अथर्ववेदः/काण्डं ६/सूक्तम् ०९८

विकिस्रोतः तः
← सूक्तं ६.०९७ अथर्ववेदः - काण्डं ६
सूक्तं ६.०९८
ऋषिः - अथर्वा।
सूक्तं ६.०९९ →
दे. इन्द्रः। त्रिष्टुप्, २ बृहतीगर्भास्तारपङ्क्तिः।

इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै ।
चर्कृत्य ईड्यो वन्द्यश्चोपसद्यो नमस्य्श्भवेह ॥१॥
त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम् ।
त्वं दैवीर्विश इमा वि राजायुष्मत्क्षत्रमजरं ते अस्तु ॥२॥
प्राच्या दिशस्त्वमिन्द्रासि राजोतोदीच्या दिशो वृत्रहन् छत्रुहोऽसि ।
यत्र यन्ति स्रोत्यास्तज्जितं ते दक्षिणतो वृषभ एषि हव्यः ॥३॥