अथर्ववेदः/काण्डं ७/सूक्तम् ०५६

विकिस्रोतः तः
← सूक्तं ७.०५५ अथर्ववेदः - काण्डं ७
सूक्तं ७.०५६, ०५७-१(७.०५४)
ऋषिः - १ ब्रह्मा , २ भृगुः।
सूक्तं ७.०५७ →
दे. १ ऋक्सामनी, २ इन्द्रः। अनुष्टुप्।

ऋचं साम यजामहे याभ्यां कर्माणि कुर्वते ।
एते सदसि राजतो यज्ञं देवेषु यच्छतः ॥१॥
ऋचं साम यदप्राक्षं हविरोजो यजुर्बलम् ।
एष मा तस्मान् मा हिंसीद्वेदः पृष्टः शचीपते ॥१॥