अथर्ववेदः/काण्डं ७/सूक्तम् ०३९

विकिस्रोतः तः
← सूक्तं ७.०३८ अथर्ववेदः - काण्डं ७
सूक्तं ७.०३९
ऋषिः - अथर्वा
सूक्तं ७.०४० →
दे. वनस्पतिः। अनुष्टुप्, ३ चतुष्पदा उष्णिक्

7.38(७.३९)
इदं खनामि भेषजं मांपश्यमभिरोरुदम् ।
परायतो निवर्तनमायतः प्रतिनन्दनम् ॥१॥
येना निचक्र आसुरीन्द्रं देवेभ्यस्परि ।
तेना नि कुर्वे त्वामहं यथा तेऽसानि सुप्रिया ॥२॥
प्रतीची सोममसि प्रतीची उत सूर्यम् ।
प्रतीची विश्वान् देवान् तां त्वाछावदामसि ॥३॥
अहं वदामि नेत्त्वं सभायामह त्वं वद ।
ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन ॥४॥
यदि वासि तिरोजनं यदि वा नद्यस्तिरः ।
इयं ह मह्यं त्वामोषधिर्बद्ध्वेव न्यानयत्॥५॥