । आसीत् । बाहू इति । राजन्यः । अभवत् । मध्यम् । तत् । अस्य । यत् । वैश्यः । पत्ऽभ्याम् । शूद्रः । अजायत ॥६॥ “कतिधा व्यकल्पयन्” इति सामान्य प्रश्नस्य “चन्द्रमा मनसो जातः" इत्यादिना उत्तरं भविष्यति । मुखादिविशेषप्रश्नानाम् उत्तरम् अनया उ- च्यते । अस्य यज्ञात्मनः पुरुषस्य ब्राह्मणो मुखम् आसीत् । ब्राह्मणजा[अ॰१. सू०६.] ५५० एकोनविंशं काण्डम्। २७३ तिविशिष्टः पुरुषः अस्य मुखाद् उत्पन्न इत्यर्थः । योयं राजन्यः क्षत्रि- यजातिविशिष्टः पुरुषः [स तस्य यज्ञपुरुषस्य बाहू बाहुद्वयम् अभवत् ] । [यद् वैश्यः वैश्यजातम्] इति यद् अस्ति [ तद् अस्य यज्ञपुरुषस्य मध्यम् मध्याङ्गम् अभवत् ] । मध्यभागाद् वैश्य उत्पन्न इत्यर्थः । पद्भ्याम् पा- दाभ्यां शूद्रः अजायत उत्पन्नः ॥ इत्थं च मुखादिभ्यो ब्राह्मणादीनाम्1 उ- पत्तिं तैत्तिरीयाः समामनन्ति । “स मुखतस्त्रिवृतं निरमि2मीत । ब्राह्म- णो मनुष्याणाम्” इति । " उरसो बाहुभ्यां पञ्चदशं निरमिमीत । राजन्यो मनुष्याणाम्" इति । “मध्यतः सप्तदशं निरमिमीत । वैश्यो मनुष्याणाम्" इति । तत्र “अन्नधानाद्ध्यसृज्यन्त" [सं०७.१.१.५] इति वाक्य- शेषेण शरीरस्य मध्यभाग एव विवक्षितः । मध्यभागः ऊर्वोरुपलक्षकः । अत एव प्रश्नः किम् ऊरू इति युज्यते । तत्रैव प्रश्ने “एकविंशं निर- मिमीत । शूद्रो मनुष्याणाम्" इति च । अतः प्रश्नोत्तरे उभे अपि त- त्परत्वेन योजनीये ॥ अध्यात्मपक्षेपि एषोर्थः समानः ॥ द्वितीया ॥ चन्द्रमा मनसो जातश्चक्षोः सूर्यों अजायत । मुखादिन्द्रश्चाग्निश्च प्राणाद् वायुरजायत ॥ ७ ॥ चन्द्रमाः । मनसः । जातः । चक्षोः । सूर्यः । अजायत । मुखात् । इन्द्रः । च । अग्निः । च । प्रीणात् । वायुः । अजायत ॥ ७ ॥ अस्मिन् उत्तरस्मिन्नपि मन्त्रे उत्तरकथनेन तदनुसारिणः प्रश्ना ऊह- नीयाः । अत एव कतिधा व्यकल्पयन्निति सामान्यप्रश्नो ब्रह्मवादिभिः कृतः । यज्ञात्मनः पुरुषस्य मनसः सकाशात् चन्द्रमाः [चन्द्रम आह्ला- दं माति निर्मिमीत इति चन्द्रमाः सोमो जातः । “चन्द्रमा मनो भू- त्वा हृदयं प्राविशत्" इति हि श्रुत्यन्तरम् [ऐ आ०२.४.२] । चक्षोः चक्षुषः ।अन्त्यलोपश्छान्दसः । सूर्यः अजायत । “आ- दित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्” इति हि श्रुतिः [ऐ आ २.४.२] । इ- न्द्रश्च अग्निश्च । परस्परसमुच्चयार्थों चकारौ । तौ देवौ मुखात जातौ । 13 ब्राह्मणानाम्. 28 निरमिमीते. ३५ २७४ अथर्वसंहिताभाष्ये अत्र मुखशब्देन वागिन्द्रियम् उच्यते । “ब्राह्मणोस्य मुखमासीत्" इत्य- त्र सर्वं मुखमण्डलं विवक्षितम् । “अग्निर्वाग् भूवा मुखं प्राविशत्" इति ऐतरेयकश्रुतिः [ऐ आ°२.४.२] । वाचः इन्द्रसंबन्धं तैत्तिरीयाः स- मामनन्ति । “वाग् वै पराच्य1व्याकृ2तावदत् । ते देवा इन्द्रम अब्रुवन् । “इमां ना वाचं व्याकुर्विति । ताम् इन्द्रो मध्यतोवक्रम्य व्याकरोत् । "तस्माद् इयं व्याकृत3 वाग् उद्यते " इति [तै० सं० ६.४.७.३] । अस्य पुरुषस्य प्राणात् । अत्र प्राणशब्देन प्राणेन्द्रियं विवक्ष्यते । तस्माद् वायुर- जायत । “वायुः प्राणो भूत्वा नासिके प्राविशत" इति हि श्रुत्यन्तरम [ऐ आ०२.४.२] । अत्र सर्वत्र स्वस्वकारणप्रवेशेन तस्माद् उत्पत्तिर्वि- वक्षितेति मन्तव्यम् ॥ अध्यात्मपक्षेपि अयम् अर्थः समानः । तृतीया ॥ नाभ्या आसीदन्तरिक्षं शीर्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात् तो लोकाँ अकल्पयन् ॥ ४ ॥ नाभ्याः । आसीत् । अन्तरिक्षम् । शीर्णः । द्यौः । सम् । अवर्तत । पत्ऽभ्याम् । भूमिः । दिशः । श्रोत्रात् । तथा । लोकान् । अकल्पयन्॥८॥ अत्रापि उत्त्तरानुसारिणः प्रश्ना ऊह्याः । अस्य यज्ञपुरुषस्य नामिशि- रःपादेभ्यः अन्तरिक्षद्युभूमयस्त्रयो लोकाः समभवन् । [शीर्णः ] ।शी- र्षश्छन्दसि” इति शिरसः शीर्षन् आदेशः । “अल्लोपोनः” इति अका- रलोपः । पद्भ्याम् इति । “पद्दन्नोमास्” इति पद्भावः । श्रो- त्रात अस्य पुरुषस्य श्रोत्रेन्द्रियाद् दिशः प्राच्यादय आसन् । “दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्” इति हि श्रुत्यन्तरम् [ऐ आ०२.४.२] । उ- क्तार्थोपसंहारश्चतुर्थश्चरणः । तथा उक्तेन प्रकारेण उक्तरीत्या लोकान् अ- न्तरिक्षादीन् । उपलक्षणम् एतत् । ब्राह्मणक्षत्रियादीन् अकल्पयन अस्माद् यज्ञपुरुषात् कल्पितवन्तः उत्पादितवन्तः साध्या नाम देवाः ॥ अध्या- त्मपक्षे प्रजापतेः प्राणरूपा देवा इतीयान् विशेषः ॥ 46 PJ शीणों।. "शीपणः। 18' पराच्च. 'S' व्यावृता. व्याकृत्य. [अ०१. सू०६.] ५५० एकोनविंशं काण्डम्। २७५ चतुर्थी॥ विराडग्रे समभवद् विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद् भूमिमथो पुरः ॥ ९ ॥ विराट् । अग्रे। सम् । अभवत् । विऽराजः । अधि । पुरुषः । सः। जातः । अति । अरिच्यत । पश्चात् । भूमिम् । अथो इति । पुरः॥९॥ पूर्वं यस्मात् पुरुषाद् ब्राह्मणादिसृष्टिरुक्ता तस्य सृष्टिरत्रोच्यते । अग्रे सृष्ट्यादौ विराट् विविधं राजन्ति वस्तूनि यस्मिन्निति स विराड् नाम पुरुषः समभवत् । “सहस्रबाहुः पुरुषः” इत्यादिना उपवर्णिताद् आ- दिपुरुषाद् विराट्संज्ञकः पुरुषोजायत । “तस्माद् विराट् अजायत" इति [तै आ°३.१२.२] शाखान्तरे विराजः आदिपुरुषाद् उत्पतिः समा- स्नायते । तथा मानवे शास्त्रे स्मर्यते । द्विधा कृत्वात्मनो देहम् अर्धेन पुरुषोभवत् । अर्धेन नारी तस्यां च विराजम असृजत प्रभुः ॥ इति [म स्मृ०१.३२] । विराजः अधि । अधिशब्दः पञ्चम्यानुवादी। तस्माद् विराजः पुरुषः1 अन्यः पुरुषोजायत । अत्र वाजसनेयकम् । “विराजो अधि पूरुष इत्येषा वै सा विराट् । एतस्या 2एवैतद् विराजो यज्ञं पुरुषं जनयति" इति [श ब्रा० १३.६.१.२] । स च तृतीयः पुरुषः यज्ञात्मा जातः उत्पन्नमात्र एव अत्यरिच्यत अतिरिक्त आसीत् । भूमिम् भूम्यादीन् सर्वान् लो- कान् पश्चात् पश्चाद्भागे अथो अपि च पुरः पुरस्तात् । ५ "पूर्वा- धरावराणाम् असि पुरधवश्चैषाम्" इति असि प्रत्ययः । तत्संनियोगेन पू- र्वशब्दस्य पुर् आदेशः । स पुरुषो जातमात्र एव भूम्यादीन् लोकान् पश्चात् पुरस्ताच्च व्याप्य अतिक्रान्तवान् ॥ अध्यात्मपक्षे । अग्रे सृष्ट्यादौ विराट् विविधं राजन्ति वस्तूनि यस्मिन्निति स विराट् मनःसं- ज्ञकः प्रजापतिः सहस्रबाहुः पुरुष इति प्रकृताद् महापुरुषाद् अजायत । १८ पुरुषः IS अन्यः पुरुषः पुरुषः for पुरुषः अन्यः पुरुषो. 25 एव तद् lor एवैतद्. २७६ अथर्वसंहिताभाष्ये ततो विराजः अधि विराजमेव अधिकर1णीकृत्य पुरुषः अन्यः प्रजापतिः सर्वभूतेन्द्रियपुरुषसमष्ट्यात्माभवत्2 निष्पन्नः । श्रूयते हि । “स मानसीन3 आत्मा जनानाम्" इति [तै आ० ३.११.१] । मानसीनः मनसा निष्पन्न इत्यर्थः । स वैराजः पुरुषो जातः प्रादुर्भूतमात्रः अत्यरिच्यत स्वयमेव आत्मानम अत्यरेचयत् । कर्मकर्तरि रूपम् । अ- नेकधा भावलक्षणं स्वरूपातिरेकम अभजत । भूतेन्द्रियादीनि असृजद् इत्यर्थः । श्रूयते हि । “असतोधि मनोसृज्यत । मनः प्रजापतिम् अ- सृजत । प्रजापतिः प्रजा असृजत" इति [तै ब्रा०२.२.९.१०] । पश्चात् भूतग्रामसृष्टेरन्ते भूमिम् अत्यरेचयत् । सामर्थ्यात् कर्मकर्तृ- भावोत्र निवर्तते । एवम् आकाशादिपृथिव्यन्तानां तत्त्वानां सृष्टि- रुक्ता भवति । अथो भूमेरनन्तरं पुरः पूर्यन्ते सप्तभिर्धानुभिरिति पुरः शरीराणि सुरनरतिर्यगादीनां स्थावराणां च अत्यरेचयत् अतिरिक्तान्य- करोत् । पुर इति । द्वितीयाबहुवचनं शस् । छान्दसं विभक्त्यु- दात्तत्वम् ॥ अध्यात्मपक्ष एव अन्योर्थः । अग्रे विराट् ब्रह्माण्ड- रूपो देहः तस्माद् आदिपुरुषाद् उत्पन्नः । विराजः अधि विराड्देहस्यो- परि तमेव देहम् अधिकरणं कृत्वा पुरुषः तद्देहाभिमानी कश्चित् पुमान् अजायत । योयं सर्ववेदान्तवेद्यः परमात्मा स एव स्वकीयमायया विराड्- देहं ब्रह्माण्डरूपं सृष्ट्वा तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानिदेवतात्मा जीवोभवत् । एतच्च आथर्वणिका उत्तरतापनीये स्पष्टम् आमनन्ति । “स “वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव” इति [नृ उ ता १.९] । स जातः विरा- टपुरुषः अत्यरिच्यत अतिरिक्तोभूत् । देवत्तिर्यङ्मनुष्यादिरूपोभूत् । पश्चात् दे- वादिजीवभावाद् ऊर्ध्वं भूमि ससर्जेति क्रियाध्याहारः । अथो भूमि- सृष्टेरनन्तरं तेषां जीवानां पुरः शरीराणि ससर्ज । एवं भूतसृष्टिः पि- ण्डसृष्टिश्च प्रतिपादिता ॥ IS अधिकरणकृत्य पुरुपः for अधिकरणीकृत्य पुरुषः, 28 मानीयत for °त्माभवत् 66 3S मानसीने. २७७ [अ०१. सू०६.] ५५० एकोनविंशं काण्डम् । पञ्चमी॥ यत् पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ १० ॥ यत् । पुरुषेण । हविषा । देवाः । यज्ञम् । अतन्वत । वसन्तः । अस्य। आसीत्।आज्यम् । ग्रीष्मः । इध्मः । शरत् । हविः ॥१०॥ "उषा वा अश्वस्य मेध्यस्य" [बृ. आ०१.१.१] इत्यादिना पुरुषस्य अश्वत्वेन उपासना आम्नायते । अतोत्र पुरुषस्य अश्वत्वात् हविष्ट्वम् । अश्वमेधे हि अश्वः पशुः । अथ वा मुख्यः पुरुष एव पुरुषमेधे पशुः । तस्माद् अयम अर्थः । यत् यदा पुरुषेण अश्वरूपेण पुरुषरूपेण वा हविषा देवाः साध्यनामका यज्ञम् अतन्वत अकुर्वत तदानीम् अस्य यज्ञस्य वसन्तः रसानाम् उत्पादक ऋतुः स्वमहिम्ना आज्यम् होम्यम् आ- सीत् । ग्रीष्मः शोषक ऋतुः इध्मः अग्निसमिन्धनसाधनभूतकविंशतिदारु- मयात्मकः पदार्थ आसीत् । शरत शीर्यन्ते पच्यन्ते अस्याम् ओषधय इति शरद् ऋतुः हविः यज्ञियचरुपुरोडाशादिहवीरूपोभवत् ॥ अध्यात्मपक्षे । यत् यदा पुरुषेण प्रजापतिना हविषा हविष्ट्वेन संकल्पितेन हविरन्तरस्या- भावाद् देवाः प्राणाः प्राजापत्या इन्द्रियाणि च यज्ञम् संकल्पात्मकम् अ- तन्वत अकुर्वत । यद्वा यज्ञमेव अन्वतिष्ठन् । स्रष्टकामः प्रजापतिर्देवः देवशब्दवाच्यप्राणादिभेदेनोच्यते । अथ वा पूर्वोक्तकमेण देवशरीरेषु उ- त्पन्नेषु ते देवा उतरसृष्टिसिद्ध्यर्थं तत्साधनत्वेन यज्ञम् अतन्वत । कं- चिद् यज्ञम अन्वतिष्ठन् । द्रव्यस्य अद्यापि अनुत्पन्नत्वेन हविरन्तराभा- वात् पुरुषस्वरूपमेव मनसा हविष्ट्वेन संकल्प्य तेन पुरुषाख्येन हविषा यत् यदा मानसं यज्ञम् अकुर्वत तदानीम् अस्य यज्ञस्य वसन्तर्तुरेव आज्यम् अभूत । तमेव आज्यत्वेन संकल्पितवन्तः । एवं ग्रीष्मः इध्मावेन संक- ल्पितः । शरत्1 पुरोडाशादिहविष्ट्वेन संकल्पिता । पूर्व2 पुरुषस्य हविःसामा- न्यरूपत्वेन संकल्पः वसन्तादीनां तु आज्यादिषु विशेषरूपत्वेनेति द्रष्टव्यम् ॥ BD S feat. We with CKRV De. २PJ अतन्वत ।. We with P. 18 समित् for शरत्. 25 पूर्व for पूर्व. २७६ अथर्वसंहिताभाष्ये षष्ठी॥ तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः। तेन देवा अयजन्त साध्या वसवश्व ये ॥ ११ ॥ तम् । यज्ञम् । प्रावृषा । प्र। औक्षन् । पुरुषम् । जातम् । अग्रऽशः। तेनं । देवाः । अयजन्त । साध्याः । वसवः । च । ये ॥ ११ ॥ तं यज्ञम् यष्टव्यं पुरुषम् अग्रशः अग्रे सृष्ट्यादौ जातम् अश्वभूतं वा प्रावृषा वर्षकेण प्रावृडाख्येन ऋतुना प्रौक्षन् प्रोक्षितवन्तः ।उह्य सेचने। प्रावृट्कालं प्रोक्षणसाधनोदकरूपत्वेन संकल्पितवन्त इत्यर्थः । तेन पुरुषेण देवा अयजन्त इष्टवन्तः । [के ] देवाः तान् आह । ये साध्या वसवश्च एतत्संज्ञका देवाः ॥ अध्यात्मपक्षे । यज्ञम् यज्ञसाधनभू- तम्। करणे नङ् प्रत्ययः । तं पुरुषं पशुत्वभावनया यूपे बद्धम् अग्रशः अग्रतः अग्ने सर्वविकारसृष्टेः पूर्वं जातम् पुरुषत्वेन उत्पन्नं संकल्पात्मके यज्ञे प्रावृषा प्रौक्षन् प्रावृट्कालेन प्रोक्षितमिव मनसा कृतवन्त इत्यर्थः । तेन पुरुषरूपेण पशुना देवाः अयजन्त मानसं यागं निष्पा- दितवन्तः । के ते देवा इति त उच्यन्ते । साध्याः सृष्टिसाधनयोग्याः साधयन्तीति साध्याः । x"कृत्यल्युटो बहुलम्" इति कर्तरि “अचो यत्" इति यत् प्रत्ययः । वसवः वासकाः प्राणाः इन्द्रियाणि च । द्वयेपि देवनशीलत्वाद् देवा इत्युच्यन्ते ॥ तम् । सप्तमी॥ तस्मादश्वा अजायन्त ये च के चौभयादतः । गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥ १२ ॥ तस्मात् । अश्वाः । अजायन्त । ये । च । के। च । उभयादतः। गावः । ह । जज्ञिरे । तस्मात् । तस्मात् । जाताः । अर्जऽअवयः ॥१२॥ ACDBS Cs spina. We with KÄRVDE. PJ al. We with 8. IK V out 1. We with BCDRS DE Cs. P 3518tart: 1. Wc with Ø J. २७९ [अ॰१. सू०६.] ५५० एकोनविंशं काण्डम। पशुसृष्टिरुच्यते । तस्मात् यज्ञात्मनः पुरुषाद् अश्वा अजायन्त । ये क्वे च अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च ये के च [उभयादतः] ऊ- र्वाधोभागयोरुभयोर्दन्तयुक्ताः सन्ति ते अ1जायन्त ।“छन्दसि च" इति दन्तस्य दतृभावः ।“अन्येषामपि दृश्यते” इति दीर्घः । 'अनित्यम् आगमशासनम्” इति नुमभावः ।तस्मादेव पुरु- षाद् गावश्च जज्ञिरे ।जनी प्रादुर्भावे । हशब्दश्चार्थे । त-

स्मादेव यज्ञपुरुषाद् अजावयः अजाश्च अवयश्च जाताः ॥ अध्यात्मपक्षेपि

अयम् अर्थः समानः ॥ " अष्टमी ॥ स- तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दो ह जज्ञिरे तस्माद् यजुस्तस्मादजायत ॥ १३ ॥ तस्मात् । यज्ञात् । सर्वऽहुतः । ऋचः । सामानि । जज्ञिरे। छन्दः । हु । जज्ञिरे । तस्मात् । यर्जुः । तस्मात् । अजायत ॥ १३ ॥ सर्वहुतः। “सुपां सुलुक्" इति पञ्चम्येकवचनस्य सुः । स- र्वहुतात् । आश्वमेधिकोश्वः सर्वहुतः । पुरुषस्य अश्वमेधत्वम् उक्तम् । य- द्वा सर्वः सर्वाङ्गः सन पशुर्हूयते [स] सर्वहुत् । कर्मणि व्यत्ययेन क्विप् प्रत्ययः । सर्वहुतः अश्वभूतात् तस्माद् यज्ञात् पुरुषाद् ऋ- चः पादबद्धा मन्त्राः सामानि गीत्यात्मकानि जज्ञिरे । तस्मात् यज्ञात् पुरुषात् छन्दः । जसो लुक् । छन्दांसि । हशब्दश्चार्थे । छन्दांसि च ऋगाद्यधिष्ठानानि जज्ञिरे । तस्मादेव पुरुषाद् यजुः प्रश्लि- ष्टपाठात्मको मन्त्रः अजायत । ऋगादीनां लक्षणं जैमिनिना सूत्रितम् । 'तच्चोदकेषु मन्त्राख्या" [जै०२.१.३२] । “तेषाम् ऋग् यत्रार्थवशे- न पादव्यवस्था" [जै०२.१.३५] । 'गीतिषु सामाख्या" [जै०२. १.३६] । “शेषे यजुःशब्दः" [जै०२.१.३७] इति ॥ अध्यात्म- १ BS जशिरे. We with A D K KV R DOCr. KV छन्दांसि lor छन्दो ह. ॥ We with BCDRS De Cs. << <3 18 प्रजायन्त. २६० अथर्वसंहिताभाष्ये पक्षे । सर्वहुतः सर्वात्मा पुरुषः पशुत्वेन हूयतेस्मिन्निति सोयं सर्वहुत त. स्मात् पूर्वोक्ताद् मानसाद् यज्ञात् । शिष्टं समानम् ॥ नवमी॥ तस्माद् यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । पस्तांश्चक्रे वायव्यानिारण्या ग्राम्याश्च ये ॥ १४ ॥ तस्मात् । यज्ञात् । सर्वऽहुतः । समऽमृतम् । पृषतऽआज्य॑म् । पशून् । तान् । चके । वायव्यानि । आरण्याः। ग्राम्याः । च। ये ॥१४॥ सर्वहुतस्तस्माद् यज्ञात् यज्ञात् अश्वभूताद् यज्ञपुरुषात् संभृतम् संपादितं यत् किंचिद् द्रव्यजातं तत् पृषदाज्यम् । दधिमिश्रम् आज्यं पृषदाज्यम् इत्युच्यते । तद् आसीत् । अथ तत् पृषदाज्यम् कर्म ते देवाः साध्य- नामकाः वायव्यान् वायुदेवत्यान् आरण्यान् अरण्योद्भवान् द्विखुरश्वापद- पक्षिसरीसृपहस्तिमर्कटनादे1याख्यान् सप्तसंख्याकान् एवमादिकान् अन्यान् आरण्यांन् पशुंश्वकै चक्रिरे । पूरे "तिङां तिङो भवन्ति" इति झस्य तादेशः । ये च ग्राम्याः ग्रामोद्भवा गोश्वाजाविपुरुषगर्दभोष्ट्रा ए. वमादिका अन्ये ग्राम्याश्च ये सन्ति तान् पशुंश्चक्रिरे । अरण्ये भवा आरण्याः । “तत्र भवः” इति अण् प्रत्ययः । “ग्रामाद् यत्र- ञौ" इति ग्रामशब्दात् शैषिको यञ् प्रत्ययः । आरण्यपशुविशे- षणे तच्छब्दस्य प्रसिद्धिवाचकत्वम् । ग्राम्यविशेषणे यच्छब्दयोगात तच्छ- ब्दस्य प्रतिनिर्देशः । पशूनाम् अन्तरिक्षद्वारा वायुदेवत्यत्वं मन्त्रान्तरव्या- ख्याने तैत्तिरीयाः समामनन्ति । “वायवः स्थेत्याह । वायुर्वा अन्तरिक्ष- "स्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः । वायव एवैनान् परि- "ददाति" इति [तै ब्रा ३.२.१.४] । आरण्यानामेव वायुरधिपतिरि- ति केचित् ॥ अध्यात्मपक्षे । सर्वहुतस्तस्माद् यज्ञात् पूर्वोक्ताद् मानसाद् KÊCDRS V Trn. Wo with A DcC: JP. २ CRJ वायव्यानार... with A BKRDS V D. CHPŇ. KV arvata. We with CRÉDRS DEC PŮJ. P 31779). We with PJ. “Jarroutal. We witli PĚ. 18 देयाख्याः. र अरण्ये २६१ 1 [अ॰१. सू०६.] ५५० एकोनविंशं काण्डम् । यज्ञात् संभृतम् समुत्पन्नं पृषदाज्यं पृषत् विचित्रं बिन्दुमद् आज्यम् । अथ तत् पृषदाज्यम् कर्म आरण्यान ग्राम्यांश्च द्विविधान् पशृंश्चक्रे प्राणेन्द्रियस- मष्टिरूपः प्रजापतिः । तत्रैव अर्थान्तरम् । पृषदाज्यम् दधिमिश्रम् आज्यं संभृतम् संपादितम् । दधि च आज्यं च इत्येवमादि भोग्यजातं सर्वं संपादितम् इत्यर्थः । तथा द्विविधान् पशृंश्चक्रे प्राणेन्द्रियसमष्टिरूपः प्र. जापतिरेवेति ॥ दशमी॥ सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १५ ॥ सन्त । अस्य । आसन् । परिऽधर्यः । त्रिः । सप्त । समऽइधः । कृताः देवाः । यत् । यज्ञम् । तन्वानाः । अबध्नन्। पुरुषम् । पशुम् ॥१५॥ यत् यदा यज्ञम् अश्वमेधं पुरुषमेधं वा तन्वानाः कुर्वाणाः साध्या देवाः स्वस्मिन् यज्ञे पुरुषं पशुम् अश्वभूतं मुख्यं पुरुषं वा अबध्नन् यूपे बद्धवन्तः तदानीम् अस्य यज्ञस्य सप्त सप्तसंख्याकानि गायत्र्यादीनि च्छन्दांसि त्रिः सप्त एकविंशतिसंख्यायुक्ताः परिधयः समिधश्च कृताः सं- पादिता आसन् । ऐष्टिक्यः पञ्चदशभिः सामिधेनीभिर्ऋग्भिराधीयमानाः पञ्चदश समिधः एका अनुयाजसमित् हे आधारसमिधौ त्रयः परिधयः इति एकविंशतेर्दारूणां संपादनेन इध्मरूपं कृतम् ॥ अथ वा अस्य सांकल्पिकयज्ञस्य गायत्र्यादीनि सप्त च्छन्दांसि परिधय आसन् । ऐष्टिक- स्य आहवनीयस्य त्रयः परिधयः । औतरवेदिकास्त्रयः । आदित्यश्च स- प्तमः परिधिप्रतिनिधिरूपः । अत एवाम्नायते । “न पुरस्तात् परिदधाति । आदित्यो ह्येवोद्यन् पुरस्ताद् रक्षांस्यपहन्ति" इति [तै सं०२. ६. ६. ३] । त एत आदित्यसहिताः सप्त परिधयः अत्र सप्तच्छन्दोरूपाः । तथा समिधः त्रिः सप्त त्रिगुणितसप्तसंख्याका एकविंशतिः कृताः । “द्वा. दश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः” इति [ऐ० 18 सप्त. २६२ अथर्वसंहिताभाष्ये बा० १.३०] श्रुताः पदार्या एकविंशतिदारुयुक्तेध्मत्वेन भाविताः । एवम् इध्मानाम् एकविंशतेर्दारूणां संपादनेन इध्मरूपं कृतम् पूर्व तु पृषकत्वेन परिधानकाले परिधिरूपणं कृतम् इति द्रष्टव्यम् । यत यदा देवाः प्र- जापतिप्राणेन्द्रियरूपा यज्ञं तन्वानाः मानसं यज्ञं कुर्वाणाः पुरुषं वैराजं पशुम् अबन्धन् तं पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पू. र्वत्र पुरुषेण हविषा इत्युक्तम् ॥ एकादशी॥ मूर्ध्नो देवस्य॑ बृहुतो अंशवः सप्त सप्ततीः । राजः सोमस्याजायन्त जातस्य पुरुषादधि ॥ १६ ॥ मूर्ध्नः । देवस्य । बृहतः । अंशवः । सप्त । सप्ततीः । राज्ञः । सोमस्य । अजायन्त । जातस्य । पुरुषात् । अधि ॥ १६ ॥ सर्वस्य यज्ञस्य सोमसाध्यात्वाद् अत्रापि यज्ञे परंपरया 1सोमसंबन्धं दर्श- यितुं सोमः अनया प्रस्तूयते । पुरुषात् यज्ञात्मनः वैराजाद् वा । अ- धिशब्दः पञ्चम्यर्थानुवादी । जातस्य निष्पन्नस्य सोमस्य राज्ञः सप्त स- प्रगुणिताः सप्ततीः सप्ततयः सप्तगुणितसप्ततिसंख्याका अंशवः किरणाः बृहतः महतो देवस्य द्योतनात्मकस्य “सहस्रबाहुः पुरुषः" "इत्यादिना निरूपितस्य आदिपुरुषस्य मूर्ध्नः सकाशाद् अजायन्त उद्भूताः ॥ अयम् अर्थः । विविधो हि सोमः वल्लीरूपो देवतारूपश्चेति । तत्र लतारूपस्य सोमस्य स्वसाध्याः प्रकृतिविकृत्यादिभेदेन नानासंख्याकाः प्रकृतिरूपाः अग्निष्टोमादिसप्तसंस्थाः नानासंख्याक2 विकृतिभेदेन [च ऋतवः ] पुरुषमे- धक्तुनिर्वर्तकनारायणपुरुषस्य शिरसः सकाशाद् उद्भूता इति । कलारू- पस्य तु सोमस्य द्युलोके सप्तगुणितसप्ततिसंख्याकाः किरणा निष्पन्नाः । सूर्यस्य तु सहस्रकिरणाः सोमस्य तु दशोनपञ्चशतसंख्याकाः किरणा दे- वस्य मूर्ध्नोजायन्त इति ॥ [इति ] एकोनविंशे काण्डे प्रथमेनुवाके सप्तमं सूक्तम् ॥ 18 होम. 28 °संख्याक. 66 [अ॰१. सू०७.] ५५१ एकोनविंशं काण्डम् । २६३ "चित्राणि साकम्" इति “यानि नक्षत्राणि" इति सूक्तयोर्नक्षत्रदेव- ताज्यहोमे तद्धविहोंमे च विनियोगः । “अथ नक्षत्राणाम् उपचारं व- क्ष्यामः" [न .क°१] इति प्रक्रम्य नक्षत्रकल्पे सूत्रितम् । “एतेषां चैव "ऋक्षाणां ध्रुवस्थानोपसादिनाम् । यथावर्णानि पुष्पाणि वासांस्येवानुले- "पनम् । इमा आप इत्येतैः षड्भिः प्रतिगृह्णन्तु1 भगवन्ति नक्षत्राणि 2इत्ये- "तैर्ययोक्तं कृत्वा अथाज्यभागानो चित्राणि साकं दिवि रोचनानि यानि नक्षत्राणी3त्याज्यं हुत्वा" इति [न. क०६] । “अथ नक्षत्रहवींषि । घृतं कृतिकाभ्यः । सर्वबीजानि रोहिण्यै” इति प्रक्रम्य सूत्रितम् । “क्षी- रिवृक्षाङ्कुरा अश्विनीभ्याम् । कृष्णतिलाः सर्पि4मधुमिश्रा भरणीभ्यः । चित्राणि साकं दिवि रोचनानि [१९.७] यानि नक्षत्राणि [१९..] 'इति हुत्वाभयेन [६.४०] उपस्थाय तन्त्रं परिसमापयेत्” इति च [न क°१२] ॥ तत्र प्रथमा॥ चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि । तुर्मिशं सुमतिमिच्छमानो अहानि गीर्भिः सपर्यामि नाकम् ॥१॥ चित्राणि । साकम् । दिवि । रोचनानि । सरीसृपाणि । भुवने । जवानि। तुर्मिशम् । सुऽमतिम् । इच्छमानः । अहानि । गीःऽभिः । संपर्यामि । नाकम् ॥१॥ चित्राणि चायनीयानि नानावर्णानि वा दिवि द्योतमाने स्वर्गे साकम् सह रोचनानि रोचमानानि दीप्यमानानि । “अनुत्दातेतश्च ह- लादेः" इति युच् प्रत्ययः । भुवने भुवर्लोके अन्तरिक्षे सरीसृ- पाणि पुनःपुनः सर्पन्ति । सृपेर्यङ्लुगन्तात् पचाद्यच् । “न धातु- लोप आर्धधातुके” इति लघूपधगुणाभावः । सरीसृपाणि इत्यनेनविलम्बगमनप्रतीतावाह । जवानि शीघ्रगामीनि अनुक्षणम् 5आवर्तमानानि So we with ABCDKÄRŠ V DEPÓJ. Csapaifa. So PÞJ. 18 प्रतिगृहति. 28 तंत्रैः for इत्येतैः. We with the nukshettrakul yet. 3S नक्ष- आणि अभयेनोपत्याज्यं. 4S on सर्पिः. 5S' अनुश्नमाणमावर्त. सपर्यामि । २६४ अथर्वसंहिताभाष्ये अहानि प्रत्यहम् एकैकनक्षत्रसद्भावाद् अहःशब्देन नक्षत्राण्युच्यन्ते । ना- कम् । कम् सुखम् अकं दुःखम् न विद्यते अकं दुःखं यस्मिन स नाकः स्वर्गः । "नभ्राण्नपात्" इति नञो नलोपाभावेन नि- पातितः ।नाकं स्वर्गलोकम् । आसितानि इत्यध्याहारः । धुलो- कावस्थितानि नक्षत्राणि गीर्भिः स्तुतिरूपाभिर्वाग्भिः मन्त्रकरणकैर्हविर्भिर्वा सर्पयामि । सपर्यतिः1 परिचरणकर्मा । परिचरामि । कि- मर्थ तद् आह तुर्मिशाम् इति । तुर्मयो हिंसकाः हिंसाकारिणः तान् श्यति तनूकरोतीति तुर्मिशाँ । तुर्वतेहिंसार्थाद् औणादिको मिप्र- त्ययः । “लोपो व्योः” इति वलोपः । शो तनूकरणे इत्यस्माद् “आतो- नुपसर्गे कः" । [ यद्वा] तुरो हिंसकान् मिषति स्पर्धते हिनस्तीति तुर्मिशां । मिष स्पर्धायाम् इत्यस्माद् मूलविभुजादित्वात् कप्रत्य- यः । मूर्धन्यस्य तालव्योपजनश्छान्दसः । एवंविधव्युत्पत्तिदर्शनाद् अनव- ग्रहः । बाधकनिवारयित्रीं सुमतिम् शोभनाम्3 अनुग्रहबुद्धिम् इ- च्छमान: इच्छन् कामयमानः । "लक्षणहेत्वोः" इति हेतौ शा- नच् प्रत्ययः । दुःखनिवारकनक्षत्रानुग्रहबुद्धयेषणाद्धेतोरित्यर्थः । ए- वम् अस्मिन् मन्त्र्वे सर्वाणि नक्षत्राणि संघशः मार्थितानि ॥ अथ उत्तराभिर्ऋग्भिश्चतसृभिः कृतिकादीनि नक्षत्राणि प्रत्येकं प्रार्थ्यन्ते । द्वितीया ॥ सुहवमग्ने कृतिका रोहिणी चास्तु भद्रं मृगशिरः शंमार्द्रा । पुनर्वसू सूनृता चारू पुष्यो भानुराश्लेेषा अयनं मघा मे ॥२॥ सुऽहम् । अग्ने । कृतिकाः । रोहिणी । च । अस्तु । भद्रम् । मृगशिरः। शम् । आर्द्रा। पुनर्वसू इति पुनःऽवसू । सूनृता । चारु । पुष्यः । भानुः । आऽश्लेषाः । अयं- नम् । मधाः । मे ॥२॥ १ A B समाद्रा. D समा. CSSD समा changral to शमा . We with KKR V. ? Jarl. We with PĚ. PÉJE. Wc with Sâyana and our Satūbitá. P पुष्यः । 15 परिचरणकर्मा परिचरणकर्मा. 28 एवंविधा. 38शोभनादनु २९५ [अ०१. सू०७.] ५५१ एकोनविंशं काण्डम्। हे अग्ने कृतिकाः । कृतिकानक्षत्रस्य आग्नेयवाद् अग्निः संबोध्यते । एवम् उत्तरेषां रोहिण्यादीनां नक्षत्राणां तत्तद्देवता भावनीया इति ज्ञा- पयितुं1 प्रथमम् अग्नेनिर्देशः । तेजःप्रदेशोपाधिबहुत्वापेक्षया कृत्तिका इति बहुवचनम् । बहुप्रदेशाभिमानिनो नक्षत्रस्य ऐक्यात् सुहवम् अस्वि- ति एकवचनम् । एवम् उत्तरेषु नक्षत्रेषु द्विवचन् बहुवचनं च प्रदेशो- पाधिभेदाद् इत्यवगन्तव्यम् । कृत्तिकानक्षत्रं सुहवम् सुष्ठु आह्वानुम् अर्हम अस्तु भवतु । स्वदोषांशं परित्यज्य अस्मदनुकूलं भववित्यर्थः । रोहिणी रोहिणीनक्षत्रं च हे प्रजापतिदेवते सुहवम् अस्तु । मृगशिरः मृगस्य शिर इव प्रतीयमानम् एतत्संज्ञकं नक्षत्रम् हे सोम भद्रम् भन्दनीयं मङ्गलप्रदं भवतु । आर्द्रा नक्षत्रं रुद्रदेवत्यं शम् सुखकारि भवतु । पुन- र्वसू . एतत्संज्ञकम् अदितिदेवताकं सूनृता । प्रियसत्यात्मिका वाक् सूनृते. त्युच्यते । सा [भवतु] । वाक्प्रदं भवत्वित्यर्थः । पुष्यस्तिष्यः बार्हस्पत्यः चारु श्रेयःप्रदम् । सर्वत्र अस्तु इति योज्यम् । आश्लेषाः सर्पदेवत्यं नक्षत्रं भानुर्दीप्तिः । * दाभाभ्यां नुः [उ°३.३२] इति नुः । दी- प्तिप्रदम् । मघाः पितृदेवत्यम् एतत्संज्ञक नक्षत्रं मे मम अयनम् गन्तव्यं स्थानम् । भववित्यर्थः ॥ तृतीया॥ पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु । राधे विशाखै सुहानुराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम् ॥ ३ ॥ पुण्यम् । पूर्वी । फल्गुन्यौ । च । अत्र । हस्तः । चित्रा । शिवा । स्वाति । सुऽखः । मे । अस्तु । राधे । विऽशाखे । सुऽहवा । अनुडराधा । ज्येष्ठा । सुऽनक्षत्रम् । अरिष्ठ । मूलम् ॥३॥ V Kand Säynna's test: Farat. We with ACDÄRBS DC PŮJ. ABCDKËRŠ V DC: PBJ pogach is what all on uns, road. Př J अरिष्ट । मूलम् ।. अरिष्ट mms stand for an original अरिष्टम्. ISशापयित्री for शापयितुं. २०६ अपर्वसंहिताभाष्ये पूर्वा पूर्वे फल्गुन्यौ अर्यमदेवत्यम् एतत्संज्ञकं पुण्यम् अस्तु । अत्र अ- स्मिन् नक्षत्रगणे फल्गुन्यौ उत्तरे च भगदेवत्यम् एतन्नक्षत्रं च । पुण्यम् इति अनुषङ्गः । हस्तः सावित्रः पुण्यमदोस्तु । चित्रा ऐन्द्री शिवा मङ्गल- कारिणी । स्वाती वायव्या मे मम सुखांस्तु । राधे विशाखे इति प- दद्वयं विशाखानक्षत्रवाचि । राधासंज्ञकं विशाखासंज्ञकं च एकं नक्षत्रम् ऐन्द्रानं सुहवेति सुहवं भवत्विति लिङ्गवचनविपरिणामेन योज्यम् । अ. नुराधा राधे अनु राधयोः पश्चाद्भावि एतन्नामकं मैत्रं नक्षत्रं सुहवा सुष्ठु आह्वातुम् अर्हा । ज्येष्ठा ऐन्द्री च सुहवा । विन्नक्षत्रस्य मूल- संज्ञां निर्वक्ति अरिष्टर्मूलम् इति । मूलम् इति नक्षत्रस्य रूढं नाम न भवति किं तु यौगिकम् सर्वेषाम् अरिष्टानां पादभेदेन पितृमातृस्वधन- नाशानां निदानम् । अरिष्टमूलम् इति वक्तव्ये मूलम् इति एकदेशेन व्यपदिशन्ति सत्यभामा भामेतिवत् । तादृशम् अरिष्टनिदानं मूलसंज्ञकं पितृदेवत्यं सुनक्षत्रम् शोभननक्षत्रं मम श्रेयःप्रदं भवतु ॥ चतुर्थी ॥ अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देव्युत्तरा आ वहन्तु । अभिजिन्मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥ ४ ॥ अन्नम् । पूर्वा । रासताम् । मे । अषाढाः।। ऊर्जम् । देवी । उत्डतराः । आ। वहन्तु। अभिऽजित् । मे । रासताम् । पुण्यम् । एव । श्रवणः । श्रविष्ठाः । कुर्वताम् । सुऽपुष्टिम् ॥ ४॥ पूर्वा अषाढाः । तेज:प्रदेशबहुत्वापेक्षया बहुवचनम् । पूर्वाषाढाः अ- ब्देवत्याः मे मह्यम् अन्नम् अदनीयं भोग्यं रासताम् 1ददतु । राते र्लोटि व्यत्ययेन आत्मनेपदम् । बहुलग्रहणाद् अलेट्यपि “सिब्बहुलम्" CATT. DHEC. We with A BRŠKÄ V.DCC. ABCDRŽË DC Camera 3. KVETETT * with Sayaņa. We with Sayana. So PŮJ. P आषाढाः।. We with PJ. ५ PF देहि। उत्तरे ।. We with Sayana. ६P कुर्वताम् ।

