अथर्ववेदः/काण्डं ७/सूक्तम् ०३४

विकिस्रोतः तः
← सूक्तं ७.०३३ अथर्ववेदः - काण्डं ७
सूक्तं ७.०३४(७.०३३)
ब्रह्मा।
सूक्तं ७.०३५ →
दे. मरुतः, पूषा, बृहस्पतिः, अग्निः।पथ्यापङ्क्तिः

सं मा सिञ्चन्तु मरुतः सं पूषा सं बृहस्पतिः ।
सं मायमग्निः सिञ्चतु प्रजया च धनेन च दीर्घमायुः कृणोतु मे ॥१॥