अथर्ववेदः/काण्डं ६/सूक्तम् १३५

विकिस्रोतः तः
← सूक्तं ६.१३४ अथर्ववेदः - काण्डं ६
सूक्तं ६.१३५
ऋषिः - शुक्रः।
सूक्तं ६.१३६ →
दे. वज्रः। अनुष्टुप्।

यदश्नामि बलं कुर्व इत्थं वज्रमा ददे ।
स्कन्धान् अमुष्य शातयन् वृत्रस्येव शचीपतिः ॥१॥
यत्पिबामि सं पिबामि समुद्र इव संपिबः ।
प्राणान् अमुष्य संपाय सं पिबामो अमुं वयम् ॥२॥
यद्गिरामि सं गिरामि समुद्र इव संगिरः ।
प्राणान् अमुष्य संगीर्य सं गिरामो अमुं वयम् ॥३॥