18 ददातु. २८७ [अ०१. सू०७.] ५५१ एकोनविंशं काण्डम्। इति सिप् । आत्मनेपदेष्वनतः" इति अस्य अदादेशः । [यद्वा] रासृ शब्दे । आत्मनेपदी । अनेकार्थत्वाद् धातूनाम् अत्र रासतिर्दानार्थे । नक्षत्रविवक्षया एकवचनम् । देवी देव्यः । बहुवचनस्य ए- कवचनम् आदेशः। उत्तराः अषाढाः वैश्वदेव्यः ऊर्जम् बलकरम् अन्नम् अन्नरसम्1 आ वहन्तु अस्मदभिमुखं प्रापयन्तु । अभिजित् अभि- जयसाधनं ब्रह्मदेवत्यं नक्षत्रं मे मम पुण्यमेव रासताम् प्रयच्छतु । पू- र्ववद् रातेर्लोटि "बहुलं छन्दसि' इति शपो लुगभावः । पूर्ववत् सिवात्मनेपदे । रासतेर्वा रूपम् । श्रवणः विष्णुदेवत्यः श्रविष्ठाः धनिष्ठा वासव्यश्च सुपुष्टिम् शोभनां पुष्टिं पशुपुत्रादिपोषं कुर्वताम् ॥ " पञ्चमी॥ आ। आ मे महच्छतभिषग् वरीय आ मे द्वया प्रोष्ठपदा सुशर्म । आ रेवती चाश्वयुजौ भगै मे आ मे रयिं भरण्य आ वहन्तु ॥ ५ ॥ आ। मे। महत् । शतऽभिषक् । वरीयः । आ। मे। द्वया । प्रोष्ठऽपदा । सुऽशर्म। आ। रेवतीं । च । अश्वऽयुजौ । भगम् । मे। आ।मे। रयिम् । भरण्यः । आ । वहन्तु शतभिषक् शतविशाखा ऐन्द्री वरीयः उरुतरम् । "प्रियस्थिर" इत्यादिना उरुशब्दस्य ईयसुनि वर् आदेशः । उरुतरं फलं मे मम आ व॑हत आवहतु । वहेलेंटि अडागमः ।द्वया द्वि- प्रकारा । ङीपः स्थाने व्यत्ययेन टाप् प्रत्ययः । प्रोष्ठपदा अ- जैकपाद्देवत्या पूर्वाभाद्रपदा अहिर्बुध्न्यदेवत्या2 उत्तराभाद्रपदा च सुशर्म शोभनं सुखं गृहं वा आ वहत् इति क्रियानुषङ्गः ॥ रेवती पौष्णी मे मम भ- गम भाग्यम् आ वहतु । अश्वयुजौ अश्विदेवत्यौ आ वहताम् इति । भरण्यः याम्यो मे मम रयिम् धनम् आ वहन्तु प्रापयन्तु । द्वितीय आकारः पूरणः ॥ [इति ] प्रथमेनुवाके अष्टमं सूक्तम् ॥ 13 अनरसनावह अस्म. 2S' अहिर्बुध्या ton अहिर्बुध्न्यदेवत्या. प्रकारा। २६ अथर्वसंहिताभाष्ये "यानि नक्षत्राणि" [इति ] सूक्तस्य नक्षत्रहोमे पूर्वसूक्तेन सह उक्तो विनियोगः ॥ तत्र प्रथमा॥ यानि नक्षत्राणि दिव्यन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु । प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु ॥ १ ॥ यानि। नक्षत्राणि। दिवि। अन्तरिक्षे। अप् डसु । भूमौ । यानि। नगेषु । दिक्षु । प्रऽकल्पयन् । चन्द्रमाः । यानि । एति । सर्वाणि । मम । एतानि । शि- वानि । सन्तु ॥१॥ दिवि धुलोके अन्तरिक्षे मध्यमलोके अप्सु उदकेषु भूमौ पृथिव्यां न- गेषु पर्वतेषु दिक्षु च यानि नक्षत्राणि दृश्यन्ते धुलोके देवतात्मना अ- न्तरिक्षे तेजोमण्डलाकारेण अप्सु प्रतिबिम्बनेन । उदये च अस्तमयकाले च भूमिसमानदेशे पर्वतसमानप्रदेशे च प्रतीतेर्भूमिः1 पर्वताश्च अधिकर- णत्वेन2 उच्यन्ते । दिक्षु प्रतीतिस्तु स्फुटा । चन्द्रमाः यानि नक्षत्राणि प्रकल्पयन् प्रकर्षेण 3कल्पयन् संभोगसमर्थानि कुर्वन् प्रोत्साहयन् एति प्रा- प्नोति एतानि सर्वाणि नक्षत्राणि मम शिवानि सुखकराणि सन्तु भवन्तु ॥ द्वितीया ॥ अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे। योगं प्र पद्ये क्षेमं च क्षेमं प्रपद्ये योग च नमोहोरात्राभ्यामस्तु ॥ २ ॥ अष्टाविंशानि । शिवानि । शम्मानि । सह । योगम् । भजन्तु । मे। योगम् । प्र । पद्ये । क्षेमम । च । क्षेमम् । प्रा पद्ये । योगम् । च । नमः । अहोरात्राभ्याम् । अस्तु ॥ २ ॥ अष्टाविंशानि प्रत्येकम् अष्टाविंशतेः संख्यायाः पूरणानीति सर्वाणि अष्टाविंशानीत्युक्तम् । पूरणार्थे डट्प्रत्यये कृते “ति विंशतेर्डिति" ABCRS for. We with DKKVDC. IS onits tl: hisargu in भूमिः. S अधिकरणेन. 33 प्रकल्पयन्. [अ॰१. सू...] ५५२ एकोनविंशं काण्डम। २४९ इति तिशब्दस्य लोपः । "व्द्यष्टनः संख्यायाम्" इति अष्टशब्दस्य आ- त्त्वम् । कृत्तिकेत्यादीनि 1भरणीत्यन्तानि शिवानि सुखदर्शनानि [शग्मानि] । सुखनामैतत् । सुखप्रदानि तानि सर्वाणि नक्षत्राणि मे म- दर्थ् मम फलं दातुम्। "क्रियार्थोपपदस्य.” इति चतुर्थी। स- हयोगम् सहभावम् ऐकमत्यं भजन्तु मामुवन्तु । नक्षत्राणां मदर्थं सहयो- गाद् अहं योगम् । अलभ्यवस्तुप्राप्तियोगः । तं प्र पद्ये पूर्वम् अल- ब्धानि वस्तूनि नक्षत्रप्रसादाल्लभेय । क्षेमम् । लब्धवस्तुपरिपालनं क्षेमः । तं च प्र पद्ये । क्षेमस्य अन्वाचयशिष्टत्वेन अप्राधान्यशङ्कां वारयितुं त- त्प्राधान्येन पुनराह क्षेमं प्रपद्ये योगं चेति । अनेन योगक्षेमयोः प्रा- धान्यम् । अहनि रात्रौ च नक्षत्राणा संचरणात् तयोरानुकूल्यकरणं न- मोहोरात्राभ्याम् अस्त्विति । र अहश्च रात्रिश्च । “अहःसर्वैकदेश इति अच् समासान्तः । ताभ्या नमः नमस्कारोस्तु ॥ तृतीया ॥ स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु । सुहर्वमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन् ॥३॥ स्वस्तितम् । मे। सुऽप्रातः । सुऽसायम् । सुऽदिवम्। सुऽमृगम्। सुऽशकु- ." नम् । मे। अस्तु सुऽहवम् । अग्ने । स्वस्ति । अमर्त्यम् । गत्वा । पुनः । आय । अभिऽन- न्दन् ॥३॥ पूर्वमन्त्र्ये योगक्षेमप्रपदनं प्रार्थितं तद् विशिनष्टि । मे मम तत् व- क्ष्यमाणं स्वस्ति इत्यविनाशिना2म् । अविनश्वरं तत् फलं भवतु । सुप्रातः १३ स्फुस्तितमे. De स्वस्तितंमे changeal to स्वस्तिमे rhich is further changeal too स्वस्तितमै. We with A B C DR.Cs. KKV स्वस्ति तन्में with Siyana. with A BODKÔR ŠV Cs DuPŮJ. CDKŘŠ De fur e. We with V. ४ स्वस्तितम् । changed to स्वस्ति । त।. PJ स्वस्तितम् ।. K with Sayana. ५ Pआया।. We with PJ. 18 om. the letters कृत्तिकेत्यादीनि भरणी. 25 विनाश. So we - प्रत्येक- २९० अथर्वसंहिताभाष्ये प्रातःकालः शोभनः सुखो भवतु । प्रातरादिशब्दैः सह सुशब्दः समृद्ध्यर्थे समस्यते । स समासः अव्ययीभावः । प्रातःकाला: सुकारित्वेन समृद्धा भवन्तु । सुसायम् सायंकाला अपि सुखाः समृद्धाः । सुदिनम् दिनशब्दः अहोरात्रपरः सुखानि अहानि सुखा रात्रयश्च । सुमृगम मृगा हरिणादयः अर्थार्थम् अनुकूले नक्षत्रे गच्छतो मम भा. विफलसूचकत्वेन अनुकूलगतिचेष्टायुक्ता भवन्तु । एवं सुशकुनम् श- कुनाः काकादयः स्वरगतिचेष्टादिभिः अनुकूला मे सन्तु । एवं नक्ष- त्राणि संप्रार्थ्य नक्षत्राधिदेवताः प्रार्थयते । हे अग्ने । कृत्तिकानक्षत्रदेव- ताऽग्निः तदुपलक्षिताः सर्वनक्षत्रदेवता यूयं सुहवम् सुष्ठु आह्वानुमर्हम् अ- मर्त्यम् अमरणधर्माणम् अविनश्वरं द्युलोकं स्वस्ति क्षेमेण गत्वा अभिन- न्दन् हविःप्रदातृन् अभिलक्ष्य हृष्यन् आय आगच्छ । प्रत्येक- विवक्षया एकवचनम् ॥ केवलोऽग्निरेव वा संबोध्यते । हे अग्ने सुहवम् सुष्टु हविः तत्तद्देवतार्ह1 हविः अमर्त्यम् अमरणधर्मकं तत्तन्नक्षत्रदे- वतासंघं स्वस्ति क्षेमेण गत्वा । अनतर्णीतण्यर्थः। गमयित्वा पुनः अस्मान् अभिनन्दन् आय आगच्छ । इ गतौ । भौवा- दिकः । आड्ढर्षस्य लोटि हौ रूपम् । चतुर्थी ॥ अनुहवं परिहवं परिवादं परिक्षवम् । सर्वैर्मे रिक्तकुम्भान् परा तान्त्सवितः सुव ॥ ४ ॥ अनुऽहवम् । परिऽहवम् । परिऽवादम् । परिऽक्षवम् । सर्वैः । मे। रिक्तऽकुम्भान् । परा । तान् । सवितः । सुव ॥ ४ ॥ अनुकूले नक्षत्रे धनार्थं गच्छतः पुरुषस्य भाविकार्यप्रतिबन्धकानि प- श्वादाह्वानादीनि2 दुर्निमित्तानि । तेषां निवारणम् आशास्ते । अनुहवम् १ D परिक्षवम्. CR B C परिछ्यम्. We with A S K K VDr. RAB C DR SCS कुम्भान्ग. D पंग़ changet to परा. We with VK .. ३ ADS सुवः. Ife with ÞÁ CRVDEC PPJ PJ yfish. We with ľ. 4PJ yrarl. We with Ñ. 15 तत्तद्देवत्यहं हविः मयं. 23 हादीनि. [अ॰१. सू..] ५५२ एकोनविंशं काण्डम्। २९१ पुरो गच्छतः पुरुषस्य नाम गृहीत्वा पश्चाद्भागावस्यायिना पुरुषेण आ- ह्वानम् अनुहवः । परितः पार्श्वद्वये आह्वानं परिहवः । परु1षभाषणं प- रिवादः । परितः सर्वतः क्षवः क्षुतं परिक्षवः । अथ वा वर्जनार्थे परि- शब्दः । वर्जिते 2वर्जिते प्रदेशे पुरोभागलक्षणे क्षुतं क्षवः परिक्षवः । रिक्तकुम्भाः शून्यकलशाः । तान उक्तान् अनुहवादीन् दुर्निमित्तदोषान् मे मम कार्यार्थं गच्छतो मम हे सवितः सर्वस्य प्रसवितः अनुज्ञातर्देव सर्वैः नक्षत्रदेवैः सहितः सन्3 परा सुर्वः पराकुरु ।4षू प्रेरणे । तौदादिकः ॥ पञ्चमी॥ अपपापं परिक्षवं पुण्य भक्षीमहि क्षवम् । शिवा ते पाप नासिकां पुण्यंगश्चाभि मेहताम् ॥ ५॥ अपऽपापम् । परिऽक्षवम् । पुण्यम् । भक्षीमहि । क्षवम् । शिवा। ते। पाप। नासिकाम्। पुण्यऽगः। च। अभि। मेहताम् ॥ ५॥ अत्रापि दुर्निमित्तदोषपरिहार आशास्यते । पापम् पापावहम् अहि- तनिमित्तं परिक्षवम् कष्टप्रदेशे क्षुतम् अप । उपसर्गश्रुतेर्योग्यक्रिया5- ध्याहारः । अपगमयेम । न केवलम् अहितनिवारणं किं तु क्ष- वम् दुनिमित्तरूपं क्षुतं पुण्यम् श्रेयस्करं भक्षीमहि लप्सीमहि । भज सेवायाम् । आशीर्लुङि कर्त्रभिप्राये क्रियाफले आत्मनेपदम् । एकाच उपदेशेनुदात्तात्" इति इट्प्रतिषेधः ॥उत्तरार्धम् ऋत्विग्वचनम् । १ So A B C D KKR SV DCs. PPJ अपपापं 1. २ C R BC: परिलवं. D: परि- छवं changed to परिक्षवं. Pपरिऽवं ।. ३ So A B C D E K R S V Do C.. ४ A BCD KKR S De Cs all read: नासिकांपुण्यगश्चाभिमेहताम्. ५६0 PPI. ६ P छवम् । ७ PAJall read: पाप । नासिकाम् । पुण्यंऽगः । च । अभि । मे। हताम् ।, whiclh makes as good sense as Sayann's reading. There is nothing to prevent gurt: from meaning the same thing as quat: or something else which will suit the context cally well. 18 भाषणं for परुषभाषणं. 28' गर्जिते for जिते. for y. 53 श्रुतेः for क्रिया. "एकाच 38 सlor सन्. 18 पु २९२ अथर्वसंहिताभाष्ये धनार्थ1 प्रयास्यतः पुरुषस्य पथि शिवागमनं शिवादर्शनं तडनिश्रवणं नपुं- सकदर्शनं च निषिध्धम् । तत्परिहारायाह । हे पुरुष शिवा । क्रोष्टुना- मैतत् । नियतं स्त्रीलिङ्गम् । विरुद्धं शब्दायमानापि शिवा ते तव ग- च्छतः पापनाशिका दुर्निमित्तदोषनिवारिका भवतु । तथा षण्डकः नपुं- सकः पुरुषश्च अभिमेधंताम् प्रोत्साहयतु । स्वदर्शन2स्पर्शनादिदोषं3 परिहार्य त्व4कार्यसिद्ध्यनुकूलो भवतु । मेधृ संगमे । भौवादिकः । अ- भिमेधनं नाम प्रोत्साहनम् इति आपस्तम्बेनोक्तम् । "प5लयोभिमेधन्ते" इति [आप०२३.१०] ॥ षष्ठी ॥ इमा या ब्रह्मणस्पते विषूचीर्वात ईरते। सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥ ६ ॥ इमाः । याः । ब्रह्मणः । पते । विषूचीः । वातः । ईरते । सध्रीचीः । इन्द्र । ताः । कृत्वा । मह्यम् । शिवऽतमाः । कृधि ॥ ६ ॥ हे ब्रह्मणस्पते । उत्तरार्धे इन्द्रेति निर्देशात् तस्य विशेषणम् एतत् । ब्रह्मणः मन्त्रसंघस्य पते स्वामिन् सर्वमन्त्रप्रतिपाद्य इन्द्र इमाः परिदृ- श्यमाना [याः] प्राच्यादिदिशः । कर्म । वातः वात्यारूपो वायुः विषूची: विष6गञ्चना ईरते ईर्ते । यथा प्राच्यादिदिग्विभागो न भवति तथा परि- भ्रमयतीत्यर्थः । प्राची वा प्रतीचीवत् प्रतीयते प्रतीची वा प्राचीवत् प्र- तीयते अन्यदिगात्मना वा प्रतीयते तथा व्यामोहयतीति यावत् । महा- वाते वाति एवं भवतीति प्रसिद्धिः । विषूचीरिति । विषुशब्दोपप- दाद् अञ्चतेः क्विन् । “अञ्चतेश्वोपसंख्यानम्" इति ङीप् । अचः" इति अकारलोपे “चौ" इति दीर्घः । ईर गतौ । आदादिकोनुदात्तेत । 'बहुलं छन्दसि" इति शपो लुगभावः । हे इन्द्र ता विषूची- १B शिवतमाकृधि. 1S is confused here, reading धनार्थ प्रयास्यन् पुरुषेण पथि शिवांगं शिवा क्रोष्टुनामैतत् । दर्शनं तध्वनिश्रवणं नपुंसकदर्शनं च निषिद्धं तत्परिहारायाह हे पुरुष नियतं &c. The emendation is conjectural. 28 स्वदर्शस्पर्शना. 35 दोषपरिहार्य. 45 तत्कार्य. 50 तप्तनथो for पखयो, 68 विष्वगच for वियगश्ना. 66 [अ०१. सू०९.] ५५३ एकोनविंशं काण्डम्। २९३ र्दिशः सधीचीः सहाञ्चना यथास्थितप्रदेशावस्थायिनीः कृत्वा मह्यं मदर्थ शिवतमाः अत्यर्थं सुखकारिणीः कृधि कुरु । सहपूर्वाद् अञ्चते क्विनि “सहस्य सध्रिः" इति सध्र्यादेशः ॥ सप्तमो मन्त्रो यजूरूपः पठ्यते ॥ स्वस्ति नो अस्त्वभयं नो अस्तु नमोहोरात्राभ्यामस्तु ॥ ७ ॥ खस्ति । नः । अस्तु । अभयम् । नः । अस्तु । नमः । अहोरात्राभ्याम् । अस्तु ॥ ७॥ नः अस्माकम् । स्वस्ति इत्यविनाशिनाम् । तद् अस्तु । अभयम् भयराहित्यं च नः अस्माकम् अस्तु । भयादिकं तु अहनि रात्रौ वा संभवतीति तत्परिहारायाह । नमोहोरात्राभ्याम् अहे रात्रये च नमः नमस्कारोस्तु ॥ [इति ] प्रथमेनुवाके नवमं सूक्तम् ॥ प्रत्यहं कर्तव्ये राज्ञो वासगृहमापणकर्मणि शर्करामक्षेपानन्तरं "शा- ना द्यौः" इति शान्तिसूक्तं जपेत् । “अथातो रात्रि1सूक्तानां [विधिम] अनुक्रमिष्यामः" इति प्रक्रम्य उक्तं परिशिष्टे ।त्र्यायुषम् [५.२६.७] 'इति राज्ञे रक्षां कृत्वा असपत्नम् [१९.१६] इति शर्करा अभिमन्नत्र्य 'अङ्गुष्ठात् प्रदक्षिणं प्रतिदिशं क्षिपेत् । शान्ता द्यौरिति जपित्वा राजानं 'वासगृहं नयेत्" इति [प०४.५.] ॥ पिष्ठ2रात्रिंकल्पेपीदं शान्तिसूक्तं विनियुक्तम् [प०६. ५.] ॥ अस्य सूक्तस्य शान्तिप्रतिपादकत्वेन शान्तिगणे पाठाद् “आयुष्यः शान्तिः स्वस्तिगण [ऐरावत्याम्" इति] [नक०१७ ] ऐरावत्यादिषु विनियोगो द्रष्टव्यः ॥ 66 66 तत्र प्रथमा ॥ शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् । ? Pomits 4 in arabera. RABCDR Š 2 for £. We with KKV. 18'रात्री.. 28 पिपिष्टरात्रे कल्पे. प्रत्ययः । " २९४ अथर्वसंहिताभाष्ये शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥ शान्ता । द्यौः । शान्ता । पृथिवी । शान्तम् । इदम् । उरु । अन्तरिक्षम् । शान्ताः । उदन्वतीः । आपः । शान्ताः । नः । सन्तु । ओषधीः ॥१॥ अस्मिन् सूक्ते सर्वतः शान्तिः प्रतिपाद्यते “या तेनोच्यते सा देवता" इति न्यायात् शान्तिरेव देवता । शान्तिर्नाम अनिष्टपरिहारेण सुखकारि- रूपता । अतोत्र शान्तिकारिणः पदार्थविशेषान् आह शान्ता द्यौः इ. त्यादिना । द्यौः धुलोकः शान्तास्तु ।शमु उपशमे । कर्तरि क्त- प्रत्ययः। दोषाणां शमयित्री स्वनिबन्धनोपद्रवशमनेन अस्य सुख- कारिण्यस्त्वित्यर्थः । एवम् उत्तरत्रापि । पृथिवी प्रथिता भूमिः शान्ता- स्तु । इदं परिदृश्यमानम् उरु विस्तीर्णम् अन्तरिक्षम् अन्तरा क्षान्तं मध्यमलोकः । उदन्वतीः उदन्वान् उदकवान् उदधिः । र "उदन्वान् उदधौ च" इति उदकशब्दाद् मत्तुपि उदन्भावो निपात्यते । “तत्र भवः”1 इति भवार्थे अण् । “संज्ञापूर्वको विधिरनित्यः" इति आदिवृ- वेरभावः । 2कार्ये वा कारणशब्दः । “वा छन्दसि" इति यणादेशाभावे पूर्वसवर्णदीर्घः । [ता आपः शान्ताः सन्तु] ओषधीः ओषः पाको धीयते आस्विति ओषध्यः । ता नः शान्ताः सन्तु ॥ द्वितीया ॥ शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् । शान्तं भूतं च भव्यै च सर्वमेव शमस्तु नः ॥२॥ शान्तानि । पूर्वऽरूपाणि । शान्तम् । नः । अस्तु । कृतऽअकृतम् । शान्तम् । भूतम् । च । भव्यम् । च । सर्वम् । एव । शम् । अस्तु। नः॥२॥ पूर्वरूपाणि कार्यापेक्षया पूर्वरूपाणि कारणावस्थापन्नानि वस्तूनि कृताकृ- तम् कृतं कार्यजातम् अकृतम् अनिष्यन्नं नित्यं में मदर्थं शान्तानि [यद्वा] मदीयानि पूर्वरूपाणि पूर्वाणि रूपाणि दुष्कृतफलभूतानि प्राक्तनानि ज- न्मानि शान्तानि सन्तु । पूर्वेषु जन्मसु तत्तत्कर्मणो भोगादेव तत्कृतानि- 25 कार्यो वा कारणशेषः. 1S' भवा. " [अ॰१. सू०९.] ५५३ एकोनविंशं काण्डम। २९५ ष्टाभावः अतः किमिति एषां शान्तिावशासनम् इति । नैष दोषः । मा- क्तनजन्मापादकस्य कर्मणोऽभावेपि ततजन्मकृतदुष्कृतकर्मण उत्तरत्र ति- र्यगादिजन्ममापकत्वे तत्परिहाराय तच्छान्तिराशास्या । तथा मे मदीयं कृताकृतम् । इह कृतशब्देन सम्यग् अनुष्ठितं कर्म न विवक्ष्यते किं तु विरुद्धम आचरितम् अकृतम् अननुष्ठितं स्वाश्रमविहितं कर्म नित्यनैमित्ति- करूपम् । तद् उभयं शान्तम् अस्तु । * "क्तेन नञ्विशिष्टेनानञ् इति कृतशब्दः अकृतेन समस्यते । विरुद्धाचरणविहितानाचरणयोः पतनहेतुत्वं स्मर्यते विहितस्याननुष्ठानान्निन्दितस्य च सेवनात्। अनिग्रहाच्चेन्द्रियाणां नरः पतनम् ऋच्छति ॥ इति ॥ भूतम् उत्पन्नं भव्यम् भविष्यत् । परस्परसमुच्चयार्थौ चकारौ । तद् उभयं शान्तम् । किं बहुना । सर्वम् कालत्रयावच्छिन्नम उक्तम् अनुक्तं च सर्व नः अस्माकं शम् दोषशमयितृ1 सुखमेव भवतु ॥ तृतीया॥ इयं या परमेष्ठिनी वाग् देवी ब्रह्मसंशिता । ययैव संसृजे घोरं तयैव शान्तिरस्तु नः ॥ ३ ॥ इयम । या । परमेऽस्थिनीं । वाक् । देवी । ब्रह्मऽसंशिता । यया । एव । ससृजे । घोरम् । तया । एव । शान्तिः । अस्तु । नः ॥३॥ परमे स्थाने तिष्ठतीति परमेष्ठिनी परमेष्ठिनो ब्रह्मणः पत्नी वा। पुरुषे कृति बहुलम्" इति सप्तम्या अलुक् ४ ।ब्रह्मसंशिता ब्रह्मभि- र्मन्त्रैः सम्यग 2उत्तेजिता सकलवैदिकवाक्यप्रतिपादितस्वरूपा इयं विवद्भिः स्वात्मभूतेन्3 सम्यग् अनुभूयमाना या वाग्देवी वर्तते ययैव वाग्देव्या घो- रम् परेषाम् अरुन्तुदं वचः शापादिरूपं ससृजे सृष्टम् उच्चरितं तयैव वाचा नः अस्मदर्थं शान्तिरस्तु वाचा4 सृष्टस्य घोरकर्मणः शान्तिर्भवतु । De reg changed to geht. We with BDSKÝCRVC-, 18 शदोषशमयि for शम् दोपशमयित. 28 उत्तजिता. ERT fur art are, which is conjectural, Z"- 3 SOS'. 18 रुमसू२९६ अथर्वसंहिताभाष्ये यद्1 वाचा अनर्थजातम् उत्पन्नं तदेव स्वकृतम् अनर्थं परिहरत्वित्यर्थः । एवम् उत्तरयोर्मन्त्रयोरपि योज्यम् ॥ चतुर्थी॥ इदं यत् परमेष्ठिनं मनो वां ब्रह्मसंशितम् । येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥ ४ ॥ इदम् । यत् । परमेऽस्थिनम् । मनः । वाम् । ब्रह्मऽसंशितम् । येन । एव । ससृजे । घोरम् । तेन । एव । शान्तिः । अस्तु । नः ॥४॥ परमेष्ठिनम् परमे उत्कृष्टे स्थाने तिष्ठतीति परमेष्ठी । तेन सृष्टम् “त2द- सदेव सन्मनोकुरुत स्याम इति” [तै. बा.२.२.९.१] [इति] सृष्ट्यादौ मनःसृष्टिरुक्ता। आदिवृद्ध्यभावश्छान्दसः । ब्रह्मसंशितम् ब्रह्मणा सृज्यविषये तीक्ष्णीकृतम् इदं सर्वजगन्मूलकारणं यत् मनः विद्यते येनैव मनसा घोरं कर्म ससृजे तेनैव मनसा नः अस्मदर्थं मनःसृष्टस्य घोरकर्मणः शान्तिरस्तु ॥ पञ्चमी॥ इमानि यानि पञ्चेन्द्रियाणि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि । यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥ ५ ॥ इमानि । यानि । पञ्च । इन्द्रियाणि । मनःऽषष्ठानि । मे। हृदि । ब्रह्मणा। सम्डशितानि । यैः। एव । ससृजे । घोरम् । तैः । एव । शान्तिः । अस्तु । नः ॥ ५ ॥ मनः षष्ठं येषां तानि । पूर्वमन्त्रे मनसः पृथगुक्ता3वपि चक्षुरादिसर्वे- न्द्रियाणां स्वस्वविषयज्ञाने मनासाहाय्यस्य अवश्यम् अपेक्षणीयत्वाद् अ- So all our Mss. Så yana's text: qr. Sayana has no comment on cither. ?K K.C RV संसृजे. Dसंसृजे changed to संसृजे. we with B DI K VCs. RA BCDKKRŠ V De Cs agnitat. PŮJ Hat: ingift. We with Sayapa.

  • KK V

ससृजे. D संसृजे changed to ससृजे. We with B C D E SCs. 18' यतवानर्थ for यद् वाचा अनर्थ , which is conjecturally restored. 2 Stou. तद. 8 पृथगुक्तापि. २९७ [अ॰१. सू०९.] ५५३ एकोनविंशं काण्डम् । त्रापि मनस उपादानम् । मनःसहितानि [इमानि यानि] पञ्च ज्ञा- नेन्द्रियाणि मे हृदि हृदयप्रदेशे वर्तन्ते । हृदयं हि आत्मनिवासस्थानम् । सुषुप्तिकाले स्वस्वकारणरहितानि सर्वेन्द्रियाणि आत्मनि लीयन्त इति हृ- दीत्युक्तम् । इन्द्रियाणि विशिनष्टि । ब्रह्मणा चेतनेन आत्मना नियन्त्रा संशितानि स्वस्वविषयेषु व्यापारितानि । विषयप्रवणत्वमेव संशितत्वम् । यैरेव इन्द्रियैः घोरम् पापावहं कर्म ससृजे सृष्टं तैरेव इन्द्रियैः सृष्टस्य घोरकर्मणो नः अस्मदर्थं शान्तिः शमनम् अस्तु ॥ षष्ठी॥ शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः । शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा ॥ ६ ॥ शम्। नः। मित्रः । शम् । वरुणः । शम् । विष्णुः । शम् । प्रजाऽपतिः । शम् । नः । इन्द्रः । बृहस्पतिः । शम् । नः । भवतु । अर्यमा ॥ ६ ॥ मित्रः सूर्यः अहरभिमानी । वरुणः रात्र्यभिमानी । विष्णुः व्यापको देवः । [प्रजापतिः ] प्रकर्षेण जायमाना देवतिर्यङ्मनुष्यादयः [प्रजाः] तासां पतिः पालकः । इन्द्रः परमैश्वर्यसंपन्नः । बृहस्पतिः बृहतां देवानां पतिः हितकारित्वेन पालकः । अर्यमा । पूर अर्तेर्धातोः अर्यमन्शब्दो निपातितः ।मित्रादयः अर्यमान्ताः सर्वे देवा नः अस्माकं शम् शान्त्यै भवन्तु । वाक्यभेदात् शम् इति पदस्य प्रतिवाक्यं प्रयोगः ॥ सप्तमी ॥ शं नो मित्रः शं वरुणः शं विवस्वांछमन्तकः । उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥ ७ ॥ शम । नः। मित्रः । शम्। वरुणः। शम्। विवस्वान्।शम् । अन्तकः । $ उत्पाताः. D उत्पाताः changed to उत्पाता.. B उत्पाता। We with A B C D E Cs and PJ. RA B C R Cs °न्तरिमाछंनो. D अन्तरिक्षान्छनो. Sityana's text : उत्पाताः पार्थिवांतरिक्षाः शं नो. We with kSRV Dc. ३ विवस्वान् । We with P J. KR उत्पाता. ३० अन्तो- २९६ अथर्वसंहिताभाष्ये उतऽपाताः । पार्थिवां । आन्तरिक्षाः । शम् । नः । दिविऽचराः । ग्रहाः ॥७॥ मित्रवरुणौ व्याख्यातौ । विवस्वान् विवासयति अपगमयति तम इति विवस्वान्। विपूर्वाद् 1वसेर्वसुः । यद्वा धनस्य नाम विव इति । तद् अस्यास्तीति मतुप् । “मादुपधायाः” इति वत्वम् । अन्तकः सर्वेषां प्राणिनाम् अन्तम् अवसानं करोतीति अन्तकः । अन्तो पपदात् करोतेः “डोन्यत्रापि दृश्यते” इति डः। पार्थिवाः पृ- थिव्यां भवाः [आन्तरिक्षाः] अन्तरिक्षे मध्यमलोके भवा उत्पाताः । शं भवन्तु इति शेषः । [दिविचराः] दिवि द्युलोके चराः संचरन्तो ग्रहाः कालचक्रवशात् परिभ्राम्यन्तः अङ्गारकाद्याः । मित्रादयः सर्वेपि नः अ- स्माकं शम् दोषशमकाः सुखकरा भवन्तु ॥ अष्टमी॥ शं नो भूमिर्वेष्यमाना शमुल्का निहतं च यत् । शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ॥ ४ ॥ शम । नः । भूमिः । वेप्यमाना। शम। उल्का । निःऽहतम। च । यत्। शम् । गावः । लोहितऽक्षीराः । शम् । भूमिः । अव । तीर्यती- ॥४॥ पार्थिवान् आन्तरिक्षांश्च उत्पातान् आह । वेप्यमाना कम्पमा- ना । व्यत्ययेन कर्तरि श्यन् प्रत्ययः ।यद्वा प्राणिसंहार- ककालेन वेप्यमाना कम्प्यमाना । कर्मणि “सार्वधातुके यक्" इति यक् प्रत्ययः । सा भूमिः नः अस्माकं शम् शान्त्यै कम्प- दोषपरिहाराय भवतु । तथा उल्कानिहतम् उल्काभिः आयतज्वालारू- | Sec foot-note I on the previous page. So PŮJ. PPJ stafint: t. B वेप्यमाणा. Vवेप्यमाना. Do KDOS वेप्यमाणाः. R वेप्यमानाः. ५ So we with A Bc DR Cs De. V °मुल्कानिहतं. ३ मुल्कानिर्हतं. KK मुल्कानिहतं. ६ B C DR.Cs लो- fega:.. We with KK V D PÅ J. So we with A B CPKKRŠ Dc Cs. V मिरवदीयंती. < PPJ वेष्यमाणाः।. APP I अवतीः । यतीः ।, 15 वसेरसुन् । विव इति for वसर्वसुः । यद्वा धनस्य नाम विव इति. ना। २९९ (अ.१.सू.९.] ५५३ एकोनविंशं काण्डम् । पेण पतन्तीभिर्बाधितं दग्धं यद् विद्यते तच्च शम अस्तु । [लोहित- क्षीराः] लोहितमेव क्षीरं यासां ताः लोहितदोग्ध्यो गावश्च शम् दो- षनिर्हारिका भवन्तु । अवदीर्यती अवदीर्यमाणा । दृ विदारणे । 'ऋत इद्धातोः" इति इत्त्वम् । “हलि च" इति दीर्घः । व्यत्य- येन लटः शत्रादेशः छु । अवदीर्यमाणा द्विधा भवन्ती भूमिश्च शं भवतु । भूमिः कम्पनविदरणदोषजनितम् अनर्थं शमयतु । अन्त- रिक्षम् उल्का1भिहननजनितं दुरितं गावो लोहितदोहनजं शमयन्तु इति ॥ दूदू विदारणे। (4 नवमी ॥ अ- नक्षत्रमुल्काभिहतं शमस्तु नः शं नोभिचाराः शमु सन्तु कृत्याः । शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ॥ ९ ॥ नक्षत्रम् । उल्का । अभिऽहतम् । शम् । अस्तु । नः । शम् । नः । अ- भिऽचाराः । शम् । ऊं इति । सन्तु । कृत्याः । शम् । नः । निऽखाताः । वल्गाः । शम । उल्काः । देशोपऽसर्गाः । शम । ऊं इति । नः । भवन्तु ॥ ९ ॥ उल्का1भिहतम् समन्ताद् आकाशात् पतन्तीभिरायतज्वालाभिरुपप्लुतं न- क्षत्रम् । अभिचाराः मारणार्थं शत्रुभिः क्रियमाणानि कर्माणि । अ- भिपूर्वाञ्चरते "अकर्तरि च कारके संज्ञायाम्" इति कर्मणि घञ् प्र- त्ययः। उशब्दः अप्यर्थे । कृत्याः अभिचारकर्मभिरुत्पादिताः पि- शाच्यः । अभिचारकर्माणि जडत्वात् स्वयमेव शत्रुसमीपम् आगत्य न निघ्नन्ति किं तु हिंसिकाः पिशाचीरुत्पादयन्ति । तेभिचारास्ताः पिशा- च्यश्च शम् उपद्रवशमनाय भवन्तु । “कृञः श च" इति स्त्रियां करोतेः क्यप् प्रत्ययः । “ह्रस्वस्य पिति" इति तुक् । So we with A CD KÄRŠ V De Cs (R Š Cs ope) and PÉ J. ABC DRCs at fararat. De at farannat changed to fit faratar. PJ fasadar: 1. Wc with K V DC P. So we with A B CD KÄRŠ V De CS PJ. RAM: 1. PŮJ 18 उल्काभिहनजनितं. तथा नि. उल्का. ३०० अथर्वसंहिताभाष्ये स्वाताः भूमावप्रकाशं निगृहिता वलगाः । वलगाः पीडार्थे भूमेरधो बाहुप्रदेशे निखन्यमाना अस्थिकेशादिवेष्टिता विषवृक्षादिनिर्मिताः 1पुंत्तल्यो वलगा इत्युच्यन्ते । तथा च तैत्तिरीयके "रक्षोहणो वलगहनः" इत्यत्र समाम्नायते । “असुरा2 वै निर्यन्तो देवानां प्राणेषु वलगान् न्यखनन । तान् बाहुमात्रेन्वविन्दन् । तस्माद् बाहुमात्राः स्वायन्ते” इति [तै सं० ६.२.११.१] । तेपि वलगा नः अस्माकं शम् भवन्तु । उल्काः आ- काशान्निष्पतन्त्य3 आयतज्वालाः । उल्कादर्शनम् अनर्थकारि । उल्काः खदर्शनजनितं दुरितं शमयन्तु । देशोपसर्गाः देशे जनपदे उपसर्गा ईतिबाधाः । उशब्दश्चार्थे । तेपि शम् शान्ता भवन्तु ॥ दशमी ॥ शं नो ग्रहांश्चान्द्रमसाः शमादित्यश्च राहुणा । शं नौ मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥ १० ॥ शम् । नः । ग्रहा- । चान्द्रमसाः । शम् । आदित्यः । च । राहुणा । शम् । नः । मृत्युः । धूमऽकेतुः । शम् । रुद्राः । तिग्मऽतेजसः ॥१०॥ चान्द्रमसाः चन्द्रमसः संबन्धिनश्चन्द्रमण्डलस्य भेदकाः संघर्षका ये अङ्गारकाद्या ग्रहाः सन्ति ते [नः] शं भवतु । राहुणा ग्रहेण ग्रस्त आदित्यश्च शम् शान्त्यै भवतु । आदित्यस्य अतितेजस्वित्वेन इतरग्रहैरुप- प्लवाभावाद्4 राहुणेति विशेषितम् । तथा मृत्युः मारको धूमकेतुः उत्पातः । धूमकेतोरनिष्टकारित्वं कौशिकेन सूत्रितम् । “अथ यत्रैतद् धूमकेतुः सप्त- ऋषीन् उपधूपयति तद् अयोगक्षेमाशङ्कम् इत्युक्तम्" [इति कौ. १३. ३५.] । स धूमकेतुः शम् दोषनिर्घाताय भवतु । तिग्मतेजसः तीक्ष्णतेजसो रुद्राः रोदका एतत्संज्ञका देवाश्च खतेजःसंतापकम् उपद्रवं परिहरन्तु ॥ १ A VCs °दित्यः शं. k °दित्यश्च शं राहुणा corrected from दियः शं राहणा. B द्वि- त्यत् शं. C D R°दित्यः शं. De °वित्याः संराहुणा changed to द्वित्यः शं राहणा. वित्यः शराहणा cinengeel to °दित्यश्च राहणा. PJ शराहणा. SITET 1. K V with Sayana. We with Š. PL. We with P J. 18 उत्तल्यो. 23 असुरो. 3 80 8. निपतन्त्यः? 48 प्लवभावात. P ३०१ [अ०१. सू०९.] ५५३ एकोनविंशं काण्डम्। एकादशी ॥ शं रुद्राः शं वसवः शमादित्याः शमग्नयः । शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥ ११ ॥ शम । रुद्राः । शम् । वसवः । शम् । आदित्याः । शम् । अग्नयः । शम्।नः। महंऽऋषयः । देवाः । शम। देवाः । शम्। बृहस्पतिः॥११॥ रुद्राः एकादश । वसवः अष्टौ । आदित्याः द्वादश । अग्नयः वै- तानिकास्त्रयः सभ्यावसथ्याभ्यां सह पञ्च वा । एकः स्मार्तो 1वाग्निः । महर्षयः सप्त । देवाः द्योतमानास्तेजोरूपाः । महर्षिविशेषणम् एतत् । देवाः इन्द्रादयः । बृहस्पतिः तेषां पुरोधाः । एते रुद्रादयः [नः] शम् शान्त्यै भवन्तु ॥ द्वादशी॥ ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोग्नयः । तैर्मे कृतं स्वस्त्ययनमिन्द्रौ मे शर्म यच्छतु ब्रह्मा मे शर्म यच्छतु । विश्व मे देवाः शर्म यच्छन्तु सवै मे देवाः शर्म यच्छन्तु ॥ १२ ॥ ब्रह्म । प्रजाडपतिः । धाता । लोकाः । वेदाः । सप्तडऋषयः । अग्नयः । तैः । मे । कृतम् । स्वस्त्ययनम् । इन्द्रः । मे । शर्म । यच्छतु । ब्रह्मा । मे। शर्म । यच्छतु। विश्वे । मे । देवाः । शर्म । यच्छन्तु । सर्वै । मे । देवाः । शर्म । य- च्छन्तु ॥ १२॥ ACDCs staat:. We with KÅR V DCPŮJ. KKB DATTET. R महऋषयो. महर्षयो. v महर्षयो. C महऋषयो. De महऋषयो changed to महऋषयो. PJ महऽऋषयः। महऽऋषयः ।. ३ PF देवाः 1. J देवाः changck to देवाः ।. ४ देवाः।. We with P. ५ सप्तर्षयो'. 3 सप्तर्पयो . D देवाः संप्तऋषयो changed to वेदाः सप्तऋषयो . Cs देवाः सप्तर्षयो. R देवाः सप्तर्षयो changcal to वेदाः सप्तर्षयो', J देवाः । changed to : 1. We with ABCDV. 18 वोग्निः for वाग्निः ब्रह्म । ३०२ अथर्वसंहिताभाष्ये ब्रह्म । बृहतेर्मनिन् प्रत्ययः । देशकालान1वच्छिन्नं सच्चि- दानन्दलक्षणं परं ब्रह्म । प्रजापतिः प्रजाना पालक: सर्वनियन्ता स- र्वान्तर्यामी । धाता सर्वस्य धाता चतुर्मुखो ब्रह्मा । वेदाः साङ्गाश्च- त्वारः । लोकाः सप्तसंख्याकाः । सप्तर्षयः प्रसिद्धाः । अमयः व्याख्या- ताः । तैः सर्वैः मे मम स्वस्त्ययनम् । स्वस्तीति अविनाशिनाम । तस्य अयनं प्राप्तिः कृतम् स्वस्त्ययनं क्षेमप्रापणं कृतम् । “आशं- सायां भूतवच्च" इति भूतवत् प्रत्ययः । इन्द्रो मे शर्म सुखं यच्छतु प्रयच्छतु । ४ दाण् दाने । “पाप्रा" इत्यादिना यच्छा- देशः ॥ एवं ब्रह्मा मे इत्याद्यास्त्रयः पर्याया व्याख्येयाः ॥ त्रयोदशी ॥ यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः । सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥ १३ ॥ यानि । कानि । चित् । शान्तानि । लोके । सप्तऋषयः । विदुः । सर्वाणि । शम् । भवन्तु । मे । शम । मे । अस्तु । अभयम् । मे। अस्तु ॥ १३ ॥ उक्त्ता2नुक्तानि शान्तिकारणानि संगृह्य आह । सप्तर्षयः अतीन्द्रिया- र्थद्रष्टारो लोके सर्वेषु लोकेषु यानि कानि चिद् वस्तूनि शान्तानि शान्तिकारणानि विदुः जानन्ति तानि सर्वाणि मे शं भवन्तु ॥ एत- सूक्तमतिपाद्यस्यार्थस्य संग्रहेण वचनम् शं मे अस्त्वभयं मे अस्त्विति । 'शान्ता द्यौः" इत्यादिना धुलोकादयः शान्ता भवन्तु इति यद् उ. क्तं तस्यायम् अर्थः । मे शम् अस्तु सर्वतः सुखम् अस्तु । अभ- यम् भयराहित्यं चास्त्विति ॥ १R °नि लोके सप्तर्षयो. A "नि लोके सप्त ऋषयो. BOनि लोके सप्तर्षयो. नि लोके सप्तर्षयो. De °नि लोकै सप्तऋषयो changed to °नि लोके सप्तऋषयौ. D नि लोके सप्तऋषयो. Cs °नि लोके सप्तर्षयो. PJ लोके ।. We with KV Dc. २ P विदुः ।. We with PJ. 18 omits न in °कालानव. 23 उक्तान्युक्तानि. [अ०१. सू०९.] ५५३ एकोनविंशं काण्डम् । ३०३ चतुर्दशी ॥ अनृगात्मकश्चतुर्दशो मन्त्र एवम आम्नायते । पृथिवी शान्तिरन्तरिक्षं शानतिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्ति- र्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वै मे देवाः शान्तिः शा- न्तिः शान्तिः शान्तिभिः। ताभिः शान्तिभिः सर्व शान्तिभिः शमयामोहं यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः ॥ १४ ॥ पृथिवी । शान्तिः । अन्तरिक्षम् । शान्तिः । द्यौः । शान्तिः। आपः । शा- न्तिः । ओषधयः । शान्तिः । वनस्पतयः । शानिः । विश्वै । मे। दे. वाः । शान्तिः । सर्वै । मे । देवाः । शान्तिः । शान्तिः । शान्तिः । शान्तिऽभिः। ताभिः । शान्तिऽभिः । सर्वे । शान्तिऽभिः । शम् । अर्यामः । अहम् । यत् । इह । घोरम् । यत् । इह । क्रूरम् । यत् । इह । पापम् । तत् । शान्तम् । तत् । शिवम् । सर्वम् । एव । शम् । अस्तु । नः ॥ १४ ॥ पृथिव्यादयः शान्तिरूपा भवन्तु । शान्तिभिः उक्ताभिः पृथिव्यादिशा- न्तिभिः शान्तिः निरुपपदा सर्वसाधारणभूता शान्तिरपि शान्तिर्भवतु इत्या- शास्यते । शान्तेरपि शान्तित्वं तैतिरीयके समाम्नायते । “शान्तिरेव शा- न्तिर्मे अस्तु शान्तिरिति” [तै आ° ४. ४२. ५] । ताभिः शान्तिभिः सर्व]- शान्तिभिः। अहम् । X“सुपां सुलुक इति जसः सुः । वयं शमयामः अपगमयामः । किं तद् इति तद् आह । इह अस्मिन् कर्मणि यद् घोरम् भयंकरं विपरीतानुष्ठानेन विपरीतफलप्रापकं यद् FABRD 3 De CS Þ J omit sea. Wc with KCP VP. 2 So we with A B CDRKKS V De Cs PÞJ. CDCR'S af#: atrº. Wc with V KŘA ५ PP Jilistinctly: सर्व । शान्ति ।. ६PPJ शर्मय । मोहम्।। 18 Såyana's text rearls gaarifa: as ours does. . " D. A adds a at after yt. " ३०४ अथर्वसंहिताभाष्ये अस्ति । एतस्यैव विवरणम् यद् इह क्रूरं यद् इह पापम् इति । अथ वा त्रिर्वचनेन दोषशमयितृत्वं निश्चितं भवतीति यद् इह घोरम् इत्यादि त्रिर्वचनम् । एवं तच्छान्तं तच्छिवम् इति शान्तिशिवशंशब्दस्त्रिर्वचनम् । यथा कर्मान्तरेषु “अदीक्षिष्टायं ब्राह्मणः [सं० ६.१.४.३] इत्यादिषु आवेदनरूपेषु त्रिरुपांशुवचनम् त्रिरुच्चैर्वचनम् एवम् अत्रापि । सर्वथा घोरं कर्म शमयामः । तच्च सर्वथा शान्तं भवत्वित्यर्थः ॥ इति एकोनविंशे काण्डे प्रथमेनुवाके दशमं सूक्तम् ॥ प्रथमोनुवाकः समाप्तः ॥ द्वितीयेनुवाके एकादश सूक्तानि । तत्र “शं न इन्द्राग्नि" इति प्र- थमसूक्तत्रयस्य अहरहः पुरोहितेन कर्तव्ये राज्ञः शय्यागृहप्रवेशनकर्मणि शान्त्यर्थजपे विनियोगः । अथातो रात्रीसूक्तानां [विधिम्] अनुक्रमि- ष्यामः" इति प्रक्रम्य उक्तं परिशिष्टे । शान्ता धौरिति जपित्वा राजानं वासगृहं नयेत्” इति [प०४.५.] ॥ अत्र शान्ता द्यौरित्येकेन शान्त्यर्थ- प्रतिपादकं समनन्तरम् इदं सूक्तद्वयं गृह्यते । यत्रैकेन प्रतीकेन समा- नार्थं समानदेवत्यं समानार्ष वा समनन्तरं सूक्तं गृह्यते तद् अर्थसूक्तम् इति अथर्वणां परिभाषणात् ॥ तथा अनेन सूक्तत्रयेण "शान्ता द्यौः" इति पूर्वेण च तुलापुरुषमहा- दाने आज्यहोमं कुर्यात् । “अथातस्तुलापुरुषविधि् व्याख्यास्यामः" इति प्रक्रम्य उक्तं परिशिष्टे । “प्राक्तन्त्वम् आज्यभागान्तं कृत्वा महाव्याहृतिसा. वित्रीशान्तिब्रह्मजज्ञानम् इति हुत्वा" इति [प०११.१.] । अत्र शा- न्तिपदेन शान्त्यर्थप्रतिपादकम् इदं सूक्तत्रयं पूर्व च गृह्यते ॥ अस्य सूक्तत्रयस्य शान्तिप्रतिपादकत्वेन शान्तिगणे पाठाद् “आयुष्यः शान्तिः स्वस्तिगण ऐरावत्याम्" [न . क°१६.] इत्यादिषु विनियोगो द्रष्टव्यः ॥ तत्र प्रथमा । शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या। 15 आथर्वणां. 2 Som. ज. << [अ०२. सू०१०.] ५५४ एकोनविंशं काण्डम् । ३०५ शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥ १ ॥ शम् । नः । इन्द्राग्नी इति । भवताम् । अवःऽभिः । शम् । नः । इन्द्रा- वरुणा । रातऽहव्या। शम् । इन्द्रासोमा । सुविताय । शम् । योः । शम् । नः । इन्द्रापूषणा । वाजऽसातौ ॥१॥ हो इन्द्राग्नी युवाम् अवोभिः1 रक्षाभिः1 नः अस्माकम् अस्मभ्यं वा शम् शान्त्यै सकलदुःखनिवारणाय भवताम् । इन्द्राग्नी इत्यत्र "आमन्त्रितस्य च" इति आष्टमिकं सर्वानुदात्तत्वम् । रातहव्या रातहव्यौ यजमानैर्दत्तहविष्कौ2 इन्द्रावरुणा इन्द्रावरुणौ । देव- ताद्वन्द्वे च"3 इति आनङ् उभयपदप्रकृतिस्वरत्वं च । शं नः । भ- वताम् इत्यनुषङ्गः । इन्द्रासोमा इन्द्रासोमौ सुविताय । सुखनामैतत् । सुष्ठु प्राप्तव्याय ।सुपूर्वाद् एतेः कर्मणि क्तः । तन्वादित्वाद् उ- वङ् आदेशः। सुखाय शं भवताम्। शं योः इति पदयो- र्रथो यास्केनोक्तः । शमनं च रोगाणां यावनं च भयानाम इति [नि• ४.२१.] । शमु उपशमे । यु मिश्रणामिश्रणयोः । उभयत्र अन्येभ्योपि दृश्यन्ते" इति विच् प्रत्ययः । शमनाय यावनाय च । केचिद् एवं व्याचक्षिरे4 । “शम् आत्महेतुकं सुखम् योः विषययो- गनिमितं सुखम्" इति । इन्द्रापूषणा इन्द्रापूषणौ । वा वपू- र्वस्य निगमे" इति पूषन्शब्दस्य दीर्घाभावः । वाजसातौ । यु- द्धनामैतत् । वाजो वेगः वेगेन सातिः अवसानं विनाशो योद्धृणां भ- वति यत्रेति वाजसातिः युद्धं तत्र । अथ वा वाजः अन्नं तल्लाभा- र्थम् । विषयसप्तमीः । शं नो भवताम् । षो अ- न्तकर्मणि 'स्त्रियां क्तिन" । "ऊतियूनि०" इत्यादिना निपातनाद् {PJ Esferaret i. Wc with Ñ. 19 अहोरक्षाभिः though Sayana's text is all right. 23 हविष्यो. 3 3 चेति स- मानम् for च इति आनङ. 18 व्याचक्षे for व्याचक्षिरे. " शमनाय यावनाय “वा षपू. वाजसातौ । यु- र्थम् । अथर्वसंहिताभाष्ये आत्वं द्रष्टव्यम् । अथ वा पण1 संभक्तौ । अस्मात् क्तिनि जनस- नखनां सन्झलोः" इति आत्वम् ५ ॥

द्वितीया ॥ शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः । शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥ २ ॥ शम् । नः । भर्गः । शम । ऊ इति । नः । शंसः । अस्तु । शम् । नः । पुरमऽधिः । शम् । ऊं इति । सन्तु । रायः । शम् । नः । सत्यस्य । सुऽयमस्य । शंसः । शम् । नः । अर्यमा । पुरुऽजा- तः । अस्तु ॥२॥ भगः भजनीयो देवः । "पुंसि संज्ञायाम्” इति भजतेर्ष- प्रत्ययः । नः अस्माकं शम् अस्तु । शंसः सर्वैः स्तूयमानः । एकदेशेन व्यपदेशः । नराशंसो नाम देवः । उशब्दः अवधारणे । शम् एव नः अस्तु । पुरंधिः पूर्णा धीयते निधीयते संचार्यत इति पुरंधिर्बु- द्विः शं नः अस्तु । रायः धनानि सुखायैव सन्तु । सुयमस्य सुष्टु यन्तव्यस्य शोभनयम2युक्तस्य वा "अहिंसा3सत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः" इति [पा. सू०२.३०] यमस्वरूपं 4पातञ्जले विहितम् । तादृशस्य सत्यस्य शंसः वचनं नः अस्माकं सुखाय भवतु । पुरुजातः बहुमादु- र्भावः अर्यमा देवः शं नोस्तु ॥ तृतीया ॥ शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥ ३ ॥ १ A BD सुयम॑स्तु. De सुयर्मस्तु clhangel to सुयमस्य. Cs सुयमस्य changed to सुय- मस्तु. P “यमस्तु ।. We with C K ES V PJ. R A B उरुची. We with C D K KR SV Cs De IS om. अथ वा षण सं. 25 मय for यम.. Som. 'सस्या.. 48 पातंजलं. 1 [अ०२. सू०१०.] ५५४ एकोनविंशं काण्डम् । ३०७ शम् । नः । धाता । शम् । ॐ इति । धर्ता । नः । अस्तु । शम् । नः । उरूची । भवतु । स्वधाभिः । शम् । रोद॑सी इति । बृहती इति । शम् । नः । अद्रिः । शम् । नः । दे- वानाम् । सुऽहवानि । सन्तु ॥ ३॥ धाता विधाता सर्वस्य देवः नः अस्माकं शम अस्तु । धर्ता विधा- रयिता पुण्यपापानाम् वरुणः शम् एव नः अस्तु । उरूची विस्तीर्ण- गमना विवर्त1गमना वा पृथिवी कथ्यते । स्वधाभिः अन्नैः सह नः अ. स्माकं शं भवतु । बृहती बृहत्यौ रोदसी द्यावापृथिव्यौ शं भवताम्2 । अद्रिः 3पर्वतः शं नो भवतु । नः अस्मदीयानि देवानां सुहवानि सुष्टु- तयः शं सन्तु ॥ चतुर्थी ॥ शं नो अग्निज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् । शं नः सुकृतौ सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥ ४ ॥ शम् । नः । अग्निः । ज्योतिःऽअनीकः । अस्तु । शम् । नः । मित्रावरु- णौ । अश्विनी । शम्। शम् । नः । सुऽकृताम् । सुऽकृतानि । सन्तु । शम् । नः । इषिरः । अभि । वातुं । वातः ॥ ४॥ ज्योतिरनीकः ज्योतींषि अनीके मुखे यस्य स तादृशोग्निः अङ्गना. दिगुणयुक्तो देवः नः अस्माकं शम् अस्तु । मित्रावरुणौ नः शं भव- ताम् । अश्विना अश्विनौ शं स्ताम् । सुकृतां पुण्यकर्मणाम् ।सु- कर्मपाप" इति क्विप् प्रत्ययः । सुकृतानि सुष्ठु कृतानि पुण्यानि नः शं सन्तु । इषिरः गमनशीलो वातः वायुः शम् शान्त्यर्थं नः अ. भि वानु अस्मान् अभिलक्ष्य प्रवातु ॥ १PJ ऊरुची।. ? Parei. We with Ñ J. 13 विवभि• for विवर्त', the einendation being conjeetural. पूर्वतः. 28 भवाम्. 3 S ३०७ अथर्वसंहिताभाष्ये पञ्चमी ॥ शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशयै नो अस्तु । शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥ ५ ॥ शम् । नः । द्यावापृथिवी इति । पूर्वऽहूतौ । शम् । अन्तरिक्षम् । दृशयै। नः । अस्तु। शम् । नः । ओषधीः । वनिनः । भवन्तु । शम् । नः । रजसः । पतिः । अस्तु । जिष्णुः ॥ ५॥ द्यावापृथिवी द्यावापृथिव्यौ पूर्वहूतौ देवानां प्रथमस्तोत्रार्थम् । यद्वा पूर्वे पूर्वं जाता देवा हूयन्ते इज्यन्ते आहू1यन्ते वेति 2पूर्वहूतिर्यज्ञः तत्र शं नः स्ताम् । अन्तरिक्षम् मध्यमलोकः दृशये दर्शनाय शं नो अस्तु । ओषधीः ओषध्यः वनिनः वनरूपसमुदायिनो वृक्षाश्च शं नो भवन्तु । रजसः लोकस्य पतिः पालकः जिष्णुः जयशील इन्द्रः शं नोस्तु ॥ षष्ठी ॥ शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः । शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥ ६ ॥ शम् । नः । इन्द्रः । वसुऽभिः । देवः । अस्तु । शम् । आदित्येभिः । व- रुणः । सुऽशंसः। शम् । नः । रुद्रः । रुद्रेभिः । जलाषः । शम् । नः । त्वष्टा । ग्नाभिः । इह । शृणोतु ॥ ६ ॥ इन्द्रो देवः वसुभिः एतसंज्ञकैर्देवैः सार्ध नः अस्माकं शम् अस्तु । सुशंसः शोभनस्तुतिर्वरुणः आदित्येभिः आदित्यैः सार्धं शं नोस्तु । ज- लाषः । सुखनामैतत् । 3जलाषः सुखं तद् अस्यास्तीति । अर्श आदित्वाद् अच् प्रत्ययः । सुखकरो रुद्रो रुद्रेभिः रुद्रैः सार्धं शं १B विष्णुः. APJ अनामिः। 18 आह्वयंते. 5 देवहूति° for पूर्वहूति . S omits ष: in जलाप:'. अर्श[अ०२. सू०१०.] ५५४ एकोनविंशं काण्डम् । ३०९ नोस्तु । त्वष्टा सर्वप्राणिनां रूपाणि विकुर्वन् देवः ग्नाभिः देवपत्नीभिः सार्धं शं नोस्तु । इह अस्मिन् कर्मणि शृणोतु च । नः स्तोत्रम् इति शेषः ॥ सप्तमी॥ शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः । शं नः स्वरूणां मितयो भवन्नु शं नः प्रस्वः शम्वस्तु वेदिः ॥ ७ ॥ शम् । नः । सोमः । भवतु । ब्रह्म । शम् । नः । शम् । नः । ग्रावाणः । शम् । ऊं इति । सन्तु । यज्ञाः ।। शम् । नः । स्वरूणाम् । मितयः । भवन्तु । शम् । नः। प्रऽस्वः । शम्। ऊं इति । अस्तु । वेदिः ॥७॥ सोमः लतारूपः अभिषूयमाणः शं नोस्तु । ब्रह्म स्तोत्रशस्त्रात्मकं शं नोस्तु । ग्रावाणः अभिषवसाधनभूताः शं नः सन्तु । यज्ञाः सोमनि- र्वर्त्याः क्रतवः शम् एव सन्तु । स्वरूणाम् । लुप्तमत्वर्थीयः । रुमतां यूपानां मितयः उन्मानानि शं नो भवन्तु । प्रस्वः प्रकर्षेण सू- यमाना जायमाना ओषधयः चरुपुरोडाशसंपादिकाः शं नः सन्तु । प्र स्व इति । प्रपूर्वात् सूयतेः क्विप् । कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तः । ततः परस्य जसः “उदात्तस्वरितयोर्यणः स्खरितोनुदात्तस्य” इति स्वरि- तत्वम् । उशब्दः अवधारणे । वेदिः शमेवास्तु । "मय उञो वो वा" इति उशब्दस्य वकारः ॥

