अथर्ववेदः/काण्डं ६/सूक्तम् ०५७

विकिस्रोतः तः
← सूक्तं ६.०५६ अथर्ववेदः - काण्डं ६
सूक्तं ६.०५७
ऋषिः - शन्तातिः।
सूक्तं ६.०५८ →
दे. रुद्रः। १-२ अनुष्टुप्, ३ पथ्याबृहती।

इदमिद्वा उ भेषजमिदं रुद्रस्य भेषजम् ।
येनेषुमेकतेजनां शतशल्यामपब्रवत्॥१॥
जालाषेणाभि षिञ्चत जालाषेणोप सिञ्चत ।
जालाषमुग्रं भेषजं तेन नो मृड जीवसे ॥२॥
शं च नो मयश्च नो मा च नः किं चनाममत्।
क्षमा रपो विश्वं नो अस्तु भेषजं सर्वं नो अस्तु भेषजम् ॥३॥