अथर्ववेदः/काण्डं ६/सूक्तम् ०८२

विकिस्रोतः तः
← सूक्तं ६.०८१ अथर्ववेदः - काण्डं ६
सूक्तं ६.०८२
ऋषिः - भगः।
सूक्तं ६.०८३ →
दे. इन्द्रः। अनुष्टुप्।

आगच्छत आगतस्य नाम गृह्णाम्यायतः ।
इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः ॥१॥
येन सूर्यां सावित्रीमश्विनोहतुः पथा ।
तेन मामब्रवीद्भगो जायामा वहतादिति ॥२॥
यस्तेऽङ्कुशो वसुदानो बृहन्न् इन्द्र हिरण्ययः ।
तेना जनीयते जायां मह्यं धेहि शचीपते ॥३॥