अष्टमी ॥ शं नः सूर्य उरुचक्षा उदैतु शं नो भवन्तु प्रदिशश्चतस्रः । शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥।॥ शम् । नः । सूर्यः । उरुऽचक्षाः । उत् । एतु । शम् । नः । भवन्तु । प्रऽदि- शः । चतस्रः। शम् । नः । पर्वताः । ध्रुवयः । भवन्तु । शम् । नः । सिन्धवः । शम् । ऊ इति । सन्तु । आपः ॥४॥ AŘCRŠCs for $. We with DKRVD.. २P प्रऽस्वा. ३१० अथर्वसंहिताभाष्ये उरुचक्षाः विस्तीर्णतेजाः उरुभिर्बहुभिर्दृश्यमानो वा । *"अस- नयोः प्रतिषेधो वक्तव्यः" इति ख्याञादेशाभावः । सूर्यो नः अ- स्माकं शम् शान्त्यर्थम् उदेतु ॥ चतस्रः प्रदिशः महादिशः शं नो भ. वन्तु ॥ ध्रुवयः ध्रुवाः । ध्रु स्थैर्ये । औणादिकः किप्रत्ययः । उ- वङ् आदेशः। स्थिराः पर्वताः शं नो भवन्तु ॥ सिन्धवः स्यन्द- माना नद्यः नः शं सन्तु । शम् एव सन्तु आपः ॥ नवमी ॥ शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शम्वस्तु वायुः ॥९॥ शम । नः । अदितिः । भवतु । व्रतेभिः । शम् । नः । भवन्तु । मरुतः । सुऽअर्काः। शम् । नः । विणुः । शम् । ऊं इति । पूषा । नः । अस्तु । शम् । नः । भवित्रम् । शम् । ॐ इति । अस्तु । वायुः ॥९॥ अदितिः अखण्डनीया देवमाता व्रतेभिः व्रतैः कर्मभिः सार्ध नः अ- स्माकं शं भवतु1 । स्वर्काः । अर्कोर्चतेः स्तुतिकर्मणः इति या- स्कः। सुष्टुतयो मरुतः नः शं भवन्तु । शं नोस्तु विष्णुः । शम् एव पूषा नो अस्तु । भवित्रम् भुवनम् उदकम् अन्तरिक्षं वा शं नो- स्तु। “अर्तिलूधूसूखिनीसह" इति विहित इत्रप्रत्ययो भवतेरपि व्यत्ययेन उत्पन्नः । उशब्दः अवधारणे । वायुः शम् शान्त्यर्थमे- वास्तु। "मय उञो वो वा” इति उञो वकारादेशः ॥ दशमी ॥ शं नो देवः सविता त्रार्यमाणः शं नो भवन्तूषसो विभातीः । शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः ॥ १० ॥ BS CBt. We with DKÄRV De Cs. IS' भवंतु. [अ०२. सू०११.] ५५५ एकोनविंशं काण्डम् । ३११ शम् । नः । देवः । सविता । त्रायमाणः । शम् । नः । भवन्तु । उषसः । विऽभाती। शम् । नः । पर्जन्यः । भवतु । प्रडजाभ्यः । शम् । नः । क्षेत्रस्य । पतिः । अस्तु । शमऽभुः ॥१०॥ त्रायमाणः रक्षन् भयेभ्यः सविता सर्वस्य प्रेरको देवः नः शं भवतु । विभातीः विभात्यो व्युच्छन्त्यः । “वा छन्दसि” इति पूर्वसवर्ण- दीर्घः । उषसः उषोभिमानिन्यो देवताः नः शं भवतु । पर्जन्यः वृष्टिप्रदो नः अस्माकं प्रजाभ्यः [शं भवतु] । शंभुः सुखस्य भावयिता क्षेत्रस्य पतिः । रुद्रं क्षेत्रपतिं माहुः केचिद् अग्निम अथापरे । स्वतन्त्र एवं वा कश्चित् क्षेत्रस्य पतिरुच्यते ॥ एतत्संज्ञको देवः नः अस्माकं शम् शान्त्यै अस्तु भवतु । "वि- प्रसंभ्यो ड्वसंज्ञायाम्" इति विप्रसमुपपदाद् भवतेर्विहितो डुप्रत्ययः शंपू- र्वादपि व्यत्ययेन भवति ॥ [इति ] द्वितीयेनुवाके प्रथमं सूक्तम् ॥ "शं नः सत्यस्य" इति सूक्तस्य रात्रीकल्पादिषु शान्त्यर्थजपे पूर्वसू- क्तेन सह उक्तो विनियोगः ॥ तत्र प्रथमा। शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः । शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥ १ ॥ शम् । नः । सत्यस्य । पतयः । भवन्तु । शम् । नः । अर्वन्तः । शम् । ऊं इति । सन्तु । गावः। शम् । नः । ऋभवः। सुऽकृतः । सुऽहस्ताः । शम् । नः । भवन्तु । पितरः । हवेषु ॥१॥ सत्यस्य पतयः पालयितारः सत्यशीला देवाः नः अस्माकं शम् शान्त्यै 1Som.के.2 एवं. ३१२ अथर्वसंहिताभाष्ये भवन्तु । अर्वन्तः अश्वाः शं नो भवन्तु । शम् एव सन्तु गावः धेनवः । सुकृतः सुकृतकर्माणः कर्मणैव देवत्वं प्राप्ताः सुहस्ताः शोभनहस्ताश्चमस. तक्षणादिषु कुशलहस्ता ऋभवः एतत्संज्ञकाः कर्मदेवाः । तथा च दाश- तय्याम् आर्भवसूक्ते समाम्नायते । “एकं वि चक्र चमसं चतुर्वयं निश्च- र्मणो गाम् अरिणीत धीतिभिः" इति [°४.३६.४] । “विष्ट्वी शमी तरणिवेन वाघतो मर्तासः सन्तो अमृतत्वम् आनशुः” इति [ऋ०१. ११०.४] ॥ "ऋभवो वै देवेषु तपसा सोमपीथम् अभ्य1जयन्" इ- त्यादिना ऐतरेयब्राह्मणे [३.३०] ऋभूणां मनुष्याणामेव देवैः सह सो. मपानं विद्यत इति प्रपञ्चितम् । अत एव अत्र सुकृत इत्युक्तम् । एवंविधमहिमान ऋभवो देवा नः अस्माकं शम् शान्त्यै दुरितनिवृत्त्यै भवन्तु । पितरो हवेषु स्तोत्रेषु । विषयसप्तमी। यज्ञेषु वा नः अस्माकं शं भवन्तु । द्वितीया ॥ शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु । शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः॥२॥ शम् । नः । देवाः । विश्वऽदेवाः । भवन्तु । शम् । सरस्वती । सह । धी- भिः । अस्तु। शम् । अभिऽसार्चः । शम् । ऊं इति । रातिऽसाचः । शम् । नः । दिव्याः। पार्थिवाः । शम् । नः । अप्याः ॥२॥ विश्वदेवाः । अत्र दीव्यतिः स्तुत्यर्थः । बहुस्तोत्रका देवा इन्द्रादयः । यद्वा देवा इति विश्वदेवानां विशेषणम् । दीव्यन्तो विश्वे सर्वे देवाः पू- र्वस्मिन् पक्षे “बहुवीही विश्वं2 संज्ञायाम्” इति पूर्वपदान्तोदातावम । वि. तीयस्मिन् पक्षे तत्पुरुषपक्षे पूर्वपदप्रकृतिस्व3रत्वाद् आधुदात्तत्वेन भवित- व्यम् । अत्र “परादिश्छन्दसि बहुलम्" इति पूर्वपदान्तोदात्तत्वम् । दे- १P अभिऽसाचः।. We with PJ. ISTI, 2S' Foradiantº. 38 FT. The emendation is conjectural. [अ०२. सू०११.] ५५५ एकोनविंशं काण्डम् । ३१३ वाः नः अस्माकं शं भवन्तु । सरस्वती वर्णपदवाक्यात्मना सरणवती वाग्देवता धीभिः स्तुतिभिः कर्मभिर्वा सह शम् अस्तु । अभिषाचः । ष- च समवाये । अभिषचमानाः यज्ञम् अभितः समवयन्तो देवाः शं भवन्तु । रातिषाचः रातये दानार्थ संगच्छमाना देवाः शम् एव भवन्तु । रातिषाचः अभिषाचः इति पदचयेन विश्वे देवा उच्यन्ते । तथा च दाशतय्यां वैश्वदेवसूक्ते समानायते । “विश्वे देवाः सह धीभिः पुरं- ध्या मनोर्यजत्रा अमृता ऋतज्ञाः । रातिषाचो अभिषाचः स्वर्विदः स्व- र्गिरो ब्रह्म सूक्तं जुषेरत” इति [ऋ० १०.६५.१४] । दिव्याः दिवि भवा देवाः पार्थिवाः पृथिव्यां भवाः । धु उत्सादित्वाद् अञ् प्रत्य- यः। पार्थिवा देवाश्च नः अस्माकं शं भवन्तु । अप्याः अप्सु अन्तरिक्षे [भवाः] । g"भवे छन्दसि" इति यत् । “यतोऽनावः" इति आधुदात्तत्वम् । ते शं भवन्तु ॥ तृतीया॥ शं नो अज एकपाद् देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः । शं नो अपां नपात् पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा ॥ ३ ॥ शम् । नः । अजः । एकऽपात् । देवः । अस्तु । शम् । अहिः । बुध्न्यः । शम्् । समुद्रः। शम् । नः । अपाम् । नपात् । पेरुः । अस्तु । शम् । नः । पृश्निः । भ- वतु । देवऽगोपा ॥३॥ अजः अजायमानः एकपात एकः पादः स्थावरजङ्गमात्मको यस्य । "पादोस्य विश्वा भूतानि" इति श्रुतेः [१९. ६.३] ।*"संख्या- सुपूर्वस्य" इति पादस्य लोपः समासान्तः । अज1एकपाच्छब्दा- भ्याम् एक एव देवोभिधीयते । अजैकपान्नामको देवः नः शम् अस्तु । अहिर्बुध्न्यः अहिः अहन्तव्यः बुध्न्यः बुध्नं2 मूलं तदर्हः । अत्रापि पर्ववद् A B C3 2 for x, We with KÁV De C.. 18 अजैक for अजएक. 25 बुधं. YO ३१४ अथर्वसंहिताभाष्ये अहिर्बुध्न्य इति पदद्वयम् एकदेवताप्रतिपादकम् । अहिर्बुध्न्यनामको देवः नः शम् अस्तु । समुद्रः समुद्रवन्ति आपः अस्माद् इति समुद्रः शम् अस्तु । अपां नपात् अपाम् उदकानां न पातयिता । पातयतेः क्विप् । नभ्राण्नपात् " इति नलोपाभावो निपातितः । अ- पानपात्संज्ञको देवो नः शम् शान्त्यै पेरुः पारयिता दुःखेभ्यो भवतु । पृश्निः मरुतां माता देवगोपा देवा गोपयितारो यस्याः सा पृश्निः नः शं भवतु ।गुप् रक्षणे । क्विप् । 'गुपूधूपविच्छिपणिपनिभ्य आय: इति आयप्रत्ययः । अतोलोपयलोपौ1 । देवा गोपा यस्या इति बहुव्रीही पूर्वपदप्रकृतिस्वरः ॥ चतुर्थी ॥ आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः । शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥ ४ ॥ आदित्याः । रुद्राः । वसवः । जुषन्ताम् । इदम् । ब्रह्म । क्रियमाणम् । 66 नवीयः। शृण्वन्तु। न । दिव्याः । पार्थिवासः। गोऽजाताः । उत । ये। यज्ञियासः॥४॥ आदित्याः अदितेः पुत्रा द्युस्थाना देवाः । g“दित्यदित्यादित्य- पत्युत्तरपदात्" " इति ण्यः । रुद्राः रोदयितारः अन्तरिक्षस्थाना देवाः वसवः पार्थिवाः जुषन्ताम् सेवन्ताम् । किं तत् । नवीयः नवत- रम् इदम् इदानीं क्रियमाणं ब्रह्म स्तोत्रं जुषन्ताम इत्यन्वयः ॥ अन्ये च नः अस्मदीयं ब्रह्म स्तोत्रं शृण्वन्तु । के ते । दिव्याः दिवि भवाः पा- र्थिवासः पार्थिवाः । “आज्जसेरसुक्" । पृथिवीस्थानाः गोजाताः गोः पृश्नेर्जाता मरुतो देवाः । उत अपि च यज्ञियासः य- ज्ञार्हा ये देवास्तेपि नः स्तोत्रं शृण्वन्तु ॥ पञ्चमी॥ ये देवानामृविजौ यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः । IS अतालोपयतोलापौ. [अ०२. सू०११.] ५५५ एकोनविंशं काण्डम् । ३१५ ते नौ रासन्तामुरुगायमद्य यूयं पात खस्तिभिः सदा नः ॥ ५ ॥ ये। देवानाम् । ऋत्विजः । यज्ञियासः । मनोः । यजत्राः । अमृताः । ऋ- तडज्ञाः। ते । नः । रासन्ताम् । उरुगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ५॥ देवानाम् “शं न इन्द्राग्नी" इत्यादिसूक्तद्वयप्रतिपादितानाम् [ऋत्विजः] ऋतौ काले यष्टारः । "ऋत्विग्दधृक्” इत्यादिना ऋत्विक्शब्दो निपातितः । यज्ञियासः यज्ञारे मनोः प्रजापतेः यजत्राः यज- नीया यजनार्हा अमृताः अमरणधर्माणः ऋतज्ञाः ऋतं सत्य1भूतं यज्ञं जानन्तो ये देवाः सन्ति ते देवाः अद्य इदानीं नः अस्माकम उरुगा- यम् प्रभूतां कीर्ति रासन्ताम् प्रयच्छन्तु । रासतिर्दानकर्मा । कै गै रै शब्दे । अस्मात् कर्मणि घञ् । आतो युगागमः ॥ हे दे- वाः यूयं नः अस्मान् सदा सर्वदा स्वस्तिभिः । स्वस्तीति अविनाशि- नाम् । क्षेमकरणैरुपायैः पात रक्षतं । सुपूर्वाद् अस्तेः क्तिनि भू- भावाभावश्छान्दसः ॥ षष्ठी ॥ तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम्। अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥ ६ ॥ तत् । अस्तु । मित्रावरुणा । तत् । अग्ने । शम्। योः । अस्मभ्यम् । इदम्। अस्तु । शस्तम्। अशीमहि। गाधम्।उत। प्रतिऽस्याम्। नमः। दिवे । बृहते । संदनाय॥६॥ हे मित्रावरुणा मित्रावरुणौ अहोरात्राभिमानिनौ तत् वक्ष्यमाणं फ- लम् अस्तु । हे अग्ने प्रातःसायंकालाभिमानिन् तत् वक्ष्यमाणं फलम् मुरुगाय. Parar 1. We with Ñ J. 18 सत्यंभूतं. 23 रक्षतु. १० 6 जु अधिकरणे ल्युट्छ। “ ३१६ अथर्वसंहिताभाष्ये अस्तु । किं तत् । शम् रोगाणां शमनम् योः भयाना यावनं पृथक- रणं च इदम् उक्तं फलं शस्तम् प्रशस्तं समीचीनम् अस्मभ्यम् अस्तु । उत अपि च गाधं प्रतिष्ठाम् । गाधृ प्रतिष्ठालिप्सयोर्ग्रन्ये च । अस्माद् घञ् । प्रतिष्ठां स्थितेरविच्छेदम् । यद्वा गाधं धनलाभं प्रतिष्ठां च क्षेत्रादिरूपं फलम् अशीमहि अश्नुवीमहि । अशू व्या- प्तौ । अस्माद् विधिलिङि विकरणस्य लुक् छान्दसः । आशीलिंङि वा ऊदित्वाद् इडभावः । छन्दस्युभयथा” इति लिङः सार्वधातुकत्वात् लिङः सलोपोनन्त्यस्य" इति सकारलोपः । दिवे धुलोकाय बृ- हते महते सदनाय सर्वेषां निवासस्थानाय । अधिकरणे ल्युट् । पृ- थिव्यै [च] नमः नमस्कारोस्तु ॥ [इति ] द्वितीयेनुवाके द्वितीयं सूक्तम् ॥ 'उषा अप स्वसुः” इति एकर्चस्य सूक्तस्य रात्रिकल्पे शान्त्यर्थजपे 'शान्ता द्यौः” इत्यादिसूक्तत्रयेण सह उक्तो विनियोगः ॥ सा खल्वेषा ऋग् एवम् आम्नायते । उषा अप स्वसुस्तमः सं वर्तयति वर्तनि सुजातता। अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥१॥ उषाः । अपं । स्वसुः । तमः । सम् । वर्तयति । वर्तनिम् । सुऽजाता । अया। वाज॑म् । देवऽहितम् । सनेम। मदेम । शतऽहिमाः।सुऽवीराः॥१॥ उषाः उषःकालाभिमानिनी देवता स्वसुः । यदा उषा अभवत् त. दा अनन्तरमेव रात्रिर्भवतीति परस्पराविनाभावेन रात्रिरुषसः स्वसेत्युच्य- ते । स्वसुः स्वयमेव सारिण्या आगच्छन्त्याः स्वसृभूताया रात्रेः तमः अन्धकारम् अप । गमयतीति योग्यक्रियाध्याहारः । ततः सुजातता सुष्ठु जाता सुजाता तस्या भावः सुजातता । “त्वतलोर्गुणवच- १ A D आपः. BC K KR SV अपः. C अप. P आपः। PJ अः1. We read अप Dalawa. We with A B CKKRŠ V De Cs. DI V DC opraat. We with A BRCS PJ. " withi De. & [अ०२. सू०१३.] ५५७ एकोनविंशं काण्डम् । ३१७ नस्य" इति पुंवद्भावः । तृतीयाया1 आकारः । सुजाततया सुष्ठु" प्रादुर्भावेन सम्यक् प्रकाशकरणेन वर्तनिम् मार्गं लौकिकं वैदिकं च सं वर्तयति सम्यग् 2निवर्तयति । उषःकाले जाते सर्वेपि प्राणिनः स्वस्वव्या- पारकरणाय मार्गं पश्यन्ति वैदिका अपि अग्निहोत्रादिकर्ममार्गं पश्यन्ती- त्यर्थः ॥ अया अनया उषसा । सर्व विधीनां छन्दसि विकल्पित- त्वाद् अनादेशाभावः । इदमः इद्रूपस्य लोपः । “आङि चापः” इति एत्वे अयादेशः । अनादेशे वा नकारलोपश्छान्दसः । “ऊडिदम्" इति विभक्तेरुदात्तावम् देवहितम् देवैः सम्यगिष्टैर्हितं निहितं दतं दे- वेभ्यो वा हितं वाजम् अन्नं सनेम संभजेमहि लभेमहि । वन षण संभक्तौ । अनन्तरं सुवीराः । वीरः कर्मणि कुशलः पुत्रपौ- त्रादिः । शोभनपुत्रादिसमेताः सन्तः शतहिमाः । हिमशब्दो हेमन्तर्तुवाची । शतं हिमाः शतसंख्याकान् हेमन्तजरितून् शतं वर्षाणि मदेम हृष्यास्म । "का- लाध्वनोः ” इति द्वितीया । माद्यते । लिड्याशिष्यङ्” इति अङ् प्रत्ययः । [इति] द्वितीयेनुवाके तृतीयं सूक्तम् ॥ "इन्द्रस्य बाहू" इति चतुर्थं सूक्तम् अप्रतिरथसंज्ञकम । तस्य गणा- वायुष्यवर्चस्यौ3 तथाप्रतिरथं स्मृत4म्" इति शान्तिकल्पे [न क°२३] “अप्र- तिरथं जपित्वा" इति वैतानपरिशिष्टादिषु [च] [वै०३.३, प०६.४] यत्रयत्र अप्रतिरथसंज्ञया विनियोगश्चोद्यते तत्र सर्वत्र अस्य विनियोगोऽवगन्तव्यः ॥ तत्र प्रथमा। इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू । तौ योक्षे प्रथमो योग आगते याभ्यां जितमसुराणां स्वर्यत् ॥ १॥ ? So PJ. P fast I corrected to Paat: 1. ADK Cat. We with CV De. Buteferty. We with ACDİRŠ V De Cs. A B CRS V DCs PÔJ. AR Cfor 2. Wc with K Ř V De. 18 तृतीया आकारः, 28 निवर्तयति. 35 वर्चस्यावृथा for वर्चस्यौ तथा. The Nakshatra-Kalpa (23) reads: otot zrywursteirautº (sic). 4 S'fr4. 5 So S'. << " गणा- x So we with A " 1 ३१८ अथर्वसंहिताभाष्ये इन्द्रस्य । बाहू इति । स्थविरौ । वृषाणौ । चित्रा । इमा । वृषभौ । पार- यिष्णू इति । तौ । योक्षे । प्रथमः । योगे। आऽगते । याभ्याम् । जितम् । असुराणाम् । स्वः । यत् ॥ १॥ अस्मिन् सूक्ते शत्रुधर्षणसमर्थ इन्द्रः स्तूयते । स हि स्वबाहुभ्यामेव परान हिनस्तीति तावेव प्रथमं स्तूयेते । स्थविरौ नाम1 स्थूलौ पुष्टौ2 म- हान्तौ वृषाणो अभिमतफलवर्षको आप्रयच्छ दक्षिणादोत सव्यात्" इति हि मन्त्रान्तरम् [७.२७..] । शस्त्रास्त्रवर्षको वा चित्रौ चायनीयौ सर्वैः श्लाघनीयौ। चायृ पूजानिशामनयोः इत्यस्माद् उत्पन्नश्चित्र- शब्द इति यास्को मन्यते [नि १२.६] । कटका3ङ्गदादिभिराभ- रणैर्नानावर्णौ वा इमा इमौ4 परिदृश्यमानौ वृषभौ । लुप्तोपमम् एतत् । वृषभौ पुंगवाविव दुर्ललितौ पारयिष्णू प्रक्रान्तशत्रुहननकर्म समाप्तिं गम- यन्तौ निःशेषं शत्रून मर्दयन्तौ याविन्द्रस्य परमैश्वर्यसंपन्नस्य देवस्य बाहू विद्येते तो बाहू प्रथमः सर्वेभ्य उपासकेभ्यः पूर्वभावी सन् यक्षे पूज- यामि प्रोत्साहयामि । यजतेर्लेटि “सिब्बहुलम” इति सिप् । "टित आत्मनेपदानाम्" इति टेरेत्वम् । किमर्थं यजनम् । योगे आगते च । अप्राप्यमापणं5 योगः । प्राप्तस्य परिरक्षणं क्षेमः । अत्र आ- गतशब्देन क्षेम उच्यते । योगक्षेमार्थं यक्षे6 इति संबन्धः । याभ्यां बाहु- भ्याम् असुराणाम् देवविद्वेषिणां स्वर्यंत् स्वः स्वर्ग तत्र निवासिनो देवान् वा यत् गच्छत्7 बाधकावेन प्राप्नुवत् बलं शारीरं सेनालक्षणं च वीर्यं जितम् पराजितम् । निरस्तम् इत्यर्थः ॥ द्वितीया ॥ आशुः शिशानो वृषभो न भीमो घनाधनः क्षोभणश्चर्षणीनाम् । See foot-notex on the previous paye. A Bomit the visuryn in 7. We with CD KRŠ V DCC. ACDS itaº. We with Ø KRV D. Cs. IS म for नाम. 23 पुष्टा. 35 कटकांगनादि for कटकाङ्गदादि. 4 इमौ इमा इमौ.53 प्रापणयोगः lor प्रापणं योगः. 6S यजत for यक्षे. 78 अगच्छत् for गच्छत्. योः । " [अ०२. सू०१३.] ५५७ एकोनविंशं काण्डम् । ३१९ संक्रन्दनोनिमिष एकवीरः शतं सेना अजयत् साकमिन्द्रः ॥२॥ आशुः । शिशानः । वृषभः । न । भीमः। घनाघनः। क्षोभणः । चर्षणीनाम्। समऽक्रन्दनः । अनिमिषः । एकऽवीरः । शतम्। सेनाः । अजयत् । सा- कम् । इन्द्रः ॥२॥ आशुः शीघ्रकारी व्यापको वा । कृवापाजिमिखदिसाध्य1शूभ्यः [उ°१.१] इति उण् प्रत्ययः । शिशानः तीक्ष्णीभव2न्मतिः स्वाभिम- तसंपादने व्यग्रः । ४ शो तनूकरणे । व्यत्ययेन आत्मनेपदम् । “ब- हुलं छन्दसि" इति शपः शुः । अभ्यासस्य च इत्त्वम् । श्यैङ् गतौ इत्यस्य वा । छान्दसो यलोपः । वृषभो न वृषभ इव भीमः भयंकरः धनाधनः हन्ता शत्रूणाम् । हन्तेः पचाद्यचि ॥ हन्तेर्घत्वं च" इति द्विवचनम् । अभ्यासस्य आगागमः । घत्वं च धत्वभ्यास- योः। चर्षणीनाम् मनुष्याणां क्षोभणः क्षोभयिता । कृ- त्यल्युटः” इति कर्तरि ल्युट् । प्रावृषि वर्षादिना कर्षकादीन् युद्धे परसेना वा विक्षोभयन् संक्रन्दनः युद्धे रिपूणाम् आह्वाता क्रन्दयिता वा स्तनयिलूनां वा शब्दयिता अनिमिषः अनिमेषचक्षुः । मि- पतेः “घञर्थे कविधानम्" इति कः । ततो बहुव्रीही "नञ्सुभ्याम्" इति अन्तोदाप्तत्वम् । एकवीरः एकविक्रान्तः3 असहाय एव कार्य- समर्थः ईदृश इन्द्रः शतम् बह्वीः सेनाः परकीयाः साकम् सहैव एक- प्रकारेण अजयत जयति । तस्मात् 4तमेवाश्रयत इष्टसिद्ध्यर्थम् इति शेषः ॥ तृतीया ॥ संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ ३ ॥ १PP क्षोभनः । २ A D R S जिष्णुनायोध्येनं दुश्चर्वनेन. B जिष्णुनायोध्येन दुश्चर्वनेन. C जिष्णुनायोध्येन दुश्ववनेन. Cs जिष्णुनायोध्यैन दुश्यवनेन. We with K KV Dr. 18 सायाति tor °साध्यशूभ्य इति. 28 तीक्ष्णभव 3 .एकविक्रीतः for एकवि- क्रान्तः. 48 तस्मात्तमेवयमाश्रित्य for तस्मात् तमेवाश्रयत. " DS एकविक्रीतः for एकवि" ३२० अथर्वसंहिताभाष्ये समऽक्रन्दनेन । अनिऽमिषेण । जिष्णुना । अयोध्येन । दुःऽच्यवनेन । धृष्णुना। तत् । इन्द्रेण । जयत । तत् । सहध्वम् । युधः । नरः । इषुऽहस्तेन । वृष्णा ॥३॥ संक्रन्दनेनानिमिषेण व्याख्यातौ । संक्रन्दयित्रा अनिमिष1चक्षुषा जि- ष्णुना जयशीलेन योध्येन2 युद्धसंसक्तेन । ४ युधं संप्रहारे ।ऋ- हलोर्ण्यत्" । 'शकि लिङ् च” इति शक्यार्थे कृत्यप्रत्ययः । दु- श्च्यवनेन [दुःखेन] च्यावयितुं शक्येन अविचाल्येन । "छन्दसि गत्यर्थेभ्यः” इति युच् ४ ॥ धृष्णुना प्रसहनशीलेन इषुहस्तेन । इ- षवो बाणा हस्ते यस्येति बहुव्रीहौ “प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ" इति परनिपातः । वृष्णा वर्षित्रा कामानाम् इन्द्रेण यथोक्तगुण- संपन्नेन सहायेन हे युधः योद्धारः हे नरः मनुष्याः ।“विभा- षितं विशेषवचने बहुवचनम्" इति पूर्वस्य आमन्त्रितस्य अविद्यमान- वत्त्वनिषेधाद् द्वितीयं निहन्यते । योद्धारः शूराः 3यूयं तजयत । जेतव्यम् इति सामर्थ्याल्लभ्यते । किं च तेनैव इन्द्रेण सहायेन तत् स- हध्वम् अभिभवनीयम् इति अभिभवत ॥ चतुर्थी॥ स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन । संसृष्टजित सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥ ४ ॥ सः । इषुऽहस्तैः । सः । निषङ्गिऽभिः। वशी। समऽस्रष्टा । सः । युधः । इन्द्रः। गणेन ।

  • PJ capelaai. We with Ñ. * P **: 1. Jat: I changed to at: 1. We with Ý.

३ A B C K KIV संसृष्टा. De संस्रष्टा changeel to संसृष्टा. We with DR Cs. ogrenie. Soto. We with BCD KÄRV DC C CỔ star:. We with AD RKK S V DCC, ABKKCDRŠ V De Cs PŘJ all read: spital. We with Siyapa. PÓJ PUT I. 18 अनिमिषे. 25 युधे. 8 युधं. XA योः । " [अ०२. सू०१३.] ५५७ एकोनविंशं काण्डम् । ३१९ संक्रन्दनोनिमिष एकवीरः शतं सेना अजयत् साकमिन्द्रः ॥२॥ आशुः । शिशानः । वृषभः । न । भीमः। घनाघनः। क्षोभणः । चर्षणीनाम्। समऽक्रन्दनः । अनिमिषः । एकऽवीरः । शतम्। सेनाः । अजयत् । सा- कम् । इन्द्रः ॥२॥ आशुः शीघ्रकारी व्यापको वा । कृवापाजिमिस्वदिसाध्य1शूभ्यः [उ°१.१] इति उण् प्रत्ययः । शिशानः तीक्ष्णीभव2न्मतिः स्वाभिम- तसंपादने व्यग्रः । ४ शो तनूकरणे । व्यत्ययेन आत्मनेपदम् । “ब- हुलं छन्दसि" इति शपः शुः । अभ्यासस्य च इत्वम् । श्यैङ् गतौ इत्यस्य वा । छान्दसो यलोपः । वृषभो न वृषभ इव भीमः भयंकरः धनाधनः हन्ता शत्रूणाम् ।हन्तेः पचाद्यचि ॥ हन्तेर्यत्वं च" इति द्विर्वचनम् । अभ्यासस्य आगागमः । घत्वं च धात्वभ्यास- चर्षणीनाम् मनुष्याणां क्षोभणः क्षोभयिता । कृ-

त्यल्युटः” इति कर्तरि ल्युट् । प्रावृषि वर्षादिना कर्षकादीन् युद्धे

परसेना वा विक्षोभयन् संक्रन्दनः युद्धे रिपूणाम् आह्वाता क्रन्दयिता वा स्तनयित्नूनां वा शब्दयिता अनिमिषः अनिमेषचक्षुः ।मि- पतेः “घञर्थे कविधानम्" इति कः । ततो बहुव्रीहौ "नञ्सुभ्याम्" इति अन्तोदात्तत्वम् । एकवीरः एकवि3क्रान्तः असहाय एव कार्य- समर्थः ईदृश इन्द्रः शतम् बह्वीः सेनाः परकीयाः साकम् सहैव एक- प्रकारेण अजयत जयति । तस्मात्4 तमेवाश्रयत इष्टसिद्ध्यर्थम् इति शेषः ॥ तृतीया ॥ संकन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहध्वं युधो नर इधुहस्तेन वृष्णा ॥ ३ ॥ १PP क्षोभनः । २ A D R S जिष्णुनायोध्येनं दुश्चर्वनेन. B जिष्णुनायोध्येन दुश्चर्वनेन. C जिष्णुनायोध्येन दुश्ववनेन. Cs जिष्णुनायोध्यैन दुश्यवनेन. We with K KV Dr. 18 सायाति tor °साध्यशूभ्य इति. 28 तीक्ष्णभव 3.एकविक्रीतः for एकवि- क्रान्तः. 48 तस्मात्तमेवयमाश्रित्य for तस्मात् तमेवाश्रयत. ३२२ अथर्वसंहिताभाष्ये अभिऽवीरः । अभिऽसत्वा । सहःऽजित् । जैत्रम् । इन्द्र । रथम् ।आ। तिष्ठ । गोऽविदन् ॥ ५॥ बलविज्ञायः परस्य बलं विजानातीति । "कर्मण्यण्"। य- द्वा अयं मम बलम् इति सर्वैर्बलत्वेन विज्ञायत इति बलविज्ञायः । सर्वस्य बलभूतं1 इत्यर्थः । "अकर्तरि च कारके संज्ञायाम्" इति स्थविरः महान पुरातनो वा प्रवीरः प्रकर्षेण वीरः शूरः । यद्वा प्र2गतान् परागतबलानपि वीरयतीति प्रवीरः सहस्वान् अभिभवनशक्तिमान् वाजी अन्नवान् वेगवान् वा सहमानः अभिभवन् शत्रून् उग्रः उद्भूर्णबलः अभिवीरः अभितो वीरा बलवन्तः अनुचरा य- स्य सः अभिषत्वा अभिषदनशीलः शत्रुसेनाभिगमनशीलः । सदेः क्वनिप् । दकारस्य तकारः । सदिरप्रतेः" इति षत्वम् । [यद्वा सत्वनो वीरान् अभिभवतीति अभिसावा] । सांहितिको मूर्धन्यादेशः । स होजित् शात्रवीयबलस्य जेता गोविदन् गाः3 परकीया धेनूः स्वकीयत्वेन जानन् परगवीः स्वाधीनाः कुर्वन् । वेत्तेः शतृप्रत्ययः । “पूरण- गुणसुहित" इति षष्ठीसमासप्रतिषेधो न भवति । छन्दसि सर्वविधीनां विकल्पितत्वात । हे इन्द्र एवंगुणविशिष्ट स त्वं [जैत्रम्] जय- शीलं रथम् आ तिष्ठ अस्मदर्थं रथम् आरोढुम् अर्हसि ॥

षष्ठी ॥ इमं वीरमनु हर्षध्वमुग्रमिन्द्र सखायो अनु सं रभध्वम् । ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥ ६ ॥ इमम् । वीरम् । अनु । हर्षध्वम् । उग्रम । इन्द्रम् । सखायः । अनु । सम् । रभध्वम्। ग्रामऽजितम् । गोजितम् । वज्रऽबाहुम् । जयन्तम् । अज्म । प्रऽमृण- न्तम् । ओजसा ॥६॥ हे सखायः समानख्यानाः समानबुद्धिकर्माणो योद्धारो यूयम् इमं IS बलभूतम्.28 om.प्र. 18 गोः परकीया धेनुः. [अ°२. सू०१३.] ५५७ एकोनविंशं काण्डम् । ३२३ शत्रुधर्षणसमर्थं वीरम् विक्रान्तम् अत एव उग्रम् उद्भूर्णबलम् इन्द्रम् अनु हर्षध्वम् । एनं1 वीरम् अग्रतः कृत्वा यूयं पश्चाद् उत्साहिनो भ- बत । हृष तुष्टौ । “कर्तरि शप्" इति शबेव जातः शवेवो- त्पन्नः । तस्यापवादत्वेन श्यनोऽ2नुत्पत्तिश्छान्दसी आत्मनेपदं च । त- था इन्द्रम् अनु सं रभध्वम् शत्रुहननाय संरब्धम् उद्योगवन्तम् इन्द्रम् अनु स्वयमपि उद्योगिनो भवत । रभ राभस्ये । इन्द्रं विशिनष्टि । ग्रामजितम् शत्रुसंघस्य जेतारम् । अथ वा ग्रामस्य शत्रु- पुरस्य3 जेतारम् [गोजितम्] शत्रुगवीनां जेतारं वज्रबाहुम् वज्रं बा- हौ यस्येति । “प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ” इति पर- निपातः । जयन्तं शत्रून् अज्म अ4जनशीलम् । सुपो लुक् । यद्वा अज्म अजन्ति अत्र योद्धार इति युद्धस्थानम् । अ- धिकरणे मनिन् प्रत्ययः । युद्धस्थानं जयन्तम् इति । ओजसा वीर्येण प्रमृणन्तम् प्रकर्षेण हिंसन्तं परसैन्यानि । मृण हिंसायाम् । तौदादिकः ॥ सप्तमी ॥ अभि गोत्राणि सहसा गाहमानोदाय उग्रः शतमन्युरिन्द्रः । दुश्च्यवनः पृतनाषाडयोध्योऽस्माकं सेना अवतु प्र युत्सु ॥ ७ ॥ अभि । गोत्राणि । सहसा । गाहमानः । अदायः । उग्रः । शतऽमन्युः । इन्द्रः। दुःऽच्यवनः । पृतनापाट् । अयोध्यः । अस्माकम् । सेनाः । अवतु । प्र। युतऽसु ॥ ७ ॥ गोत्राणि गोः उदकस्य त्रा5णि त्रायकाणिं युद्धक्षेत्राणि वा सहसा ब- ABC Dynaai. Du gaan: changed to geaaa. We with KÄRŠVC. KDV & for 3. We with BCËRS DE OJOFT: I. PATT:1. We with P. J aired: 1. We with P. 15 येन. 28 नोत्पत्ति for ऽनुत्पत्ति 48 जनन- त्रावकाण्यत्राणि. 6 35 परस्य. ३२४ अथर्वसंहिताभाष्ये लेन अभि गाहमानः आभिमुख्येन प्रविशन् अदायः निर्दयो निग्राह्ये - ष्वविद्यमानकरुणः । xदय दानगतिरक्षणहिंसादानेषु । अस्माद् घञि बहुव्रीहौ “नञ्सुभ्याम्" इति अन्तोदात्तत्वम् । उग्रः उद्भूर्णबलो वीरः शतमन्युः बहुविधक्रोधः दुश्च्यवनः च्यावयितुं युद्धाङ्गणाद् अपसा- रयितुम् अशक्यः । “छन्दसि गत्यर्थेभ्यः" इति युच् । पृ- तनाषाट् परसेनानाम् अभिभविता । “ छन्दसि सहः” इति ण्विः । 'सहेः साडः सः" इति मूर्धन्यादेशः । अयोध्यः योद्धुं संप्रहर्तुम् अशक्यः ईदृश इन्द्रः युत्सु युद्धेषु । संपदादिलक्षणः क्विप् । अ- स्माकं सेनाः प्रावतु प्रकर्षेण रक्षतु ॥

अष्टमी ॥

बृहस्पते परि दीया रथेनं रक्षोहामित्राँ अपबाधमानः । प्रभऑछवून समृणन्नमित्रानरमाकमेध्यविता तनूनाम् ॥ ६ ॥ बृहस्पते । परि । दीय। रथेन । रक्षःऽहा। अमित्रांन । अपऽबाधमानः । प्रऽभञ्जन् । शत्रून । मऽमृणन् । अमित्रान् । अस्माकम् । एधि । अवि- ता। तनूनाम् ॥६॥ हे बृहसते बृहतां देवानां पते पालक वं रथेन परि दीय । यतिर्गतिकर्मसु पठ्यते । छान्दसो धातुः । अथ वा दीङ् क्षये । अ- नेकार्थवाद् धातूनाम् अत्र गत्य1र्थः । युद्धभूमिं परितो गच्छ व्याप्नुहि । रक्षोहा रक्षसां हन्ता अमित्रान् शत्रून् । अम गत्यादि- षु। अस्माद् इत्रप्रत्ययः । अपबाधमानः सर्वतो नाशयन् । ल- क्षणहेत्वोः” इति हेत्वर्थे शानच् । बाधनेन हेतुना सर्वतो ग- च्छ ॥ शत्रून् प्रभञ्जन प्रकर्षेण मर्दयन् । भञ्जो आमर्दने ।रौ- धादिकः । अमित्रान् शत्रून् प्रभञ्जन् प्रकर्षेण हिंसन् ईदृशस्त्वम् १C RCs रथेन. We with A B DEV Dc. २ R मित्र अप. D मित्र अप.. A मित्रा अप BC'S मित्रों अप. Cs रथेन रक्षोहामि अपबाध'. We with KK v De.

    • . We with BCDRŠKŽVDC. V P मित्रान् । J मित्रान् ।

IS गर्थः for गत्यर्थः. A [अ०२. सू०१३.] ५५७ एकोनविंशं काण्डम्। ३२५ अस्माकं तनूनाम् शरीराणाम् अविता रक्षिता एधि भव । अ- स्तेर्लोटि "स्वसोरेछौ” इति हेर्ध्यादेशः एवं च ॥ . नवमी ॥ इन्द्र एषां नेता बृहपतिर्दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यनु मध्ये ॥ ९ ॥ इन्द्रः । एषाम् । नेता । बृहस्पतिः । दक्षिणा । यज्ञः । पुरः । एतु । सोमः। देवऽसेनानाम् । अभिऽभञ्जनीनाम् । जयन्तीनाम् । मरुतः । यन्तु । मध्ये ॥९॥ अभिभञ्जतीनाम् अस्मदमित्रान् आभिमुख्येन भङ्क्तुं मर्दयितुम् । त्वर्थे शतृप्रत्ययः । “ड्याश्छन्दसि०" इति नाम उदात्तत्वम् । भ- ञ्जनेन हेतुना जयन्तीनाम् जयनशीलानाम् । जयन्तीनाम् इत्यत्र बहुल1वचनाद् नाम उदात्तत्वं न भवति । एवम् अस्मदर्थं प्रव- र्तमा2नानाम् एषाम् ।लिङ्गव्यत्ययः । आसाम् देवसेना- नाम इन्द्रो नेता अस्तु । बृहस्पतिः पुरः पुरस्ताद् एतु3 दक्षिणा च यज्ञश्च सोमश्च पुर एतु । इति प्रत्येकविवक्षया एकवचनम् । दक्षिणा दक्षिणस्या दिशि बृहस्पतिरेतु यज्ञः सोमश्च पुरस्ताद् एतु इति केचिद् व्याचक्षते । तदा दक्षिणशब्दाद् 'दक्षिणाद् आच्" इति आचि कृते 'चितः" इति अन्तोदात्तत्वम् । यथा "सरस्वती यां पितरो हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः" [१३.१.४२, ०१०.१७.९] इत्यत्र दक्षिणाशब्दः अन्तोदातः पठ्यते एवम् अत्रापि स्यात् । अतः यज्ञे दीयमाना गोरूपा दक्षिणा अत्र विवक्षिता । दक्ष वृद्धौ । द्गुद क्षिभ्याम् इनन् [उ०२.५० ] इति इनन्प्रत्यये कृते “न्नित्यादिर्नित्यम्" इति आद्युदात्तत्वं सिध्यति । दिगाख्याने वा व्यत्ययेन आद्युदात्तत्वं द्रष्ट- व्यम्। तथा मरुतो देवताश्च देवसेनानां मध्ये यन्तु गच्छन्तु ॥ .18 बहुवचनात्. 2 5 अस्मदर्थप्रवर्त. 35 एतत्. 66 " ३२६ अथर्वसंहिताभाष्ये दशमी॥ इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानौ मरुतां शर्ध उग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥१०॥ इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञः। आदित्यानाम् । मरुताम् । शधैः । उग्रम्। महाऽमनसाम् । भुवनऽच्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥ १०॥ वृष्णः कामानां वर्षितुः शस्त्रास्त्राणां वा सांतत्येन प्रक्षेप्तुः इन्द्रस्य रा- ज्ञः राजनशीलस्य वरुणस्य शत्रुनिवारकस्य एतत्संज्ञकस्य देवस्यापि आ- दित्यानाम् अदितिपुत्राणां देवानां मरुतां च उग्रम् उद्भूर्ण शर्धः शत्रु- प्रस1हनसमर्थं बलम् उद् अस्थात् उत्तिष्ठतु शत्रून् हन्तुम् आविर्भव- तु। शृधु प्रसहने । अस्माद् असुन् प्रत्ययः । ततः म- हामनसाम् अदीनमनसां भुवनच्यवानाम् च्यावयितुं समर्थानां भुवने- भ्यो लोकेभ्यो वा शत्रूश्च्यावयितुं शक्तानाम् । च्यवतेरन्तर्भावित- ण्यर्थात् पचाद्यच् । जयताम् शत्रून विनाशयतां देवानां सर्वेषा- मपि घोषः जयध्वनिः उद् अस्थात् उतिष्ठतु ॥ एकादशी ॥ अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु । अस्माकै वीरा उत्तरे भवन्त्वस्मान् देवासोडवता हवेषु ॥ ११ ॥ अस्माकम् । इन्द्रः । समऽऋतेषु । ध्वजेषु । अस्माकम् । याः । इषवः । ताः । जयन्तु। अस्माकम् । वीराः । उत्ऽतरे । भवन्तु । अस्मान् । देवासः । अवत । ह- वेषु ॥ ११ ॥ ध्वजेषु ध्वजवत्सु। ४ अर्शआदित्वाद् मत्वर्थीयः अच् प्रत्ययः ।। सं- IS शत्रुमसन'. [अ०२. सू०१४.] ५५० एकोनविंशं काण्डम् । ३२७ ग्रामेषु समृतेषु । अर्तेः “गत्यर्थाकर्मक इति कर्तरि क्तप्रत्य- यः । संप्राप्तेषु सत्सु अस्माकम् इन्द्र एव । रक्षिता भवत्विति शेषः । अस्माकं या इषवः इष्यमाणाः प्रेर्यमाणाः शरास्ता जयन्तु श- त्रून् । यद्वा इषुशब्देन इषुमन्तो योधा उच्यन्ते । लुप्तमत्वर्थीयो निर्देशः । इषुमन्तो योधा1 जयन्तु ॥ अस्माकं संबन्धिनो वीराः विक्रान्तकर्माणः पुरुषा उत्तरे भवन्तु जयेन उत्कृष्टा भवन्तु ॥ हे देवासः देवाः यूयमपि हवेषु । हूयन्ते आहूयन्ते परस्परं योद्धारो योद्धृभिरत्रेति हवः संग्रामः । तेषु अस्मान् अवत रक्षत । यथा जयिनो भवेम तथा अनुपालयत । “अन्येषामपि दृश्यते" इति तिङन्तस्य दीर्घः ॥ इति द्वितीयेनुवाके चतुर्थ सूक्तम् ॥ इदमुच्छ्रेयोवसानम्" इति एकर्चेन सूक्तेन साग्निपत्नीक आहिताग्निः प्रयाणे पर्यवसिते आज्यं जुहुयात् ॥ सैषा ऋग् एवम् आम्नायते ॥ इदमुच्छ्रेयौवसानमागां शिवे मे द्यावापृथिवी अभूताम् । असपत्नाः प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु ॥ १ ॥ इदम् । उत्ऽश्रेयः । अवऽसानम् । आ। अगाम् । शिवे इति । मे। द्यावा- पृथिवी इति । अभूताम्। असपत्नाः । प्रऽदिशः । मे । भवन्तु । न । वै। त्वा । द्विष्मः । अभयम् । नः । अस्तु ॥१॥ अवसानम् । अवस्यति परिसमाप्तं भवति प्रयाणम् अत्र स्थान इति

उत्। अवसानम् । तद्रूपम् इदम्2 इदानीं गम्यमानं श्रेयःं श्रेष्ठं फलम्

योग्यक्रियाध्याहारः । उद्दिश्य आगाम् प्राप्तवान् So we with A BCDKÄRŠ VDC. PPI raserat: 1. Ra. We with A B C D KKSV DECs. ३ A आभूताम् lion अभूताम्. ४ विमो. ५PJ अय- सानम् ।. ६ Pद्विष्मः ।, J द्विष्मः | changeel froun द्विष्मः ।. We with P. 13 योजयंतु for योधा जयन्तु. 28 इदम् इदम् for इदम्. उन । ३२७ अथर्वसंहिताभाष्ये अस्मि । . इणो लुङि गादेशः । द्यावापृथिवी द्यावापृथि- व्यौ मे मम शिवे श्रेयःमदे अभूताम् भवताम् । भवतेश्छान्दसो लुङ्। तथा मे मम प्रदिशः प्रकृष्टा दिशः प्राच्यादिमहादिशः अ- सपत्नाः । सपत्नीव सपत्नः । अकार उपमार्थीयः । “यस्येति च" इति ईकारलोपः । एतत् सर्व “व्यन्त्सपत्ने" इति निपातनात् सि- द्धम्। सपत्नरहिता बाधकहेतुकोपद्रवरहिता भवन्तु । न- ञ्सुभ्याम्" इति अन्तोदात्तत्वम् ॥ भयहेतौ विद्यमाने कथं तत्कृ- तोपद्रवराहित्यम् इत्यत आह न वै त्वा1 द्विष्म इति । हे सपत्न त्वां त्वां न द्विष्मः द्विष्टं मा कुर्मः । वैशब्दः प्रसिद्धौ । त्वद्विषये मया द्वेषो न क्रियत इति सर्वे जानन्तीत्यर्थः । अतो नः अस्माकम् अभयं भयरा- हित्यम् अस्तु । “अव्यये नञ्कुनिपातानाम् इति वक्तव्यम्" इति नञः प्रकृतिस्वरत्वम् ॥ इति द्वितीयेनुवाके पञ्चमं सूक्तम् ॥ 'यत इन्द्र भयामहे" इत्यस्य सूक्तस्य अभयगणे पाठाद् अभय- गणोऽभयायाम्" इति [नक०१] 'आयुष्यश्चाभयश्चैव तथा स्वस्त्ययनो गणः” इति [प० ५.३.] "अभयेनोपतिष्ठते" [शा क°१६] इति नक्षत्रकल्पशान्तिकल्पपरिशिष्टादिषु गणप्रयुक्तो विनियोगोनुसंधेयः ॥ तत्र प्रथमा॥ यत इन्द्र भयामहे ततो नो.अभयं कृधि । मधवञ्छग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१॥ यतः । इन्द्र । भयामहे । ततः । नः । अभयम् । कृधि । मघवन् । शग्धि । नवं । त्वम् । नः । ऊतिभिः । वि। द्विषः। वि। मृधः । जहि ॥१॥ CRS C omit the accent mark on. W with ADKKVD. " 64 अभय- “ IS संत्वा for स्वा. करोते- [अ°२. सू०१५.] ५५९ एकोनविंशं काण्डम्। ३२९ हे इन्द्र अभयंकर यतः यस्माद्धेतोः भयामहे बिभीमः भीतिं प्राप्नु- मः। 1बिभेते: सामान्यविहितः कर्तरि शबेवोत्पन्नः । यद्वा लेख्या- डागमः । उभयत्र व्यत्ययेन आत्मनेपदम् । 'भीत्रार्थानां भयहेतुः" इति यत इत्यत्र अपादानत्वात् पञ्चमी । ततः तस्माद् भयहेतोः नः अस्माकम् अभयम् भयराहित्यम् उपद्रवपरिहारं कृधि कुरु । करोते- र्लोटि विकरणस्य लुक् । “श्रुशृणुपृकृवृभ्यः' इति हेर्धिरादेशः ४ । किं च हे मघवन् धनवन् इन्द्र त्वं [तव] त्वत्संबन्धिनीभिः ऊतिभिः रक्षा- भिः नः अस्मान् । रक्षितुम्2 इति शेषः । शग्धि शक्तः समर्थो भ-

व। शकेः प्राप्तकाले लोट् । भयहेतोः सपत्नात् सका-

शाद् बिभ्यतो3मांस्त्वदीयैः पालनैः पालयितुम् अयं प्राप्तः काल इत्य- र्थः । शकेर्लोटि विकरणस्य लुक् छान्दसः । झलन्तत्वात् हेर्धि- रादेशः । अनन्तरं द्विषः द्वेष्टुन् अस्मदीयान् शत्रून् वि जहि वि- शेषेण छिन्द्धि । मृधः शत्रुसंबन्धिनः संग्रामांश्च वि जहि विशेषेण ना- शय । यद्वा द्विषो मृध इति बाह्याभ्यन्तररूपा द्विविधाः शत्रवो विवक्षि- ताः । संनिहिता [असंनिहिताश्चेति ] वा ॥ द्वितीया ॥ इन्द्र वयमनराधं हवामहेर्नु राध्यास्म द्विपदा चतुष्पदा । मा नः सेना अर्ररुषीरुप गुर्विधूचीरिन्द्रं द्रुहो वि नाशय ॥ २ ॥ इन्द्रम् । वयम् । अनुराधम् । हवामहे । अनु । राध्यास्म । द्विऽपदां । चतुःऽपदा । मा। नः । सेनाः । अररुपीः । उप । गुः । विषूचीः । इन्द्र । द्रुहः । वि। नाशय ॥२॥ अनुराधम् अनुक्रमेण राधनीयं पूजनीयम् । सर्वपि स्वस्वकार्यार्थम् इन्द्रम् एव प्रार्थयन्ते । तथा च दाशतय्याम आम्नायते । “इन्द्रं परेवरे १B मनुराध.

