अथर्ववेदः/काण्डं ६/सूक्तम् १०९

विकिस्रोतः तः
← सूक्तं ६.१०८ अथर्ववेदः - काण्डं ६
सूक्तं ६.१०९
ऋषिः -अथर्वा।
सूक्तं ६.११० →
दे. पिप्पली-भैषज्यं, आयुः। अनुष्टुप्।

पिप्पली क्षिप्तभेषज्युतातिविद्धभेषजी ।
तां देवाः समकल्पयन्न् इयं जीवितवा अलम् ॥१॥
पिप्पल्यः समवदन्तायतीर्जननादधि ।
यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥२॥
असुरास्त्वा न्यखनन् देवास्त्वोदवपन् पुनः ।
वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम् ॥३॥