अथर्ववेदः/काण्डं ६/सूक्तम् ०७२

विकिस्रोतः तः
← सूक्तं ६.०७१ अथर्ववेदः - काण्डं ६
सूक्तं ६.०७२
ऋषिः - अथर्वाङ्गिराः।
सूक्तं ६.०७३ →
दे. शेपोऽर्कः। १ जगती, २ अनुष्टुप्, ३ भुरिक्।

अन्नम्

यथासितः प्रथयते वशामनु वपूंषि कृण्वन्न् असुरस्य मायया ।
एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु ॥१॥
यथा पसस्तायादरं वातेन स्थूलभं कृतम् ।
यावत्परस्वतः पसस्तावत्ते वर्धतां पसः ॥२॥
यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत्।
यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः ॥३॥