  • Cs offee Pren. We with ÞJ.

18 बिभेदे. 28 रक्षतुम्. 38 विभ्यतो नोस्मान्. ४२ न ३३० अथर्वसंहिताभाष्ये मध्यमास इन्द्रं यान्तोवसितास इन्द्रम् । इन्द्रं क्षियन्त उत युध्यमाना “इन्द्रं नरो वाजयन्तो हवने” इति [ऋ०४.२५..] । अ- नुपूर्वाद् राधतेः कर्मणि पनि "उपसर्गस्य घज्यमनुष्ये.” इति 1अनोः सांहितिको दीर्घः । ईदृशम् इन्द्रं वयं हवामहे स्वेष्टसिद्ध्यर्थम् आह्वयामः । इन्द्रमार्थनया वयं द्विपदा पादद्वयोपेतेन पुत्रभृत्यादिना चतुष्पदा पादचतुष्टयोपेतेन गवाश्वादिना च अनु राध्यास्म अनुक्रमेण संपन्ना भूयास्म । पुत्रभृत्यगवादिरूपाभिमतर्फल2समृद्धा भवेम । राध साध संसिद्धौ । आशीर्लिङि रूपम् ॥ किं च अररुषीः अदात्र्यः अभिमतफलप्रति3बन्धिकाः सेनाः शात्रवीया नः अस्मान् मोप गुः मो- पगच्छन्तु समीपं मा प्राप्नुवन्तु । अररुषीरिति । नञ्पूर्वाद् रातेः क्व4सौ “उगितश्च” इति ङीपि "सोः संप्रसारणम्" । "वा छन्दसि' इति पूर्वसवर्णदीर्घः । अव्ययपूर्वपदप्रकृतिस्वरत्वेन आद्युदात्तः । न केवलं समीपप्राप्त्यभावः किं तु हे इन्द्र विषूचीः विष्वगञ्चनाः सर्वतो व्याप्ता द्रुहः द्रुह्मन्तीस्ताः शत्रुसेना वि नाशय विशेषेण जहि ॥ तृतीया ॥ इन्द्रस्रातोत वृत्रहा परस्फानो वरेण्यः । स रक्षिता चरमतः स मध्यतः स पश्चात् स पुरस्तान्नो अस्तु ॥ ३ ॥ इन्द्रः । त्राता। उत । वृत्रहा । परस्फानः । वरेण्यः । सः । रक्षिता । चरमतः । सः । मध्यतः । सः । पश्चात् । सः । पुरस्तात् । नः । अस्तु ॥३॥ उत अपि च वृत्रहा वृत्रम् आवरकम् असुरं मेघं वा हतवान् इन्द्रः १ A B C D K K RSC: परम्फानो n almore. Siyana explains परस्पा नो, though his text exhibits Tari which perhaps originally was TEUR. K xreins to correct its original realing lo) Terr. C has also correrted FFT to EST, which V alrcaily reals in ith Sityana. D: परस्फानो changcel to परस्पानो, There is no loubt परस्फानी the ancient Atharra rendling. २० PPJ. ३PJ च । रमतः १. 18'मनोः. 38 प्रबन्धिकाः 18 क्ववसो. 28 om. फल. सका- पाते- [अ०२. सू०१५.] ५५९ एकोनविंशं काण्डम् । ३३१ त्राता रक्षिता भवतु । सामान्येन उक्ता विशेषत आह । वरेण्यः वर- णीय इन्द्रः नः अस्माकं 1परस्पाः परेभ्यः पाता रक्षिता । सका- रोपजनश्छान्दसः । परः परस्ताद् वा पाता । उत्तरत्र प्राच्यादिदि- ग्भ्यो रक्षितेति वदति तब्द्यतिरिक्ताभ्यो दिग्भ्यो रक्षितेत्यर्थः पाते- र्विच्। स एव इन्द्रः चरमतः अन्ते । सार्वविभक्तिकस्त- सिः । तत्र रक्षिता मध्यतः मध्यदेशे । सर्वत्र स इत्युक्तिः अ- वश्यरक्षणीयत्वद्योतनार्थम् । पश्चात् पृष्ठभागे पुरस्तात् पुरोभागे नः अ- स्माकं रक्षिता अस्तु भवतु ॥ चतुर्थी ॥ उरु नो लोकमनु नेषि विद्वान्त्स्वपर्यज्ज्योतिरभयं स्वस्ति । उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥ ४ ॥ उरुम् । नः । लोकम् । अनु । नेषि । विद्वान् । स्वः। यत् । ज्योतिः। अ- भयम् । स्वस्ति । उग्रा । ते । इन्द्र । स्पविरस्य । बाहू इति । उप । क्षयेम । शरणा। बृ- हन्ता ॥ ४॥ हे इन्द्र विद्वान् सर्व जानानस्वं नः अस्मान उरुम् विस्तीर्ण लो- कम् इमम् अमुं च अनु नेषि अनुप्रापय । नयतिर्द्विकर्मकः । बहुलं छन्दसि” इति शपो लुक् । स्वयंत स्वः स्वर्ग सर्वं वा यत् गच्छद् व्याप्नुवद् वा ज्योतिः आदित्याख्यं स्वस्ति । अविनाशिना- म । अभयम् भयरहितं क्षेमप्रदं च अस्तु । भयहेतुनिबन्धनोपद्रवपरि- हारकं क्षेमादिसकलाभीष्टप्रदं च भवतु ॥ हे इन्द्र स्थविरस्य महतः पु- रातनस्य वा ते तव संबन्धिनौ उग्रा उनौ उद्भूर्णबलौ शरणा शरणौ शत्रुविशरणसमी । अथ वा शरणशब्दो रक्षितृवाची । सर्वस्य रक्षकौ P ABCDŠ: for 2. RCWTFT without any kampa-figure, thunch one is impliecl of course. We witli KİVDC Vomit in 34. We with: ABDK KRŠ Dc Cs. 19 परस्पापरेभ्यः. ३३२ अथर्वसंहिताभाष्ये बृहन्ता बृहन्तौ महान्तौ बाहू उप क्षियेम उपप्राप्नुयाम । शरणेति वि- धेयविशेषणम् । रक्षकत्वेन उपगच्छेम । क्षि निवासगत्योः । तौ- दादिकः । विधिलिङि रूपम् ॥ पञ्चमी ॥ अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे। अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥ ५ ॥ अभयम् । नः । करति । अन्तरिक्षम् । अभयम् । द्यावापृथिवी इति । उभे इति । इमे इति । अभयम् । पश्चात् । अभयम् । पुरस्तात् । उतऽतरात् । अधरात् । अ- भयम् । नः । अस्तु ॥ ५॥ अन्तरिक्षम् अन्तरा क्षान्तं मध्यमलोकः नः अस्माकम् अभयम् भ- यराहित्यं करति कुर्यात् । करोतेः पञ्चमलकारे अडागमः । इ- मे सर्वप्राणिनिवासस्थानभूते परिदृश्यमाने उभे द्यावापृथिवी द्यावापृथि- व्यौ अभयम् । करतीति अनुषज्यमानं क्रियापदम् अत्र द्विवचनान्तत्वेन विपरिणमयितव्यम् । कुर्याताम् । तथा पश्चात् पश्चिमस्यां दिशि नः अ- स्माकम् अभयम् अस्तु । पुरस्तात् पूर्वस्यां दिशि उत्तरात् उदीच्यां दिशि अधरत् उत्तरप्रतियोगिकः अधरशब्दो दक्षिणदिग्वाची । दक्षिणस्यां दि- शि नः अस्माकम् अभयम् अस्तु । उत्तराधरदक्षिणाद् आ- तिः" इति आतिप्रत्ययः ॥ षष्ठी॥ अभयं मित्रादर्भयममित्रादभयं ज्ञातादभयं पुरो यः । अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥ ६ ॥ ABCDÜRŠ V Cs Dc °FHÀ. PŮJ PI. We with Sá yuna. KR VICs De. C पुगेयः clhangeel to पुरोयः. D पुगेयः, 3 पुरोयः without accents. P PJ पुरः । यः। RSU BK [अ०२. सू०१६.] ५६० एकोनविंशं काण्डम् । ३३३ अभयम् । मित्रात् । अभयम् । अमित्रात् । अभयम् । ज्ञातात् । अभ- यम् । पुरः । यः। अभयम् । नक्तम् । अभयम् । दिवा । नः । सर्वाः । आशाः । मम । मित्रम् । भवन्तु ॥ ६ ॥ मित्रान् सुहृदः अभयम् भयराहित्यम् अस्तु । सर्वदा हितकारी ख- लु पुरुषो मित्रम् तस्माद् भयप्रसङ्ग एव नास्ति किमर्थ भयराहित्यम् आशास्यते । सत्यम् । अत्र भयराहित्यं1 न प्रार्थते किं तु भयव्यतिरिक्तं हितं फलं सर्वदा भवविति । X अत्र नञस्तदन्यत्वम् अर्थः । त- था अमित्रात् । अमेरित्रमत्ययः । शत्रोः सकाशाद् अभ- यम् अस्तु । अत्र भयपरिहारः प्रार्थते । अमित्रं विशिनष्टि । ज्ञातात् द्वेष्ट्रत्वेन परिज्ञानाद् अमित्रात् । यः परः ज्ञाताद् अन्यः अपरिज्ञातः प्रका- शशत्रुर्न भवति किं तु गूढ2शत्रुः तस्माच्च अभयम् अस्तु । नक्तम् रात्री दिवा अहनि नः अस्माकम् अभयम् अस्तु । अहोरात्रयोरभयमार्थनेन काल- निबन्धनभयपरिहारः । सर्वा आशाः सर्वा दिशः मम अ3भयकामस्य मित्रम् मित्रवन्मित्रं सर्वदा हितकारिण्यो भवन्तु । अनेन सर्वतो भी- तिनिवारणम् आशास्यते ॥ [इति ] द्वितीयेनुवाके षष्ठं सूक्तम् ॥ "असपत्नं पुरस्तात्" इति सूक्तचतुष्कस्य रात्रौ पुरोहितकर्तव्ये राज्ञः शय्यागृहप्रवेशकर्मणि अभिमन्त्रितशर्करायाः प्रतिदिशं प्रदक्षिणं प्रक्षेपे वि- नियोगः । “अथातो रात्रिसूक्तानां [विधिम् ] अनुक्रमिष्यामः” इति प्रक्रम्य उक्तं परिशिष्टे । “व्यायुषम् [५.२६.७] इति राज्ञे रक्षां कृ. 'त्वा असपत्नम् [१९. १६] इति शर्कराम् अभिमन्त्र्याङ्गुष्ठात् प्रदक्षिणं 'प्रतिदिशं क्षिपेत्” इति [५० ४.५] । असपत्नम् इत्येकेन प्रतीकेन समनन्तरं सूक्तत्रयं समानार्थत्वाद् गृह्यते । अत एव असपत्नम् इति अ. र्थसूक्तम् आथर्वणा व्यवहरन्ति ॥ 18 राहित्यमत्र for 'राहित्ये. 25 मूढशत्रु:- S' भयकामस्य. ३३४ अथर्वसंहिताभाष्ये तत्र प्रथमा । 99 असपत्नं पुरस्तात् पश्चान्नो अभयं कृतम् । सविता मा दक्षिणत उत्तरान्मा शचीपतिः ॥१॥ असपत्नम् । पुरस्तात् । पश्चात् । नः । अभयम् । कृतम् । सविता । मा । दक्षिणतः । उत्तरान् । मा। शचीऽपतिः ॥१॥ पुरस्तात् पूर्वस्यां दिशि असपत्नम् सपत्नराहित्यं शत्रुबाधापरिहारं नः अस्माकं कृतम् कुरुतम् । सामर्थ्याद् उत्तरार्धे निर्दिष्टौ सवितृशचीपती संबोध्येते । पश्चाच्च अभयं कुरुतम् । करोतेर्लुङि “मन्त्रे घस. इति च्लेर्लृक् । अमाङ्योगेपि छन्दसि अडभावः । करोतेर्लोटि वा श- पो लुक् ॥ अथ परोक्षवचनः । मा मां दक्षिणतः सविता सर्व- स्य प्रेरको देवः । रक्षतु इति क्रियाध्याहारः । उत्तरात्त् उत्तरतः शची- पतिः शची इन्द्राणी तस्याः पतिरिन्द्रः मा मां रक्षतु ॥ दिवो मादित्या रक्षन्तु भूम्या रक्षन्वग्नयः । इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् । तिरश्चीनघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥ २ ॥ दिवः । मा। आदित्याः । रक्षन्तु । भूम्याः । रक्षन्तु । अग्नयः । इन्द्राग्नी इति । रक्षताम् । मा। पुरस्तात् । अश्विनौ । अभितः । शर्म । यच्छताम्। तिरश्चीन् । अन्या । रक्षतु । जातऽवेदाः । भूतऽकृतः । मे । सर्वतः । सन्तु । वर्म ॥२॥ द्वितीया ॥ आदित्याः अदितेः पुत्राः सर्वे देवा दिवः धुलोकाद् मा मा रक्षन्तु । धुलोकनिबन्धनेभ्योऽशन्यादिभ्यो दैवीभ्य आपद्भ्यो रक्षन्तु ॥

  • ABCDKS VC-DEPÞJ 74. We with R. Beraft°. We with PJ.

RSU ABCDËRŠCD. Vraestari with Sayaņa. PŘI forzatai al x So all our Suñlità MSS. PPJUTI. ३३५ न्दसः । [अ०२. सू०१७.] ५६१ एकोनविंशं काण्डम् । अग्नयः अङ्गनशीला गार्हपत्यादयस्त्रयोग्नयो भूम्याः सकाशाद् रक्षन्तु भू- मिहेतुकान् उपद्रवान् परिहरन्तु । दिवो भूम्या इत्युभयत्र "भी- त्रार्थानाम्" इति अपादानत्वात् पञ्चमी: ॥ तथा पुरस्तात् पूर्व- स्या दिशो मा माम् इन्द्राग्नी रक्षताम् पालयताम् । इन्द्रः पूर्वदिगभि- मानी । आहवनीयाग्निरपि पूर्वदिगभिमुख एव 1प्रणीयते । अतस्तौ त- तो रक्षितारौ भवताम् ॥ तथा अश्विना अश्विनौ सूर्यपुत्रौ देवानां भिषजौ नासत्यौ अभितः सर्वतः शर्म सुखं यच्छ2ताम् प्रयच्छताम् । "पा- प्रा.” इत्यादिना दाणो यच्छादेशः ॥ तृतीया ॥ [तिरश्चीनित्यादि । ] सैषा द्विपदा ऋक् । जातवेदाः जा- तानां वेदिता जातैर्विद्यमानो वा अग्निः तिरश्चीन् तिर्यगञ्चनान् अस्मान् रक्षतु । यद्वा तिरश्चीशब्देन विदिश उच्यन्ते । नकारोपजनश्छा- न्दसः। तिरश्वीः । ' पञ्चम्याः शसादेशः । तिरश्वीभ्यो दिग्भ्यो रक्षतु । तिरःपूर्वाद् “अञ्चतेश्वोपसंख्यानम्” इति ङीप् । “अचः” इति अकारलोपे श्रुत्वेन शकारः । तिरश्चीनान् अस्मान् इति पक्षे तिर्यक्शब्दाद् “विभाषाञ्चेरदिक्खस्त्रयाम्" इति स्वः । तस्य ईना- देशे तिरश्वीन् इति भवति । अत्र अन्त्यलोपश्छान्दसः । अग्नी रक्षतु इत्यत्र । “ढ्रलोपे” इति सांहितिको दीर्घः ४ । भूतकृतः भ- वनवताम् उत्पत्तिमतां प्राणिनां कर्तारो निर्मातारो देवाः । यद्वा भूता ग्रहपिशाचादयः । तेषां निकर्तितारो हिंसितारो देवाः । कृती छेदने । क्विप् । तादृशा देवा मे मम सर्वतः सर्वत्र वर्म परैरभेद्यं सुरक्षकं कवचं सन्तु भवन्तु ॥ [इति ] द्वितीयेनुवाके सप्तमं सूक्तम् ॥ 'अग्निर्मा पातु" इति सूक्तद्वयस्य रात्र्यौ राज्ञः शयागृहप्रवेशनार्थ पुरोहितेन कर्तव्ये पिष्टमयरात्रिप्रतिमादिसमर्चनकर्मणि प्रतिदिशं शर्करा- चतुष्टयप्रक्षेपानन्तरं राजान3म् अधिष्ठापितायाः पञ्चम्याः शर्करायाः प्रति- दिशं प्रक्षेपे विनियोगः । दिग्भ्यो रक्षतु । भूतकृतः भ- ८ राशम् l राजानम्. 18 प्राणीयंते. 28 as प्रथम insertent after यच्छताम्. Sce Sayaņa's intreluction to II. 13. अथर्वसंहिताभाष्ये अथ पिष्टमयीं रात्रिं चतुर्भिर्दीपकैः सह । 1अर्चितां गन्धमाल्येन स्थापयेत् तस्य चाग्रतः ॥ इति प्रक्रम्य [प०४.३] उक्तं परिशिष्टे । “अभयम् [१९. १५. ५] इत्यृचा2 "चतस्रः शर्कराः प्रदक्षिणं प्रतिदिशं क्षिपेत् । 3एह्यश्मानम् आं तिष्ठ[२. "१३.४] इति पञ्चमीम् अधिष्ठापयेत् । न तं यक्ष्माः [१९.३०] ऐतु "देवः [ १९. ३९] इति गुग्गुलुकुष्ठधूपं दद्यात् । यस्ते गन्धः [१२. १. “२३-२५] व्यायुषम् [५.२६.७] इति भूमिं प्रयच्छेत् । दूष्या दूषिरसि " [२. ११.१] इति प्रति4सरम् आवध्य तां शर्कराम् अग्निर्मा पातु वसु- “भिः पुरस्ताद् [१९.१७] इति प्रतिदिशं क्षिपेत्” [प०४.४] इति ॥ तत्र “अग्निर्मा पातु" इति सूक्ते एकैकस्याः प्राच्यादिमहादिशो द्वौ द्वौ पर्यायौ ध्रुवाया ऊर्ध्वाया56 दिशश्च एकैक इति दश पर्यायाः ॥ तत्रं प्रथमपर्याये एष मन्त्र आम्नायते ॥ अग्निौ पातु वसुभिः पुरस्तात् तस्मिन् क्रमे तस्मिछ्ये तां पुरं प्रैमि । स मां रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१॥ अग्निः । मा। पातु । वसुऽभिः । पुरस्तात् । तस्मिन् । क्रमे । तस्मिन् । श्रये । ताम् । पुरम् । प्र । एमि । सः । मा । रक्षतु । सः । मा। गोपायतु । तस्मै । आत्मानम् । परि । ददे । स्वाहा ॥१॥ अग्निः पृथिवीस्थानो देवः वसुभिः एतासंज्ञकैर्देवैः सह पुरस्तात् पूर्व- स्यां दिशि मा मां पातु रक्षतु । अग्नेर्वसुसाहित्यम् अन्यत्राम्नायते । “अग्निः प्रथमो वसुभिर्नो अव्यात्" इति [आश्व० २.११] । कुत्र- स्यं पुरुषं रक्षतु इत्याकाङ्क्षायाम् आह । तस्मिन् क्रमे । क्रमणं क्रमः पादप्रक्षेपः । भावे घञ् । 'नोदातोपदेशस्य” इति वृद्ध्यभा- 18' सहमर्चितां for सह । अर्चितां. 25 नभयं सोम व्रतेत्यन्वृचं for अभयम् इत्यूचा which we with the Paris'ishtit. 38 एह्यमानप्रातिष्ठ 15 दिशम् for °सरम्. 8 ऊर्ध्वायाश्च. 68 तत्र प्रथमपर्याय एवमत्रमाम्नायते. यः । तां पुरम [अ०२. सू०१७.] ५६१ एकोनविंशं काण्डम् । ३३७ तस्मिन् पादप्रक्षेपे । तस्मिन् श्रये । श्रयणं श्रयः आश्र-1 यः। "श्रिणीभुवोनुपसर्गे” इति विहितो घञ् व्यत्ययेन न प्र- वर्तते । “एरच्" इति 2अच् प्रत्ययः । तस्मिन् आश्रये अवस्था- ने । पादप्रक्षेपप्रदेशे अवस्थानप्रदेशे चेत्यर्थः । यद्वा क्रमे श्रये इति ति- ङन्तं पदम् । तस्मिन् यस्मिन्नुद्दिष्टे स्थाने क्रमे पादं प्रक्षिपामि । क्र- मतेर्विपूर्वत्वाभावेपि व्यत्ययेन आत्मनेपदम् । यद्वा । वृत्याद्यर्थेषु अनुप- सर्गाद् आत्मनेपदम् । यद् गन्तव्यं स्थानम् उद्दिश्य उत्सहे त3 त्र । तथा यत् स्थानं श्रये आश्रयामि तत्र । ५ श्रीञ् सेवायाम् । लटि ञित्त्वात् कर्त्रभिप्राये क्रियाफले4 आत्मनेपदम् ॥ तां पुरम् या उद्दिष्टा पू: शय्यागृहलक्षणा तां पुरं प्रैमि प्रगच्छामि । तत्र सर्व- त्र अग्निर्मा पात्विति संबन्धः । यता "आपो मौषधीमतीः" इति ष- ष्ठमन्त्रे तासु क्रमे तासु श्रये इति स्त्रीलिङ्गनिर्देशेन आम्नानाद् अत्रापि तस्मिन् क्रमे इत्यत्र एवं व्याख्येयम् । तस्मिन् । [सति सप्तमीयम् । तस्मिन् वसुमत्यग्नौ रक्षके सति क्रमे 5क्रमणं करोमि । तस्मिन् रक्षके सति श्रये आश्रयामि । तां पुरं प्रैमीत्यादि पूर्ववत् । किं च स वसु- मान् अग्निः मा मां रक्षतु । सोग्निश्च मा मां गोपायतु । अत्र रक्षणगोपन- योः अहितनिवारणहितकरणरूपपालनभेदेन भेदो द्रष्टव्यः । गुपेः "गुपूधूप०” इति आयप्रत्ययः । तस्मै सर्वतोरक्षकाय वसुमते अग्नये आत्मानं परि ददे । रक्षणार्थं दानं परिदानम् इत्युच्यते । र- क्षार्थं प्रयच्छामि । स्वाहा । तदधीनत्वद्योतनार्थ स्वाहाशब्दप्रयोगः । यथा सुहृतं6 हविस्तत्तद्देवताधीनं भवति एवम् आत्मापि रक्षणार्थम् अग्न्यधी- नो भववित्यर्थः ॥ एवम् 7उत्तरे' नव पर्याया व्याख्येयाः । विशेषस्तु तत्रतत्र वक्ष्यते ॥ द्वितीय8पर्यायमन्त्रः ॥ वायुर्मान्तरिक्षेणैतस्या दिशः पातु तस्मिन् क्रमे तस्मिंछ्ये तां पुरं प्रैमि। AS क्रियापदे. क्रमेण, GS सुहतं. 75 एवमुत्तरेयनवमप. 88 द्वितीयः. 1 श्रयः 28 येनजित्प्रत्ययः. 38तत्रस्थ for तत्र. ३३६ अथर्वसंहिताभाष्ये स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ २ ॥ वायुः । मा। अन्तरिक्षेण । एतस्याः । दिशः। पातु । तस्मिन् । क्रमे । त- स्मिन् । अये । ताम् । पुरम् । प्र। एमि। सः । मा। रक्षतु । सः । मा । गोपायतु । तस्मै । आत्मानम् । परि । द- दे । स्वाहा ॥२॥ वायुः अन्तरिक्षस्थानो देवः अन्तरिक्षेण स्वाधिष्ठिते1न मध्यमलोकेन सह मा माम् एतस्याः पूर्वमन्त्रे पुरस्ताद् इति निर्दिष्टायाः माच्या दिशः पा- तु। “भीत्रार्थानाम्" इति अपादानत्वात् पञ्चमी ।। त- स्मिन् क्रम इत्यादि पूर्ववत् ॥ तृतीयपर्यायः ॥ सोमो मा रुदैर्दक्षिणाया दिशः पातु तस्मिन् क्रमे तस्मिछ्ये तां पुरं प्रैमि। स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ ३ ॥ सोमः । मा। रुद्रैः । दक्षिणायाः । दिशः । पातु । तस्मिन् । क्रमे । त- स्मिन् । श्रये । ताम् । पुरम । म। एमि । सः । मा। रक्षतु । सः । मा। गोपायतु । तस्मै । आत्मानम् । परि । ददे। स्वाहा ॥३॥ सोमो देवः रुद्रैः रोदयितृभिः एतत्संज्ञकैर्देवैः मा मां दक्षिणस्या दि- शः पातु । सोमस्य रुद्रसाहित्यम् अन्यत्राम्नायते । “सोमो रुद्रैरभिर- क्षतु त्मना" इति [आश्व० २.११] ॥ शिष्टं पूर्ववन्नेयम् ॥ चतुर्थपर्यायः ॥ वरुणो मादित्यैरेतस्या दिशः पातु तस्मिन् क्रमे तस्मिछ्रये तां पुरं प्रैमि । स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ ४ ॥ वरुणः । मा। आदित्यैः । एतस्याः । दिशः । पातु । तस्मिन् । क्रमे । त- स्मिन् । श्रये । ताम । पुरम् । प्र। एमि । 18 स्वधिष्ठितेन. ३३९ [अ०२. सू०१७.] ५६१ एकोनविंशं काण्डम् । सः । मा। रक्षतु । सः । मा। गोपायतु । तस्मै । आत्मानम् । परि । ददे। स्वाहा ॥४॥ वरुणः वारको देवः आदित्यैः अदितिपुत्रैः एतत्संज्ञैर्देवैः सह । वरु- णस्स आदित्यसाहित्यम् अन्यत्र श्रूयते । आदित्यैर्नो वरुणः शर्म यं- सत्" इति [आश्व०२.११] । एतस्या दक्षिणाया दिशः पातु ॥ शिष्टं " व्याख्यातम् ॥ पञ्चमपर्यायः ॥ सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि। स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ ५ ॥ सूर्यः। मा। द्यावापृथिवीभ्याम् । प्रतीच्याः । दिशः । पातु । तस्मिन् । क्र- मे। तस्मिन् । श्रये । ताम् । पुरम् ।प्र। एमि। सः। मा। रक्षतु । सः । मा। गोपायतु । तस्मै। आत्मानम् । परि । ददे। स्वाहा ॥ ५॥ सूर्यः सर्वस्य प्रेरक आदित्यः । “राजसूयसूर्यः' इति सुवतेः सूयतेर्वा सूर्यशब्दः क्यबन्तत्वेन निपातितः । द्यावापृथिवीभ्यां सह । तत्प्रकाश्यत्वेन तत्साहित्यम् । प्रतीच्याः पश्चिमाया दिशः ॥ शिष्टं पूर्ववद् व्याख्येयम् ॥ षष्ठपर्यायः॥ आपो मौषधीमतीरेतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि। ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा ॥६॥ आपः। मा। ओषधीऽमतीः । एतस्याः । दिशः। पान्तुं । तासु । क्रमे। ता- । अये । ताम् । पुरम् । म । एमि । eð grei. We with PJ. ३४० अथर्वसंहिताभाष्ये ताः। मा। रक्षन्तु । ताः । मा । गोपायन्तु । ताभ्यः । आत्मानम् । परि । ददे । स्वाहा ॥ ६॥ ओषधीमतीः ओषधीमत्यः । “वा छन्दसि” इति पूर्वसवर्ण- दीर्घः । आपः । अपाम् ओषधीसाहित्यं संपोष्यत्वेन हेतुना । एतस्या दिशः [मा] मां पान्तु । तासु ओषधीमतीष्वप्सु रक्षिकासु स. तीषु क्रमे गन्तव्यं स्थानं प्रति पादं प्रक्षिपामि । तासु रक्षित्रीषु अये संश्रये अवतिष्ठे । तां पुरम् शय्यागृहलक्षणां प्रैमि प्रगच्छामि । तत्र स- र्वत्र आपः पान्तु इति संबन्धः । किं च ता आपो [मा] मां रक्ष- न्तु । ताश्च मा गोपायन्तु । ताभ्यः अभ्यः आत्मानं परि ददे रक्ष- णार्थ प्रयच्छामि । स्वाहाशब्दो व्याख्यातः ॥ सप्तमपर्यायः ॥ विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि। स मा रक्षतु । स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ विश्वकर्मा । मा । सप्तऋषिऽभिः । उदीच्याः । दिशः । पातु । तस्मिन् । क्रमे । तस्मिन् । श्रये । ताम् । पुरम् । प्र। एमि । सः । मा । रक्षतु । सः । मा। गोपायतु । तस्मैं । आत्मानम् । परि। ददे। स्वाहा ॥ ७ ॥ विश्वकर्मा विश्वं सर्वं कर्मं कार्यं सृज्यं यस्माद् भवति स विश्वकर्मा विश्वजगत्कारणभूतः परमात्मा सप्तर्षिभिः स्वमनःसृष्टैः सप्तसंख्याकैर्ऋषिभिः सह मा माम् उदीच्या उत्तरस्या दिशः पातु । विश्वकर्मणः सप्तर्षिसा- हित्यं स्वकार्यत्वेन । उक्तं च भगवता गीतासु । महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ इति [भ गी०१०.६] ॥ तस्मिन् सप्तर्षिसहित विश्वकर्मणि रक्षितरि क्र- मे इत्यादि पूर्ववद् व्याख्येयम् ॥ 11 स “ [अ°२. सू०१७.] ५६१ एकोनविंशं काण्डम् । ३४१ अष्टमपर्यायः ॥ इन्द्रो मा मरुत्वानेतस्या दिशः पातु तस्मिन् क्रमे तस्मिञ्छ्ये तां पुरं प्रैमि। स मो रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ ४ ॥ इन्द्रः । मा। मरुतऽवान् । एतस्याः। दिशः । पातु। तस्मिन्। क्रमे । तस्मिन् । श्रये । ताम । पुरम् । प्र । एमि । सः । मा। रक्षतु । सः । मा। गोपायतु । तस्मै । आत्मानम् । परि । ददे। स्वाहा ॥ ॥ मरूत्वान् मरुद्भिस्तद्वान् । "झयः” इति मतुपो वत्वम् । इन्द्रः एतस्याः पूर्वमन्त्रोक्ताया उदीच्या दिशः पातु । इन्द्रस्य मरुत्सा- हित्यम् अन्यत्राम्नायते । “वृत्रस्य वा श्वसथाद् ईषमाणा विश्वे देवा अ- 'जहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना ज- “यासि" इति [ऋ६.९६.७] । अस्य मन्त्रस्य ऐतरेयकब्राह्मणम् ए- वम् आम्नायते । 'इन्द्रो वै वृत्रं हनिष्यन्सर्वा देवता अब्रवीद् अनु "मोपतिष्ठध्वम् उप माह्वयध्वम् इति । तथेति तं हनिष्यन्त आद्रवन् । 'सोवेन्मां वै हनिष्यन्त आद्रवन्ति हन्तेमान् भीषया इति । तान् अभि 'प्राश्वसीत् । तस्य श्वसथाद् ईषमाणा विश्वे देवा अद्रवन् । मरुतो हैनं 'नाजहुः । महर भगवो जहि वीरयस्वेत्येवैनम् एतां वाचं वदन्त उ- “पातिष्ठन्त" इति [ऐ ब्रा०३.२०] । तस्मिन् मरूत्वति इन्द्रे रक्षित- रि ॥ शिष्टं पूर्ववद् व्याख्येयम् ॥ नवमपर्यायः ॥ प्रजापतिर्मा प्रजननवान्त्सह प्रतिष्ठाया ध्रुवाया दिशः पातु तस्मिन् क्र- मे तस्मिञ्छ्रये तां पुरं प्रैमि। स मो रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ ९ ॥ प्रजापतिः । मा । प्रजननऽवान् । सह । प्रतिस्थायाः । ध्रुवायाः । दि- ACDR SHA”. CS 7777°. PJ ghtasatal. We with KÄVD.Š. " << “ 46 षष्ठी । ३४२ अथर्वसंहिताभाष्ये शः । पातु । तस्मिन् । क्रमे। तस्मिन् । श्रये। ताम्। पुरम्। प्र। एमि। सः । मा। रक्षतु । सः । मा । गोपायतु । तस्मै । आत्मानम् । परि । ददे। स्वाहा ॥९॥ प्रजननवान् प्रजननं नाम सर्वजगदुत्पादनसाधनम् तद्नान् । यद्वा प्र. जननं पुंव्यञकम् स्त्रीपुंससृष्टेस्तद्हेतुत्वात् । प्रजापतिः प्रकर्षेण जायमाना मनुष्यादिकाश्चराचरात्मिकाः प्रजाः तासां पतिः स्रष्टा देवः । सहसाम- र्थ्यात् प्रजननेन साकम् इत्यर्थः । यद्वा प्रतिष्ठायाः । तृतीयार्थे षष्ठी। प्रतिष्ठया सहेति । प्र1तिष्ठायाः सर्वजगदाधारभूताया ध्रुवा- याः स्थिराया भूमेर्दिशः । भूमिरपि अधरदिक्त्वेनोच्यते । तस्याः पातु ॥ तस्मिन् क्रमे इत्यादि शिष्टम् अविशिष्टम् ॥ दशमपर्यायः॥ बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि। स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ १० ॥ बृहस्पतिः । मा। विश्वैः । देवैः । ऊर्ध्वायाः । दिशः। पातु । तस्मिन् । क्र- मे । तस्मिन् । श्रये । ताम् । पुरम् । प्र। एमि। सः। मा। रक्षतु । सः । मा। गोपायतु । तस्मै । आत्मानम् । परि। ददे। स्वाहा ॥ १० ॥ बृहस्पतिः बृहतां महतां देवानां पतिर्देवो विश्वैः सर्वैर्देवैः सह ऊर्ध्वा- या उपरिस्थिताया दिवो दिशः । द्यौरपि ऊर्ध्वदिकत्वेन तत्रतत्रोच्यते । तस्याः पातु । तस्मिन् विश्वदेवसहिते बृहस्पतौ रक्षितरि क्रमे पादप्र- क्षेपं करोमि ॥ शिष्टं पूर्ववन्नेयम् ॥ [इति ] द्वितीयेनुवाके अष्टमं सूक्तम् ॥ 18' प्रतिप्रतिष्ठायाः. [अ०२. सू०१६.] ५६२ एकोनविंशं काण्डम् । ३४३ "अग्निं ते वसुमन्तम्" इति सूक्तस्स पिष्ठरात्रीसमर्चने कर्मणि शर्क- राप्रक्षेपे पूर्वसूक्तेन सह उक्तो विनियोगः ॥ अत्र पूर्वसूक्ते प्राच्यादिदिग्भ्यो रक्षिका वसुमद1ग्न्यादिदेवताः तत्तद्दि2ग- वस्थिताः [सत्यः शत्रुसकाशाद् रक्षन्तु इति प्रतिपाद्यते । अत्र तु तासु देवतासु तत्तद्दिश आगच्छन्तः] स्वद्वेषिणः अनिष्टकारिणो नाशार्थ प्र- विशन्तु इति प्रतिपाद्यते इत्येतावान् विशेषः ॥ अत्रापि दश पर्यायाः । सर्वेपि अर्धर्चाः ॥ प्रथमपर्यायद्वयम् एवम आम्नायते ॥ अग्निं ते वसुवन्तमृच्छन्तु । ये माघायवः प्राच्या दिशोभिदासात् ॥१॥ अग्निम् । ते । वसुऽवन्तम् । ऋच्छन्तु । ये। मा । अघऽयवः । प्राच्याः । दिशः । अभिऽदासात् ॥१॥ वायुं तेन्तरिक्षवन्तमृच्छन्तु । ये माघायव एतस्या दिशोभिदासात् ॥२॥ वायुम् । ते । अन्तरिक्षऽवन्तम् । ऋच्छन्तु ये । मा। अघऽयवः । एतस्याः । दिशः । अभिऽदासात् ॥२॥ अघायवः अघं हिंसालक्षणं पापं परस्येच्छन्तः । अघशब्दात् “छन्दसि परेच्छायामपि" इति क्यच् । अश्वाघस्यात्" " इति आत्त्वम् । 'क्याच्छन्दसि" इति उप्रत्ययः । जिघांसवो ये शत्रवः प्राच्याः पूर्वस्या दिश आगत्य मा मां रात्रीसमर्चनकारिणं माम अभिदासात् अभितः सर्वतो दासयेयुः 3उपक्षपयेयुः हिंस्युः । दसु उपक्षये । अ- {DRŠCffeilfarº. We with AC KİVD. The same is true of the suban:- quent versen. Pal. We with ÞJ. C a a aftato. DRS C afdelº. Do - तरिक्ष° changeel to तेंतरिक्ष. PJ ते।. ते । changeel to ते ।. We with C. 19 °दग्न्यादीर्देवताः. 2S तत्रदिगवस्थिताः. 3S उपयेयुः for उपक्षपयेयुः, ( " 66 " M ३४४ अथर्वसंहिताभाष्ये स्माण्ण्यन्ताद् अभिपूर्वात् पञ्चमलकारे “तिडां तिङो भवन्ति" इति झे- स्तिबादेशः । इतश्च लोपः” इति इकारलोपः । “लेटोडाटौ इति आडागमः । “छन्दस्युभयथा" इति तिप आर्धधातुकत्वेन "णेरनिटि" इति णिलोपः । प्रत्ययलक्षणपरिभाषया "अत उपधायाः" इति वृ- ते अभिदासकाः शत्रवो वसुमन्तम् वसुभिर्देवैस्तद्वन्तम् अग्निम् ऋच्छन्तु मरणार्थं प्राप्नुवन्तु । ऋच्छ गतीन्द्रियमलयमूर्तिभावेषु । अस्मान् लोट् ॥ एवम् उत्तरे नव पर्यायमन्त्रा व्याख्येयाः ॥ अ- न्तरिक्षवन्तम् अन्तरिक्षम् अधिष्ठेयत्वेन यस्यास्ति तं वायुं ते अपायवः शत्रवः ऋच्छन्तु प्रलयार्थं प्राप्नुवन्तु ये अपायवः शत्रवः एतस्याः प्राच्या दिशः सकाशाद् आगत्य [मा] माम् अभिदासात् अभिदासयेयुः हिंस्युः ॥ तृतीयचतुर्थपर्यायमन्त्रौ । सोमं ते रुद्रवन्तमृच्छन्तु । ये माघायवो दक्षिणाया दिशोभिदासात् ॥ ३ ॥ सोमम् । ते । रुद्रऽव॑न्तम् । ऋच्छन्तु । ये। मा। अघऽयवः । दक्षिणायाः । दिशः । अभिऽदासात् ॥ ३ ॥ वरुणं त आदित्यवन्तमृच्छन्तु । ये मापायव एतस्या दिशोभिदासात् ॥ ४॥ वरुणम् । ते । आदित्यऽव॑न्तम् । ऋच्छन्तु । ये। मा । अघऽयवः । एतस्याः । दिशः । अभिऽदासात् ॥ ४ ॥ ते हिंसकाः शत्रवो रुद्रवन्तम् रुद्रैर्देवैस्तद्वन्तं सोमं देवम् ऋच्छन्नु नाशार्थ गच्छन्तु ॥ आदित्यवन्तम् आदित्यैरदितिपुत्रैः आदित्यसंज्ञकैर्वा देवैस्तद्वन्तं वरुणम् अरिष्टनिवारकं देवं ते शातयितारो रिपवः ऋच्छन्तु । एतस्या दक्षिणाया दिशः ॥ शिष्टं पूर्ववत् ॥ पञ्चमषष्ठमन्त्र्य1पाठस्तु ॥ सूर्यं ते द्यावापृथिवीवन्तमृच्छन्तु । ISom. मन्त्र [अ°२. सू०१०.] १६२ एकोनविंशं काण्डम्। ३४५ ये माघायवः प्रतीच्या दिशोभिदासात् ॥ ५ ॥ सूर्यम् । ते । द्यावापृथिवीऽवन्तम् । ऋच्छन्तु । ये । मा। अघऽयवः । प्रतीच्याः । दिशः । अभिऽदासात् ॥ ५ ॥ अपस्त ओषधीमतीर्ऋच्छन्तु। ये माघायव एतस्या दिशोभिदासात् ॥ ६ ॥ अपः । ते । ओषधीऽमतीः । ऋच्छन्तु । ये । मा। अघऽयवः । एतस्याः । दिशः । अभिडदासात् ॥ ६ ॥ द्यावापृथिवीवन्तम् द्यावापृथिव्यौ यस्य प्रकाश्यत्वेन स्तः । इति मतुप् । “छन्दसीरः" इति तस्य वत्वम् ॥ ओषधीमतीरपः उ. दकानि । कर्म । एतस्याः प्रतीच्या दिशः ॥ शिष्टं निगदसिद्धम् ॥ सप्तमाष्टमपर्यायमन्त्रपाठस्तु ॥ विश्वकर्माणं ते सप्तऋषिवन्तमृच्छन्तु । ये माघायव उदीच्या दिशोभिदासात् ॥ ७ ॥ विश्वकर्माणम् । ते । सप्तऋषिऽवन्तम् । ऋच्छन्तु ये। मा। अघऽयवः । उदीच्याः । दिशः । अभिऽदासात् ॥ ७ ॥ इन्द्रं ते मरुत्वन्तमृच्छन्तु । ये मापायव एतस्या दिशोभिदासात् ॥ ६ ॥ इन्द्रम । ते । मरुतऽवन्तम् । ऋच्छन्तु । ये। मा । अघऽयवः । एतस्याः । दिशः । अभिऽदासात् ॥ ७ ॥ सप्तऋषिवन्तम् सप्तसंख्याका ऋषयः सृज्यत्वेन यस्य सन्ति । इति मतुप् । ऋत्यकः" इति प्रकृतिभावः । "छन्दसीरः” इति मनुपो वत्वम् । मरुत्वन्तम् मरुद्भिस्तद्वन्तम् इन्द्रम् । एतस्या उदीच्या दिशः ॥ शिष्टं व्याख्यातम् ॥ PP AF. Wo witli J. 1 ४ इति ऋत्यकः वाचम् ॥ अथर्वसंहिताभाष्ये नवमदशमपर्यायौ एवम् आम्नायते ॥ प्रजापति ते प्रजननवन्तमृच्छन्तु । ये माघायवो ध्रुवाया दिशोडभिदासात् ॥ ९॥ प्रजाऽपतिम् । ते । प्रजननऽवन्तम् । ऋच्छन्तु । ये। मा । अघऽयवः । ध्रुवायोः । दिशः । अभिऽदासात् ॥ ९ ॥ बृहस्पतिं ते विश्वदेववन्तमृच्छन्तु । ये माघायव ऊर्ध्वाया दिशोभिदासात् ॥ १० ॥ बृहस्पतिम् । ते । विश्वदैवऽवन्तम् । ऋच्छन्तु । ये । मा। अयऽयवः । ऊर्ध्वायाः । दिशः । अभिऽदासात् ॥१०॥ प्रजननं नाम सर्वजगदुत्पादनसाधनं वस्तु । यद्वा प्रजननम् इति पुं- व्यञ्जनम् उच्यते । स्त्रीपुंससृष्टेस्तन्निमित्तकत्वात् ॥ विश्वदेववन्तम् विश्वैर्देवै- स्तग्वन्तम् । "मादुपधायाः" ” इति मतुपो वत्वम् । बृह- स्पतिम् बृहतां महतां देवानां पतिं देवम् ॥ शिष्टम् अवि1शिष्टम् ॥ [इति ] द्वितीयेनुवाके नवमं सूक्तम् ॥ "मित्रः पृथिव्योदक्रामत्" इति सूक्तेन पुरोहितो रात्रौ राजानं श- य्यागृहं प्रवेशयेत् । परिशिष्टं तु पूर्वमेव उदाहृतम् । राज्ञो नूतननगर- प्रवेशनकर्मणि च विनियोगः ॥

तत्र प्रथमा। मित्रः पृथिव्योदक्रामत तां पुरं प्र णयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥१॥

मित्रः । पृथिव्या । उत् । अक्रामत् । ताम् । पुरम् । प्र । नयामि। वः ।

ताम् । आ। विशत । ताम् । प्र। विशत । सा । वः । शर्म । च । वर्म। च । यच्छतु ॥१॥ Pal. We with PJ. 18 अवशिष्टम्. [अ०२. सू०१९.] ५६३ एकोनविंशं काण्डम् । ३४७ मित्रः । मित्रशब्देन अग्निरुच्यते । पृथिव्याः1 साहचर्यात् पृथिवीस्थान- त्वाद् अग्नेः “सूर्यो दिवोदक्रामत्” इति सूर्यस्य पृथग्वक्ष्यमाणत्वाच्च । मि- त्रः अग्निः मीयमान2त्वाद् आहवनीयादिस्वरूपेण प्रणीयमानत्वात् । दु- मिञ् प्रक्षेपणे । अस्माद् औणादिकः क्वन् प्रत्ययः । कित्त्वाद् गुणा- भावः । पृथिव्या स्वनिवासस्थानभूतेन पृथिवीलोकेन सह उदक्रा- मत् उत्क्रान्तवान् । यां पुरं रक्षितुम् इति शेषः । तां पृथिवीलोकाभि- मानिना अग्निना रक्षितां3 पुरम् शय्यागृहलक्षणां प्रसिद्धां नगरीं वा वः युष्मान् राज्ञः । पूजायां बहुवचनम् पुत्रमित्रामात्यावरोधस्त्रीविवक्षया वा बहुवचनम् । पुत्रयोषित्सहितान् युष्मान् प्र णयामि प्रकर्षेण नयामि मा- पयामि । ततः तां पुरम् आ विशत अभिमुखं प्रविशत प्रवेशोन्मुखा भवत । अनन्तरं तां पुरं प्र विशत अन्तःप्रविष्टा भवत । शय्यास्थाने स्वीयसौधे वा निविष्टा भवतेति वा । सा पू: शय्यागृहलक्षणा पुरी वा वः युष्मभ्यं प्रविष्टेभ्यः शर्म सुखं वर्म कवचं पराभेद्यत्वलक्षणम् आव- रणं वा यच्छतु प्रयच्छतु । दाणो यच्छादेशः । परस्पर- समुच्चयार्थौ चकारौ । एवम् उत्तरे दश पर्यायमन्त्रा व्याख्येयाः । वि- शेषस्तु तत्रतत्र वक्ष्यते4 । यथा अग्निः स्वाधिष्ठिते पृथिवीलोके सर्वोतरो वर्तते एवं त्वमपि इदं नगरम् अधिष्ठाय सर्वातिशायी वर्तस्वेति विवक्षि- तम् । [यथा] पृथिव्या सह अग्निरुक्रान्तवान् इत्युक्तः एवम् उत्तरयोर्वा- युसूर्यमन्त्रयोस्तात्पर्यार्थ5 उन्नेयः ॥ अथ द्वितीया ॥ वायुरन्तरिक्षेणोदक्रामत् तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥ २ ॥ वायुः। अन्तरिक्षेण । उत् । अक्रामत् । ताम् । पुरम् । प्र । नयामि। वः । ताम् । आ । विशत । ताम् । प्र। विशत । सा। वः । शर्म । च । व- र्म। च । यच्छतु ॥२॥ 13 पृथिव्या for पृथिव्याः. 2' मीयत्वात् for मीयमानत्वात्. 3S lus रक्षितां तां. 18 वक्ष्यते. 55 स्तात्पर्या उन्नेयः. ३४० अथर्वसंहिताभाष्ये वायुः वातो मातरिश्वा अन्तरिक्षेण अनरा क्षान्तेन स्वीयेन मध्यम- लोकेन सह उदक्रामत् । यो पुरं रक्षितुम् इति शेषः । तां पुरम इ- त्यादि पूर्ववद् व्याख्येयम् ॥ तृतीया ॥ सूर्यो दिवोदक्रामत तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥ ३ ॥ सूर्यः । दिवा । उत् । अक्रामत् । ताम् । पुरम् । प्र । नयामि । वः । ताम् । आ। विशत । ताम् । प्र । विशत । सा। वः । शर्म । च । व- र्म । च । यच्छतु ॥ ३॥ सूर्यः सर्वस्य प्रेरक आदित्यः दिवा स्वनिवासस्थानेन धुलोकेन सह । उदक्रामत इत्यादि पूर्ववत् ॥ चतुर्थी ॥ चन्द्रमा नक्षत्रैरुदक्रामत तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥४॥ चन्द्रमाः । नक्षत्रैः । उत् । अक्रामत् । ताम् । पुरम् । प्र। नयामि। वः । ताम् । आ । विशत । ताम् । प्र। विशत । सा । वः । शर्म । च । व- र्म। च । यच्छतु ॥४॥ चन्द्रमाः चन्द्रम् आह्लादं माति निर्मिमीत इति चन्द्रमाः सर्वस्य लो- कस्य आह्लादको हिमांशुः नक्षत्रैः । न क्षीयन्त इति नक्षत्राणि तार- काः। "नभ्राण्नपात्" इत्यादिना नक्षत्रशब्दो निपातितः। स्वो- पभोग्यैरश्विन्यादिनक्षत्रैः सह नक्षत्राधिपतिश्चन्द्रमाः स्वपरिवारभूतेस्तैरेव स- हितो यां पुरं रक्षितुम् उत्क्रान्तवान् तां. पुरम । युष्मान् प्रापयामीत्यादि

