अथर्ववेदः/काण्डं ६/सूक्तम् ०५२

विकिस्रोतः तः
← सूक्तं ६.०५१ अथर्ववेदः - काण्डं ६
सूक्तं ६.०५२
भागलिः।
सूक्तं ६.०५३ →
दे. १ सूर्यः, २ गावः, ३ भेषजम्। अनुष्टुप्।

उत्सूर्यो दिव एति पुरो रक्षांसि निजूर्वन् ।
आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥१॥
नि गावो गोष्ठे असदन् नि मृगासो अविक्षत ।
न्यूर्मयो नदीनां न्यदृष्टा अलिप्सत ॥२॥
आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम् ।
आभारिषं विश्वभेषजीमस्यादृष्टान् नि शमयत्॥३॥