अथर्ववेदः/काण्डं ७/सूक्तम् ०२०

विकिस्रोतः तः
← सूक्तं ७.०१९ अथर्ववेदः - काण्डं ७
सूक्तं ७.०२०
ब्रह्मा।
सूक्तं ७.०२१ →
दे. प्रजापतिः। जगती।

7.20(7.19)
प्रजापतिर्जनयति प्रजा इमा धाता दधातु सुमनस्यमानः ।
संजानानाः संमनसः सयोनयो मयि पुष्टं पुष्टपतिर्दधातु ॥१॥