गतम् ॥ पञ्चमी॥ सोम ओषधीभिरुदक्रामत् तां पुरं प्रणयामि वः । ३४९ [अ०२. सू०१९.] १६३ एकोनविंशं काण्डम्। तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥ ५ ॥ सोमः । ओषधीभिः । उत् । अक्रामत् । ताम् । पुरम।प्र। नयामि। वः । ताम् । आ । विशत। ताम् । प्र। विशत । सा। वः। शर्म। च । वर्म। च । यच्छतु ॥ ५॥ सोमः ओषधीनां रसप्रदानेन पोषको देवः ओषधीभिः ओषः पाको धीयत आस्विति ओषध्यः फलपाकान्ताः । उपलक्षणम् एतत तरुगुल्मा- दीनाम् । तैः स्वपोष्यैः सहितः । उदक्रामत् इत्यादि गतम् । युष्माभिः प्रविश्यमाने पुरे ओषध्यादिसमृद्धिर्भववित्यर्थः ॥ षष्ठी॥ यज्ञो दक्षिणाभिरुदक्रामत तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥ ६ ॥ यज्ञः। दक्षिणाभिः । उत् । अक्रामत् । ताम्। पुरम् ।प्र। नयामि। वः। ताम् । आ । विशत । ताम् । प्र। विशत । सा। वः । शर्म । च । व- र्म। च । यच्छतु ॥ ६ ॥ यज्ञः ज्योतिष्टोमादिः प्रकृतिविकृत्यात्मक; सर्वः क्रतुः दक्षिणाभिः वि- हिताभिर्यथोक्ताभिर्दक्षिणाभिः सह उत्क्रान्तवान् । यां पुरं रक्षितुम् इति । अत्र बहुदक्षिणाका यज्ञाः समृद्धा भवन्त्वित्यर्थः ॥ सप्तमी॥ समुद्रो नदीभिरुदक्रामत् तां पुरं प्र णयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥ ७॥ समुद्रः । नदीभिः । उत् । अक्रामत् । ताम् । पुरम् । प्र। नयामि।। ताम् । आ। विशत । ताम् । प्र। विशत । सा। वः। शर्म । च । वर्म। च । यच्छतु ॥ ७॥ नदीभिः नदनशीलाभिरापगाभिः समुद्रः समुद्रवन्ति अस्माद् आप ३५० अथर्वसंहिताभाष्ये इति अम्बुराशिः उदक्रामत् । तां पुरम् इत्यादि गतम् । रक्षोहनना1र्थ नदीसहितसमुद्रोत्क्रान्त्या दापत्यधर्मविशिष्टाः प्रजा अत्र संपद्यन्ताम् इति विवक्ष्यते ॥ अष्टमी॥ ब्रह्म ब्रह्मचारिभिरुदक्रामत् तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥७॥ ब्रह्म । ब्रह्मचारिभिः । उत् । अक्रामत् । ताम्। पुरम्।प्र।नया- मि। वः। ताम् । आ । विशत । ताम् ।प्र। विशत । सा। वः । शर्म । च । वर्म । च । यच्छतु ॥ ६॥ ब्रह्म साङ्गो वेदः ब्रह्मचारिभिः ब्रह्मणि वेदे वेदविहिते यज्ञादिकर्मणि चरितुं वर्तितुं शीलं येषां ते तैः सह उदक्रामत् । अनेन श्रौतस्मातकर्म- निष्णाताः साङ्गवेदाध्यायिनः अनूचाना ब्राह्मणा बहवः समृध्यन्ताम् इति विव2क्ष्यते । तां पुरम् इत्यादि पूर्ववत् ॥ नवमी ॥ 1 इन्द्रो वीर्य३णोदक्रामत् तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छन्तु ॥ ९ ॥ इन्द्रः। वीर्येण । उत् । अक्रामत् । ताम् । पुरम् ।प्र। नयामि। ताम् । आ । विशत । ताम् । प्र । विशत । सा। वः । शर्म। च । वर्म । च । यच्छतु ॥ ९॥ इन्द्रः परमैश्वर्यसंपन्नः समस्तदेवाधिपतिः वीर्येण वीरकर्मणा स्वीयेन बाहुशौर्येण सेनालक्षणेन बलेन वा सह उद् अक्रामत् । इन्द्रो यथा स्ववीर्येण सर्वान् शत्रून जितवान् एवम् अस्मिन् पुरे वर्तमानस्त्वमपि स. र्वातिशायी सर्व3वैरिक्षयी भूया इत्यर्थः ॥ 18 रक्षाहणार्थ, 25 विवक्ष्यंते. 38 सर्वविवक्षयी. ३५१ [अ०२, सू०१९.] ५६३ एकोनविंशं काण्डम् । दशमी ॥ देवा अमृतेनोदक्रामंस्तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु॥१०॥ देवाः । अमृतेन । उत्। अक्रामन् । ताम्। पुरम् ।। नयामि । वः । ताम् । आ । विशत । ताम् । प्र। विशत । सा। वः । शर्म । च । वर्म । च । यच्छतु ॥ १०॥ देवाः द्योतनशीला अमरा अमृतेन अमरणसाधनेन सुधारसेन सह उदक्रामन्1 । यां पुरं रक्षितुम् इति शेषः । तां पुरम् इत्यादि गतम् । अत्रत्याः प्रजा निर्भीका2 दीर्घायुषश्च भवन्तु इत्यर्थं विवक्षितुं रक्षणार्थम् अमृतेन सह देवा उत्क्रान्तवन्त इत्युक्तम् ॥ एकादशी ॥ प्रजापतिः प्रजाभिरुदक्रामत् तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥ ११ ॥ प्रजाऽपतिः। प्रजाभिः। उत्। अक्रामत्। ताम्। पुरम् ।म।नयामि। वः। ताम् । आ । विशत । ताम् । प्र । विशत । सा। वः । शर्म । च । वर्म। च । यच्छतु ॥ ११॥ प्रजापतिः प्रजानां पतिर्देवः प्रजाभिः प्रकर्षेण बहु3त्वेन जायमानाभिर्म- नुष्यादिकाभिः उदक्रामत् । तां पुरम् इत्यादि पूर्ववद् व्याख्येयम् । उ- तरोतरं प्रभविष्णुप्र4जांभूयिष्ठत्वम् अत्र नगरे भूयाद् इत्याशासितुम् इदं वचनम् ॥ [इति ] द्वितीयेनुवाके दशमं सूक्तम् ॥ AⓇCKD Š V De sraguit. We with K Ř Cs. २ " अक्रामत् ।. P अक्रमत् ।। J अप्रामन् । changed to अक्रामत् ।। 18 उदक्रामत्, though in its text it rends उदफ्रामन् तां &c. 28 निराभेका. 38 बहुभिः सत्वेन. १ 48 प्रजाः, ३५२ अथर्वसंहिताभाष्ये 'अप न्यधुः पौरुषेयम्" इति सूक्तेन युद्धोद्यतं राजानं कवचेन पु. रोहितः संनह्येत ॥ “ तत्र प्रथमा॥ " अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः । सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः ॥१॥ अपं । न्यधुः । पौरुषेयम् । वधम् । यम । इन्द्राग्नी इति । धाता। सवि- ता। बृहस्पतिः। सोमः । राजा । वरुणः । अश्विना । यमः। पूषा । अस्मान् । परि । पातु । मृत्योः ॥ १॥ पौरुषेयम् पुरुषैः शातयितृभिररिभिः कृतम् । "पुरुषाद् वध- विकारसमूहतेनकृतेष्विति वक्तव्यम्" इति ढञ् । “नित्यादिर्नित्यम्" इ- ति आधुदात्तत्वम् । तं यं वधम् वधसाधनम् । "हनश्च वधः” इति हन्तेरप् प्रत्ययः । वधश्चादेश आद्युदात्तः । अप न्य- धुः अपाञ्चम् अपगूढं न्यधुः निहितवन्तः । वलगलक्षणं शस्त्रास्त्रादिरूपं वा हननसाधनं मायया परेषाम् अप्रकाशं हननसाधनम् अस्मान् हिं- सितुम् अस्मदभिमुखं प्रेरितवन्त इत्यर्थः । यत्तदोर्नित्यसंबन्धाद् उ- त्तरवाक्ये तच्छब्दाध्याहारः । तस्माद् अप्रकाशात् शत्रुभिः प्रहि- ताद् मृत्योः मृत्युसाधनाद् मृत्युरूपाद् वा वधाद् अस्मान् कवचधा- रिणः अस्मदीयान् राज्ञो वा इन्द्राग्न्यादयो देवताः परि पातु । प्रत्येकवि- वक्षया एकवचनम् । परितः सर्वतः पान्तु रक्षन्तु । भीत्रार्था- नाम्” इति मृत्योरित्यत्र अपादानात्वात् पञ्चमी ॥ द्वितीया ॥ यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः । प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु ॥२॥ ? Su ABCDËRŠ VC- Du. Su PP Jamul not faszry: I. [अ०२. सू० २०.] ५६४ एकोनविंशं काण्डम् । ३५३ यानि । चकार । भुवनस्य । यः । पतिः । प्रजाऽपतिः । मातरिश्वा । प्रडजाभ्यः । प्रडदिशः । यानि । वसते । दिशः । च । तानि । मे। वर्माणि । बहु- लानि । सन्तु ॥२॥ भुवनस्य भूतजातस्य पतिः पालको यः प्रजापतिरस्ति स यानि व- र्माणि कवचानि चकार । किमर्थम् । प्रजाभ्यः प्रकर्षेण जायमानाभ्यो मनुष्यपश्वादिभ्यः । तादर्थे चतुर्थी । तद्रक्षणार्थं मातरिश्वा मातरि अन्तरिक्षे श्वसितीति मातरिश्वा वायुः सूत्रात्मा । प्रजापतेर्विशे- पणम् एतत् । तथा प्रदिशः प्रकृष्टाः प्राच्यादिमहादिशः दिशः अवान्त- रदिशश्च यानि वर्माणि वसते आच्छादयन्ति 1स्वरक्षणार्थम् । Xवस आच्छादने । आदादिकोऽनुदात्तेत् । तानि प्रजापतिना प्रजारक्ष- णार्थं निर्मितानि दिग्भिश्च स्वरक्षणार्थं वसितानि वर्माणि कवचानि मे मम युयुत्सोः बहुलानि प्रभूतानि [सन्तु] भवन्तु ॥ यदायदापेक्षते तदा लाभाय बहुलानीत्युक्तम् । अथ वा स्वस्य परिवाराणां च अपेक्षया बहु- लानीति । यस्य यद् अपेक्षितं तस्य तद् भववित्यर्थः ॥ तृतीया ॥ यत् ते तनूष्वनह्यन्त देवा द्युराजयो देहिनः । इन्द्रो यच्चके वर्म तदस्मान् पातु विश्वतः ॥ ३॥

यत् । ते । तनूषु । अनन्त । देवाः । द्यु। राजयः । देहिनः ।

इन्द्रः। यत् । चक्रे । वर्मं । तत् । अस्मान् । पातु । विश्वतः ॥ ३ ॥ BJ Tel. We with P. ABCDËSR V Cs De ortaquerdanagarfter- orica:. We with Sayaņa, the accents being ours. JPài. We with P. PP I देवा । अधिऽराज । यः । धेहि । नः ।. We with Sayatia, the accents being ours, 4 PP Jared. We with Sayana and our Suñhitů vshich is based on A ŚCDR RS (Cs सर्वतः). 15 स्वलक्षणार्थम्. ३५४ अथर्वसंहिताभाष्ये द्युराजयः दिवि धुलोके राजमाना देहिनः शरीरिणः । कवचधारणं1 देहस्यैवेति देहिनो देवा इत्युक्तम् । ते प्रसिद्धा देवाः तनूषु स्वशरीरेषु यद् वर्म अनह्यन्त धृतवन्तः । xणह बन्धने । देवादिकः । कर्त्रभिप्राये क्रियाफले आत्मनेपदम् । असुरयुद्धे स्वदेहरक्षणार्थ प्रतिमुक्तवन्तः । इन्द्रश्च यद् वर्म 2कवचं चक्रे शत्रुविजयार्थम् । करोतेः पूर्ववद् आत्मनेपदम् । तत् कवचं देवैरिन्द्रेण च स्वशरीरे धारितम् इदं कवचम् अस्मान् युद्धोद्यतान् विश्वतः सर्वतः परकृतपिरहारेभ्यः पातु रक्षतु। चतुर्थी॥ वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः । वर्म मे विश्वे देवाः क्रन मा मा मापत् प्रतीचिका ॥ ४ ॥ वर्म । मे। द्यावापृथिवी इति । वर्म । अहः । वर्म । सूर्यः । वर्म। मे। विश्वे । देवाः । ऊन् । मा। मा।प्र। आपत् । प्रतीचिका ॥४॥ द्यावापृथिवी द्यावापृथिव्यौ मे मम वर्मं कवचं कुरुताम् । अग्निश्च3 वर्म करोतु । सूर्यश्च विश्वे सर्वे देवाः इन्द्रादयश्च मे मम युयुत्सोर्मदी- यस्य वा राज्ञः वर्म कवचं क्रन् कुर्वन्तु । करोतेश्छान्दसे लुङि 'मन्त्रे घस." इति च्लेर्लृक् । झेः सार्वधातुकस्य ङित्त्वाद् गुणप्रतिषेधे यण् आदेशः । “बहुलं छन्दस्यमाड्योगेपि" इति अडभावः । किं च प्रतीचिका प्रत्यगञ्चना प्रतीची। अज्ञातार्थे कप्रत्ययः । “के- ऽणः" इति हूस्वत्वम् । शत्रुसेना अज्ञातप्रतिकूलाञ्चना सती [मा] मां कवचधारिणं युद्धोद्यतं मो मैव प्रापत प्राप्नोतु । आ- प्नोतेर्माङि लुङि लृदित्वाद् अङ् ।कवचधारिणो ममाग्रतः श- १ A B C D K KR देवाः क्रन्, PPI क्रन् ।. }}e vil sc: De. २ BDS प्रतीचि- का. D प्रतीचिका changeal to प्रतीचिका. We with C KKR V Ch. ३J प्रतीचिका । We with Pe. 15 कवचधारिणं देहस्ये. 28 शर्म for कवचं. 3 S Sayana's text too Taifas and not वर्माहवर्म. 66 [अ°३. सू०२१.] ५६५ एकोनविंशं काण्डम्। ३५५ त्रुसेना प्रकाशैव आयातु । देवानुगृहीतकवचधारणेन दृप्तामपि तां पर- सेनां हन्तुं शक्नोमीत्यर्थः ॥ एकादशं सूक्तम् ॥ [इति] एकोनविंशे काण्डे द्वितीयोनुवाकः ॥ तृतीयेनुवाके षट् सूक्तानि । तत्र 'गायत्र्युणिक्” इति प्रथमसूक्त- स्य “गायत्रीं1 छन्दोब्रह्मवर्चसकामस्य प्रयुञ्जीत" इति [न क° १७] वि- हितायां 2गायत्र्याख्यायां महाशान्तौ विनियोगः । उक्तं हि नक्षत्रकल्पे । "छन्दोगणः [२२] गायत्र्याम् समासः3 [२२, २३] आङ्गिरस्याम्" इति [नक.१..] ॥ तत्सूक्तपाठस्तु ॥ गायत्र्युपष्णिगनुष्टुब् बृहती पङ्क्तिस्त्रिष्टुब् जगत्यै ॥१॥ गायत्री। उष्णिक् । अनुऽस्तुप् । बृहत्ती। पङ्क्तिः । त्रिऽस्तुप् । जगत्यै ॥१॥ 'सप्तसु 4च्छन्दःस्वचः कल्पयित्वा गायत्र्यादि गायत्र्यै स्वाहा इत्येवं यथाछन्दः" इति5 तत्रैव नक्षत्रकल्पे मन्त्राणाम् ऊहनप्रकार6स्य दर्शित- त्वाद् गायत्र्यै स्वाहा उष्णिहे वाहा अनुष्टुभे स्वाहा बृहत्यै स्वाहा पङ्क्तयै स्वाहा त्रिष्टुभे स्वाहा जगत्यै स्वाहा इत्येवम् अस्मिन् सूक्ते सप्त मन्त्रा भवन्ति । सर्वे मन्त्राः स्पष्टाः ॥ [इति ] तृतीयेनुवाके प्रथमं सूक्तम् ॥ १ C गायव्यु३०. R. Cs गायञ्यु३०. KK BDV गायत्र्यु', uone laving any kaniya. २ जगती।. We with PJ. 18 गायत्री. 28 गायत्र्याख्यां महा". 38 समासमाथि for समासः आणि.43 छंदस्तितः for च्छन्दःस्वृचः. 58 इव for इति. 6 S Sayana's text very correctly vends गायञ्युष्णिगनुष्टुब्बृहतीपंक्तित्रिष्टुमगत्यै so as to forn the whole line only one word. This reading is sloubtless proverl to be the correct original reading by the JSS. having to instencl of straft. The MSS. make the worls separate and then necessarily accent them but make the line quite unintelligible therchy: None of our MSS. have °पतित्रिष्टु'. 66 " 66 ३५६ अथर्वसंहिताभाष्ये 'आङ्गिरसानामाद्यैः' इत्यादिसूक्तद्वयस्य आङ्गिरसीं संपत्कामस्य अभिचरतोभिचर्यमाणस्य च" [न क°१७.] इति विहितायाम् आङ्गि- रस्याख्यायां महाशान्तौ विनियोगः । उक्तं हि नक्षत्रकल्पे । “समासः1 [१९.२२,२३] आङ्गिरस्याम् इन्द्र जुषस्व [२.५]2 इत्येन्द्रंयाम्" इति [न क°१४.] ॥ अत्र समासशब्देन एतत् सूक्तद्वयम् उच्यते ॥ तत्र “आङ्गिरसानामाद्यैः" इति सूक्तम् एवमाम्नायते ॥ आङ्गिरसानामाद्यैः पञ्चानुवाकैः स्वाहा ॥१॥ आङ्गिरसानाम् । आद्यैः । पञ्च । अनुऽवाकैः । स्वाहा ॥१॥ षष्ठाय स्वाहा ॥२॥ षष्ठाय । स्वाहा ॥२॥ सप्तमाष्ठमाभ्यां स्वाहा ॥३॥ सप्तमऽअष्टमाभ्याम् । खाहो ॥ ३ ॥ नीलनखेभ्यः स्वाहां ॥ ४॥ नीलऽनखेभ्यः । स्वाहा ॥ ४ ॥ हरितेभ्यः स्वाहा ॥ ५॥ हरितेभ्यः । स्वाहा ॥ ५॥ क्षुद्रेभ्यः स्वाहा ॥ ६॥ क्षुद्रेभ्यः । स्वाहा ॥ ६ ॥ पर्यायिकेभ्यः स्वाहा ॥ ७॥ पर्यायिकेभ्यः । स्वाहा ॥ ७॥ प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥ ७॥ प्रथमेभ्यः । शङ्खेभ्यः । स्वाहा ॥ ४ ॥ द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥९॥ द्वितीयेभ्यः । शङ्खेभ्यः । स्वाहा ॥९॥ तृतीयेभ्यः शृङ्खेभ्यः स्वाहा ॥१०॥ तृतीयेभ्यः । शङ्केभ्यः । स्वाहा ॥१०॥ उपोत्तमेभ्यः स्वाहा ॥ ११॥ उपऽउत्तमेभ्यः । स्वाहा ॥ ११ ॥ उत्तमेभ्यः स्वाहा ॥ १२॥ उतऽतमेभ्यः । स्वाहा ॥ १२ ॥ उत्तरेभ्यः स्वाहा ॥ १३ ॥उतऽतरेभ्यः । स्वाहा ॥ १३ ॥ ऋषिभ्यः स्वाहा ॥ १४॥ ऋषिऽभ्यः । स्वाहा ॥ १४ ॥ शिखिभ्यः स्वाहा ॥ १५॥ शिखिऽभ्यः । स्वाहा ॥ १५॥ A B CS :. Do farfgo changed w ferreº. Wo with D KÄRV Cy. J fxtftsatt: 1. We with PÅ. 28 इत्यैन्द्रिया' for इत्यैन्या. 18 समासा for समासः, [अ°३. सू०२२.] ५६६ एकोनविंशं काण्डम् । ३५७ गणेभ्यः स्वाहा ॥ १६ ॥ गणेभ्यः । स्वाहा ॥ १६ ॥ महागणेभ्यः स्वाहा ॥ १७ ॥ महाऽगणेभ्यः । स्वाहा ॥ १७ ॥ सर्वेभ्योङ्गिरोभ्यो विदगणेभ्यः सर्वेभ्यः । अङ्गिरःऽभ्यः । विगणे- स्वाहा ॥१॥ भ्यः । स्वाहा ॥ १ ॥ पृथक्सहस्राभ्यां स्वाहा ॥ १९॥ पृथक्ऽसहस्राभ्याम् । स्वाहा ॥१९॥ ब्रह्मणे स्वाहा ॥ २०॥ ब्रह्मणे । स्वाहा ॥२०॥ ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्ने ज्येष्ठं दिवमा ततान । भूतानो ब्रह्मा प्रथमोते जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥२१॥ ब्रह्मऽज्येष्ठा । सम्ऽभृता । वीर्याणि । ब्रह्म । अग्ने । ज्येष्ठम् । दिवम् । आ। ततान। भूतानाम् । ब्रह्मा । प्रथमः । उत । जज्ञे । तेन । अर्हति । ब्रह्मणा । स्प- र्धितुम् । कः ॥२१॥ अत्र विंशतिकाण्डात्मिकायाम् अस्यां शाखायां विद्यमानानुवाकसूक्तगण- विशेषादिसंज्ञारूपैः शब्दैः अनुवाकादिद्रष्टार एतन्नामान ऋषयः प्रतिपा- द्यन्ते । नीलनखादिसूक्तविशेषाणां प्रसिद्धत्वात् तानि विशेषतो न प्रद- र्शितानि । “ब्रह्मणे स्वाहा” इति ब्रह्मशब्देन विंशतिकाण्डात्मकवेदवाच- केन तस्य द्रष्टा ब्रह्माख्य ऋषिः प्रतिपाद्यते । अन्यत् सर्वं निगदव्या- ख्यातम् ॥ अन्त्ययर्चा पूर्वमन्त्रप्रतिपादितस्य ब्रह्मणः सर्वाभिभावकत्वं प्र- तिपाद्यते । वीर्याणि वीरकर्माणि ब्रह्मज्येष्ठा ब्रह्मज्येष्ठानि ब्रह्मा पूर्वोक्तो CDRCs T. We with KÄVDE. So all our authorities, and even Siyana's text, though the latter has JUHT in the next hymu. PJ 52T 1. " ब्रह्म । ज्येष्ठा । ४ P ज्येष्टम् ।. We with PJ. "PØJ TEHT I. We with Sayana. PI. We with PJ. PPI स्पधि । तुंकः ।. There can lye little cloulht this mantra has mergone considerable corruption. Corrected thoroughly it ought to read thus: ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्मा ज्येष्ठो दिवमा ततान । भूतानी ब्रह्मा प्रथमोर्थ taarefa ng ETILI *: 1. Siyana's commentary ignores the litterent genlers and different accents which an exhibits in the text and sily's nothing ng TATA ( read also by his text) in sich 39 forms a very irregular sithi with its neighbour. १ ३५४ अथर्वसंहिताभाष्ये ज्येष्ठः प्रशस्यतमो येषां तानि । शेर्लुक् ।यद्वा ज्येष्ठेन ब्रह्मणा । * एकत्र विभक्तेर्लृक् । अपरत्र तृतीयाया इनादेशा- भावः। संभृता संभृतानि । सर्वस्माद् अयमेव वीर्यवान् इत्यर्थः । अग्रे सृष्ट्यादौ 1ज्येष्ठं ब्रह्म दिवम् धुलोकम् आ ततान विस्ता2रितवान् । तथा ब्रह्मा भूतानां सृज्यमानानां प्रथमः पूर्वभावी जज्ञे उत्पन्नः । तेन कारणेन ब्रह्मणा स्पर्धिनम् स्पर्धां कर्तुं कः अन्यो देवो मनुष्यो वा अ-. र्हति समर्थो भवति । अधिकतरवीर्यवत्त्वात् सर्वोत्कृष्टस्थाननिवासित्वात् सर्वेषाम् आदिभूतत्वाच्च ब्रह्मणः समानो नास्तीत्यर्थः ॥ [इति ] तृतीयेनुवाके द्वितीयं सूक्तम् ॥ "आथर्वणानां चतुर्ऋचेभ्यः” इति सूक्तस्य समाससंज्ञकस्य आङ्गि- रस्यां महाशान्तौ विनियोगः पूर्वसूक्तेन सह उक्तः । सूत्रं तु तत्रैवो- दाहृतम् ॥ तत् सूक्तम् एवम् आम्नायते ॥ आथर्वणानां चतुर्ऋचेभ्यः स्वाहा ॥१॥ आथर्वणानाम् । चतुःऽऋचेभ्यः । स्वाहा ॥१॥ पञ्चर्चेभ्यः स्वाहा ॥२॥ पञ्चडऋचेभ्यः । स्वाहा ॥ २ ॥ पळचेभ्यः स्वाहा ॥३॥ पट्ऽऋचेभ्यः । स्वाहा ॥३॥ सप्तर्चेभ्यः स्वाहा ॥४॥ सप्तऽऋचेभ्यः । स्वाहा ॥ ४॥ अष्टर्चेभ्यः स्वाहा ॥ ५॥ अष्टऽचेभ्यः । स्वाहा ॥५॥ नवर्चेभ्यः स्वाहा ॥ ६ ॥ नवऽऋचेभ्यः । स्वाहा ॥ ६ ॥ दशर्चेभ्यः स्वाहा ॥ ७॥ दशऽऋचेभ्यः । स्वाहा ॥ ७॥ एकादशर्चेभ्यः स्वाहा ॥ ॥ एकादशऽऋचेभ्यः । स्वाहा ॥४॥ द्वादशर्चेभ्यः स्वाहा ॥९॥ द्वादशऽऋचेभ्यः । स्वाहा ॥९॥ PA ŚCDKÄRŠ De Cs 75*. We with J und Såyana. PP पडऽऋ. We with J. 1 SS, a neuter subject with a masculine prelicate. [अ०३. सू०२३.] ५६७ एकोनविंशं काण्डम् । ३५९ त्रयोदशर्चेभ्यः स्वाहा ॥१०॥ त्रयोदशऽऋचेभ्यः । स्वाहा ॥१०॥ चतुर्दशर्चेभ्यः स्वाहा ॥ ११ ॥ चतुर्दशऽऋचेभ्यः । स्वाहा ॥ ११ ॥ पञ्चदशर्चेभ्यः स्वाहा ॥ १२ ॥ पञ्चदशऽऋचेभ्यः । स्वाहा ॥ १२ ॥ षोडशर्चेभ्यः स्वाहा ॥ १३ ॥ षोडशऽऋचेभ्यः । स्वाहा ॥ १३ ॥ सप्तदशर्चेभ्यः स्वाहा ॥ १४ ॥ सप्तदशऽऋचेभ्यः । स्वाहा ॥१४॥ अष्टादशर्चेभ्यः स्वाहा ॥ १५॥ अष्टादशऽऋचेभ्यः । स्वाहा ॥१५॥ एकोनविंशतिः स्वाहा ॥ १६ ॥ एकोनविंशतिः । स्वाहा ॥ १६ ॥ विशतिः स्वाहा ॥ १७ ॥ विंशतिः । स्वाहा ॥१७॥ महत्काण्डाय खाहा ॥१॥ महतऽकाण्डाय । स्वाहा ॥ १ ॥ तृचेभ्यः स्वाहा ॥ १९ ॥॥ तृचेभ्यः । स्वाहा ॥ १९॥ एकर्चेभ्यः स्वाहा ॥ २० ॥ एकऽऋचेभ्यः । स्वाहा ॥ २० ॥ क्षुद्रेभ्यः स्वाहा ॥ २१ ॥ क्षुद्रेभ्यः । स्वाहा ॥ २१॥ एकानृचेभ्यः स्वाहा ॥ २२॥ एकऽअनृचेभ्यः । स्वाहा ॥ २२ ॥ रोहितेभ्यः स्वाहा ॥ २३ ॥ रोहितेभ्यः । स्वाहा ॥ २३॥ सूर्याभ्यां स्वाहा ॥ २४ ॥ सूर्याभ्याम् । स्वाहा ॥ २४ ॥ व्रात्याभ्यां स्वाहा ॥ २५॥ व्रात्याभ्याम् । स्वाहा ॥२५॥ प्राजापत्याभ्यां स्वाहा ॥२६॥ प्राजाऽपत्याभ्याम् । स्वाहा ॥२६॥ विषासह्यै स्वाहा ॥ २७ ॥ विऽससह्यै । स्वाहा ॥२७॥ मङ्गलिकेभ्यः स्वाहा ॥ २० ॥ मङ्गलिकेभ्यः । स्वाहा ॥ २ ॥ ब्रह्मणे स्वाहा ॥ २९॥ ब्रह्मणे । स्वाहा ॥ २९॥ १ De °विंशति changeel to °विंशति. CsF विशनि. D विंशति. KV follow riyana 2901 recite of tel. C R ofáetra:. PJ ofaerft: 1. Pofágtfar: 1. We with A B KV.

  • J fåetrat: 1. DD farafe. A B R fàerra:. K V follow Såyanu, and recite feraet.

We with CK SVC: PŘ. So all our MSS. ane? Vaidikas. ४ AC R ब्रह्मणे. We with BDKK SV De Cs. 64 66 ३६० अथर्वसंहिताभाष्ये ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्ने ज्येष्ठं दिवमा ततान । भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥ ३०॥ ब्रह्मऽज्येष्ठा । समऽभृता । वीर्याणि । ब्रह्म । अग्ने । ज्येष्ठम् । दिवम् । आ। ततान। भूतानाम् । ब्रह्मा । प्रथमः । उत । जज्ञे । तेन । अर्हति । ब्रह्मणा । स्प- र्धितुम् । कः ॥ ३०॥ अत्र चतुर्ऋचादिदशर्चान्तेः1 शब्देस्तृचायेकर्चान्नैः शब्दैश्च 2तत्तत्संज्ञका अथर्वाख्या ऋषयः प्रतिपाद्यन्ते । एकादशादिविंशत्यन्तैः शब्दैराथर्वणा आर्षेयाः प्रतिपाद्यन्ते । तथा च गोपथब्राह्मणे समाम्नायते । “तम अ- "थर्वाणम् ऋषिम् अभ्यश्राम्यत् । अभ्यतपत । सम3तपत् । तस्माच्छ्रान्तात् 'तप्तान् संतप्ताद् दशतयान् अथर्वण ऋषीन् निरमिमीत्त । एकर्चान् व्द्यु-4 'चांस्तृचांश्चतुर्ऋ्चान 5पञ्चर्चान् षडृचान् सप्तर्चान् [अष्टर्चान् ] नवर्चान् 'दशर्चान् इति । दशतयान् आथर्वणान् आर्षेयान् निरमिमीत । ए- "कादशान् द्वादशांस्त्रयोदशांश्चतुर्दशान् पञ्चदशान् षोडशान् सप्तदशान् "[अष्टादशान्] नवदशान् विंशान्6 ईति" इति [गो०१.५] । “महा- काण्डाय" इति शब्देन विंशतिकाण्डात्मककृत्स्नवेदवाचिना7 तद्रष्टैवैतन्नामा ऋषिरभिधीयते । “क्षुद्रेभ्यः” इति यजुर्मन्त्रवार्चिना8 “पर्यायिकेभ्यः"9 इति पर्यायसूक्तवाचिना10 “ एकानृचेभ्यः” इति अर्धर्चवाचकेन रोहितादिकाण्ड- वाचकैः शब्दैश्च तत्तत्संज्ञका ऋषयोभिधीयन्ते । अत्र रोहितादिप्रतिपाद- Here Såyana's text reads the though in the previous bymn it has seha. Seetle last mantra of the last hymn anul notes thereon. 18 om. °दशर्चान्तैः. 28 तत्संज्ञका for तत्तत्संज्ञका. S ou. समतपत्. 4 None of our Samhitt- or padla MSS. or our l'aidlikns reud zart: FATET. Sảyana's text hts the srorrls between तृचेभ्यः स्वाहा and एकर्चेभ्यः स्वाहा. 5s om. 'श्चतुर्ऋचा and merely reads Farmi. Wc with the inputhu-Brähmuna. 68' om. fo. 73' वाचनातद्रष्टव्येष्टयैतन्नामा. 88 याचना पर्या• for °वाचिना पर्या. 9 S Nonc of our Samhita- or juda MSS. hare the words teriferent: FEITET. They appear in Sayrana's text, where they are rced after क्षुद्रेभ्यः स्वाहा. 108 वाचना एका° for वाचिना एका CG [अ०३. सू०२४.] ५६ एकोनविंशं काण्डम् । ३६१ काः काण्डाः सुमसिद्धाः । विषासह्यै स्वाहा" इति विषासहिशब्देन सप्तदशकाण्डोभि1धीयते । ब्रह्मणे स्वाहेत्यादि व्याख्यातम् ॥ [इति] तृतीयेनुवाके तृतीयं सूक्तम् ॥ "येन देवं सवितारम्" इति सूक्तम् "त्वाष्ट्रीं वस्त्रक्षये प्रयुञ्जीत" [न° क०१७] इति विहितायां महाशान्तावावपेत् । “अथा2वापिकाः शान्तय इत्यमृतायाम्" इति प्रक्रम्य सूत्रितं हि नक्षत्रकल्पे । “प्राणाय नमः “[११.६] इति संतत्याम् येन देवं सवितारम् [१९.२४] इति वा. 'ष्ट्रयाम्" इति [न.क०१८.॥ तत्र प्रथमा॥ येन देवं सवितारं परि देवा अधारयन । तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन ॥ १ ॥ येन । देवम् । सवितारम् । परि । देवाः । अधारयन् । तेने । इमम् । ब्रह्मणः । पते । परि । राष्ट्राय । धत्तन ॥१॥ देवाः द्योतमाना इन्द्रादयः देवम् द्योतमानं सवितारम् सर्वस्य प्रेर- कम् आदित्यं येन हेतुना रक्षोहननरूपेण पर्यधारयन् परितः सर्वत आ- च्छादयन् । दर्शपूर्णमासादिषु रक्षोनिबन्धनयज्ञभ्रंशपरिहाराय आदित्यमेव परिधित्वेन कल्पितवन्त इत्यर्थः । अत एव तैतिरीयके समाम्नायते । "न पुरस्तात् परिदधाति । आदित्यो ह्येवोद्यन् पुरस्ताद् रक्षांस्यपहन्ति' इति [तै सं०२.६.६.३] । तेन कारणेन शत्रुनिर्हरणात्मना हे ब्रह्म- णस्पते ब्रह्मणो वेदरूपस्य मन्त्रस्य पते पालक एतत्संज्ञक देव इमम् म- हाशान्तिप्रयोक्तारं यजमानं राष्ट्राय राज्याय । x“क्रियार्थोपपदस्य" ADK V C: Pr. De steta changed to YTH. We witli BCRS

  1. . P अधारयन् ।।

IS The commentator, it will be obscrveil, omits to notice #ff #T: Faret. llis text has the words like our authorities after feu FET. It reads them fit- लिकेभ्यः स्वाहा, more correctly than our authorities which all hure मंगलिकेभ्यः स्वा- हा. 28 अथ वापि. ३६२ अथर्वसंहिताभाष्ये इति चतुर्थी । राज्यं रक्षितुं परि धत्तन परिधापय । रक्षकावेन धा1पय । अस्य राज्यस्य परकृतबाधापरिहारार्थम् इमं साधकं राजानं रक्षकत्वेन कुर्वित्यर्थः । दधातेर्लोटि मध्यमबहुवचनस्य तस्य तनादे- शः । “तिङां तिङो भवति" इति एकवचनस्य बहुवचनम् आदे- शः। यद्वा परि धत्तनेति लिङ्गाद् वस्त्र2रक्षणार्थ विहितायां त्वा- ष्ट्रयां शान्तौ विनियोगाद् अयम् अर्थः । येन निमित्तेन देवाः सविता- रम् आच्छादकम् अकुर्वन् तेन [हे] ब्रह्मणस्पते । वाससः सर्वदेवत्यत्वात् तदभिमानिदेवाः संबोध्यन्ते । वाससः सर्वदेवत्यत्वं तैतिरीयकाः समामन- न्ति । “तद् वा एतत् सर्वदेवत्यं यद् वासः” इति [तै सं०६.१.१. ४] । परि धत्तन हे वासोभिमानिनो देवाः यूयमपि एनं राष्ट्राय परि धत्तन । यथा देहस्य वास आच्छादकम् एवम् इमं साधकं राज्यस्य व- स्रवत् परिधापयत आच्छादकं कुरुत इति बहुवचनोपपत्तिः ॥ द्वितीया ॥ परीममिन्द्रमायुषे महे क्षत्राय॑ धत्तन । यथैनं जरसे नयां ज्योक् क्षत्रेधि जागरत् ॥ २ ॥ परि । इमम् । इन्द्रम् । आयुषे । महे । क्षत्राय । धत्तन । यथा । एनम् । जरसे । नयांम ।ज्योक् । क्षत्रे । अधि । जागरत् ॥२॥ हे इन्द्रं परमैश्वर्यसंपन्न त्वम् इमं साधकं मां माम् आयुषे आयुर्ला- भाय महे महते क्षत्राय क्षतात् त्रायत इति क्षत्रम् परकृतबाधापरिहा- रकं बलम् । तस्मै तल्लाभाय च परि धत्तन परिधापयत । अत्रापि पूर्व- वत् पूजायां बहुवचनं वस्त्राभिमानिसर्व3देवापेक्षया वा । उक्तम् अर्थ स्प- ष्टीकरोति । ज्योक् चिरकालं क्षत्रे बाधापरिहारके बले । निमित्ते सप्त- मी । अधिः सप्तम्यर्थानुवादी । अधिकं वा जागरत् जागृयात् असौ so we with A BCDËRVCD S originally road after and fuas the» correered it to arrafart", by ruoring the account. PŮJ PRI sirgjo i. we with A B C D k RSVC. Dr. PPJ नयाम् । IS व्यापय lin धापय.28 लक्षणार्थ in रक्षणार्थ. 38 सर्वदेवदेवापेक्षया. [अ०३. सू०२४.] ५६. एकोनविंशं काण्डम् । शान्तिकर्ता यजमानः । जागर्तेलेंटि अडागमः । यथाश- ब्दो भिन्नक्रमः । यथा अयं साधकश्चिरकालं बलवान् शत्रुधर्षणसमर्थो जागृयात् अवहितो भवेत् । तथेत्यध्याहारः । एनं शान्तिकर्तारं जरसे जरायै जरापर्यन्तं नय प्रापय । आयुष्मन्तं कुर्विति इन्द्रः संबोध्यः । विश्वदेवसंबोधनपक्षे प्रत्येकविवक्षया एकवचनम् । ४ इदमोन्वादेशे एनादेशोनुदातः । "जराया जरस् अन्यतरस्याम्" इति अजादौ ज- राया जरस् आदेशः ॥ तृतीया ॥ परीमं सोममायुषे महे श्रोत्राय धत्तन । यथैनं जरसे नयां ज्योक् श्रोत्रेधि जागरत् ॥ ३ ॥ परि । इमम् । सोमम् । आयुषे । महे । श्रोत्राय । धत्तन । यथा । एनम् । जरसे । नयाम् । ज्योक् । श्रोत्रै । अधि। जागरत् ॥३॥ हे सोम वासोभिमानिदेव1 इमं शान्तिकर्तारं मां माम् आयुषे चि- रकालजीवनाय महे महते श्रोत्राय । श्रोत्रशब्दः सर्वेषां चक्षुरादीनाम् उपलक्षणम् । इन्द्रियसाध्यरूपाद्युपलब्धये आदानादिकर्मणे च परि धत्त- न परितः सर्वतो धत्त । पुष्टं कुरुत । पूर्ववद् बहुवचनम् । यद्वा श्रो- त्रशब्देन श्रूयते श्वाध्यते सर्वैः पुमान् अनेनेति2 यश उच्यते । श्रु श्रवणे । करणे औणादिकस्त्रन् प्रत्ययः । महते यशसे च परिध- त्त । यथैनम् इत्यादि पूर्ववत् । क्षत्रस्थाने श्रोत्रशब्दो विशेषः । यथा चि- रकालं श्रोत्रादीन्द्रियशक्तिमान् यशस्वी वा जागृयात् तथा एनं जरसे जरापर्यन्तं नयेति ॥ चतुर्थी ॥ परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः । So we with ABCDËRS VCDO. S start. De startelunged to itali- 2. We with DKKR V C. So wo with ABCDRRSV Cs D.. PP I HATE . 18 देवते for "देव. 2S repicats here श्रोत्रशब्देन though it has the word already after यद्वा. अथर्वसंहिताभाष्ये बृहस्पतिः प्रायच्छद् वास एतत् सोमाय राज्ञे परिधातवा उ॥४॥ परि । धत्त । धत्त । नः । वर्चसा । इमम् । जराऽमृत्युम् । कृणुत । दी- र्घम् । आयुः। बृहस्पतिः । प्र । अयच्छन् । वासः । एतत् । सोमाय । राज्ञे । परिऽधा- तवै । ऊं इति ॥ ४॥ एषा ऋक् द्वितीयकाण्डे तृतीयेनुवाके “आयुर्दाः" इति सूक्ते [२. १३. २] व्याख्याता । संग्रहार्थस्तु । वाससः सर्वदेवत्यावात् तदभिमानिदेवा- नामेव संबोध्यत्वम् । तथा च वाससः तैत्तिरीयके समाम्नायते । “अ- ग्ने1स्तूषाधानम्” इति प्रक्रम्य “तद् वा एतत् सर्वदेवत्यं यद् वासः" इति [सं०६.१.१.४] । हे देवाः परि धत्त । भु अन्तर्भावि- तण्यर्थः। इमं माणवकं वासः परिधापयत । नः अस्मदीयम् इमं वर्चसा तेजसा धत्त पोषयत । तेजस्विनं कुरुतेत्यर्थः । किं च इ- ममेव माणवकं जरामृत्युम् जरयैव मृत्युर्मृतिर्यस्य स तथोक्तः तथाविधं कु- रुत । अकालमृतिर्मा भूद् इत्यर्थः । एतदेवाह दीर्घम् इति । अस्य मा- णवकस्य दीर्घम् शतपरिमितम् आयुरस्तु ॥ तदेव वासः प्रशंसति । बृ- हस्पतिः बृहताम् इन्द्रादीनां पतिः एतन्नामा देवः । र “तदृहतोः करपत्योः इति सुट्तलोपौ । "पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते "उभे वनस्पत्यादिषु युगपत्" इति उभयपदप्रकृतिस्वरत्वम् ।ए- तन्नामा देवः एतत् प्रकृतं वासः सोमाय राज्ञे ब्राह्मणानां स्वामिने । "सोमोस्माकं2 ब्राह्मणानां राजा” इति श्रुतेः [सं०१.१.१०.२] । परिधातवै परिधातुम् । "तुमर्थे सेसेन्” इति तवै प्रत्ययः "तवै चान्तश्च युगपत्” इति उभयपदप्रकृतिस्वरत्वम् । प्रायच्छत अददात् । ४ दाण् दाने । इत्यस्मात् लङि “पाम्रा” इत्यादिना यच्छादेशः। उ इति पदपूरणः । अनेन वस्त्राणां सोमदेवताकावं3 सूचितम् । तथा च श्रुत्यन्तरम् । “सौम्यं वै वासः । स्वयैवैनद् दे- वतया प्रतिगृह्णाति" इति [तै ब्रा०२.२. ५.२] ॥ 18 अस्तेस्तुपायानम्. 2S inserts a वा after °स्माकं. 38 देवताक. ." [अ°३. सू०२४.] ५६. एकोनविंशं काण्डम् । ३६५ पञ्चमी॥ जरां सु गच्छ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ । शतं च जीव शरदः पुरूंची रायश्च पोषमुपसंव्ययस्व ॥ ५ ॥ जराम् । सु । गच्छ । परि । धत्स्व । वासः । भव । गृष्टीनाम् । अभिश- स्तिऽपाः । ऊं इति । शतम् । च । जीव । शरदः । पुरूंचीः । रायः । च । पोषम् । उपऽसंव्य- यस्व ॥५॥ जरा- इयमपि ऋक् तत्रैव काण्डे [२. १३.३.] व्याख्याता । अत्र प्रथम- पादो भिन्नः । हे शान्तिप्रयोक्तः त्वं जराम वार्धकं सु गच्छ सम्यक् प्राप्नुहि । x“सुः पूजायाम्” इति कर्मप्रवचनीयः । जरा- पर्यन्तम् आयुष्मान भवेत्यर्थः । वासः एतत् परि धत्स्व आच्छादय । अनेन वासःपरिधानेन गृष्टीनाम गवाम् [अभिशस्तिपाः] अभिशस्तिः अभितो विशसनं हिंसा तन्निमित्ताद् भयात् पाता पालको भव । तत्र अभूरिति पाठः अत्र भवेति विशेषः । गवाम् अभिशस्तिपात्वं तत्रैव श- तपथब्राह्मणानुसारेण प्रपञ्चितं तत्1 ततोवगन्तव्यम् । किं च पुरूचीः ब- हुकालम् अञ्चन्तीः बहुविधान् पुत्रपौत्रादीन् वा व्याप्नुवतीः शतम् शनसं- ख्याकाः शरदः संवत्सरान् जीव । अपि च रायः धनस्य पोषम् पुष्टिं समृद्धिम् उपसंव्ययस्व परिधत्स्व । एतद्वासःपरिधानेन धनादिसमृद्धिर्भ- वतीति भावः ॥ षष्ठी ॥ परीदं वासो अधियाः स्वस्तयेभूर्वापीनामभिशस्तिपा उ। शतं च जीव शरदः पुरुचीर्वसूनि चारुर्वि भजासि जीवन् ॥ ६ ॥ ABCRCs grai. Wo with DRŠ VD<. ?PJ graft:1. We with ľ. A CD De aferet. We with BKİRŠ VC ABCD grafiº. Wc with KÅR Š V C: De. 19 तत्तत् for तत्. ३६६ अथर्वसंहिताभाष्ये परि । इदम् । वासः । अधियाः । स्वस्तये । अभूः । वापीनाम् । अभि- शस्तिऽपाः । ऊं इति । शतम् । च । जीव । शरदः । पुरूचीः । वसूनि । चारुः । वि । भजासि । जीवन्् ॥६॥ एषापि तत्रैव द्वितीयकाण्डे तृतीयेनुवाके [२. १३.३.] व्याख्याता । अत्र चरमपादो विभिन्नः । हे शान्तिकर्तः इदम उक्तं वासो वस्त्रं स्व- स्तये क्षेमाय पर्यधियाः परिहितवान् असि । परिपूर्वाद् [धा- धातोर्लुङि “स्थाध्वोरिच्च” इति इत्त्वकित्त्वे । हूस्वाद् अङ्गात्" इति सिज्लोपः । तेन वासःपरिधानेन गृष्टीनाम्1 गवाम् अभिशस्तिपाः । त्वगादानभीतिरत्र अभिशस्तिशब्देन विवक्षिता । तस्या अभिशस्तेः पाता अभूः भव । उशब्दः पूरणः । शतं च जीवेति तृतीयः पादः पूर्ववत् । जीवन् शतसंवत्सरजीवनवान् चारुः वाससा दीप्यमानस्वं वसूनि धनानि वि भजासि पुत्रमित्रदायादादिभ्यो विभक्तं कुरु । अर्थिभ्यो वा प्रय- च्छ। भजतेलेंटि आडागमः ॥ “ सप्तमी॥ योगेयोगे तवस्तरं वाजेवाजे हवामहे । सोय इन्द्रमूतये ॥७॥ योगेऽयोगे। तवाऽतरम् । वाजेऽवाजे । हवामहे । सखायः । इन्द्रम् । ऊतये ॥ ७ ॥ अप्राप्यप्रापणं योगः। “नित्यवीप्सयोः" इति द्विवचनम् । यो. गेयोगे सर्वस्य अप्राप्यस्य फलस्य प्रापणविषये वाजेवाजे । वाजशब्दः अ- न्नवाची । उपलक्षणम् एतत् । अन्नादिलक्षणे फले लब्धे च । पृ- र्ववद् द्विवचनम् । लुप्तमत्वर्थीयस्तवस् शब्दः ४ । अतिशयेन तव- स्विनं समृद्धं तम् इन्द्रम् परमैश्वर्यसंपन्नं देवं सखायः समानख्या2नाः PJ at:t. We with . Siyana's test at has UTACHTATO for our califrarafitº. 28 FRITETCYT: do समानख्यानाः [अ॰३. सू०२५.] ५६९ एकोनविंशं काण्डम् । स्तोतारो वयम ऊतये रक्षणार्थ च हवामहे आह्वयामः । अभिमतफल- लाभाथै लब्धस्य परिपालनार्थ स्वरक्षणार्थ च इन्द्रमेव आह्वयाम इत्यर्थः ॥ अष्टमी ॥ हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्र॒जया सं विशस्व । तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः॥ ॥ हिरण्यऽवर्णः । अजरः । सुऽवीरः । जराऽमृत्युः । प्रडजया । सम् । वि- शस्व। तत् । अग्निः । आह । तत् । ऊं इति । सोमः । आह । बृहस्पतिः । स- विता । तत् । इन्द्रः ॥।॥ हिरण्यवर्णः हितरमणीयशरीरकान्तिः हिरण्यसमानवर्णो वा अजरः ज- रारहितः सुवीरः । वीराः कर्मणि कुशलाः पुत्राः । शोभनपुत्रादियुक्तो जरामृत्युः जरयैव मृत्युर्म॒तिर्यस्य अकालमरणरहितश्च सन् प्रजया प्रकर्षेण जायमानया पुत्रादिकया भृत्यादिरूपया वा सह सं विशस्व । संवेशश- ब्देन अत्र निर्देशो विवक्ष्यते । निर्विश । एवं हिरण्यवर्णादिविहितफलो- पपन्नः सन् चिरकालं सुखयेत्यर्थः । यद्वा सं विशस्व सम्यग्विश प्रविश । उक्तगुणोपेतः सन् स्वगृहम् अधितिष्ठेत्यर्थः । विशतेर्व्यत्ययेन आ- मनेपदम् । उक्तेर्थे विमतिपत्त्यभावं वासोभिमानिसर्वदेवतावचनेन समर्थयते उत्तरार्धेन । अग्निः अङ्गनादिगुणयुक्तो देवः तत् अस्मिन् सूक्ते प्रतिपादितम् अर्थजातम् आह ब्रवीति । उशब्दः अवधारणे । तदेव सोमो देव आह । तदेव अर्थजातम् इन्द्रबृहस्पतिसवितार आहुः । एत- दादयः सर्वेपि देवा इमम् उक्तम् अर्थम् आहुः । अस्मिन्नर्थे विप्रतिप- त्तिर्नास्तीत्यर्थः ॥ [इति] तृतीयेनुवाके चतुर्थ सूक्तम् ॥ "अश्रान्तस्य त्वा इति एकर्च सूक्तं “गान्धर्वीम् अश्वक्षये प्रयुञ्जी- त" [न क°१७.] इति विहितायां 1गान्धर्व्याख्यायां महाशान्तावावपेत् । 19' गंधर्वाख्यायां. 9 " 66 ३६० अथर्वसंहिताभाष्ये उक्तं हि नक्षत्रकल्पे । 'अश्रान्तस्य वा मनसा युनज्मीति गान्धाम आयुष्यः शान्तिः स्वस्तिगण ऐरावत्याम" इति [नक°१६.] ॥ सैषा ऋग् एवम् आम्नायते ॥ अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य॑ च । उत्कूलमुद्वहो भवोदुह्य प्रति धावत्तात् ॥१॥ अश्रान्तस्य । त्वा । मनसा । युनज्मि । प्रथमस्य । च । उतऽकूलम् । उतऽवहः । भव । उतऽउह्य । प्रति । धावतात् ॥१॥ अत्र अश्वः संबोध्यः । हे गान्धर्वाश्व त्वा त्वाम् अश्रान्तस्य अमर- हितस्य परसेनाभिगमनेपि शरीरायासरहितस्य तुरंगमस्य मनसा शत्रुध- र्षणोत्सुकेन स्वाधि1रोहसादिप्रोत्साहकेन वा मनसा मानसेन प्रथमस्य स- ष्ट्यादौ उत्पन्नस्य अश्वजातेः पूर्वस्य अश्वस्य च मनसा युनज्मि योज- यामि । जितश्रमस्य उच्चैःश्रवसः अश्वश्रेष्ठस्य च मनउपलक्षितां2 सर्वेन्द्रि- यशक्तिं शरीरदार्ढ्यम् आशुत्वं परसेनाभिभवनसामर्थ्यं च अस्मिन् शा- न्तिफलत्वेन काम्यमाने तुरंगमे योजयामीत्यर्थः । एवंसामर्थोपेतस्त्वम् उँ- त्कूलमुद्वहो भवः । अतिदृप्तो3 भवेति तात्पर्यार्थः ॥ पदार्थस्तु । नदी परा- र्वाची तीरे प्रभूतेन जलप्रवाहेण उत्क्रम्य ऊर्ध्व प्रवहति एवं त्वमपि यु- द्धाय संनद्धं परसैन्यं स्वसामर्थेन अतिक्रम्य विक्षोभयेति अश्वः प्रोत्सा- ह्यते। वह प्रापणे । “उदि कूले रुजिवहोः” इति खच् प्र-. त्यय-. "खित्यनव्ययस्य" अरुर्द्विषदजन्तस्य मुम्" इति कूलशब्दस्य मुम आगमः । भवतेलेंटि अडागमः । “भूसुवोस्तिङि” इति 4गुणनि- षेधाभावश्छान्दसः । यद्वा छान्दसे लङि अमाङयोगेपि अडभावः। दुं- हीय एतादृशसामर्थ्पेतेन अश्वेन भवत्ता एषणीयानि शत्रुजयलक्षणानि १C R'S उत्कूल°. Ife with A BD K V Do Cs. २BCD K SV भवोदुह्य. De भवा- दुह changeal to भवोदुह्य. We with AR V Cs and PPJuhich have : उत्कूलम् । उत्ऽवहः । भव । उत्ऽउहाँ (Pउत्ऽउहा). 15 रोहवासादि 10 रोहसादि. 28 °उपलक्षितं. S' अतिद्रुप्तो. 45' गति i So Sayana's text too. ह्यते । त्ययः । for गुण. [अ॰३. सू०२६.] ५७० एकोनविंशं काण्डम् । ३६९ फलानि लभेय । दुह प्रपूरणे । अस्माद् विधिलिङि कर्त्रभिप्राये कियाफले आत्मनेपदम् । उत्तमैकवचनम् इट् ।अतः अश्व वं प्रतिधावतात् जेतव्यं स्थानं प्रति शीघ्रं गच्छ । प्रतिपूर्वात् सर्ते- वेंगितायां गतौ धाव् आदेशः । “तुह्योस्तातङ्” इति मध्यमपुरुषस्य हेस्तातङ् आदेशः ॥ [इति ] तृतीयेनुवाके पञ्चमं सूक्तम् ॥ "अग्नेः प्रजातम् इति सूक्तेन "आग्नेयीम् अग्निभये सर्वकामस्य च" [न क°१७.] इति विहितायाम् आग्नेय्याख्यायां महाशान्तौ हिर- ण्यनिर्मितं कुण्डलादिकम् अभिमन्त्र्य बध्नीयात् । उक्तं हि नक्षत्रकल्पे । 'अग्नेः प्रजातं परि यद्धिरण्यम् इति1 हिरण्यम् आग्नेय्याम्" इति [न क°१९.] । कर्णमध्ये छिद्रवद्धिरण्यकुण्डलम इत्यर्थः ॥ तथा अनेन सूक्तेन तुलापुरुषे शान्तिकलशे हुत्वा संपातान् आनयेत् । 'अथातस्तुलापुरुषविधिं व्याख्यास्यामः " इति प्रक्रम्य उक्तं परिशिष्टे । " "अंग्ने गोभिः' 'अग्नेभ्यावर्तिन्' [को०९.४] 'अग्नेः प्रजातम्' [१९. २६] इति संपातान् उदपात्र आनीयाभिषेककलशेषु निनयेत्” इति [प०११.१] ॥ 66 तत्र प्रथमा॥ अग्नेः प्रजातं परि यद्विरेण्यममृतं दध्रे अधि मर्त्येषु । य एनद् वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति ॥१॥ अनेः । प्रजातम् । परि । यत् । हिरण्यम् । अमृतम् । दध्रे । अधि। मर्त्यैषु । यः । एनत । वेद । सः । इत् । एनम् । अर्हति । जराऽमृत्युः । भवति । यः। बिभर्ति ॥१॥ १ ABCD R SC एनवेद. De एनुछेद् changed to एनुछेद. J एनत् ।. We with Kk V and PP. K Ř fortfar. De farurft changed to forward. We with ABCDRS V Cs. 18 inserts after rfa, Our MS. of the Nickshatra-kalpet omits the word. 2 May this refer to Paippalali 1. 8. 4. 1. ? YU ३७०

