अथर्ववेदः/काण्डं ७/सूक्तम् १०१

विकिस्रोतः तः
← सूक्तं ७.१०० अथर्ववेदः - काण्डं ७
सूक्तं ७.१०१(७.९६)
कपिञ्जलः।
सूक्तं ७.१०२ →
दे. वयः। अनुष्टुप्।

असदन् गावः सदनेऽपप्तद्वसतिं वयः ।
आस्थाने पर्वता अस्थुः स्थाम्नि वृक्कावतिष्ठिपम् ॥१॥