अथर्ववेदः/काण्डं ६/सूक्तम् १०३
दिखावट
← सूक्तं ६.१०२ | अथर्ववेदः - काण्डं ६ सूक्तं ६.१०३ ऋषिः - उच्छोचनः। |
सूक्तं ६.१०४ → |
दे. इन्द्राग्नी, १ बृहस्पतिः, सविता, मित्रोः, अर्यमा, भगः, अश्विनौ, २-३ इन्द्रः,अग्निः। अनुष्टुप् |
संदानं वो बृहस्पतिः संदानं सविता करत्।
संदानं मित्रो अर्यमा संदानं भगो अश्विना ॥१॥
सं परमान्त्समवमान् अथो सं द्यामि मध्यमान् ।
इन्द्रस्तान् पर्यहार्दाम्ना तान् अग्ने सं द्या त्वम् ॥२॥
अमी ये युधमायन्ति केतून् कृत्वानीकशः ।
इन्द्रस्तान् पर्यहार्दाम्न तान् अग्ने सं द्या त्वम् ॥३॥