अथर्वसंहिताभाष्ये अग्नेः परि अग्नेः सकाशात् । * परिशब्दः पञ्चभ्यर्थानुवादी ।प्र- जातम् प्रकर्षेण उत्पन्नं यत् हिरण्यम् सुवर्णं विद्यते । आग्नेयाद् रेतसः सुवर्णम् उत्पन्नम् इति तैत्तिरीयाः समामनन्ति । “अग्ने रेतश्चन्द्रं हिर- ण्यम् । अयः संभूतम् अमृतं प्रजासु" इति [तै. ब्रा॰ १.२.१.४] । यच्च हिरण्यं मत्येषु मरणधर्मसु मनुष्येषु अधि । अधिशब्दः स- प्तम्यर्थानुवादी 1अधिकृत्येति वा । अमृतम् अमरणसाधनं सत् दध्रे अवतिष्ठते ।* धृङ् अवस्थाने । तौदादिकः । अकर्मकः । आत्मने- पदी। मरण2धर्मणां मनुष्याणां मरणनिर्हरणसाधनवेन यत् हिरण्यं

तिष्ठति । यद्वा। धृ धारणे । सकर्मकः । छान्दसो लिट् ।म-

र्त्येषु अमरणसाधनत्वेन देवैर्दध्रे । चक्रे इति यावत् । एनत् । इ- दमो नपुंसकैकवचने एनदादेशो वक्तव्यः" इति इदम् एनदादेशः ।ए- नत् उक्तं हिरण्यं यः पुमान् वेद उक्तस्वरूपं हिरण्यं जानाति स इत् । इत अवधारणे । स एव पुमान् एनम् अन्वादिष्टं हिरण्यरूपं पदार्थम् अर्हति । धारयितुम् इति शेषः । यः पुमान् बिभर्ति धारयति स्वश- रीरे मणिकुण्डलाङ्गुलीयादिरूपं स पुरुषो हिरण्यधारी जरामृत्युः जरयैव मृत्युर्मृतिर्यस्य अकालमृतिरहितो भवति ॥ द्वितीया ॥ यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे । तत् त्वा चन्द्रं वर्चसा सं सृजत्यायुष्मान् भवति यो बिभर्ति ॥ २॥ यत् । हिरण्यम् । सूर्येण । सुऽवर्णम् । प्रजाऽव॑न्तः । मनवः । पूर्वे । ईषिरे । तत् । त्वा । चन्द्रम् । वर्चसा । सम् । सृजति । आयुष्मान् । भवति । यः । बिभर्ति ॥२॥ १K KV मनवः पूर्व इपिरे. BD R SC मनवः पूर्व इपिरे. C मनवः पूर्व ईपिरे. De मनवः पूर्व ईषिरे changeal to मनवः पूर्व इपिरे. We will cand arly with De. २ Kkv थि- भति. D बिमति changed to विभर्ति. We with BCD R Scs : PJ पूर्वे।. We with . PPJ इपिरे। 1 Parfal. We with P J. feratfört. We with PJ. 18 अकृत्येति वा. 25 मरणधर्माणां [अ०३. सू०२६.] ५७० एकोनविंशं काण्डम् । ३७१ प्रजावन्तः प्रकर्षेण जायमानाभिः पुत्रभृत्यादिभिस्तद्वन्तो मनवः । कार्ये कारणशब्दः । मनोः पुत्रा मनुष्याः पूर्वे हिरण्यधारिणां1 प्रथमभाविनः स2न्तः । पूर्वे सृष्ट्यादावुत्पन्ना मनवो वा । महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥ इति हि भगवद्वचनम् [भ गी०१०.६] । सुवर्णम् शोभनवर्णं यद्धिर- ण्यम् हितरमणीयं हेम सूर्येण सर्वस्य प्रसवित्रा स्वकारणेन आदित्येन सह ईषिरे प्राप्तवन्तः । लब्धवन्त इत्यर्थः । सूर्येण प्रेरिता वा मनवो हिरण्यम् ईषिरे । x ईष गत्यादिषु । भौवादिकः । आत्मनेपदी । "इजादेश्च गुरुमतोनृच्छः” इति विहित आम् प्रत्ययोत्र मन्त्रात्वाद् न प्रवर्तते "अमन्त्रे०" इति निषेधात् । इषु इच्छायाम् इत्यस्माद् वा व्य- त्ययेन आत्मनेपदम् । तत् मनुभिर्धारितं चन्द्रम् आह्लादकं हि- रण्यं कर्तृ त्वा त्वां हिरण्यधारकं वर्चसा तेजसा शरीरकान्त्या सं सृ- जतुं संयोजयतु । यः पुरुषो बिभर्ति धारयति हिरण्यं स पुमान आ- युष्मान् चिरकालजीवनवान् भवति । भूमार्थे मतुप् प्रत्ययः ४ ॥ तृतीया ॥ आयुषे त्वा वर्चसे त्वौजसे च बलाय च । यथा हिरण्यतेजसा विभासासि जनाँ अनु ॥ ३ ॥ आयुषे । वा । वर्चसे । वा । ओजसे । च । बलाय । च । यथा । हिरण्यऽतेजसा । विऽभासासि । जनान् । अनु ॥ ३ ॥ हे हिरण्यधारक पुरुष त्वा त्वाम् आयुषे चिरकालजीवनाय । तच्चन्द्रं सं सृजतु इत्यनुषङ्गः । तथा त्वा त्वां तद्धिरण्यं वर्चसे वर्चोलाभाय सं सृजतु । ओजसे शारीरबलाय । शरीरधारकोष्ठमो धातुर्वा ओजः । तदर्थं बलाय भृत्यादिसंपतिरूपाय बाह्याय बलाय तदर्थ च हिरण्यं त्वां १CR जन for जना. जने changeal to जना. I Softò for oscuri. २J°भाससि. We witli PP. OS अंतः. ३७२ अथर्वसंहिताभाथे सं सृजतु । समुच्चयार्थौ चकारौ । यथा हिरण्यम्1 सुवर्ण तेजसा शुक्ल- भास्वररूपेण विशेषेण भासते । यत्तदोर्नित्यसंबन्धात् तथेत्यध्याहारः । तथा त्वमपि च जनान् अनु लक्षीकृत्य । लक्षणादिष्वर्थेषु अनुः कर्मप्रवचनीयः । तेजसा वर्चसा उज्ज्वलरूपेण विभासासि विशे- षेण भासेथाः ।तृतीयार्थे वा अनुः कर्ममप्रचनीयः । जनैः सह विशेषेण भासस्व । भासृ दीप्तौ । लेटि आडागमः । व्यत्य- येन परस्मैपदम् ॥ चतुर्थी ॥ यद् वेद राजा वरुणो वेद देवो बृहस्पतिः । इन्द्रो यद् वृत्रहा वेद तत् त आयुष्यं भुवत् तत् ते वर्चस्वं भुवत् ॥४॥ यत् । वेद । राजा । वरुणः । वेद । देवः । बृहस्पतिः । इन्द्रः । यत् । वृत्रऽहा । वेद । तत् । ते । आयुष्यम् । भुवत् । तत् । ते । व- र्चस्वम् । भुवत् ॥ ४॥ यत् हिरण्यं राजा राजमानो वरुणो देवः वेद अग्नेरुत्पन्नम् इति म- नुष्याणां मरणनिर्हरणोपाय इति जानाति । तथा बृहस्पतिः बृहता म- हतां देवानां पतिः पालकः एतत्संज्ञको देवः यत् हिरण्यम् उक्तस्वरूपं वेद । वृत्रहा वृत्रं हतवान् इन्द्रोपि यत् हिरण्यम् उक्तलक्षणं वेद । तत् वरुणादिभिर्देवैर्ज्ञातप्रभावं धारितं वा हिरण्यं ते तव हिरण्यधारक पु- रुष आयुष्यम् चिरकालजीवनाय हितम् आयुष्कारि भुवत् भवतु । तथा तद्धिरण्यं ते तव वर्चस्यम् वर्चसे हितं तेजस्कारि भुवत् भवतु । त- स्मै हितम्" इति उभयत्र यत् प्रत्ययः । भुवदिति । भवतेर्लेटि "भू- सुवोस्तिङि” इति गुणप्रतिषेधः । अडागमः । इतश्च लोपः" इति तिप इकारलोपः॥ एकोनविंशे काण्डे षष्ठं सूक्तम् ॥ तृतीयोनुवाकः समाप्तः ॥ &ASC. We with CDŘR V D. २८ भवत्तत्ते. We with ABDKK RŠV. IS Sayam's text also हिरण्यं तेजसा for our हिरण्यतेजसा, 66 [अ०४. सू०२७.] ५७१ एकोनविंशं काण्डम् । ३७३ चतुर्थेनुवाके सप्त सूक्तानि । तत्र “गोभिष्ट्वा पातु" इति प्रथमं सू- क्तम् । अनेन "प्राजापत्यां प्रजापशुकामस्य प्रजाक्षये च" [न क°१७.] इति विहितायां प्राजापत्याख्यायां महाशान्तौ सुवर्णरजतलोहमयमणिबन्धनं कुर्यात् । उक्त हि नक्षत्रकल्पे । 'गोभिष्ट्वा पात्वृषभः [१९. २७] " इति त्रिवृतं प्राजापत्यायाम अक्षितास्ते [६.१४२.३] इति 1यवमणि् "सावित्र्याम्" इति [न .क १९.] ॥ 46 तत्र प्रथमा ।

गोर्भिष्ट्वा पात्वृषभो वृषा वा पातु वाजिभिः । वायुष्ट्वा ब्रह्मणा पाविन्द्रस्त्वा पात्विन्द्रियैः ॥ १॥ गोर्भिः । वा । पातु । ऋषभः । वृषो । त्वा । पातु । वाजिऽभिः । वायुः । वा । ब्रह्मणा । पातु । इन्द्रः । त्वा । पातु । इन्द्रियैः ॥ १॥ हे त्रिवृन्मणिधारक पुरुष त्वा त्वां वृषभः सेक्ता प्रबलः पुंगौर्यूथपतिः गोभिः स्वयूथ्याभिः सह पातु रक्षतु । गोषु बहून्यपत्यानि उत्पाद्य त- त्समृद्धिकरणद्वारा त्वां समृद्धं करोत्वित्यर्थः । अथ वा वृ2षभो वृषभ- 3देवता स्वीयाभिगोभिर्देवताभिः सह स्वयम् अरिष्टेभ्यः पातु । गो- भिष्ट्वेत्यत्र “युष्मत्तत्ततक्षुःष्वन्तःपादम्' इति मूर्धन्यादेशः ४ । तथा वृषा प्रजननसमर्थोऽश्वः वाजिभिः वेजनवद्भिः शीघ्रगतिभिरश्वैः सह त्वां पातु । पूर्ववद् अश्वपुष्टिद्वारेणेति मन्तव्यम् । एवं वायुः अन्तरिक्षचरो देवः ब्रह्मणा परिवृढेन कर्मणा यज्ञलक्षणेन सह त्वा त्वां पातु । वाताद् यज्ञः प्रयुज्यताम्" [तै ब्रा ३.७.४.१] इति श्रुतेः वायोर्यज्ञाख्यब्रह्म- णा संबन्धः । यद्वा वायुः ब्रह्मणा परिवृढेन व्याप्तेन सूत्रात्मलक्षणेन सह पातु । अथ वा ब्रह्मशब्देन परिवृढम् अन्तरिक्षं स्वाश्रयम् उच्यते तेन सह पातु । एवम् इन्द्रो देवः इन्द्रियैः । इन्द्रियम् इन्द्रलिङ्गम् इन्द्रदृष्टम् इन्द्रसृष्टम्" इत्यादिना इन्द्रियशब्दो निपातितः । अतः इन्द्रियाण्यत्र इन्द्रसृष्टानि इन्द्रजुष्टानि वा परिगृह्यन्ते तैः सह पातु । 18' इतियोमणिं for इति यवमणिं. 2 Sayana's test, however, renuls math and not पातु वृषभो. 38 देवताकः for वृषभदेवता. “वाताद् ३७४ अथर्वसंहिताभाष्ये यद्वा “तद् यद् एनं प्राणैः समैन्धस्तद् इन्द्रस्येन्द्रत्वम्" इत्यादिश्रुतेः [नि०१०..] इन्द्र आत्मा । स च इन्द्रियैः इतरैर्वागादिभिः सह पातु ॥ द्वितीया ॥ सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः । माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥ २ ॥ सोमः । त्वा । पातु । ओषधीभिः । नक्षत्रैः । पातु । सूर्यः । मातऽभ्यः । त्वा । चन्द्रः । वृत्रऽहा । वातः । प्राणेन । रक्षतु ॥२॥ सोमो वल्ल्यात्मक ओषधीनां राजा देवः ओषधीभिः इतराभिर्व्रीह्या- दिभिः सह वा त्वां पातु रक्षतु । एवं सूर्यो देवो नक्षत्रैः । नक्षान्नाशात् पतनान् त्रायन्त इति नक्षत्राणीति अत्र नक्षत्रशब्देन ग्रहाः परिगृह्यन्ते । तैः सह त्वां पातु । एवं चन्द्रः सर्वपदार्थप्राण्याह्लादकारी देवः मार्द्भिः मासैः सह पातु । “पद्दन्" इत्यादिना मासशब्दस्य मास्भावः । 'झलां जशोन्ते” इति जशत्वेन दकारः । मस्यन्ते परिमीयन्ते सकला वृद्धिह्रासैरिति मासा इति तद्व्द्युत्पतिः । स विशेष्यते वृत्रहेति । वृत्रः आवरकोन्धकारः तस्य हन्तेति वृत्रहा । एवं वातो वायुः प्राणेन स्वकीयेन शरीरगतेन पञ्चवृत्त्यात्मकेन वायुना सहितः सन् त्वां रक्षति रक्षतु ॥ तृतीया ॥ तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान्। त्रिवृतं स्तोमं त्रिवृत आपं आहुस्तास्व रक्षन्तु त्रिवृत्ता त्रिवृद्भिः ॥ ३ ॥ तिस्रः । दिवः । तस्रः। पृथिवीः । त्रीणि । अन्तरिक्षाणि । चतुरः । समुद्रान्। त्रिवृतम् । स्तोमम् । त्रिवृतः । आपः । आहुः । ताः । त्वा । रक्षन्तु । त्रिवृत्ती । त्रिवृतऽभिः॥३॥ So ABCDKÝRS V DCS PP J. BCDRŠ VC 7° for for through- on the mantra. We wiih KK De ३ K KSV तास्त्रिवृद्भिः. KC तृवृतात्तृवृद्भिः. We witli A B C D Dc. त्रिऽवृताः ।. PJ त्रिऽवृतात् । 6 1 Su Sayana's text also. [अ०४. सू०२७.] ५७१ एकोनविंशं काण्डम् । ३७३ चतुर्थेनुवाके सप्त सूत्रानि । तत्र “गोभिष्ट्वा पातु" इति प्रथमं सू- क्तम् । अनेन "प्राजापत्यां प्रजापशुकामस्य प्रजाक्षये च" [न क°१७.] इति विहितायां प्राजापत्याख्यायां महाशान्तौ सुवर्णरजतलोहमयमणिबन्धनं कुर्यात् । उक्तं हि नक्षत्रकल्पे । 'गोभिष्ट्वा पात्वृषभः [१९. २७] " इति त्रिवृतं प्राजापत्यायाम् अक्षितास्ते [६.१४२.३] इति 1यवमणिं "सावित्र्याम्" इति [न क १९.] ॥ 46 तत्र प्रथमा । तथा गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः । वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्वा पात्विन्द्रियैः ॥ १॥ गोभिः । वा । पातु । ऋषभः । वृषो । त्वा । पातु । वाजिऽभिः । वायुः । वा । ब्रह्मणा । पातु । इन्द्रः । त्वा । पातु । इन्द्रियैः ॥ १॥ हे त्रिवृन्मणिधारक पुरुष त्वा त्वृषभः सेक्ता प्रबलः पुंगौर्यूथपतिः गोभिः स्वयूथ्याभिः सह पातु रक्षतु । गोषु बहून्यपत्यानि उत्पाद्य त- त्समृद्धिकरणद्वारा त्वां समृद्धं करोत्वित्यर्थः । अथ वा वृषभो2 वृषभ- देवता3 स्वीयाभिगोभिर्देवताभिः सह स्वयम् अरिष्टेभ्यः पातु । गो- भिष्ट्वेत्यत्र “युष्मत्तत्ततक्षुःष्वन्तःपादम्' इति मूर्धन्यादेशः ४ । तथा वृषा प्रजननसमर्थोऽश्वः वाजिभिः वेजनवद्भिः शीघ्रगतिभिरश्वैः सह त्वां पातु । पूर्ववद् अश्वपुष्टिद्वारेणेति मन्तव्यम् । एवं वायुः अन्तरिक्षचरो देवः ब्रह्मणा परिवृढेन कर्मणा यज्ञलक्षणेन सह त्वा त्वां पातु । वाताद् यज्ञः प्रयुज्यताम्" [तै ब्रा ३.७.४.१] इति श्रुतेः वायोर्यज्ञाख्यब्रह्म- णा संबन्धः । यद्वा वायुः ब्रह्मणा परिवृढेन व्याप्तेन सूत्रात्मलक्षणेन सह पातु । अथ वा ब्रह्मशब्देन परिवृढम् अन्तरिक्षं स्वाश्रयम् उच्यते तेन सह पातु । एवम् इन्द्रो देवः इन्द्रियैः । इन्द्रियम् इन्द्रलिङ्गम् इन्द्रदृष्टम् इन्द्रसृष्टम्" इत्यादिना इन्द्रियशब्दो निपातितः । अतः इन्द्रियाण्यत्र इन्द्रसृष्टानि इन्द्रजुष्टानि वा परिगृह्यन्ते तैः सह पातु । 18' इतियोमणिं for इति यवमणिं. 2 Sayana's test, however, renuls math and not पातु वृषभो. 38 देवताकः for वृषभदेवता. “वाताद् अथर्वसंहिताभाष्ये त्रीन् । नाकान् । त्रीन् । समुद्रान् । त्रीन् । ब्रध्नान् । त्रीन् । वैष्टपान्। त्रीन् । मातरिश्वनः । त्रीन् । सूर्यान् । गोप्तृन् । कल्पयामि । ते ॥४॥ हे हिरण्यरजतलोहात्मकत्रिवृन्मणिधारक पुरुष त्रीन् 1नाकान् । उक्त- प्रकारेण गन्तृत्रैविध्याद् गन्तव्यस्य नाकस्य स्वर्गस्यापि त्रैविध्यम् । ना- स्मिन् अकं दुःखम् अस्तीति तव्द्युत्पत्तिः । “पुण्यकृतो ह्येव तत्र ग- च्छन्ति" इति वचनात् । तान् ते गोप्तुन् कल्पयामि त्रिवृन्मणिद्वारा रक्षकान् करोमि । एवम् उत्तरत्रापि द्रष्टव्यम् । त्रीन् समुद्रान् समुद्र- वन्ति अस्माद् आप इति समुद्राः अन्तरिक्षविशेषाः । तान् त्रीन् । अथ वा प्रसिद्धा एव समुद्राः परिगृह्यन्ते । उत्तरसमुद्रस्य दुरन्तत्वात् त्रीन् इत्यभिहितम् । तान् ते गोप्तृन् कल्पयामि । त्रीन् 2बन्धान् बन्धः सर्वस्य बन्धः आधारभूत आदित्यः । तस्य त्रैविध्यं प्रकाश्यधुस्थानत्रैविध्याद् द्र- ष्टव्यम् । त्रीन् वैष्टपान् । विष्टपान् इत्यर्थः । बन्धस्य त्रित्वाभिधानात् तदाश्रयविष्टपानामपि त्रैविध्यम् । यद्वा विष्टपशब्दो भुवनसामान्यवचनः 'विष्टपं भुवनं जगत् इत्यभिधानात् । विष्टपानां त्रैविध्यात् तत्रत्याः प्राणिनोपि देवमनुष्यपित्रात्मकत्वेन3 त्रिविधास्तान्4 । त्रीन् मातरिश्वनः ऊ- र्धाधस्तिर्यग्गतिभेदेन वा संचाराश्रयभूतलोकानां त्रित्वेन वा मातरि- श्वापि5 त्रिविधः तान् । मातरि अन्तरिक्षे श्वसिति चेष्टते इति मात- रिश्वा इति तच्छब्दव्युत्पतिः । त्रीन् सूर्यान् प्रकाश्यानां लोकानां6 त्रि- त्वात् सूर्या अपि त्रय इत्युच्यन्ते । यद्वा रश्मिमण्डलतदधिष्ठातृदेवताभेदेन सूर्यस्य त्रित्वम् । त्रिवृन्मणिं योजयन् अहं ये ये त्रैविध्योपपन्ना नाकाद्याः सन्ति तान् सर्वान् [ते] तव गोप्तृन् कल्पयामि ॥ पञ्चमी॥

घृतेन त्वा समुक्षाम्यग्न आज्येन वर्धय॑न् । १PPJ नाकम् ।. २J अनान् । corrected into अनन् ।. P अनन् । B into बनान् ।, ३ PJ मातरिश्वनः ।. We with K#. Y DR SC समुंख्याम्य. समु. Tº. We with AKKV De. 18 लोकान् for नाकान्. 2 Shyam's text too बन्धान्. 38 inserts aforait again after देवमनुष्यपित्रात्मकत्वेन. 48 त्रिविधान्. 58 मातरिश्वाभित्रि. 68 लोकान्. [अ०४. सू०२७.] ५७१ एकोनविंशं काण्डम् । ३७७ अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ॥ ५॥ घृतेन । त्वा । सम् । उक्षामि । अग्ने। आज्येन । वर्धयन् । अग्ने। चन्द्रस्य । सूर्यस्य । मा । प्राणम् । मायिनः । दभन् ॥ ५॥ हे अग्ने त्वा त्वाम् आज्येन होमसाधनेन वर्धयन् अभिवृद्धं कुर्वन् क- र्तुम् इच्छन् अहं [घृतेन] सम् उक्षामि सम्यक् सिञ्चामि । बह्निभिर्घृ- तधाराभिरक्तं करोमि । अग्नेर्घृतेन समुक्षितस्य चन्द्रस्य ओषधिवनस्पत्या- द्याह्लादकारिणश्च सूर्यस्य देवस्य च अनुग्रहात् हे मणिं बिभ्रत् पुरुष तव प्राणं मायिनः मायावन्तोऽसुरा मा दभन् दम्भनं मा कुर्वन्तु । मापहरन्तु इत्यर्थः। दन्भु दम्भे । अस्य लुङि 1अङि रूपम् ॥ षष्ठी॥ मा वः प्राणं मा वोडपानं मा हरो मायिनो दभन् । भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत ॥ ६ ॥ मा । वः । प्राणम् । मा। वः । अपानम् । मा। हरः । मायिनः ।

दभन्। भ्राजन्तः । विश्वऽवेदसः । देवाः । दैव्येन । धावत ॥ ६ ॥ अत्र राज्ञो मणिबन्धने विनियोगाद् राजनि पूजार्थं बहुवचनस्य यु- क्तत्वाद् अत्र व इति बहुवचननिर्देशः । यद्वा राज्ञः पुत्रभृत्यादिकम् अ- पेक्ष्य बहुवचनम् । हे राजादयः वः युष्माकं प्राणं मायिनो मायावन्तोऽ- सुरा मा दभन् हिंसां मा कुर्वन्तु । तथा वः अपानमपि मा द- भन् । एवं हरः शत्रुबलापहारकं तेजो मा दभन् । तदर्थम् हे देवाः अग्निचन्द्रसूर्याः भ्राजन्तः दीप्यमाना विश्ववेदसः विश्वस्य सर्वस्य वेत्तारो विश्वधना वा । वेद इति धननाम । यूयं दैव्येन देवसंबन्धिना रथादि- ना साधनेन वेगेन वा धावत प्राणरक्षार्थम् इति शेषः । व्येनेति । "देवाद् यञ ञो" इति यञ् । ? Cfararatat gar. We with ABDKÄRŠ V DC Cs. 2 SO PÔJ. 18 afs. ४८ ३७६ अथर्वसंहिताभाष्ये सप्तमी॥ प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः । प्राणेन विश्वतोमुखं सूर्य देवा अजनयन् ॥ ७ ॥ प्राणेन । अग्निम् । सम् । सृर्जति । वातः । प्राणेन । समाहितः । प्राणेन । विश्वतःऽमुखम् । सूर्यम् । देवाः । अजनयन् ॥ ७ ॥ प्राणरक्षाम् आशास्य इदानीं तस्य माहात्म्यं वर्णयति । प्राणेन मुख- स्थेन वायुना अग्निं सं सृजति संयोजयति समिन्धनकर्ता पुरुषः । यत एवम् अतः प्राणो रक्षितव्यः । किं च वातः बाह्यो वायुः प्राणेन मु- खस्थेन सह संहितो भवति । अनेन तयोरेकत्वम् उक्तं भवति । अपि च प्राणेन सूत्रात्मरूपेण ब्रह्मणा विश्वतोमुखम् । सर्वत्र प्रकाशकत्वात् सूर्यो विश्वतोमुख1 इत्युच्यते । यद्वा मां प्रत्युदगात् इति प्रतिपुरुषम् आ- भिमुख्यबुद्धिसंभवाद् विश्वतोमुखत्वव्यवहारः । तादृशं सूर्य देवा इन्द्राद्या अजनयन् पुरा उदपादयन् । स्वस्वप्रयोजनाय लब्धवन्त इत्यर्थः । एवं महानुभावः प्राण इति प्राणस्य अवश्यरक्षणं युक्तम् इत्यभिमायः ॥ अष्टमी॥ आयुषायुःकृतो जीवायुष्मान् जीव मा मृथाः । प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम् ॥ ७ ॥ आयुषा । आयुःऽकृताम् । जीव । आयुष्मान् । जीव । मा। मृथाः । प्राणेन । आत्मनऽवताम् । जीव । मा । मृत्योः । उत् । अगाः । वशम् ॥॥ Pasifat i. We with ÚJ. V rucat with Sâyana's text. We with A BCDKÝRS DEC. ACDſ V De Csonant. C is somewhat doubtful. B R S praat which may, however, he inten«lcd for oziraat. Sayaņa’s text reads: मन्वतां. ABCD KÄRŠ V. PJ firet. We'with Dc B. ABC$Cs OT 72 ( without any accent-marks). DR TTT ( without any accent-marks ). De opt azi corrected to opt azt. Pagal. J ARTE 1. We with K Ř V and De as Pubsctguently corrected, and #. ६PPJ आत्मऽत्वाम् । 18 मुख for विश्वतोमुख. y [अ०४. सू०२७.] ५७१ एकोनविंशं काण्डम्। ३७९ हे राजन् मणिधारक त्वम् आयुष्कृताम् । परेषाम् आयुरभिवृद्धिक- र्तार आयुष्कृतः । यद्वा तपआदिना दीर्घम् आयुः कुर्वन्ति संपादय- न्तीति आयुष्कृतः चिरकालजीविनः पूर्वे महर्षयः आयुष्कृतः । तेषाम् आयुषा । तेषां यादृग् आयुस्तादृशेनायुषेत्यर्थः । अथ वा तैर्दत्तेन आयुषा त्वं जीव । तस्माद् आयुष्मान् । भूमार्थे मनुप्। दी- र्घायुष्यः । भवेति शेषः1 । उक्तवैपरीत्यं निराकरोति । [जीव] मा मृथाः मृतिं मा प्राप्नुहि । मृङ् प्राणत्यागे । “माङि लुङ्" । "ह्रस्वाद् अङ्गात्" इति सिचो लोपः। 2आत्मन्वताम् स्थिरेण आत्मना त- द्वन्तः तेषाम् 3आत्मन्वताम् । x“अनो नुट्" इति मतुपो नुडा- गमः। तेषां प्राणेन त्वं जीव । किं च मृत्योः मारकस्य देवस्य वशं मा उद् अगाः मोङ्गच्छ मा प्राप्नुहि ॥

नवमी॥ देवानां निहितं निधिं यमिन्द्रोन्वविन्दत पथिभिर्देवयानैः । आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृत्तां त्रिवृद्भिः ॥ ९ ॥ देवानाम् । निहितम् । निऽधिम् । यम् । इन्द्रः । अनुऽअविन्दत । पथिऽ- भिः । देवऽयानैः। आपः । हिरण्यम् । जुगुपुः । त्रिवृतऽभिः। ताः । त्वा । रक्षन्तु । त्रिवृता। त्रिवृतऽभिः ॥ ९॥ यं प्रसिद्धं निहितम् निक्षेपत्वेन संगोप्य स्थापितं हिरण्याख्यं [देवानां] निधिम् इन्द्रो देवः देवयानैः देवमार्गैः देवा यैर्मार्गैर्गत्वा निधिं निहि- V fest (result of following Siyaņa with ignorance of accents!). A B CDKÄS fiatº. R Dc ofiarº. Cs sagrº. PÓJ ŠEI. We with Siyaņai. BC gaat q°. K Ř De faqatfesyo. DRCs qaaifea. Šv zako. PJfYSą- तात् । त्रिऽवृताः। 13 दीर्घायुष्यो मतुपो भवेति शेषः. 28 आत्मत्वताम्. 38 आत्मतां वा for आत्मन्व- ai. Probably a lucus corruptus. Some letters or words may have dropped away between A and at, and the at may be quite correct, a different interpretation) of Bremerat being intended. ३०० अथर्वसंहिताभाष्ये तवन्तस्तैः पथिभिर्मार्गः स्वयमपि गत्वा अन्वविन्दत्1 अन्विष्य लब्धवान् । यद् देवनिधिरूपं हिरण्यं त्रिवृतः उक्तप्रकारेण त्रिविधा आपः त्रिवृद्भिः साधनैर्जुगुपुः अरक्षन् तास्त्रिवृत आपः त्रिवृद्भिः हिरण्यरजतलोहरूपेण त्रिविधैः स्वरूपैस्त्वा त्वां रक्षन्तु पालयन्तु ॥ दशमी ॥ त्रयस्त्रिंशद् देवतास्त्रीणि च वीर्याणि प्रियामाणा जुगुपुरप्स्वन्तः । अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद् वीर्याणि ॥ १० ॥ त्रयःऽत्रिंशत् । देवताः । त्रीणि । च । वीर्याणि । प्रियंऽयमाणाः । जुगुपुः । अपऽसु । अन्तः। अस्मिन् । चन्द्रे । अधि । यत् । हिरण्यम् । तेन । अयम् । कृणवत् । वी- र्याणि ॥१०॥ [त्रयस्त्रिंशद् देवताः] “अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्र- जापतिश्च वषट्कारश्च" इति ऐतरेयब्राह्मणे [ऐ ब्रा १.१०] समाम्ना- ताः । बृहदारण्यके तु “अष्टौ वसव एकादश रुद्रा द्वादशादित्याः" इत्यभिधाय “इन्द्रश्च प्रजापतिश्च" [बृ आ°३.९.३] इति वषट्कारस्थाने इन्द्र आम्नातः । ता अत्र त्रयस्त्रिंशद् देवता इत्यनेन परिगृह्यन्ते । ता देवताः त्रीणि च वीर्याणि । अत्र चशब्दः पूर्वमन्त्रोक्तम् “आपो हिरण्यं जुगुपुः” इत्युक्तं हिरण्यं समुच्चिनोति । त्रीणि वीर्याणि च कायिकवाचिकमा- नसभेदेन त्रिविधानि च सामर्थ्यानि प्रियायमाणाः प्रियमिव आचरन्त्2यः । तेषु अत्यर्थं प्रियं कुर्वाणा इत्यर्थः । अप्स्वन्तर्जुगुपुः उदकेषु मध्ये य- था अन्ये नापहरेयुस्तथा उदकेषु मध्ये गोपनम् अकुर्वन् । अस्मिन् परिदृश्यमाने चन्द्रे अधि आह्लादक उदके यत् हिरण्यम् अस्ति । अप्सु हिरण्यावस्थानं पूर्वमन्त्रे “आपो हिरण्यं जुगुपुः” इत्याम्नानात् सिद्धम् । PA ŚCDKÅRŠ V D&Cs fratgarunt. PP J fart i Hrarti. ABCD RCs a fur 9. We with KŘ S V Dc. 1 Strafarta. Sâyana's text also has: zfiglfafazaferº. 2 Sscerns to real जापतिश्च वषट्कारश्च आचरंतः. [अ°४. सू०२७.] ५७१ एकोनविंशं काण्डम् । ३.१ तेन अवस्थितेन हिरण्येन स्वमुख्यांशभूतेन अयं मणिः वीर्याणि स्वेन सह अवस्थितानि वीर्याणि त्रयस्त्रिंशदेवतानां त्रिविधानि सामर्थ्यानि कृण- वत् मणिधारके पुरुषे करोतु ॥ यद्वा हिरण्यरजतलोहानां त्रयाणां यानि आयुर्वर्धनैश्वर्यकरत्वशत्रुजयाख्यानि अनन्यसाधारणानि त्रीणि वीर्याणि स- न्ति तानि अन्येषां मा भूवन्निति बुद्ध्या प्रियायमाणाः अप्सु अन्तः गो- पनम् अकुर्वन् । तानि अस्मिंश्चन्द्रे प्रसिद्धे चन्द्रमसि चन्द्रस्य अम्म- यत्वात् तत्र यद्हिरण्यं निहितं तेन हिरण्येन अयं मणिः उक्तविधानि त्रीणि वीर्याणि कृणवत् इति । प्रियायमाणा इति । “कर्तुः क्यङ् सलोपश्च" इति क्यङ् । “अकृत्सार्वधातुकयोः” इति दीर्घः ५ ॥ ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥ ११ ॥ ये। देवाः । दिवि । एकादश । स्थ । ते । देवासः । हविः । इदम् । जुष- ध्वम् ॥११॥ ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥ १२ ॥ ये । देवाः । अन्तरिक्षे । एकादश । स्थ । ते । देवासः । हविः । इदम् । जुषध्वम् ॥ १२ ॥ ये देवाः पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥ १३ ॥ ये। देवाः । पृथिव्याम् । एकादश । स्थ । ते । देवासः । हृविः । इदम् । जुषध्वम् ॥ १३ ॥ एकादशी ॥ ये देवा दिव्याः दिवि भवाः । “भवे छन्दसि" इति यः। दिवि धुलोके आदित्याख्या गणा एकादश स्थ भवध । यद्यपि ते द्वादश तथापि एकादशवाभिधानं न विरुध्यते । अधिकसं- ख्या2या न्यूनसंख्यायाः संभवात् । ते देवासः देवाः इदं हविः हूयमानम् आज्यं जुषध्वम् सेवध्वम् ॥ एवं ये देवा अन्तरिक्ष एकादश स्थ रुद्रा- Pदेवासः।. We with PJ. I Sayana's text of the 11th mantra reads: ये देवा दिव्या दिव्येकादश स्थ. It reinds the 12th and 13th mantras all right like us. AS संख्याया. ३.२ अथर्वसंहिताभाष्ये भिधानाः ते देवा इदं हविर्जुषध्वम् ॥ तथा ये देवाः पृथिव्याम् ए- कादश स्थ भवथ । अत्रापि त्रयाणां न्यूनताम् अनाह्रत्य एवम् उक्तम् । गतम् अन्यत् ॥ द्वादशी ॥ असपत्नं पुरस्तात् पश्चान्नो अभयं कृतम् । सविता मा दक्षिणत उत्तरान्मा शचीपतिः ॥ १४ ॥ असपत्नम् । पुरस्तात् । पश्चात् । नः । अभयम् । कृतम् । सविता । मा। दक्षिणतः । उत्तरात् । मा। शचीऽपतिः ॥१४॥ अत्र यद्यपि पुर1स्तात् पश्चाच्च रक्षाविषये देवते न निर्दिष्टे तथापि कृ- तम् इति द्विवचनसामर्थ्याद् उत्तरार्धे वक्ष्यमाणौ सवितृशचीपती परि- गृह्येते । हे उक्ते देवते युवां में मह्यं पुरस्तात् पूर्वस्यां दिशि पश्चात् प्रतीच्यां च अभयम् भयराहित्यम् असपलं यया भवति तथा कृतम कृणुतम् । अथ वा पुरस्ताद् असपत्नम् सपत्नाभावं कृतं पश्चाद् अ- भयं च कृतम् । जिगीषोः पुरतः शत्रूणाम् अभाव आशास्यः पश्चाच्च पाणिग्राहाद् भयाभावाय अभयम् आशास्यम् । अतः पुरस्ताद् अस- पत्नं कृणुतं पश्चाद् अभयं कृणुतम्2 इति विभागः । तथा सविता मा 3मां दक्षिणतः दक्षिणदिक्सकाशाद् दक्षिणदिग्गताद् भयात् सविता4 रक्षतु इत्यध्याहर्तव्यम् । उत्तरमन्त्रे भूम्या रक्षन्त्वग्नय इति रक्षणक्रियासंबन्धात् । एवम् उत्तरात उत्तरदिग्गताद् भयात् । "उत्तराधरदक्षिणाद् आ- तिः" इति आतिमत्ययः । मा 5मां शचीपती रक्षतु ॥ दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः । इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् । तिरश्चीनघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥१५॥ दिवः । मा। आदित्याः । रक्षन्तु । भूम्याः । रक्षन्तु । अमः। See foot-notes to XIX. 16. 1. See foot-notes to X[X. 16. 2. IS तत्पुरस्तात्तत्पुरस्तात् for पुरस्तात्. 28 कृणुतविभागः, 38 मा मा मां for मा मां. 4 So S. 55 यन्मां for मा मां. 1 [अ०४. सू०२४.] ५७२ एकोनविंशं काण्डम् । ३७३ इन्द्राग्नी इति । रक्षताम् । मा। पुरस्तात् । अश्विनौं । अभितः । शर्म । यच्छताम्। तिरश्चीन् । अया । रक्षतु । जातऽवेदाः । भूतऽकृतः । मे। सर्वतः । सन्तु वर्म ॥१५॥ त्रयोदशी ॥ आदित्यानां द्युस्थानत्वाद् दिवः सकाशाद् रक्षणम् उ. चितम् । अग्नीनां च पृथिव्यायतनत्वात् तस्याः सकाशाद् रक्षण1प्रार्थना । अथ वा "असपत्नम्" इत्यारभ्य "रक्षन्त्वग्नयः” इत्यन्त एको मन्त्रः । तथा सति रक्षन्त्विति2 पदम् अर्थानुसारेण रक्षत्विति विपरिणमयितुं सु- शक3म् । उत्तरत्र छन्दोन्तरत्वाद् नायम् अर्धर्चस्तत्र संबध्यते ॥ चतुर्दशी ॥ इन्द्राग्नी मा मां पुरस्ताद् रक्षताम् पालयताम् । तथा अश्विनौ देवौ अभितः सर्वतः सर्वासु दिशु [शर्म] सुखं यच्छताम् । एवं तिरश्चीन् तिर्यगञ्चनान् अस्मान् । x तिरःपूर्वाद् अञ्चतेः "अञ्चतेश्योपसंख्यानम्" इति डीप् । “अचः" इति अकार- लोपः। यद्वा तिरश्चीः तिर्यग्दिशो जातवेदाः जातप्रज्ञो रक्षावि- षयप्रज्ञावान् 4अग्निः रक्षतु । तिर्यक्प्रदेशेभ्यो रक्षत्वित्यर्थः । अग्नी रक्षतु इत्यत्र “ढ्रलोपे पूर्वस्य दीर्घोऽणः" इति साहितिको दीर्घः । एवं भूतकृतः भूतानां पृथिव्यादीनां कर्तारः पञ्चभूताभिमानिदेवा अग्न्यादयो मे सर्वतः वर्म वारकं कवचं सन्तु भवन्तु ॥ इत्येकोनविंशे काण्डे चतुर्थेनुवाके प्रथमं सूक्तम् ॥ "इमं बधामि ते मणिम्" इति सूक्तत्रयम् “ऐन्द्रीं जयवलवृष्टिपशु- कामस्य परचक्रागमे च" इति [न क०१७] विहितायाम् ऐन्त्र्यास्यायां महाशान्तौ दर्भमणिबन्धने विनियुक्तम् । सूत्रितं हि नक्षत्रकल्पे । “इमं "बन्धामि ते मणि् दीर्घायुत्वाय तेजसे [१९.२४] इति दर्भमणिम् ऐन्ध्र्याम् 'अभीवर्तेन[१.२९] इति रथनेमिमणिं माहेन्द्र्याम्" इति [न क°१९] ॥ See foot-notes to XIX. 16. 2. 15 रक्षणा. 28 रक्षत्वित्ययमानु. 33 सुशकः. 1 S. S'. The grammatical note explains neither forcafta nor forexit:. See comincntary on 16. 2 a bore. ३०४ अथर्वसंहिताभाष्ये तत्रप्रथमा॥ ¢¢ इमं बन्धामि ते मणि दीर्घायुत्वाय तेजसे । दर्भ संपत्नदम्भनं विषतस्तपनं हृदः ॥ १॥ इमम् । बन्धामि । ते। मणिम् । दीर्घायुऽत्वाय । तेजसे । दर्भम् । सपत्नऽदम्भनम् । द्विषतः । तपनम् । हृदः ॥१॥ हे विजयबलादिकाम ते तव इमं मणिं दर्भमयं बध्नामि । किम- र्थम् । दीर्घायुष्ट्वाय यथा वं दीर्घायुर्भवसि तथाभावाय तेजसे अतिश- यिततेजोलाभाय । मणिं विशिनष्टि । दर्भम् । विकारे प्रकृतिशब्दः । दर्भ- निर्मितं1 मणिं सपत्नदम्भनम् शत्रूणां हिंसकं सपत्नीवत् सपत्नः । न्त्सपत्ने " इति निपातनात् साधुः । दम्भनम् इति । कृल्यल्युटो बहुलम्"" इति कर्तरि ल्युट्। द्विषतः द्वेषं कुर्वतः शत्रोः [हृदः] हृदयस्य तपनं तापकम् ॥ द्वितीया ॥ द्विषतस्तापयन् ह्रदः शत्रूणां तापयन् मनः । दुर्हार्दः सर्वास्र्वं दर्भ धर्म इवाभीन्त्सतापर्यन् ॥ २ ॥ द्विषतः । तापयन् । हृदः । शत्रूणाम् । तापर्यन् । मनः । दुःऽहार्दः । सर्वान् । त्वम्। दुर्भ। धर्म:ऽईव। अभीन्।समऽतापयन् ॥२॥ हे दर्भमणे त्वं द्विषतः द्वेषं कुर्वतः शत्रोः हृदः हृदयं तापयन् संतप्तं कुर्वन् तथा शत्रूणां मनश्च तापयन् एवं दुर्हार्दः दुष्टहृदयस्य । हृदं इदं2 हार्दम् । “तस्येदम्" इति अण् । हार्दं करोति । “तत करोति" इति णिच् । हार्दयतेः क्विपि “णेरनिटि" इति णिलोपः । तस्य A B C D K KR SC दर्भ सपत्न. De दर्भासपत्न' (sic ),changed to दर्भ संपत्न. PJ दर्भम् ।. * दर्भम्। 3D 3 Dc Cs Fri. Wo withi CRPŮJ. ३ A दुर्हाः सर्वा- स्त्वं (corrected into सर्वस्त्वं). D दुर्हादः सर्वस्त्वं. RCs दुरिहाई सर्वोस्त. Sayana's text: दुर्दिः सर्वस्त्वं. We with Bc k sv DeP#. 18 दर्भनिमित्तं. 2 हृदय इदं. तस्य [अ०४. सू०२:.] ५७२ एकोनविंशं काण्डम् । ३०५ सर्वम्1 गृहक्षेत्रपश्वादिकं धर्म इव आदित्य इव । यद्वा "यद् घ्रा2 इत्यपतत तद् धर्मस्य धर्मत्वम्" इति [तै आ० ५.१.५] श्रुतेः धर्मः प्रवर्ग्यः । स इव अभीन् अभयान् संतापयन् भिन्द्वीति संबन्धः॥ तृतीया॥ धर्म ईवाभितपन् दर्भ द्विषतो नितपन् मणे। ह्रदः सपात्नानां भिन्द्धीन्द्र इव विरुजं बलम् ॥ ३ ॥ धर्मःऽईव । अभिऽतपन् । दर्भ । द्विषतः । निऽतपन् । मणे । ह्रदः। सऽपत्नानाम् । भिन्द्धि । इन्द्रःऽइव । विऽरुजन् । बलम् ॥३॥ हे दर्भ । दर्भविकारे दर्भशब्दः । हे दर्भनिर्मित3 मणे त्वं धर्म इव । उक्तो धर्मशब्दार्थः निदाघकालो वा । स इव द्विषतः द्वेषं कुर्वतः श- त्रोर्हदयम् । यद्वा। कर्मणि षष्ठी। द्विषन्तम् शत्रुम् अभि- तपन् अभितः संतापं कुर्वन् तथा नितपन् नितरा संतापयन् भिन्द्धि भेदं कुरु । दार्ढ्याय उक्तमेवार्थम् पुनराह । सपत्नानाम् राष्ट्रादिविषये समानः पतिर्येषां ते सपत्नाः । राष्ट्रविषये स्वेषामपि पतित्वं कामयमाना इत्यर्थः। सपत्नीव सपत्नः । “व्यन्त्सपत्ने' इति निपातनात्

