अथर्ववेदः/काण्डं ६/सूक्तम् १११

विकिस्रोतः तः
← सूक्तं ६.११० अथर्ववेदः - काण्डं ६
सूक्तं ६.१११
ऋषिः -अथर्वा।
सूक्तं ६.११२ →
दे. अग्निः। अनुष्टुप्, १ परानुष्टुप् त्रिष्टुप्।

इमं मे अग्ने पुरुषं मुमुग्ध्ययं यो बद्धः सुयतो लालपीति ।
अतोऽधि ते कृणवद्भागधेयं यदानुन्मदितोऽसति ॥१॥
अग्निष्टे नि शमयतु यदि ते मन उद्युतम् ।
कृणोमि विद्वान् भेषजं यथानुन्मदितोऽससि ॥२॥
देवैनसादुन्मदितमुन्मत्तं रक्षसस्परि ।
कृणोमि विद्वान् भेषजं यदानुन्मदितोऽसति ॥३॥
पुनस्त्वा दुरप्सरसः पुनरिन्द्रः पुनर्भगः ।
पुनस्त्वा दुर्विश्वे देवा यथानुन्मदितोऽससि ॥४॥