अथर्ववेदः/काण्डं ७/सूक्तम् ०८९

विकिस्रोतः तः
← सूक्तं ७.०८८ अथर्ववेदः - काण्डं ७
सूक्तं ७.०८९(७.८४)
भृगुः।
सूक्तं ७.०९० →
दे. १ जातवेदा अग्निः, २-३ इन्द्रः। त्रिष्टुप्, १ जगती।

अनाधृष्यो जातवेदा अमर्त्यो विराडग्ने क्षत्रभृद्दीदिहीह ।
विश्वा अमीवाः प्रमुञ्चन् मानुषीभिः शिवाभिरद्य परि पाहि नो गयम् ॥१॥
इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् ।
अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥२॥
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात्परस्याः ।
सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥३॥