साधु। तेषां बलम् शारीरं बाह्यं च इन्द्र इव विरुजन् स यथा

शत्रूणां बलं विरुजति एवं विरुजन् नाशयन् तेषां हृदः हृ4दयानि भिन्द्धि विदारय । भिदिर् विदारणे । चतुर्थी ॥ भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे । १BD तप दर्भ. K KV C तपै दर्भ. Pतपयन् ।. We with AC R DEPJ. २D R Dc Cs PŮJ FT. We with C š. ३ A B C D E Cs सपत्नानाभि. De सपत्नानां changed to सपत्नानां. 3 सपत्नान् भि. PJ सऽपनान् । आ। for सऽपत्नानाम्. We with KKVĖ. ४ BCs वीरुजं. D विरुजन् changed to विरुजं. We witli A B C D Ek ŠV. PÞJ fasal. Sayaņa's text: ferestra. Poartaal. Wc with PJ. 1 Slyana's text too has e 2S & for 23. 38दर्भनिमित्त. 43 हृदया- दिनिनिधि. इत्यर्थः । " साधुः । अथर्वसंहिताभाष्ये उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय ॥४॥ भिन्द्धि । दर्भ। सऽपत्नानाम् । हृदयम् । द्विषताम् । मणे। उत्ऽयन् । त्वर्चम्ऽइव । भूम्याः । शिरः । एषाम् । वि। पातय ॥४॥ हे दर्भ मणे द्विषताम् द्वेषं कुर्वतां सपत्नानां हृदयं भिन्द्धि । ह्रद- यभेदनमात्रेण 1अपरितुष्यन्नाह । उद्यन् ऊर्ध्व गच्छन् भुजादिप्रदेशम् अ- धितिष्ठन् वं भूम्यास्वचम् [इव] तृणगुल्मौषध्यायधिष्ठानभूतां यथा 2त- क्षणेन निपातयति गृहादिनिर्माणार्थ लोके एवम् एषां सपत्नानां शिरः । जात्येकवचनम् । शिरांसि वि3 पातय अध:पतितानि कुरु ॥ पञ्चमी॥ भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि में पृतनायतः। भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्वि मे द्विषतो मणे ॥५॥ भिन्द्धि । दर्भ । सऽपत्नान् । मे । भिन्द्धि । मे। पृतनाऽयतः । भिन्द्धि । मे। सर्वान् । दुःऽहादः। भिन्द्धि । मे। द्विषतः । मणे ॥५॥ पृतनायतः पृतना सेना । ताम् आत्मन् इच्छन्तः पृतनायन्तः । तान् भिन्द्धि । “सुप आत्मनः क्यच्" इति क्यच् । सर्वविधीनां छ- न्दसि विकल्पितवाद् 4आकारलोपाभावः । तान् भिन्द्धि। भि- दिर् विदारणे । दुर्हार्दः दुष्टहृदयान्। हृद इदं हार्दम् । "त- स्पेदम्" इति अण् । हार्द करोति । “तत् करोति" इति णिच् । हार्दयतेः क्विपि “णेरनिटि" इति णिलोपः । स्पष्टम् अन्यत् ॥ षष्ठी ॥ छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि में पृतनायतः । १ त्वच इव. So we with BCDKKR$PPJ. Siyana's text : fagrera. Vfwand fa. Datater. We with A Ể CKKRSV De Cs. 1 S omits 3 in rufig. 28 HOTT. 3 So S', though the text in S' has fancy. 4S TT. 5 So S, repcating unnecessarily. भिवृश्च । [अ०४. सू०२७.] ५७२ एकोनविंशं काण्डम् । ३०७ छिन्द्धि मे सर्वान् दुर्हादान् छिन्द्धि मे द्विषतो मणे ॥ ६ ॥ छिन्द्धि । दर्भ। सऽपत्नान् । मे। छिन्द्धि। मे। पृतनाऽयतः । छिन्द्धि । मे। सर्वान्। दुःऽहादीन् । छिन्द्धि । मे । द्विषतः । मणे ॥ ६ ॥ छिन्द्धि । छिदिर् वैधीकरणे। शिष्टं समानम्1 ॥ सप्तमी॥ वृश्च दर्भ सपत्नान् मे वृश्च मै पृतनायतः। वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ॥ ७ ॥ वृश्च । दर्भ । सऽपत्नान् । मे । वृश्च । मे । पृतनाऽयतः । वृश्च । मे । सर्वांन् । दुःऽहार्दैः । वृश्च । मे । द्विषतः । मणे ॥ ७ ॥ वृश्च 2ओवश्नू छेदने इति धातुः ॥ अष्टमी॥ कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनाय॒तः । कृन्त मे सर्वान् दुर्हार्दां कृन्त मे द्विषतो मणे ॥ ६ ॥ कृन्त । दर्भ । सऽपत्नान् । मे। कृन्त । मे। पृतनाऽयतः । कृन्त । मे । सर्वांन् । दुःऽहार्दान् । कृन्त । मे। द्विषतः । मणे ॥६॥ कृन्त कृती छेदने । “शे मुचादीनाम्" इति नुम् आ- गमः॥ नवमी॥ पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः । पिंश मे सर्वान् दुर्हार्दः पिंश मे द्विषतो मणे ॥ ९ ॥ १. A दुर्हादी corrected from दुर्हादों. BCD K 5 °दुर्हादी. Sayapat's text : दुर्हार्दः छि ( sic). R.Cs °दुर्हादी छि°. De दुर्दैि changed to दुर्हादी. PP °हादीम् ।. J °हादैम् । A qurat corrected from zerat. RCs and Sayaņa's text: TEILT. We with BC DK De. PF हादीम् ।. Jहार्दम् ।. ३ De पीष changed to पिंश. ४ BDOs °नु- miatt. De garait changed to genere. We with ACR ŠV. 18 समानातम्. 28 om. ओ. पिंश । “ ३ अथर्वसंहिताभाष्ये पिंश । दर्भ । सऽपत्नान् । मे। पिंश । मे। पृतनाऽयतः । पिंश । मे । सर्वान् । दुःऽहार्दः। पिंश । मे। द्विषतः । मणे ॥९॥ पिंश। पिंश अवयवे । मुचादित्वाद् नुम् ॥ दशमी ॥ विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः । विध्य मे सर्वांन् दुर्हार्दो विध्य मे द्विषतो मणे ॥ १० ॥ विध्ये । दर्भ । सऽपत्नान् । मे । विध्य । मे । पृतनाऽयतः । विध्य । मे । सर्वान् । दुःऽहार्दः । विध्यं । मे। द्विषतः । मणे ॥१०॥ विध्य । व्यध ताडने । देवादिकः । 'ग्रहिज्या" इत्यादिना संप्रसारणम् ॥ इत्येकोनविंशे काण्डे चतुर्थेनुवाके द्वितीयं सूक्तम् ॥ निक्ष दर्भ" इत्यादिकं [तृतीयं] सूक्तम् । अस्य ऐन्द्र्यां महाशान्तौ दर्भमणिबन्धने विनियोगः पूर्वसूक्तेन सह उक्तः ॥ तत्र प्रथमा॥ निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः। निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे ॥१॥ निक्ष । दर्भ । सऽपत्नान् । मे । निक्ष । मे। पृतनाऽयतः । निक्ष । मे । सर्वांन् । दुःऽहार्दः । निक्ष । मे। द्विषतः । मणे ॥१॥ निक्ष चुम्ब । निक्ष चुम्बने इति धातुः । शिष्टं पूर्ववत् ॥ द्वितीया ॥ तृन्द्धि दर्भ सपत्नान् मे तृन्धि में पृतनाय॒तः । PACDSC: Face H. De forze to cluanged to fast are. We with BKKR; and the other accents in the verse accordingly. ĎTERET. ABCDR ŠCs निक्ष दर्भ, throughout the verse. D निक्ष द° changed to निक्ष द. PJ निक्ष ।. We with KKVĚ. ३०९ [अ०४. सू०२९.] ५७३ एकोनविंशं काण्डम् । तृन्द्वि मे सर्वांन् दुर्हार्दस्तृन्धि मे द्विषतो मणे ॥ २ ॥ तृन्द्धि । दर्भ । सऽपत्नान् । मे। तृन्द्धि । मे। पृतनाऽयतः । तृन्द्धि । मे । सर्वान् । दुःऽहार्दः । तृन्द्धि । मे। द्विषतः । मणे ॥२॥ तृन्द्धि नाशय । उतृदिर् हिंसानादरयोः । श्रसोरल्लोपः" इति अकारलोपः ॥ तृतीया ॥ रुन्द्धि दर्भ सपत्नान् मे रुन्धि मे पृतनाय॒तः । रून्द्धि मे सर्वान् दुर्हार्दौ रुन्द्धि मे द्विषतो मणे ॥३॥ रुन्द्धि । दर्भ । सऽपत्नान् । मे । रुन्द्धि । मे। पृतनाऽयतः । रुन्द्धि । मे । सर्वान् । दुःऽहार्दः । रुन्द्धि । मे । द्विषतः । मणे ॥३॥ रुन्द्वि आवृणु निरोधं कुरु । रुधिर् आवरणे ॥ चतुर्थी ॥ मृण दर्भ सपत्नान् मे मृण म् पृतनायतः । मृण मे सर्वान् दुर्हार्दो मृण मै द्विषतो मणे ॥ ४ ॥ मृण । दर्भ। सऽपत्नान् । मे । मृण । मे। पृतनाऽयतः । मृण । मे । सर्वान् । दुःहार्दः । मृण । मे। द्विषतः । मणे ॥ ४ ॥ मृण हिंसायाम् ॥ पञ्चमी॥ मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः । मन्थ मे सर्वांन् दुर्हार्दो मन्थ मे द्विषतो मणे ॥ ५॥ मन्थ । दर्भ । सऽपत्नान् । मे। मन्थ । मे। पृतनाऽयतः । १ A BCK IV दुर्हादी तृन्धि. DC: °दुर्दादो तृन्धि. De दुर्हादौ elaygeel to दुर्हादी. P हादीम् ।. Jहार्दम् ।. We with R. २ A DSCs मथ दर्भ सपत्नान्म मथ मै. De

      • changed to set T. PJ e in all places. Wc with CRVÉ.

D: मथ मे सर्वान्नुहदो मथ मै. De मथ मे &c changed to मंथ मे. We with KRv. AC ३९० अथर्वसंहिताभाष्ये मन्थ । मे। सर्वान् । दुःऽहार्दः । मन्थ । मे । द्विषतः । मणे ॥५॥ मन्थ लोडने । गतम् अन्यत् ॥ षष्ठी ॥ पिण्ड्डिढ् दर्भ सपत्नान् मे पिण्ड्ढि मे पृतनायतः । पिण्ड्ढि मे सर्वान् दुर्हादः पिण्ड्ढि मे द्विषतो मणे ॥ ६ ॥ पिण्ड्ढि । दर्भ । सऽपत्नान् । मे। पिण्ड्ढि । मे । पृतनाडयतः । पिण्डढि । मे। सर्वान् । दुःऽहार्दः। पिड्ढि। मे। द्विषतः । मणे ॥ ६ ॥ पिण्ड्ढि ।पिष चूर्णने । रौधादिकः । “हुझल्भ्यो हेर्धिः" इति धिः । ष्टुत्वं जशत्वं च ॥ सप्तमी ॥ ओष । ओष दर्भ सपत्नान् मे ओष मे पृतनायतः । ओष मे सर्वान् दुर्हार्द ओष मे द्विषतो मणे ॥ ७ ॥ ओष । दर्भ । सऽपत्नान् । मे। ओष । मे। पृतनाऽयतः । ओष । मे । सर्वान् । दुःऽहार्दः। ओष । मे। द्विषतः । मणे ॥७॥ ओष उष मुष दाहे । भौवादिकः । लघूपध1गुणः ॥ अष्टमी ॥ दह दर्भ सपत्नान् मे दह मे पृतनायतः । दह मे सर्वान् दुर्हार्द दह मे द्विषतो मणे ॥६॥ दह । दर्भ । सऽपत्नान् । मे । दह । मे। पृतनाऽयतः दह । मे । सर्वान् । दुःऽहार्दः । दह । मे । द्विषतः । मणे ॥६॥ स्पष्टम् ॥ १KV म ओप. D¢ °न्मे ओघ changed to °न्म ओप. We with B C DOs. RP ओष।. CD R SC दह दर्भ. De दह दर्भ changei to दह दर्भ. P दह । in all places. We with KVŮJ. IS लघूपधगुणाभावः, 1 ३ ३०९ [अ०४. सू०२९.] ५७३ एकोनविंशं काण्डम् । तृन्द्वि मे सर्वांन् दुर्हार्दस्तृन्धि मे द्विषतो मणे ॥ २ ॥ तृन्द्धि । दर्भ । सऽपत्नान् । मे। तृन्द्धि । मे। पृतनाऽयतः । तृन्द्धि । मे । सर्वान् । दुःऽहार्दः । तृन्द्धि । मे। द्विषतः । मणे ॥२॥ तृन्द्धि नाशय । उतृदिर् हिंसानादरयोः । श्रसोरल्लोपः" इति अकारलोपः ॥ तृतीया ॥ रुन्द्धि दर्भ सपत्नान् मे रुन्धि मे पृतनाय॒तः । रून्द्धि मे सर्वान् दुर्हार्दौ रुन्द्धि मे द्विषतो मणे ॥३॥ रुन्द्धि । दर्भ । सऽपत्नान् । मे । रुन्द्धि । मे। पृतनाऽयतः । रुन्द्धि । मे । सर्वान् । दुःऽहार्दः । रुन्द्धि । मे । द्विषतः । मणे ॥३॥ रुन्द्वि आवृणु निरोधं कुरु । रुधिर् आवरणे ॥ चतुर्थी ॥ मृण दर्भ सपत्नान् मे मृण म् पृतनायतः । मृण मे सर्वान् दुर्हार्दो मृण मै द्विषतो मणे ॥ ४ ॥ मृण । दर्भ। सऽपत्नान् । मे । मृण । मे। पृतनाऽयतः । मृण । मे । सर्वान् । दुःहार्दः । मृण । मे। द्विषतः । मणे ॥ ४ ॥ मृण हिंसायाम् ॥ पञ्चमी॥ मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः । मन्थ मे सर्वांन् दुर्हार्दो मन्थ मे द्विषतो मणे ॥ ५॥ मन्थ । दर्भ । सऽपत्नान् । मे। मन्थ । मे। पृतनाऽयतः । १ A BCK IV दुर्हादी तृन्धि. DC: °दुर्दादो तृन्धि. De दुर्हादौ elaygeel to दुर्हादी. P हादीम् ।. Jहार्दम् ।. We with R. २ A DSCs मथ दर्भ सपत्नान्म मथ मै. De

      • changed to set T. PJ e in all places. Wc with CRVÉ.

D: मथ मे सर्वान्नुहदो मथ मै. De मथ मे &c changed to मंथ मे. We with KRv. AC ३९२ अथर्वसंहिताभाष्ये क्षणैः सामर्थ्यैः सपत्नान् अमुष्य राज्ञः शत्रून् जहि पराभव नाशय ॥ द्वितीया ॥ शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते । तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥२॥ शतम् । ते । दर्भ । वर्माणि । सहस्रम् । वीर्याणि । ते। तम् । अस्मै । विश्वे । त्वाम् । देवाः । जरसे । भर्तवा । अदुः ॥२॥ हे दर्भ मणिरूप ते तव मर्माणि पर्वाणि परकृतपीडाविषयभूतानि [शतं] सन्ति । तत्परिहाराय ते तव वीर्याणि सामर्थ्यान्यपि सहस्रम् स- हस्रसंख्याकानि सन्ति । तं तादृशं मर्मशताच्छादनसाधनवीर्योपेतं त्वाम् अस्मै रक्षादिकामाय राज्ञे विश्वे सर्वे देवाः जरसे जरा1निमितम् अस्य जरापरिहाराय भर्तवै भरणाय पोषणाय प्रयोजनाय अदुः दतवन्तः । अ- तः अमुष्य जरां परिहत्य भरणं कुर्वित्यर्थः । भर्तवै । तवैप्र- त्यय: ॥ तृतीया ॥ त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् । त्वामिन्द्रस्याहुवर्म त्वं राष्ट्राणि रक्षसि ॥ ३ ॥ त्वाम् । आहुः । देवऽवर्म । त्वाम् । दर्भ । ब्रह्मणः । पतिम् । त्वाम् । इन्द्रस्य । आहुः । वर्म । त्वम् । राष्ट्राणि । रक्षसि ॥३॥ हे दर्भ मणे वां देववर्म आहुः देवानां रक्षणार्थ कवचम् आहुः । तथा वां ब्रह्मणस्पतिम् वेदस्य पालयितारम् एतन्नामानं देवम् 2आहुः वे- दविदितस्यापि रक्षाकारित्वात् । किं च त्वाम् इन्द्रस्य देवाधिपतेरपि वर्म

  • AŠanl Sayana's text: Anfor. We with BCDRR DCCs P PJ. AB

CR V C त्वमस्मै. De त्वमस्मै changeel to तमस्सै. PJ त्वम् ।. We with D K Ksv.

  • P fasa 1. We with Ể T. P भर्तवै।. We with kr. ABCD R SCs देव

fior "देव'. PJ देववर्म . We with K kv De#. [S' जरामित्त for जरानिमित्तम्. 2 Sayana's text reacl's त्वामाहुर्देववर्म त्वामाहुब्रह्मण- स्पतिं for our त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम्. [अ°४. सू°३०.] ५७४ एकोनविंशं काण्डम् । ३९३ कवचम् आहुः । देवा बृहस्पतिरिन्द्रश्च त्वां स्वस्वरक्षार्थं धारयन्ति इत्य- भिप्रायः । यत एवम् अतस्त्वं राष्ट्राणि [वां] धारयतो राज्ञो राज्यानि रक्षसि पालयसि पालय ॥ चतुर्थी ॥ सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः । मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥ ४ ॥ सपत्नऽक्षयणम् । दर्भ । द्विषतः । तप॑नम् । हृदः । मणिम् । क्षत्रस्य । वर्धनम् । तनूऽपानम् । कृणोमि । ते ॥ ४ ॥ हे दर्भ ते त्ना त्वां सपत्नक्षयणम् शत्रूणां नाशकम् । "कृत्य- ल्युटो बहुलम्" इति कर्तरि ल्युट् ४ । तथा द्विषतः द्वेष्टुः हृदः हृदयस्य तपनम् संतापकं क्षत्रस्य बल1स्य वर्धनम् वर्धकम् । तथा तनू- पानम् तन्वाः शरीरस्य पातारं रक्षितारम् एवंमहानुभावं मणिं कृणोमि करोमि ॥ अथ वा रक्षाकामः पुरुषः संबोध्यते । हे राजन 2दर्भमणि सपत्नक्षयणादिसामर्थ्योपेतं ते तुभ्यं क्षत्रस्य वर्धनं तनूपानं च कृणोमीति संबन्धनीयम् ॥ पञ्चमी॥ यत समुद्रो अभ्यक्रन्दत् पर्जन्यो विद्युता सह । ततो हिरण्ययो बिन्दुस्ततो दर्भो अजायत ॥ ५ ॥ यत् । समुद्रः । अभिऽअक्रन्दत । पर्जन्यः । विद्युता । सह । ततः । हिरण्ययः । बिन्दुः । ततः । दर्भः । अजायत ॥ ५ ॥ यत् यस्मिन् स्थाने समुद्रः समुद्र्वन्ति अस्माद् आप इति समुद्रः । तादृशः पर्जन्यः मेघो विद्युता सह अभ्यक्रन्दत अभिक्रन्दनं स्तननम् अ- हवः ।. RA B C D R SCs हिरण्ययो बिंदु'. Do हिरण्ययो बिंदु° changed to हिरण्ययो बिंदु. P बिंदुः ।. We with Kkvki. 18 बलवर्धनं षधवर्धक for बलस्य वर्धनम् वर्धकम्. AS inserts a ते before दर्भ. ३९४ अथर्वसंहिताभाष्ये कार्षीद् 1वृष्ट्युत्पादनाय ततः अभिक्रन्दतो मेघात् [हिरण्ययो] हिरण्मयो बिन्दुः उदभूत । [ततः] तस्माद् उत्पन्नात हिरण्यबिन्दोः सकाशाद् दर्भो अजायत प्रादुर्बभूव । अनेन दर्भोत्पत्तिवर्णनेन दर्भमयस्य मणेरतिशयित- वीर्यत्वम् उक्तं भवति । हिरण्यय इति । ऋत्व्यवास्त्व्यवास्त्व" इत्यादिना हिरण्मयशब्दस्य मपटो मकारलोपो निपातितः॥ [इति ] चतुर्थेनुवाके चतुर्थं सूक्तम् ॥ औदुम्बरेण” इत्यादिकं पञ्चमं सूक्तम् । अस्य “कौबेरीं धनकाम- स्य धनक्षये च" [न क°१७] इति विहितायां कौबेर्याख्यायां महाशा- न्तौ औदुम्बरमणिबन्धने विनियोगः । उक्तं नक्षत्रकल्पे । “औदुम्बरेण मणिना पुष्टिकामाय वेधसा इत्यौदुम्बरं कौबेर्याम्” इति [न क°१९] ॥ तत्र प्रथमा॥ औदुम्बरेण मणिना पुष्टिकामाय वेधसा । पशूनां सर्वेषां स्फातिं गोष्ठे मे सविता करत् ॥ १॥ औदुम्बरेण । मणिना । पुष्टिऽकामाय । वेधसा । पशूनाम् । सर्वेषाम् । स्फातिम् । गोऽस्थे । मे। सविता । करत ॥१॥ औदुम्बरेण उदुम्बरनिर्मितेन मणिना । “तस्य विकारः" इति अण् प्रत्ययः । पुष्टिकामाय पशुपुत्रधनशरीरादिविषयं पोषं काम- यमानाय पुरुषाय तदर्थ वेधसा विधात्रा पुरा प्रयोगः कृतः । यद्वा वे-. धसा पुष्ट्यादिविधात्रा का मणिना पुष्टिकामाय तव रक्षां करोमीति व्याख्येयम् । अतः सर्वेषां गोमहिषाश्वाजगजादिरूपाणां पशूनाम् । च- तुष्पादाः पशवः । तेषाम् अथ वा द्विपादश्चतुष्पादश्च पशवः । उभ- यविधानां परिग्रहाय सर्वेषाम् इत्युक्तम् । तेषां स्फातिम् ।स्फा- यी वृद्धौ । क्तिनि यलोपः । अभिवृद्धिं मे मम गोष्ठे गवां नि- वासस्थाने। "घञर्थे कविधानम्" इति अधिकरणे कप्रत्ययः । 'अम्बाम्बगोभूमि” इत्यादिना मूर्धन्यादेशः । सविता प्रसविता स्फा- वासस्थाने । IS कृष्ट 28 om. धन. xकरोतः [अ०४. सू.३१.] ५७५ एकोनविंशं काण्डम् । ३९५ सर्वस्य अनुज्ञाता प्रेरकः एतन्नामको देवः करत् कुर्यात् । करोतेः पञ्चमलकारः। "सविता वै प्रसवानाम् ईशे" इत्यादि श्रुतेः [ऐ० बा.१.१६] सवितुः सर्वस्य प्रेरकात्वाद् “देवो वः सविता प्रार्पयतु" इति [तै.सं० १.१.१.१] गवां व्याघ्रतस्करादिकृतनाशपरिहाराय प्रार्प-1 णमार्थनश्रुतेश्च सवितुः सर्वपशुस्फातिमार्थना युक्ता ॥ द्वितीया ॥ यो नौ अग्निगार्हपत्यः पशूनामधिपा असत् । औदुम्बरो वृषा मणिः सं मा सृजतु पुष्टया ॥२॥ यः । नः । अग्निः । गार्हऽपत्यः । पशूनाम् । अधिऽपाः । असत् । औदुम्बरः । वृषा । मणिः । सः । मा। सृजतु । पुष्ट्या ॥२॥ यो गार्हपत्योग्निः । गृहपतिना यजमानेन सह2 संयुक्तोनिर्गार्हपत्यः । यस्तत्संज्ञकोग्निरस्ति। “गृहपतिना संयुक्ते ज्यः” इति ज्यः ।स नः अस्माकं पशूनाम् गवावादीनाम् अधिपाः अधिष्ठाय पाता असत् भवेत्। अस्तेलेंटि अडागमः । "इह पशवो विश्वरूपा रमन्ताम् अग्निं गृहपतिम् अभिसंवसानाः" [तै ब्रा ३.७.४.५] इति मन्त्रवर्णाद् अग्निहोत्रे “पशून मे यच्छ” इति [आश्व २.३] गार्हप- त्यप्रार्थनाविधानाच्च पशूनाम् आधिपत्यं तस्य सिद्धम् । अतः गार्हपत्योग्निः पशून् पालयतु चोरादिभयेभ्यः । औदुम्बरः उदुम्बरविकारो वृषा अभि- मतफलवर्षको मणिः पुष्ट्या पोषे3ण शरीराभिवृद्धया आ सर्वतः सं सृ- जतु । पशूनां पुष्टिं करोत्वित्यर्थः । “ऊर्ग् वा उदुम्बरः” इति श्रुतेः [तै सं०२.१.१.६] अन्नरूपत्वात् पोषकत्वं तस्य युक्तम् ॥ तृतीया ॥ करीषिणीं फलवती स्वधामिरां च नो गृहे । १ D सुजतु पुष्टया changed to सृजनु पुष्टया. K KV,सृजतु पुष्टया. पुष्टया I. ITc with ABCDRŠC Pj. Prei. We with Ñ J. < स भवेत् । 18 प्रापण. 28 सत्यं for सह. 38 पोषण. ३९६ अथर्वसंहिताभाष्ये औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥ ३ ॥ करीषिणीम् । फलंऽवतीम् । स्वधाम् । इराम् । च । नः । गृहे। औदुम्बरस्य । तेजसा । धाता । पुष्टिम् । दधातु । मे ॥ ३ ॥ करीषिणीम् करीषो गवां शकृत् । प्रभूतेन करीषेण तद्वतीम् । अ- नेन गवां समृद्धिरुक्ता भवति तदभावे करीषाभावात् । तादृशीं स्व- धाम् । अन्ननामैतत् । स्वस्मिन् धीयत इति व्युत्पत्तेः । व्रीहियवादिल- क्षणम् अन्नं फलवतीम् प्रकृष्टेन फलेन उपेताम् इरां च भूमिमपि । अ- थवा इरा इला गौः । जात्येकवचनम् । गावः । अत्र करीषिणी् फ- लवतीम् इति विशेषणड्वयं स्वधाम् इरां च उभयमपि विशिनष्टि । उ- भयत्रापि संबन्धयोग्यतासंभवात् । नः अस्माकं गृहे । करत इति संब- न्धः । औदुम्बरस्य उदुम्बरविकारस्य मणेस्तेजसा सामर्थ्येन धाता सर्व- स्य विधाता एवंनामको देवः पुष्टिम्1 शरीरादिपोषं मे मम दधातु स्था- पयतु । करोत्वित्यर्थः ॥ चतुर्थी ॥ यद् द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः । गृह्णे ३हं त्वेषां भूमानं बिभ्रदौदुम्बरं मणिम् ॥ ४ ॥ यत् । विऽपात् । च । चर्तुःपात् । च । यानि । अन्नानि । ये। रसाः। गृहे । अहम्।तु। एषाम् । भूमानम्। बिभ्रत् । औदुम्बरम्। मणिम्॥४॥ द्विपात् पादद्वयोपेतं पुरुषादिकं यत् पशुजातम् अस्ति । यच्च चतुष्पात् पादचतुष्टयोपेतं गवादिकम् अस्ति । उभयत्र “संख्यासुपूर्वस्य" १ B औदम्बर. २K KV पुष्टिं दधातु मे. Dc पुष्टि to changed to पुष्टिं द°. We with CDRSC Dà. Wc with ACKİRŠ V De Cs. YSD यान्यन्नानि ये रसा. Cs [यान्यन्यानि ये रसा. R यान्यन्यानि ये रसा. We with A BC DEkv. ५० RSC lave no kampa-figure. We with ACKKV De. KË Vader. De feit changed to thi. We with A B CDRŠC. P Þomit the avagraha. We with <J tat changed to tent: l. We with PB. SP Jatai. We with 8. 13 मे पुष्टिं for पुष्टिम्, unnecessarily repcating मे when मे मम follows °दिपोष. J. [अ॰४. सू०३१.] ५७५ एकोनविंशं काण्डम् । ३९७ इति पादस्य लोपः समासान्तः । “ड्ढित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ" इति द्विपाच्छब्दस्य अन्तोदात्तत्वम् । चतुष्पाद् इति । बहुप्रीही पूर्वपदप्रकृ- तिस्वरत्वम् । यानि च अन्नानि तिलमाषबीहियवप्रियङ्ग्वादीनि ग्रा- म्याणि अन्नानि । 1यानि च अरण्यजानि अन्नानि ये च रसाः दधि- क्षीरमधुगुडादिरूपाः सन्ति 2एषाम् उक्तानां सर्वेषां भूमानम् बहुभा- वम्। बहुशब्दाद् इमनिचि “बहोर्लोपो भू च बहोः” इति इ. मनिच आदिलोपो बहोर्भूभावश्च । औदुम्बरं मणिं बिभ्रद् अहं गृहे स्वीकरोमि भजामि ॥

पञ्चमी॥ पुष्टिं पशूना परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यमि । पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यच्छात् ॥ ५ ॥ पुष्टिम् । पशूनाम् । परि । जग्रभ । अहम् । चतुःऽपदाम् । द्विऽपदाम् । यत् । च । धान्यमि। पयः । पशूनाम् । रसम् । ओषधीनाम् । बृहस्पतिः । सविता । मे। नि। यच्छात् ॥५॥ अहं पशूनां विपदां चतुष्पदां च यच धान्यम व्रीहियवादिरूपं तस्या- पि पुष्टिम् पोषं परि जग्रभ परिग्रहं करोमि । ग्रहेश्छान्दसे लि- टि उत्तमैकवचने णलि णलुत्तमो वा" इति णित्त्वस्य विकल्पितत्वाद् वृद्धयभावः । किं च सविता सर्वस्व अनुज्ञाता बृहस्पतिर्देवः पशू- नाम् गोमहिष्यादीनां पयः तथा ओषधीनाम् व्रीह्यादीनां रसम् सार-3 भूतम् अंशं मे मह्यं नि यच्छात् । औदुम्बरस्य तेजसा इति शेषः । प्रय- च्छतु। यम उपरमे । लेटि “इषुगमियमां छः" इति छादेशः । आडागमः ॥ १P पुष्टिम् ।. We with PI. २ P°पादाम् ।। 18 याणि यानि for यानि. 25 तेषाम्. 35 सारभूतभूततमंशं for सारभूतम् अंशं. <3 ३९८ अथर्वसंहिताभाष्ये षष्ठी॥ अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु । मयमौदुम्बरो मणिर्द्रविणानि नि यच्छतु ॥ ६ ॥ अहम् । पशूनाम् । अधिडपाः । असानि । मयि । पुष्टम् । पुष्टपतिः। दधातु। << मह्यम् । औदुम्बरः । मणिः । द्रविणानि । नि । यच्छतु ॥ ६ ॥ 'मह्यमौदुम्बरः” इति अर्धर्चः उत्तरमन्त्रे वा द्रष्टव्यः । अहं पुष्टि- कामः पशूनाम् द्विपदां चतु1ष्पदां च अधिपाः अधिष्ठाय पालकः स्वामी असानि भवानि । अधिपूर्वात् पातेर्विच् । असानीति । अस्ते- र्लोटि "आडुत्तमस्य पिञ्च" इति आडागमः । तदर्थं मयि पुष्टि- कामे पुष्ट2म् पोषं पश्वादेः समृद्धि3म् । " नपुंसके भावे क्तः" इति क्तः। तत् पुष्टपतिः पश्वादिपोषस्वामी औदुम्बरो मणिः दधातु प्रयच्छतु । एवं मह्यम् औदुम्बरो मणिः द्रविणानि हिरण्यानि नि य- च्छत्तु नियमयतु प्रयच्छतु ॥ सप्तमी ॥ उप मौदुम्बरो मणिः प्रजया च धनेन च । इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा ॥ ७ ॥ उप । मा । औदुम्बरः । मणिः । प्रऽजया । च । धनेन । च । इन्द्रेण । जिन्वितः । मणिः । आ।मा। अगन् । सह । वर्चसा ॥७॥ मा माम् औदुम्बरो मणिः प्रजया पुत्रपौत्रादिरूपया च धनेन हि- रण्यादिलक्षणेन गवादिरूपेण च सह उप । उपसर्गश्रुतेः साम- र्थ्याद् आगन्निति आकृष्यते । आगमत् । एवं स मणिः इन्द्रेण १ A B C D E K R DOC असानि. PPJ असानि ।. We with s. TABR उप- मौदु. D उपमौदु. D उपमोदु We with c K KSV Cr. ABCDKKRŠV De Cs fotranit. PŮJ foraatit. We with Sâynna, and the accents accordingly. 15' यश्चतुष्पदां. पुष्टिम्, though the text in s is पुष्टं. 38 समृद्धम्. [अ॰ ४. सू°३१.] ५७५ एकोनविंशं काण्डम् । ३९९ जिन्वितः प्रीणितः प्रेरितः वर्चसा अस्मदभिमतेन तेजोविशेषेण सह मा माम आगन् आगमत् । जिन्वित इति । इवि जिवि धिवि प्री- णनार्थाः । धातूपदेशावस्थायामेव नुमागमः । कर्मणि निष्ठायाम् इडा- गमः । इदित्वाद् नकारलोपाभावः । अगन्निति । गमेर्लुङि मन्त्र्ये घस." इति श्लेर्लुक् । “मो नो धातोः" इति नत्वम् ५ ॥ अष्टमी॥ देवो मणिः संपत्नहा धनसा धनसातये। पशोरन्नस्य भूमानं गवां स्फातिं नि यच्छतु ॥४॥ देवः । मणिः । सपत्नऽहा । धनऽसाः। धनऽसातये । पशोः । अन्नस्य । भूमानम् । गाम् । स्फातिम् । नि। यच्छतु ॥६॥ देवः द्योतमानो मणिः औदुम्बरः । पुष्ट्यर्थ देवैर्निर्मितत्वाद् देव इ- त्युच्यते । तादृशो मणिः सपत्नहा सपत्नानां हन्ता तथा धनाः धना- नाम् अस्मदभिलषितानां साता दाता । वन पण संभक्तौ । "जनसनखनक्रमगमो विट्" । “विड्वनोरनुनासिकस्यात्" इति आ- त्त्वं। एवंरूपो मणिः धनसातये धनानां लाभाय भवतु। नसनखना1 सन्झलोः” इति आत्त्वम् । किं च पशोः अन्नस्य च भूमानम् बहुभावं समृद्धिं नि यच्छतु । तथा गवां स्फातिम् अभि- वृद्धिं च नि यच्छतु2 । यद्यपि पशुभूम्नैव गोस्फातिरप्युक्ता तथापि ग- वाम् अतिशयेनोपयोगात् प्राधान्याय पुनरभिधानम् । “देवा वा ऊर्जं व्यभजन्त । तत उदुम्बर उदतिष्ठत्" इति श्रुतेः [तै ब्रा० १.१.३.१०] ऊक्सबन्धाद् अन्नसमृद्धिकारकत्वम् ॥ A B C DR S गयां स्फातिनि. D. गवां स्फातिनि correctert i) गयो स्फ़ातिं नि. kv Tai tanfos with Sayana, retaining the accents of the ass. We with D: J anul Sayann as regards the case and De P as to accents. PÞJ NATI. P qen: i. We with BJ. ४ P स्फातिः। स्फातिः ।. J स्फातिम् । changeel to स्फातिः ।. 18 धनसा for धनसाः, 23 यच्छति. ४०० अथर्वसंहिताभाष्ये नवमी॥ यथाग्रे त्वं वनस्पते पुष्टया सह जज्ञिषे । एवा धनस्य मे स्फातिमा दधातु सरस्वती ॥ ९ ॥ यथा । अग्रे। त्वम् । वनस्पते । पुष्टया । सह । जज्ञिषे । एव । धनस्य । मे । स्फातिम् । आ। दधातु । सरस्वती ॥ ९ ॥ हे वनस्पते वनस्य पालक औदुम्बरमणे । विकारे प्रकृतिशब्दः । त्वं यथा अग्रे ओषधिवनस्पतिसृष्टिसमये पुष्ट्या पोषेण सह उत्पतिसमय एव जज्ञिषे उत्पन्नोसि एव एवं मे धनस्य स्फातिम् अभिवृद्धिं त्वया साधन- भूतेन सह सरस्वती सरणवती वाग्देवी आ दधातु करोतु । आ- ̽र्वो दधातिः करोत्यर्थे वर्तते । एवा धनस्येत्यत्र "निपातस्य च” इति सांहितिको दीर्घः ॥ दशमी॥ आ मे धनं सरस्वती पयस्फातिं च धान्यम् । सिनीवाल्युपा वहादयं चौदुम्बरो मणिः ॥ १० ॥ आ। मे। धनम् । सरस्वती । पर्यःऽस्फातिम् । च । धान्यम् । सिनीवाली। उप । वहात् । अयम् । च । औदुम्बरः । मणिः॥१०॥ सरस्वती देवी मे मम धनम् हिरण्यादिलक्षणं पयस्फातिम् पयसोऽभि- वृद्धिं च । अनेन पयसोऽभिवृद्धिप्रार्थनेन गोसमृद्धिः प्रार्थिता भवति । तथा धान्यं च । व्रीहियवादीनाम् ओषधीनां फलानि धान्यानि । अत्र जातावेकवचनम् । आ इति उपसर्गश्रुतेः वहत्विति योग्यक्रियाध्या- हारः। एवं सिनीवाली देवता च । "दृष्ठचन्द्रा सिनीवाली न- १ Kkv वनस्पते पुष्टया. पुष्टया । De वनस्पते पुष्टया changed to वनस्पते पुष्टया. We with A CDRŠC: PJ. TAŚCDKKR V De Cs in PJ sfont IWe with #. A B C DRS मे स्फातिमा. De मे स्फातिमा changed to मे स्फातिमा. P स्फातिम् ।. J स्फातिम् ।. We with kv PDc. ४ A B ल्युप. corrected from °ल्यु- ५PJ अवहात् ।। पा. [अ°४. सू०३१.] ५७५ एकोनविंशं काण्डम् । ४०१ चन्द्रा कुहूर्मता" इति श्रुतेः दृष्टचन्द्रामावास्याभिमानिदेवता सिनी- वाली । सा च धनादिकम् उपा वहात् । अयं धार्यमाण औदुम्बरो मणिश्च उप वहात् उपावहतु प्रापयतु । वह् प्रापणे । लेटि आ- डागमः ॥ अथ वा सरस्वती मे धनम् हिरण्यरजतमणिमुक्तादि- लक्षणं हस्तेन धारणयोग्यम् आ गमयतु । पयस्फातिं धान्यं च सिनी- वाली औदुम्बरो मणिश्च उपा1 वहात् समीपदेशं प्रापयतु इति व्यवस्था ॥ एकादशी ॥ त्वं मणीनामधिपा वृषासि त्वयि पुष्टं पुष्टपतिर्जजान । त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वमस्मत् संहस्वारादरातिम- मतिं क्षुधं च ॥११॥ त्वम् । मणीनाम् । अधिऽपाः । वृषा । असि । त्वयि । पुष्टम् । पुष्टऽपतिः । जजान। त्वयि । इमे इति । वाजाः । द्रविणानि । सर्वा । औदुम्बरः । सः । त्वम् । अस्मत् । सहस्व । आरात् । अतिम् । अमतिम् । क्षुधम् । च ॥११॥ हे औदुम्बर मणे त्वं मणीनाम् इतरेषां रक्षासमृद्धिजयादिसाधनानां दर्भादिनिर्मितानाम् अधिपः2 स्वामी वृषा अभिमतफलवर्षिता च असि । अधिपत्वे कारणम् आह । यतः त्वयि पुष्टम् गवाश्वादीनां सर्वेषां पोषं पुष्ट3पतिः सर्वपदार्थपोषकर्ता4 प्रजापतिः जजान् उदपादयद् अकरोत् । अतः मणीनाम् अधिपो वृषा चासि । अस्तु किं तत इत्यत आह । त्वयां सर्वसमृद्ध्यास्पदभूतेन मे मह्यं वाजाः अन्नं वै वाजः इति ? Datsus ferontº. Sarsat afattº. Cs atst. We with ABKÅR VDE. A BD. We with CRR Š V De Cs. ABCD ÄR ŠDe Cs PP oferte मृतं. PPJ अमृतम् ।. We with Sayana, and the accents accordingly. V तिममितं, an instance of both wrong borrowing and wrong retention of the old accent. J वाजा। 1 So S. 2 S' Sảyana's text, however, exhibits i NT. 38 पुष्टिपतिः. 1S inserts त्वा after °कर्ता. CG 99 YPP ४०२ अथर्वसंहिताभाष्ये [सं० ५. ४. ६.६] श्रुतेः बहुविधानि अन्नानि सर्वा सर्वाणि द्रवि- णानि द्रावयितव्यानि हिरण्यरजतादीनि । सर्वशब्देन मणिमुक्ताप्रवाला- दिलक्षणानि परिगृह्यते । संभवन्तु इति शेषः । हे औदुम्बर स तादृशः वाजद्रविणादिसाधकस्त्वम् अस्मत् अस्मत्तः सहस्व अभिभव अपगमय । अभिभाव्यानि कानीत्याकाङ्क्षायाम् उच्यते आराद् अरातिम् इति । आ- रात अत्यन्तं दूर एव अरातिम् अदानम् अलाभम अमतिम् दारिद्र्यं मत्यभावं बुद्धिभ्रंशं वा क्षुधम् अशनाभावम् एतत् सर्वम् अस्मत् आरा- देव सहस्व ॥ द्वादशी ॥ ग्रामणीरसि ग्रामणीरूत्थायाभिषिक्तोडभि मा सिञ्च वर्चसा । तेजोसि तेजो मयि धारयाधि रयिरसि रयिं मे धेहि ॥ १२ ॥ ग्रामऽनीः । असि । ग्रामऽनीः । उत्थाय । अभिऽसिक्तः । अभि । मा। सिञ्च। वर्चसा। तेजः । असि । तेजः । मयि । धारय । अधि । रयिः । असि । रयिम् । मे । धेहि ॥ १२॥ हे औदुम्बर त्वं ग्रामणीरसि । ग्रामं नयतीति ग्रामणीः ग्रामस्वामी । स यथा प्रधानभूतः एवं त्वं सर्वेषां मणीनां प्रधानभूतोसि । अतः अ- स्माकमपि ग्रामणीर्भव । अभिमतफलप्रापको भवेत्यर्थः । अथ वा मा- ? A sprutar'. De repently changed to open tº BC pretgrº. DRS रुत्थ्याया. kV रुक्थ्योया . Cs रुत्थ्याया. P" उच्छ्याय ।. J उत्थ्याय changed to TOT I. In all the MSS. there is conlyful between 74 and 735. Sayaņa's text reads : °णीछाया for °णीरुत्थाया', dropping the रु. May he have read उच्छ्राय ? (Hri मां श्रेष्ठं कुरु). उच्छ्राय (for उच्छ्य) may be a better and less difficult realing tium rurat, unless the latter can be taken to mean srity. We with $C. PAD Ř Š V Dema. We with BCR C. So all our MSS. and Vaidikas. But the want of two syllables in the fourth pâda woukl suggest (the Sarrânukramanila moles: पुष्टिं पशूनां ग्रामणीरसि त्रिष्टुभौ,) that धारयाध्यधिरयिरसि रयिं मै धेहि may have heen the original readiny. ४PPJ ग्रामणीः। says [अ०४. सू०३१.] ५७५ एकोनविंशं काण्डम्। ४०३ मपि श्रेष्ठं कुरु । त्वं वर्चसा अभिषिक्तोसि अभित आच्छन्नोसि । [मा] मामपि वर्चसा अभि षिञ्च अभिषिक्तं कुरु । हे मणे त्वं तेजोसि सा- क्षात् तेजोरूपोसि अतः मयि तेजो धारय । किं च त्वम अधिरयिः अधिगतरयिः प्राप्तधनः असि । रयिं मे धेहि स्थापय प्रयच्छ । रयि- र्धनम्। रातेर्दानकर्मणः [नि० ४.१७] x ॥ [त्रयोदशी चतुर्दश्यौ] ॥ पुष्टिरसि पुष्ट्या मा समड्धि गृहमेधी गृहपतिं मा कृणु । औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यच्छ रायस्पो. पाय प्रति मुञ्चे अहं त्वाम् ॥ १३ ॥ पुष्टिः । असि । पुष्ट्या । मा । सम् । अङ्घि । गृहमेधी । गृहऽप॑तिम् । मा। कृणु। औदुम्बरः । सः । त्वम् । अस्मासु । धेहि । रयिम् । च । नः । सर्वेऽवी- रम्। नि । यच्छ । रायः । पोषाय । प्रति । मुञ्चे। अहम् । वाम् ॥१३॥ अयमौदुम्बरो मणिर्वीरो वीराय बध्यते । स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यच्छात् ॥१४॥ अयम् । औदुम्बरः । मणिः । वीरः । वीराय । बध्यते । सः । नः । सनिम् । मधुऽमतीम् । कृणोतु । रयिम् । च । नः । सर्वेऽवी- रम् । नि । यच्छति ॥ १४ ॥ त्रयोदशी ॥ हे मणे त्वं साक्षात् [पुष्टिः] पुष्टिरूपोसि । अतः पुष्टया पोषेण मा मां समङ्घि सम्यग् अक्तं कुरु । समृद्धं कुरु । तथा गृ- हमेधी त्वम असि । मा मां गृहपतिम् धनकनकादिसमृद्धस्य गृहस्य1

  • KRV De B groepe geat. We with A B CDRŠC P J.

२ BC R समि- न्धि. PF J सम् । धि।. We with D ksv Do Cs. ३ A BD $ सत्वमस्मा . We with CKÄRV De Cs. ४Kkv स नः सनि. De स नः सनि changed to स नः for. We with ABCDRŠC. 13 has सर्वदा गृहस्य for गृहस्य. " ४०४ अथर्वसंहिताभाष्ये स्वामिनं सोमयागादिकर्मानुष्ठातारं वा कृणु कुरु । हे औदुम्बरं मणे स तादृशः उक्तविधनानाधर्मोपेतस्त्वम्1 त्वयि विद्यमाना [ये] ग्रामणी- त्ववर्चस्वित्वतेजोरूपात्वाधिरयित्वादयो धर्माः सनि तान् सर्वान् अस्मासु धेहि स्थापय । किं च नः अस्माकं सर्ववीरम् सर्वे वीराः पुत्रभृत्या- दयो यस्यां रय्यां तुष्यन्ति तादृशं रयिम् धनं च नि यच्छ प्रयच्छ । यद्वा सर्ववीरं यथा भवति तथा रयिं प्रयच्छेत्यर्थः ॥ चतुर्दशी ॥ हे मणे अहं धनादिपुष्टिकामस्वां रायस्पोषाय धनानां पुष्ट्यै । “षष्ठ्याः पतिपुत्र' इत्यादिना सत्वम्3 । प्रति मुञ्चे बध्नामि । प्रतिमोको बन्धनम् । “रुक्मम् अन्तरं प्रति मुञ्चते' इत्यादिश्रुतेः [सं० ५.१.१०.३] । एतदेव परोक्षेण पुनरभिधीयते फलान्तरसंबन्धाय । [अयं] वीरः विविधम् ईरयति अमित्रान् इति वीरः । तादृश औदुम्बरो मणिः वीराय4 वीरत्वाय यथा स्वयं वीरो भ- वति तथाभावाय बध्यते । स तादृशो मणिः नः अस्माकं मधुमतीम् । मधुवद् उपयुज्यमानत्वं मधुशब्देन उच्यते । तद्वतीं सनिम् धनादिलब्धिं कृणोतु करोतु । तथा नः अस्माकं रयिं च सर्ववीरं यथा भवति तथा । अतिप्रभूतम्5 इत्यर्थः । यद्वा पुत्रादयो वीराः । तैः सहितं यथा भवति तथा रयिं नि यच्छात् पुत्रादीन् रयिं च नियच्छत्वित्यर्थः ॥ [इति ] चतुर्थेनुवाके पञ्चमं सूक्तम् ॥ 'शतकाण्डो दुश्चयवनः" इत्यादिकं षष्ठं सूक्तम् । तस्य “याम्यां यमभये" [नक°१७.] इति विहितायां याम्याख्यायां महाशानौ द- र्भमणिबन्धनं कुर्यात् । सूत्रितं हि नक्षत्रकल्पे । “नेच्छत्रुरिति[२.२७] 'पाठामूलम् अपराजितायाम् शतकाण्डो दुश्च्यवनः [१९.३२] इति दर्भ- "मणिं याम्याम्6" इति [नक०१९.] ॥ 1S inserts an अस्मास्वपि after त्वम्.28 रयिः for यद्वा. 38 inserts car again after सत्वम्. 4 For वीरः ..... धीराय 3' has : वीरः औदुंबरो मणिराय विविधमीरयति अमित्रानिति वीरः । तादृशोमणिवीराय. 58 अतिप्रभूताम् for अतिप्रभूतम्, Nakshatra-kelya has : याम्यायाम् for याम्याम्. 6 The [अ०४. सू°३२.] ५७६ एकोनविंशं काण्डम् । ४०५ तत्र प्रथमा ॥ शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः । दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥१॥ शतऽकाण्डः । दुःऽच्यवनः । सहस्रऽपर्णः । उत्ऽत्तिरः । दुर्भः । यः । उग्रः । ओषधिः । तम् । ते । बध्नामि । आयुषे ॥१॥ अनेन दर्भस्य मणिसाधनभूतस्य स्वरूपाधानपूर्वकं मृत्युभयपरिहाराय मणिरूपेण बन्धनम् अभिधीयते । शतकाण्डः । शतशब्दः अपरिमितवच- नः । अनेकैः काण्डैः पर्वभिर्युक्तः । दश दशतः परिमाणम् अस्येति दशानां शभावः तश्च प्रत्ययो निपातितः ।दुश्च्यवनः। च्युञ् प्रुङ् गतौ । “छन्दसि गत्यर्थेभ्यः” इति युच् । दुःखेन1 च्याव- नीयः न केनापि च्याव्यः सहस्रपर्णः अनेकैः पत्रैर्युक्तः । उत्तरमन्त्रे अ- च्छिन्नपर्णेन दर्भेणेति पर्णानाम् आवश्यकत्वाभिधानाद् अत्र सहस्रपर्ण इति विशेषितः । उत्तरः उत्कृष्टतरः सर्वेषामप्योषधीनां मध्ये अतिशयि- तवीर्यः। उदः सुबन्तत्वात् तरप् । अस्य तथात्वम् उत्त- रत्र दर्शयिष्यते । एवंलक्षणं उग्रः उद्भूर्णबलः ओषधिः ओषधिविशेष इति विशेषितरूपो यो दर्भः तेन2 दर्भेण हे मृत्युभयार्दित पुरुष त्वां ब- बध्नामि बन्धनं करोमि । किमर्थम् । आयुषे शतसंवत्सरलक्षणायुरर्थम् ॥ द्वितीया ॥ नास्य केशात् प्र वपन्ति नोरसि ताडमा घ्नते । यस्मा अच्छिन्नपर्णेन दर्भेण शर्म यच्छति ॥ २ ॥ { ADRCs Tuni. De quan: corrected to genaai. Wo wich BCKÄÄ Y. २ KV°पर्ण उत्तरः with Satyana. PP उत्ऽतिरः।. R उत्तिरः changeel from उत्तरः, and J atsfatt: I changed from gąszt: l. We with ABCDËRS De Cs. स्तत्ते. De °स्त ते changed to °स्तत्ते. P तम् । correcteel to तत् ।. PJ तम् ।. We willn BCDRS. XA ŚCDRS archer atº. De arcper are corrected into aitle are. JI. We with R V C:Pr. Such is the necent of all our authoritics in- cluding PÅ J. 18 inserts an उत्तरः before दुःखेन. 2S inserts यो दर्भः after एवंलक्षणः though it has at : further down. तवीर्यः । KV " ४०६ अथर्वसंहिताभाष्ये न । अस्य । केशान् । प्र। वपन्ति । न । उरसि । ताडम् ।आ।प्रते। यस्मै । अच्छिन्नऽपर्णेन । दर्भेण । शर्म । यच्छति ॥२॥ अस्य केशान् शिरोरुहान् [न] प्रवपन्ति [न] आकर्षन्ति मृत्युदूताः रक्षः- पिशाचाद्या वा । तथा अमुम् उरसिताडम् उरस्ताडयित्वा न आ प्रते न हिंसन्ति मृत्युदूताद्याः ।"हिंसार्थानां च 1समानकर्मकाणाम्"1 इति तृतीयान्त उपपदे2 विहितो णमुल् सप्तम्युपपदेपि व्यत्ययेन निष्पन्नः । 'तत्पुरुषे कृति बहुलम्" इति अर्लुक्3 । आ घ्नते इति । “आङो यमहनः इति अस्वाङ्गकर्मकेपि आत्मनेपदम् । अस्येति उक्तं कस्य इत्यत आह । 4यस्मै मृत्युभयार्दिताय पुरुषाय अच्छिन्नपर्णेन दर्भे- ण दर्भमणिबन्धनं कृत्वा शर्म सुखं यच्छति प्रयोक्ता । अस्येति पूर्वत्र संबन्धः ॥ तृतीया॥ दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः । त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे ॥ ३ ॥ दिवि । ते । तूलम् । ओषधे । पृथिव्याम् । असि । निऽस्थितः । त्वया । सहस्रऽकाण्डेन । आयुः । प्र। वर्धयामहे ॥३॥ हे ओषधे शतकाण्डाह्व ते तव तूलम अग्रं दिवि धुलोके । ताव- त्पर्यन्नं तवोर्ध्वाभिवृद्धिरित्यर्थः । पृथिव्याम् भूम्यां कृत्स्नेनात्मना वि- ष्ठितः विविधम् अवस्थितः असि । सर्वां पृथिवीम् आक्रम्य अवस्थित इत्यर्थः । एवं द्यावापृथिवीव्यापिना 5त्वया सहस्रकाण्डेन अनेककाण्डोपे- तेन अस्य मृत्युभीतस्य आयुः प्र वर्धयामहे प्रकर्षेण अभिवृद्धिं कुर्मः ॥ चतुर्थी ॥ तिस्रो दिवो अत्यतृणत् तिस्र इमाः पृथिवीरुत । 18 मणि विभ्रतः पुरुषस्य after कर्मकाणाम्" इति. 28 उपपदेपि. 38 लुक्. अस्मै for यस्मै. 55 तेन for त्वया though Sayana's text hus त्वया. 48 [अ०४. सू०३२.] ५७६ एकोनविंशं काण्डम् । ४०७ त्वयाहं दुर्हार्दो जिह्वां नि तृणद्भि वचासि ॥ ४ ॥ तिस्रः । दिवः । अति । अतृणत् । तिस्रः । इमाः । पृथिवीः । उत । वयो । अहम् । दुःऽहादः । जिह्वाम् । नि। तृणनि । वासि ॥ ४ ॥ हे शतकाण्डाख्यौषधे त्वं तिस्रो दिवः 1त्रिविधान् द्युलोकान् । भोक्तृ- णाम् उत्तममध्यमाधमभेदेन त्रैविध्यात् तद्भोगस्थानस्य धुलोकस्यापि त्रि- त्वम् । एवं वक्ष्यमाणायाः पृथिव्या अपि द्रष्टव्यम् । अत्यंतृ2णः अति- क्रम्य गतवान् असि । वेष्टितवान् असीत्यर्थः । उत अपि च इमाः परिदृश्यमानास्तिस्रः पृथिवीरपि अत्यतृर्णः । एवंमहानुभावेन त्वया दु. र्हार्दः दुर्हृदयस्य शत्रोर्जिह्वां नि तृणद्भि वेष्टयामि । तस्य वचांसि च वे- ष्टयामि बन्धयामि । यस्त्वं3 कृत्स्नां द्यावापृथिवीम् आक्रान्तोसि तादृशेन अतिदीर्घेण त्वया शत्रोर्जिह्वां वाचश्च बध्नामि । ४. उतृदिर् हिंसाना- दरयोः । रौधादिकः । “हल्ड्या" इत्यादिना 5सिपो लोपः ५ ॥ पञ्चमी॥ त्वमसि सहमानोहमस्मि सहस्वान् । उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीमहि ॥ ५ ॥ त्वम् । असि । सहमानः । अहम् । अस्मि । सहस्वान् । उभौ । सहस्वन्तौ । भूत्वा । सऽपत्नान् । सहिषीमहि ॥ ५॥ हे शतकाण्डाख्यौषधे वं सहमानासि शत्रूणां सहनशीला भवसि । अहं च सहस्वान् शत्रुहिंसासाधनबलोपेतः अस्मि । सह इति बलनामसु पाठात् । अतिशयेन शत्रूणां सोढास्मीत्यर्थः । उभौ सहस्वन्तौ सहनधर्म- Such is the reading of all our authorities, though the metre as well as the syntax requires a after quilfr. Sayana's commentary scelus to read it though Juis text omits it like our anthorities. * P façat: 1. We with. Ď J. Piaforumet i.

