अथर्ववेदः/काण्डं ७/सूक्तम् ०६३

विकिस्रोतः तः
← सूक्तं ७.०६२ अथर्ववेदः - काण्डं ७
सूक्तं ७.०६३(७.०६१)
ऋषिः - अथर्वा।
सूक्तं ७.०६४ →
दे. अग्निः। अनुष्टुप्।

यदग्ने तपसा तप उपतप्यामहे तपः ।
प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधसः ॥१॥
अग्ने तपस्तप्यामह उप तप्यामहे तपः ।
श्रुतानि शृण्वन्तः वयमायुष्मन्तः सुमेधसः ॥२॥