  • D°मानोयम

18 विविधान्. 2 Sayana's text too अत्यतृणस्तित्र &c. 38 यतस्त्वं for यस्त्वं. 4 All this grammatical note is given in S' at the end of the commentary on the previous verse, i.e. after कुर्मः instead of here. 38 सिचो. 6 Sảyana's text too: सहमाना. ४०६ ष- अथर्वसंहिताभाष्ये को भूत्वा सपत्नान् अस्मदीयान् शत्रून् सहिषीमहि अभिभवेम । ष- ह मर्षणे । आशीर्लिङि रूपम ॥ षष्ठी ॥ सहस्व नो अभिमातिं सहस्व पृतनायतः । सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि ॥ ६ ॥ सहस्व । नः । अभिऽमातिम् । सहस्व । पृतनाऽयतः । सहस्व । सर्वान् । दुःऽहार्दैः । सुऽहादः । मे। बहून् । कृधि ॥ ६॥ हे शतकाण्डौषधे नः अस्माकम् अभिमातिम् 1अभिहिंसकं शत्रु पापं वा । “पाप्मा वा अभिमातिः” इति श्रुतेः [तै सं० २.१.३.५] । सहस्व अभिभव । तथा [पृतनायतः] पृतन्यतः पृतना सेना ताम् आत्मन इच्छतः । मया सह योद्धुम् इति शेषः । 2तांश्च सहस्व अभिभव । किं बहुना । सर्वान दुर्हार्दः दुह्रदयान् सहस्व । एवं कृत्वा3 मे सुहार्दः सु- हृदयान् बहून कृधि कृणु । सर्वान मयि अनुकूलान् कृधीत्यर्थः ॥ सप्तमी॥ दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित् । तेनाहं शश्वतो जनाँ असनं सनवानि च ॥ ७ ॥ दर्भेणं । देवऽजातेन । दिवि । स्तम्भेन । शश्वत । इत् । तेन । अहम् । शश्वतः । जनान् । असनम् । सनवानि । च ॥७॥ देवजातेन देवेभ्यः सकाशाद् उत्पन्नेन दिविष्टम्भेन द्युलोकस्य अधः- पाताभावाय स्तम्भकेन धुलोकस्य स्तम्भभूतेन वा एवंविधेन तेन दर्भेण १ AC D k RV Dc वहुं . बहु है. PJ बहुम् ।. B and V with Sayana. We with Sayapa. २ A BCD R SOs देवजातेन. D देवजातेन corrected to देषजतिन. PJ oprati, We with KÊVÉ. CDKRŠ V Car . PPJ: 1. We. ४ A B C D K K असना. V असनाम्स. 3 असनात्स, Dc असनात्स'. PPJ असनाम् ।. Siyana's text: जनानसनं सनवानि च. We with R.Cs. 18' अहिंसकं. 28 तंच. with AB. 35 कृता. [अ०४. सू°३२.] ५७६ एकोनविंशं काण्डम् । ४०९ शश्वदित् सर्वदा अहं शश्वतः नित्यान् दीर्घजीविनो जनान् [असनम् अ- लभे अपि च सनवानि] लभे। षणु दाने । तानादिकः । लोटि "आडुत्तमस्य पिञ्च" इति आडागमः ॥ अष्टमी ॥ प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च । यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥ ५ ॥ प्रियम् । मा। दर्भ । कृणु । ब्रह्मऽराजन्याभ्याम् । शूद्राय । च । आर्याय । च। यस्मै । च । कामयामहे । सर्वस्मै । च । विऽपश्यते ॥ ४ ॥ हे दर्भ मा मां त्वां धारयमाणं ब्रह्मराजन्याभ्यां ब्राह्मणक्षत्रियाभ्यां व- र्णाभ्यां प्रियं कृणु कुरु । ब्राह्मणानां क्षत्रियाणां च यथाहं प्रियो भ- वामि तथा मां कुर्वित्यर्थः । अनेन तेषां वशीकरणं प्रार्थितं भवति । तथा शूद्राय च आर्याय च । जात्यभिप्रायम् इदम् । शूद्राणाम् आ- र्याणां च मां प्रियभूतं कुरु । किं च अहं यस्मैयस्मै अनुलोमेषु प्रति- लोमेषु च जातीयेषु मध्ये यस्मैयस्मै प्रियभाव2 कामयामहे तस्मै सर्वस्मै विपश्यते पापम् अन्विष्यते पुरुषाय मां प्रियं कुरु ॥ नवमी॥ यो जायमानः पृथिवीमदृंहद् यो अस्तभ्नादन्तरिक्षं दिवं च । यं बिभ्रतं ननु पाप्मा विवेद स नोयं दर्भो वरुणो दिवा कः ॥ ९ ॥ यः । जाय॑मानः । पृथिवीम् । अदृहत् । यः । अस्तनात् । अन्तरिक्षम् । दिवम् । च। १ A अयं for प्रियं. २ Kky राजन्याभ्यौ. We with A B C D R S DOC. AB CDRCs matt. De states corrected to sgara. Ř V with Sayanı. På restieri. J puretl. Wo with $. Cat. We with A B DKKRŠ VDOCS. A CDK RV Cs विपश्यते. Do विपश्यते cinngcal to विपश्यते. विपश्यते, PJ वि। पश्यते ।. fosgezet. A strº. Such is the accent of all our authorities inlculiny PŮJ. 28 विप्रियं nि प्रियं. 1 So S. ४१० अथर्वसंहिताभाष्ये यम् । बिभ्रतम् । ननु । पाप्मा। विवेद । सः। नः । अयम् । दर्भः। वरुणः । दिवा । कः ॥९॥ यो दर्भः शतकाण्डाख्यो जायमानः प्रादुर्भवन्नेव पृथिवीं सर्वाम् अ- दृंहत् दृढां कृतवान् । दह दृहि वृद्धौ । यथा अप्सु वि- लीना [न] भवति तथा स्वमूलेन भुवं दृढां चकारेत्यर्थः । यश्च जा- तमात्रः सन् स्वकाण्डैः अन्तरिक्षम् अन्तरा1 क्षान्तं भवतीति अन्तरि- क्षम् । तच्च दिवम् द्योतमानं धुलोकं च अस्तभ्नात् स्तम्भितवान् । यथा ते न निपतेतां तथा 2तस्तम्भ । यम् उक्तलक्षणं शतकाण्डदर्भ- मणिं बिभ्रतम् धारयन्तं पाप्मा 3ननु विवेद न जानाति । न स्पृशती- त्यर्थः । स तादृशोयं वरुणः अन्धकारनिवारको दर्भो नः अस्माकं दिवा प्रकाशम् अंकः करोतु । ४ लुङि “मन्त्रे घस” इति च्लेर्लुक् । दशमी॥ सपत्नहा शतकाण्डः सहस्वानोषधीनां प्रथमः सं बभूव । स नोयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥ १० ॥ सपत्नऽहा। शतऽकाण्डः । सहस्वान् । ओषधीनाम् । प्रथमः । सम्। बभूव। सः। नः । अयम् । दर्भः। परि । पातु। विश्वतः । तेन । साक्षीय । पृतनाः । पृतन्यतः ॥१०॥ सपत्नहा सपत्नानाम् । सपत्नीवत् सपत्नः । 4एकस्मिन् विषये समानप- तित्वम् इच्छतां शत्रूणां हन्ता शतकाण्डः शतसंख्याकैरनेकैः काण्डैरुपेतः सहस्वान् सहो बलं तद्वान् एवंमहानुभावः ओषधीनाम् इतरासां प्रथमः PV सहस्वाना . A B C D k R DEC सहस्वनी , which shows that the mistak: arne tiron सहस्वानो° being misread into सहस्वानो (सहस्तनौ). The mistake has been perfectuater for ages. २R पृतन्यतः. P पृतन्यतः ।। ३J स्वान् । changeel to F2FT, POETAT I, which would show that the paslas are not vider than the mistake which rent सहस्वानो' into सहस्वानो. 18 अन्तरि. 38 पाप्मानमेव वद for पाप्मा ननु विवेद. 43 कस्मिन् lior एकस्मिन्. 28 स्तंभ. ४११ 9 " <4 [अ°४. सू°३३.] ५७७ एकोनविंशं काण्डम्। मुख्यः1 प्रथमभावी वा । अतिशयितवीर्यत्वात् । प्रथम इति मु. ख्यनाम प्रतमो भवतीति निरुक्तम् [नि०२.२२] । एवंभूतः सन् सं बभूव । स तादृशः संभूतः अयं दर्भो नः अस्मान् विश्वतः सर्वतः सर्वाभ्यो दिग्भ्यस्तज्जन्येभ्यो भयेभ्यः परि पातु परिरक्षतु । तेन दर्भमणिना पृतन्यतः पृतनां सेनाम् इच्छतः शत्रोः पृतनाः सेनाः सा- क्षीय अभिभवानि । ५ पृतन्यत इति । पृतनाशब्दात् क्यचि “क- प्यध्वरपृतनस्यर्चि लोपः” इति आकारलोपः । साक्षीयेति । षह अभि- भवे । अस्मात् लिङि “सिब्बहुलं छन्दसि णित्" इति सिप् । णिङ्व- द्भावाद् उपधावृद्धिः ॥ [इति ] चतुर्थेनुवाके षष्ठं सूक्तम् ॥ सहस्रार्घः शतकाण्डः इति सप्तमं सूक्तम् । अस्य याम्यां महा- शान्तौ दर्भमणिबन्धने विनियोगः पूर्वसूक्तेन सह उक्तः ॥ तत्र प्रथमा। सहस्रार्घः शतकाण्डः पय॑स्वानपामग्निर्वीरुधौ राजसूर्यम् । स नोयं दर्भः परि पातु विश्वतो देवो मणिरायुषा सं सृजाति नः॥१॥ सहस्रऽअर्थः । शतऽकाण्डः । पयस्वान् । अपाम् । अग्निः । वीरुधाम् । राजऽसूयम् । सः। नः। अयम्। दर्भः। परि। पातु । विश्वतः । देवः । मणिः । आयुषा। सम् । सृजाति । नः ॥१॥ सहस्रार्घः बहुमूल्यः शतकाण्डः अनेककाण्डोपेतः । शतम् इति । दश दशतः परिमाणम् अस्येति दशानां शभावः तश्च प्रत्ययो निपातितः । सहस्वान् बलवान् अपाम् उदकानाम् अग्निः अ- ग्निस्थानीयः । “अग्नेरापः” इति श्रुतेः [तै आ°t.१] । अपां स्र- १ A B C D E Cs सहस्रार्घः, D० सहस्रार्थः changed to सहस्रार्घः. PJ सहस्रऽअर्थः ।, We with KKSVB. RC: ogroit. We with ABCDRS V De PÉ J. 18 प्रथममुख्यः for मुख्यः. स ४१२ अथर्वसंहिताभाष्ये ष्टेत्यर्थः । यद्वा अपां शोषको वा । वीरुधाम् लतादीनां राजसूयम् । राजसूयकर्मवत्प्रशस्त इत्यर्थः । यथा राजसूययागः सर्वेषां राज्ञां स्वामिनः सार्वभौमस्य विषयः । यद्वा 1इतरेषां यागानां मध्ये श्रेष्ठत्वात् प्रशस्तः [तथायं] वीरुधां2 मध्ये प्रशस्तभूत इति राजसूयस्थानीयत्वम् । रा- जसूयसूर्य०" इत्यादिना क्यबन्तो राजसूयशब्दो निपातितः । स तादृशः अयं दर्भः नः अस्मान् विश्वतः परि पातु परितो रक्षतु । स देवः देवसृष्टो मणिः नः अस्मान् आयुषा सं सृजाति संसृजेत् ॥ द्वितीया ॥ घृतादुल्लुप्तो मधुमान् पय॑स्वान् भूमिदृंहोच्युतश्च्यावयिष्णुः । नुदन्त्सपत्नानधरांश्च कृण्वन् दर्भा रोह महतामिन्द्रियेण ॥२॥ घृतात् । उत्ऽलुप्तः । मधुऽमान् । पर्यस्वान् । भूमिऽदृंहः । अच्युतः । च्य- वयिष्णुः। नुदन् । सऽपत्नान् । अधरान् । च । कृण्वन् । दर्भ । आ । रोह । मह- ताम् । इन्द्रियेण ॥ २॥ घृतात् आज्यात् हुतशिष्टाद् 3उल्लुप्तः उल्लिप्तः संपातावनयनेन संर्वतो-4 ऽक्तः । 5“आश्यबन्ध्यामवनयानभक्ष्याणि संपातवन्ति" इति [को०१.७] परिभाषितत्वाद् घृताक्तत्वम् । मधुमान् माधुर्योपेतः पयस्वान् प्रभूतक्षीरो भूमिदृंहः भूम्याः स्वमूलैदृढीकर्ता अच्युतः च्युतिर्नाशस्तद्रहितः बहुधा छिन्नस्यापि पुनःप्ररोहदर्शनात् । च्यावयिष्णुः दृढस्यापि शवादेच्यावनशी- लः एवंगुणोपेत [हे दर्भमणे वं सपत्नान् शत्रून नुदन् सुदूरं प्रेरयन् १ A °पय २ A R °→होच्युत?. KS होच्युत”. KV हमच्युत'. He with BD Ki Vomit the varga in zaraferer:. We with CDR SDC PÞJ. BC Sony ErWe with ADK KRV DC ५ P कृण्वत् । J chunge- कृण्वन् । १० कृण्वत् ।. We with p. 18 दितरपां. 28 वीरुधामाप्रशस्त वीरुधांमध्ये प्रशस्त. 33 हुतशिष्टादुर्लुप्तः. Saiyana's text also तादुर्लुप्तो. 45 सर्वतोप्तः. 58 आश्यबंध्ययायानि for आश्यब- न्ध्या वनयानभक्ष्याणि. KDC. [अ०४. सू०३३.] ५७७ एकोनविंशं काण्डम् । ४१३ ताने1व अधरान् निकृष्टान् बलहीनांश्च कृण्वन् कुर्वन् महताम् महत्त्वो- पेतानाम् अतिशयितवीर्याणाम् अन्येषाम् ओषधीनाम् इन्द्रियेण इन्द्रसृ- ष्टेन सामर्थ्येन सहितः सन् आ रोह भुजादिप्रदेशम् अधितिष्ठ ॥ तृतीया ॥ त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे । त्वां पवित्रमृषयोभरन्त त्वं पुनीहि दुरितान्यस्मत् ॥ ३ ॥ त्वम् । भूमिम् । अति । एषि । ओज॑सा । त्वम् । वेद्याम् । सीदसि । चारूः। अध्वरे। त्वाम्। पवित्रम्।ऋषयः । अभरन्त । त्वम्। पुनीहि। दुःऽइतानि। अस्मत्॥३॥ हे मणिभूत दर्भ त्वम् ओजसा बलेन भूमिम् अत्येषि अतिगच्छ- सि । तथा चारुस्त्वम्2 अध्वरे ध्वरो हिंसा तद्रहितः अध्वरो यागः । न हि यागं कुर्वन् विनश्यति स्वर्गादिफलसाधनत्वात् । तस्मिन् वेद्यां सीदसि निषण्णो भवसि हविरासादनार्थम् । किं च पवित्रम् शोधकं त्वाम् । “पवित्रं वै दर्भाः । पुनात्येवैनम्” इति श्रुतेः [तै ब्रा० १.३. ७.१] । ऋषयः अतीन्द्रियद्रष्टारः स्वपावनार्थम् अभरन्त आहृतवन्तः । यस्माद् एवं तस्मात् वं दुरितानि दुष्कृतानि अस्मत् अस्मत्तः सकाशात् पुनीहि पावय च्यावय ॥ चतुर्थी ॥ तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः । ओजो देवानां बलमुग्रमेतत् तं ते बध्नामि जरसे स्वस्तये ॥ ४ ॥ तीक्ष्णः । राजा । विऽससहिः । रक्षःऽहा । विश्वऽचर्षणिः । ओजः । देवानाम् । बलम् । उग्रम् । एतत् । तम् । ते । बध्नामि । जरसे। स्वस्तये ॥४॥ १ A Bck R VDC Cs °मृषयोभरतस्त्वं पु. D मृषयोभरतःस्त्वपु. मृषयोभरतस्वं . PPJ HTA: 1. We with Sayana's text and commentary, and accent accordingly. २P ऊर्जः। 18 तामेव, त्वम् for चारुस्त्वम्. ४१४ अथर्वसंहिताभाष्ये तीक्ष्णः अतिनिशितशक्तिः । यस्मै प्रयोजनाय प्रयुज्यते तस्य आशु- कारीत्यर्थः । राजा सर्वासाम् ओषधीनां सर्वेषां मणीनां वा राजव- च्छ्रेष्ठः विषासहिः विशेषेण सोढा शत्रुमर्षकः रक्षोहा राक्षसानां हन्ता विश्वचर्षणिः विश्वद्रष्टा तथा देवानाम् इन्द्रादीनाम् ओजः ओजःस्था- नीयः । तेषाम् असुरसंग्रामे जयप्रदत्वात् । उग्रम् परैरसह्यं बलम् ब- लस्वरूपम् एतत् रक्षासाधनं 1दर्भाख्यं वस्तु । अथ वा एतत् इदानीम् । अत्र बलसाधने मणौ बलत्वव्यवहारः । तं तादृशं मणिं ते हे रक्षा- काम पुरुष तव बध्नामि । किमर्थम् । जरसे जरापरिहारार्थ स्वस्तये क्षेमाय च बध्नामि ॥ पञ्चमी॥ दर्भेण त्वं कृणवद् वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः । अतिष्ठाया वर्चसाधान्यान्त्सूर्य इवा भाहि प्रदिशश्चतस्रः ॥ ५॥ दर्भेण । त्वम् । कृणवत् । वीर्याणि । दर्भम् । बिभ्रत् । आत्मना । मा । व्यथिष्ठाः। अतिऽस्थाय । वर्चसा । अध। अन्यान् । सूर्यःऽइव । आ । भाहि । प्रड- दिशः । चतस्रः ॥ ५॥ हे पुरुष त्वं दर्भेण मणिना 2साधनेन वीर्याणि वीरस्य कर्माणि वी- १ A B C D R S कृणय. J कृणवत् ।. We with k V D• C« P. ABR Csa- चैसैध्यन्या. C वर्चसंध्यन्या. The ध्य in these readings may have lecn a niisrending for an original f, as in most old MSS. the two letters are very similar to cach other. D Kv वर्चसधन्या. 3 वर्चसँधन्या. D वर्चसीधयां correcteel to वर्चसैध्यन्या. Siyana's 1ext: वर्चसौधन्यां. J एद्धि । अन्याम् ।. Pऐधि । अन्याम् ।. Pएधन्याम् corrected from ऐधि । अन्याम् ।. वर्चसा एधि अन्यान् were incaut the Sutinhita-MSS. would have exhibitor TFT, which none of our AISS. read Bexiiles of so usod wonld not be in accordance with its usual use in the Veda: it is usually accompanied by thic predicate in the nominative or the cutive, or is accoupanied by some such adverb as इहैव, सजातैः सह &e; but it is not uscl absolutely us it would be in the present passage. We with Sayana's comincntary, the accents being altered to suit the routing adoptel. 15 दर्भाग्य 28 inserts another त्वं after साधनेन. " [अ०५. सू०३४.] ५७. एकोनविंशं काण्डम् । ४१५ र्याणि शत्रुजयादीनि कृणवत् कुर्याः । अतः दर्भं वीर्यसाधनं विभ्रत् धारयस्त्वम् आत्मना निश्चलेन युक्तः सन्1 । अथवा आत्मना आत्मनि बिभ्रत् मा व्यथिष्ठाः व्यथां मा कुरु । शत्रवः पराभविष्यन्तीत्येवं मनसि व्यथां मा कार्षीरित्यर्थः । अथ2 अपि च3 वर्चसा शरीरबलेन अन्यान् अधिष्ठाय सूर्य इव स यथा लोकान् स्वतेजसा आलोकेन प्रकाशयति तद्वत् प्रदिशः प्रकृष्टाः प्रागादिचतस्रो दिशः आ भाहि प्रकाशय ॥ चतुर्थेनुवाके सप्तमं सूक्तम् ॥ चतुर्थोनुवाकः समाप्तः ॥ पञ्चमेनुवाके द्वादश सूक्तानि । तत्र “जङ्गिडोसि” इति प्रथमद्विती- याभ्यां सूक्ताभ्यां “वायव्यां वातवात्यायाम' इति [न क° १७.] वि- हितायां वायव्याख्यायां महाशान्तौ जङ्गिडवृक्षनिर्मितं मणिं बध्नीयात् 4। तथा नक्षत्रकल्पे सूत्रितम् । “वाताजातः[ ४.१०] इति शङ्खं वारुण्याम् । जङ्गिडोसि जङ्गिडो रक्षितासि [१९.३४] इति जङ्गिडं वायव्यायाम्" इति [नक° १९.] ॥ तत्र प्रथमा ॥ जङ्गिडो सि जङ्गिडो रक्षितासि जङ्गिडः । द्विपाच्चतुष्पादस्माकं सर्वै रक्षनु जङ्गिडः ॥१॥ जङ्गिडः । असि । जङ्गिडः । रक्षिता । असि । जङ्गिडः । द्विडपात् । चतुःऽपात् । अस्माकम् । सर्वम् । रक्षतु । जङ्गिडः ॥१॥ जङ्गिडो नाम कश्चिद् ओषधिविशेषः । स च उत्तर5देशे प्रसिद्धः । हे जङ्गिड6 मणे जङ्गिडोसि यतो जातानां कृत्यानां कृत्याकृतां च निर्ग-7 रणकर्तासि अतो जङ्गिड इत्युच्यते । तस्मात् जङ्गिडस्त्वं रक्षितासि स- 1S inserts another विभ्रत् after सन्. 25 अथ. 3S inserts अन्यान् after a again. 13 inserts after this: तथा पिलकादिन्वालत्वम् । पूर्ववदस्यस्य सुपो लुगभावश्छांदसः ॥ note which belongs to the comment on the following verse, where see. Ker'a va on Kausikre 1. 8: ATT artroeni Ft. Därilu in the same place; जङ्गिडोर्जुनः । अचल इति दाक्षिणात्याः. 6 Sû yana's text has: zifiratfe siftet farfe जंगिड. 78 निगिरण. 5 Conf. ४१६ अथर्वसंहिताभाष्ये र्वेभ्यो भयेभ्यः पालयिता भवसि । पिच्छादित्वाद् इलच् । यद्वा जङ्गम्यते शत्रून् बाधितुम् इति जङ्गिडः । गमेर्यङ्ज्गन्ताद् रूपसिद्धिः । अथ वा जने1र्जयतेर्वा डप्रत्यये ज इति भवति । जं गिरतीति जङ्गिरः । [कपिलकादित्वाद् लत्वम् । पूर्वपदस्थस्य सुपो लुगभावश्छान्दसः । ] खच् प्रत्ययो वा द्रष्टव्यः ४ ॥ अथ परोक्षम् अभिधीयते । अस्माकं यद् द्विपात् यत् पादद्वयोपेतं मनुष्यादिलक्षणम् अस्ति तथा चतुष्पात् पादचतुष्टयोपेतं गोमहिषादिलक्षणम् अस्ति । उभयत्र “संख्यासु- पूर्वस्य" इति लोपः समासान्तः । तत् सर्वं [जङ्गिडः] जङ्गि- डाख्यो मणी रक्षतु पालयतु ॥ द्वितीया ॥ यो गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये। सर्वान् विनक्तु तेजसोरसां जङ्गिडस्करत् ॥ २ ॥ याः । गुत्स्यः । त्रिऽपञ्चाशीः । शतम् । कृत्याऽकृतः । च । ये। सर्वान् । विनक्तु । तेजसः । अरसान् । जङ्गिडः । करत् ॥ २ ॥ या गृत्स्यः गर्धनशीला यास्त्रिपञ्चाशीः त्र्यधिकपञ्चाशत्संख्याकाः कृत्याः सन्ति। पूरणार्थे डट् । डित्वात् टिलोपः । “टिड्डाणञ्" इति ङीप् । तथा ये शतम् शतसंख्याकाः कृत्याकृतः । कृत्या नाम मृद्दार्वादिना निर्मितपुतल्यादि । तासां] कृत्यानां कर्तारः सन्ति तान् सर्वान् [जङ्गिडः] जङ्गिडाख्यौषधिनिर्मितो मणिः विनष्टतेजसः हतवीर्यान् स्वव्यापारे कुण्ठितशक्तीन् । तदेवोच्यते अरसान् इति । [अरसान्] रस- १ . ज्यागृत्स्यस्त्रि'. R यागृत्स्यस्तृ". A B V जागृत्स्यस्त्रि. C जागृत्स्यस्त्रि. D य्यागृत्स्य- स्त्रि. kD ज्यागृत्स्यस्त्रि. C यागृत्स्यस्तृ'. PPJ जागृत्स्यः । त्रिपञ्चऽअशीः ।. We wiili Saiyana and accents accorilingly, २V विनिष्टतेजसा . A D भनक्ति तेजसो'. BCR SC विनततेजसो ( clhangeel to भिनक्ति तेजसो' in 3). k मिनक्तु तेजसो correcteel into मिनक्तु नेसा', D: विनतु changed to मिनतु. P विनतऽ । corrected from विन- क्ति. P विनक्त । claanged from विनतु. J विनक्तऽ १. We with the original reading सन्ति । of De and witly the correction of . 18' जनयजतेवा. [अ॰५. सू०३४.] ५७९ एकोनविंशं काण्डम् । ४१७ रहितान् ऋजीषमायान् करत कुर्यात् । करोतेलेंटि अडागमः ॥ तृतीया ॥ अरसं कृत्रिमं नादमरसाः सप्त विस्रसः । अपेतो जङ्गिडामतिमिषुमस्तेव शातय ॥ ३ ॥ अरसम् । कृत्रिमम् । नादम् । अरसाः । सप्त । विऽस्रसः । अपं । इतः । जङ्गिड । अमतिम् । इषुम् । अस्ताऽइव । शातय ॥ ३॥ कृत्रिमम् क्रियया निर्वृत्तम् । . "क्लेर्मस्न्नित्यम्" इति मप् प्रत्य- यः। अभिचरता उत्पादितं नादम् ध्वनिं शिरःकर्णाद्यङ्गेषु 1स्थितम् अयं जङ्गिडो मणिः अरसम् गतसारम् । करत् इति अनुवर्तते । करोतु । एवं सप्त विस्रसः सप्तसंख्याका विस्रंसंनाः2 । स्रंसेः क्विप् । मू- र्धनिष्ठेषु नासारन्ध्रद्वयचक्षुर्गोलकद्वयश्रोत्रच्छिद्रद्वयमुखकुहररूपेषु सप्तसु च्छि- द्रेषु अभिचरता उत्पादिताः सप्त निष्यन्दा अपि अरसाः सन्तु । जङ्गि- डमणिमाहात्म्याद् इति शेषः ॥ अथ प्रत्यक्षेणाह । हे जङ्गिड त्वम् अ- मतिम् दारिद्यं दुर्बुद्धिं वा इतः अस्माद् मणिधारकसकाशाद् अपसार्य इषुम् अस्तेव । अस्ता इषुक्षेप्ता । असु क्षेपणे । “रधादिभ्यश्च" इति इड्विकल्पः । शत्रुषु प्रयोक्ता यथा शातयति तनूकरोति एवं “[शदेरगतौ तः" इति णिचि शदेस्तकारा- देशः] ॥ चतुर्थी ॥ कृत्यादूषण एवायमथो अरातिदूषणः । कृतमन्नाद. CR कृतृमन्नाद. C कृतृमन्नाद. D D कृत्रिमन्नाद. PPJ कृत्रिम् । अन्नऽअदम् ।. We with Aksv. २ अपेतो जैगिडामति'. A BS अपेतो जैगिडाम- नि'. D KV Dअपेतो जैगडामति'. PPJ जंगिड ।. P अमतिम् ।. Wee with CC PI. ACDRŠC: rag'. We with Ñ Ñ DE. 1S reads चंगेष्वजाद्यपस्थितं [°द्यङ्गेपु स्थितम्. 2s' its here kart of the gram- matical note which ought to the in the next comment. TIus: विस्रंसनाः दुप वैकृत्ये णिचि दोषेणावित्यूकारादेशः।. 3 In Sthis note is found not here, but in the com- sentary of the following verse after the words अवधारणार्थ पवशब्दः. शातय तनूकुरु । ४१४ अथर्वसंहिताभाष्ये अथो सहखाञ्जङ्गिडः प्र ण आयूंषि तारिषत् ॥ ४ ॥ कृत्याऽदूषणः । एव । अयम् । अथो इति । अरातिऽदूषणः । अयो इति । सहस्वान् । जङ्गिडः । प्र । नः । आयूंषि । तारिषत् ॥४॥ अयं जङ्गिडो मणिः [कृत्यादूषणः] कृत्यायाः परोत्पादिताया दूषणः निराकर्तैव । [दुष वैकृत्ये] । अस्मात् [णिचि] कर्तरि करणे वा ल्युट् । “[ दोषो णौ” इति ऊकारादेशः] ।अवधारणार्थ एव- शब्दः । अथो अपि च अरातिदूषणः शत्रुच्यावनसाधनः अथो अपि च अयं जङ्गिडः सहस्वान् उक्तव्यापारोचितबलोपेतः । स तादृशो म- णिः कृत्यादूषणादिकं कृत्वा न आयूंषि प्र तारिषत् । प्रपूर्वस्तर- तिर्वर्धनार्थः । वर्धयतु ॥ पञ्चमी॥ स जङ्गिडस्य महिमा परि णः पातु विश्वतः । विष्कन्धं येन सासहं संस्कन्धमोज़ ओज॑सा ॥ ५ ॥ सः । जङ्गिडस्य । महिमा । परि । नः । पातु । विश्वतः । विस्कन्धम् । येन । संसह । समऽस्कन्धम् । ओजः । ओजसा ॥ ५ स तादृशः उत्तरार्धेऽभिधीयमानलक्षणो [जङ्गिडस्य] महिमा तन्मह- त्वं नः अस्मान् विश्वतः सर्वस्माद् भयजातात् परि पातु परितो रक्षतु । कोसौ महिमेति तमाह । 1यो महिमा विष्कन्धम् विश्लिष्टस्कन्धम् एवंना- मानं वातविशेष महारोगम् ओजसा संह तस्य यद् विष्कन्धीकरणसाम- र्थ्यम् अस्ति तेन सह अपुनरुद्भवं नाशयति । यश्च महिमा संस्कन्धम् । येन रोगेण स्कन्धः संनतः संलग्नो भवति स रोगः संस्कन्धः । तं म- हारोगं वातलक्षणम् ओजः महिमा ओजसा सह रोगस्य सामर्थ्येन सह नाशयति । स महिमेति पूर्वत्र संबन्धः ॥ BCRCs 1. We with DŘSV De. २ येन सासह. A येन सासहे. BC RCs येन सासह. D येन सासह. Kv येन सासह corrected from येन सासह. De येन सासह changed to येन सासह. PJ ससह । ससह । corrected into ससह । 1 Sayana's text of the second half: विष्कंधमोजसा सह संस्कंधमोज ओजसा. १ ४१९ [अ०५. सू०३४.] ५७० एकोनविंशं काण्डम्। षष्ठी ॥ त्रिष्ट्वा देवा अजनयन् निष्ठितं भूम्यामधि । तमु त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः ॥ ६ ॥ त्रिः । त्वा । देवाः । अजनयन् । निऽस्थितम् । भूम्याम् । अधि । तम् । ऊं इति । त्वा । अङ्गिराः । इति । ब्राह्मणाः । पूर्व्याः । विदुः ॥ ६ ॥ इदानीं भूम्याम् अधि । ४. अधिः सप्तम्यर्थानुवादी । भू- म्यां तिष्ठ1न्तं त्वा त्वां देवाः इन्द्राद्याः त्रिः त्रिवारम् अजनयन् उदपा- दयन् । त्रिषु लोकेषु अवस्थानायेति भावः । अथ वा एक2द्विवारप्रयत्ने- न अनुत्पद्यमानं त्वां त्रिवारम् अजनयन् । अनेन त्यन्तप्रयोजकत्वेन अवश्यम् उत्पादनीयत्वम् उक्तं भवति । तं तादृशं प्रयत्नेन उत्पादितं [त्वा] त्वाम् अङ्गिरा इति । ब्रह्मणोऽङ्गसंभूतो रसः अङ्गिर3आख्यो म. हर्षिः । [यद्वा] अङ्गिरा अङ्गाराः । “येङ्गारा आसंस्तेङ्गिरसोभवन्"4 इति ब्राह्मणम् [ऐ ब्रा० ३.३४] । एवंनामा महर्षिरिति पूर्व्याः पूर्वे भवा ब्राह्मणा महर्षयो विदुः ब्रुवते ॥ सप्तमी ॥ न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः । विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः ॥ ७ ॥ न । त्वा । पूर्वा- । ओषधयः । न । त्वा । तरन्ति । याः । नवाः । विऽबाधः । उग्रः । जङ्गिडः । परिऽपानः । सुऽमङ्गलः ॥ ७॥ हे जङ्गिड त्वा त्वां पूर्वाः पूर्व सृष्ट्यादावुत्पन्ना ओषधयो न तरन्ति ABCDKÅRŠ V De Cs ger, and PŮJ TI. २ A B C D E SC तमु त्याङ्गिरा. D¢ तमु त्वांगिरा, changed to तमु त्वांगिरा. P त्वा । आंगिराः।. J त्वा । अंगि- T: 1. We with K Ř V D: and Ê. * DRCs om. the visarga in rat: We with A ŚCKSVD. Pastal. We with Ø J. 1 SAyana's text: तिष्ठतं भूम्यामधि. एकं for एक°. 38 अंगिराख्यो. जंगिल. Sayana's text is: विबाध उग्रो जंगिल परि". 4 S ४२० अथर्वसंहिताभाष्ये नातिक्रामन्ति । सर्वेष्वपि प्रयोगेषु अतिशयितवीर्यत्वाद् इति भावः । एवं या ओषधयो नवाः नूतनाः सन्ति ता अपि त्वा वां न तरन्ति अतिशयितुं न प्रभवन्ति । कुत एतद् इति तत्राह । हे जङ्गिड1 2यत- स्त्वं विवाधः बाधयतीति वाधः विशेषेण शत्रुरोगादेर्बाधकः3 उग्रः उद्भू- र्णवलः परिपाणः परितः पाता सुमङ्गलः सुष्ठु मङ्गलकारी । अनेन श- त्र्वादिजयभयरक्षणलक्ष्मीकरवलक्षणगुणा अस्योक्ता भवन्ति ॥ अष्टमी॥ अथोपदान भगवो जङ्गिडामितवीर्य । पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ ॥४॥ अथ । उपऽदान । भगऽवः । जङ्गिड । अमितऽवीर्य । पुरा । ते । उग्राः । ग्रसते । उप । इन्द्रः। वीर्यम् । ददौ ॥ ६ ॥ अथशब्दः अभिमुखीकरणार्थः । हे उपदान उपादीयते स्वीक्रियेत कृत्यानिर्हरणादिव्यापारेष्विति उपदानः । तस्य संबोधनम् । हे उपदान हे भगवः भगवन् अतिशयितमाहात्म्य हे अमितवीर्य अपरिच्छिन्नसाम- र्थ्य हे जङ्गिड ते4 त्वाम् उग्राः उद्भूर्णवलाः प्राणिनः पुरा ग्रसते भक्ष- यिष्यन्तीति विज्ञाय इन्द्रः यथा त्वाम् उग्रा न भक्षयन्नि तथा वीर्यम् परैरनभिभाव्यं सामर्थ्यम् उप ददौ प्रादात । तस्माद् 5इन्द्रेण दत्तवीर्य- त्वाद् अतिशयितवीर्यस्वमसीति स्तुतिः ॥ नवमी॥ उग्र इत ते वनस्पत इन्द्र ओज्मानमा दधौ । अमीवाः सर्वाश्चातयञ्जहि रक्षास्योषधे ॥ ९॥ १ A BC K k RSV DCs अथो पदा न भगवो जं. D अथो पदा न भगवो #. PF J अथो इति । पदा। न।. We with Sayana, and accents accordingly. २ Dदधौ. ३P मगवः। PJ भगवः ।. ४PP जंगिड । ५ PJ उग्रा !. Was पुरा त उग्रा प्रसंत उ. Fat the correct reading ? A Batam. We with CDRRSV De Cs. 1 Sce note 4 on the previons page. 28' omits rain Tafa, reading trapt. 38 2tstrau. S' car for à, though its text has go a 8°. 5 S' omits of in इन्द्रेण. [अ०५, सू०३५.] ५७९ एकोनविंशं काण्डम् । ४२१ उग्रः । इत् । ते । वनस्पते । इन्द्रः । ओज्मानम् । आ । दधौ । अमीवाः । सर्वाः । चातयन् । जहि । रक्षांसि । ओषधे ॥९॥ हे वनस्पते जङ्गिड त्वम् उग्र इत् उग्र एव अतिशयितवीर्य एव ना- त्र विचारणा । यतः ते त्वयि इन्द्रो देवः ओज्मानम् ओजो बलम् आ दधौ स्थापितवान् । अतस्त्वम् हे [ओषधे] वनस्पते सर्वा अमीवाः साध्यासाध्यविभागम् अकृत्वा सर्वानपि रोगांश्चातयन् नाशयन् रक्षां- सि । रक्षितव्यम् अस्माद् इति रक्षः । भयोपादानभूतान् राक्षसान् जहि धातय ॥ दशमी ॥ आशरीकं विशरीकं बलासं पृष्ट्यामयम् । तक्मानं विश्वशारदमरसां जङ्गिडकरत् ॥ १०॥ आऽशरीकम् । विऽशरीकम् । बलासम् । पृष्टिऽआमयम् । तक्मानम् । विश्वऽशारदम् । अरसान् । जङ्गिडः । करत ॥ १० ॥ आशरीकम् सर्वतो हिंसकम् एतन्नामानं रोगं तथा विशरीकम वि- शेषेण हिंसकम् एतनामानं च बलासम बलस्य असनकर्तारं बलक्षय- कारकम् एतन्नामानं पृष्ट्यामयम् सर्वाङ्गव्यापिनम् एतन्नामानं च रोगं तक्मानम् कृच्छ्रजीवनकर्तारं यस्मिन् सति कृच्छ्रेण जीवनं भवति तादृशं विश्वशारदम् सर्वस्य सर्वदा वा विशरणकर्तारम् एवम् अन्यानपि रो- गान् जङ्गिडो मणिः अरसान् पीडनासमर्थान् करत करोतु ॥ [इति ] पञ्चमेनुवाके प्रथमं सूक्तम् ॥ 'इन्द्रस्य नाम" इति द्वितीयं सूक्तम् । तस्य जङ्गिडमणिबन्धने पू- सूक्तेन सह उक्तो विनियोगः ॥ तत्र प्रथमा॥ इन्द्रस्य नाम गृह्णन्त ऋषयो जङ्गिडं ददुः । १Pउम्र २ A D E Cs पृष्टयामयम्. BS पृष्टयामियम्. V पृष्ठयामयम्. We with C Ê DPP J. DP We with ABCRŠ V DC. 1 ४२२ अथर्वसंहिताभाष्ये देवा यं चक्रुर्भैषजमग्रे विष्कन्धदूषणम् ॥१॥ इन्द्रस्य । नाम । गृह्णनाः । ऋषयः । जङ्गिडम् । दुदुः देवाः । यम् । चक्रुः । भेषजम् । अग्रे। विस्कन्धऽदूषणम् ॥१॥ पूर्व ऋषयः अतीन्द्रियद्रष्टारोऽङ्गिराद्या इन्द्रस्य देवस्य नाम गृह्णन्तः उच्चारयन्तो [जङ्गिडम्] जङ्गिडाख्यं मणिम् अतिशयितवीर्यत्वाय रक्षा- कामेभ्यः पुरुषेभ्यो ददुः दत्तवन्तः । तस्माद् इदानींतनैरपि रक्षाबन्धन- समये इन्द्रस्य नाम ब्रुर्वाणैरेव जङ्गिडमणिर्धार्य इत्यभिप्रायः । किं1 च अग्रे सृष्ट्यादौ [देवाः] इन्द्राद्या यं [जङ्गिडं] जङ्गिडाख्यौषधिं विष्कन्ध- भेषजम्2 विष्कन्धाख्यस्य महारोगस्य औषधं चक्रुः कृतवन्तः । अतस्तं विष्कन्धभेषजार्थं प्रयुझ्याद् इत्यर्थः । स नो रक्षत्विति उत्तरत्र सं- बन्धः ॥ द्वितीया ॥ स नो रक्षतु जङ्गिडो धनपालो धनेव । देवा यं चक्रुबाह्मणाः परिपाणमरातिहम् ॥२॥ सः । नः । रक्षतु । जङ्गिडः । धनऽपालः । धनीऽइव । देवाः । यम । चक्रुः । ब्राह्मणाः । परिऽयानम् । अरातिऽहम ॥२॥ स उक्तविशेषणविशिष्टो जङ्गिडो मणिः नः अस्मान् रक्षतु । तत्र दृष्टान्तः । धनपालः लोके कस्यचिद् राज्ञो धनाध्यक्षो [धनेव] धना- नि यथा महता प्रयत्नेन रक्षति तद्वत् । यं जङ्गिडं देवा ब्राह्मणाश्च । ब्राह्मणा महर्षयः । यद्वा देवाः3 श्रुताध्ययनादिना द्योतमाना ब्राह्मणा भृग्वङ्गिरःप्रभृतयः परिपाणम् परितो रक्षकम् अरातिहम् अरातेः शत्रो- र्हन्तारं चक्रुः । स नो रक्षत्विति संबन्धः ॥ R faktyº. We with. ABCDÁSV De Cs. APPJधनाय 15 किंच यः किंच अग्रे सृएयादौ यमिंद्राधाः जंगिडाख्यमोषधि विकंघभेषजं. Siyarpit's text, however, is : देवा यं चक्रुर्भेषजमग्रे विष्कंधदूषणं. 38 देवाचा.. 2 S ४२३ ॥ [अ०५. सू०३५.] ५७९ एकोनविंशं काण्डम् । तृतीया ॥ दुर्हार्दः संघोरं चक्षुः पापकृत्वानमागमम् । तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणोसि जङ्गिडः ॥ ३ ॥ दुःऽहार्दः । सम्ऽघोरम् । चक्षुः । पापऽकृत्वानम् । आ । अगमम् । तान् । त्वम् । सहस्रचक्षो इति सहस्रऽचक्षो । प्रतिऽबोधेन । नाशय । परिऽपानः । असि । जङ्गिडः ॥ ३ हे जङ्गिडमणे त्वं दुर्हार्दः दुष्टहृदयस्य शत्रोः संघोरम् अत्यन्तरं च. क्षुः । नाशयेति उत्तरत्र संबन्धः । एवं पापकृत्वानम् हिंसादिलक्षणस्य पापस्य कर्तारम्। "राजनि युधिकृतः" इति राजोपपदात् क- रोतेर्विहितः क्वनिप् पापोपपदादपि अत्र व्यत्ययेन निष्पन्नः । एवं- लक्षणम् आर्गतम् हन्तुं प्राप्तं च नाशय । तान् उक्तलक्षणान् सर्वान् हे सहस्रचक्षो बहुधा द्रष्टः । चक्षेरौणादिक उप्रत्ययः ४ ।अ- नेन बाधकहननविषयपरिज्ञानम् अस्योक्तं भवति । तादृशस्त्वं प्रतिबोधेन प्रतिकूलया तव बुद्ध्या । यद्वा 1तत्कृतापराधोद्धाटनेन नाशय ॥ एवंवि- धप्रार्थनाया विषयभावस्तस्य कुत इति तत्राह । जङ्गिडस्त्वं परिपाणोसि परितो रक्षकोसि यतः अतो नाशयेत्यर्थः ॥ चतुर्थी ॥ परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात् परि मा वीरुद्भ्यः । परि मा भूतात् परि मोत भव्याद् दिशोदिशो जङ्गिडः पात्वस्मान् ॥ ४ ॥ परि । मा। दिवः । परि । मा। पृथिव्याः । परि । अन्तरिक्षात् । परि । मा । वीरुतऽभ्यः। १ A B दुर्हादः. २ D; मागम ckranged to °मादभन्. K मादभन्. No srilli A BCD RCs PP3. ३ 8 तास्त्वं. ४ BC DRSC परि मोत. De परि मोत chtngeel ti) परि

  1. a. We with K De BCDRŠC PJ Ham°. De Hypº changed to #ri. P

J भव्यात्।. We with Kk vf. अ- 18 यत्कृता. ४२४ अथर्वसंहिताभाष्ये परि । मा। भूतात् । परि । मा। उत । भव्यात् । दिशःऽदिशः । जङ्गिडः। पातु । अस्मान् ॥ ४॥ अयं जङ्गिडो मणिः मा मां दिवः धुलोकात् । ततः संभूताद् भ- याद् इत्यर्थः । एवं पृथिव्यादिवपि द्रष्टव्यम् । परि पात्विति उत्तरत्र संबन्धः । तथा पृथिव्याः सकाशात् पृथिव्यां संभूतेभ्यो बाधकेभ्यः पा- तु । एवम् अन्तरिक्षात् तत्रत्याद् रक्षःप्रभृतेः पातु । वीरुद्भ्यः विविधं रोहन्तीति वीरुधः । तेभ्यः पातु । उपलक्षणम् एतत् । 1तरुगुल्मादिभ्य इत्यर्थः । तेष्वपि विषादिदोषसंभवात् तद्रक्षामार्थना युक्ता । एवं भूतात् अतीतात् कालात्2 । भूतसंबन्धिनः प्राणिजाताद् इत्यर्थः । एवं भव्यात् भविष्यतोपि परि पातु । एवं दिशोदिशः प्रागादेः3 । वीप्सया सर्वा अ- पि दिशः परिगृह्यन्ते । सर्वाभ्यो दिग्भ्यः तत्रत्येभ्यो भयेभ्यः अस्मान् जङ्गिडो मणिः पातु ॥ पञ्चमी ॥ यं ऋष्णवो देवकृता य उतो ववृतेन्यः । सर्वांस्तान् विश्वभैषजोरसां जङ्गिडस्करत ॥ ५॥ ये। ऋष्णवः । देवेऽकृताः । यः । उतो इति । ववृते । अन्यः । सर्वान् । तान् । विश्वऽभेषजः । अरसान् । जङ्गिडः । करत ॥ ५ ॥ देवकृताः देवैर्निष्पादिता ये ऋष्णवः गन्तारो हिंसकाः पुरुषाः स- न्ति । उतो अपि च ये अंन्ये मनुष्यादिप्रेरिता बाधका ववृते4 ववृतिरे A B C यः कृष्णवो देवकुताये उतो वभृतेन्य:. DS यः कृष्णो देवकृताय उतो बभृथेन्य. K kV D यः कृष्णो देवता य उतो वभृतेन्यः. R यः कृष्णयो देवकृता य उतो वभृथेन्यः. C. यः कृष्णवी देवताय उतो वभृतन्यः. Sisatit's tist: य ऋष्णयो देवकृता य उतो ववृते. 7:. We with Sayana's text. PŮJ T: 1 storat: 1. Wc with Sâyana. ÚJE So we read with PÅ J. ५ PJ वभृतेन्यः । (changed Jt0 वभनेन्यः ।). "वभृतेन्यः. We with the Sumkita. 18 तत्र for तरु. 'S' अतीतातत्कालात् lor अतीतात् कालात्. 38 प्रागादि for प्रागादे. 1 S instead of reading the words area aglad in this place reads them between atesti asul urz: lower down. वऽकृताः।. We with p.