अथर्ववेदः/काण्डं ६/सूक्तम् ०३५

विकिस्रोतः तः
← सूक्तं ६.०३४ अथर्ववेदः - काण्डं ६
सूक्तं ६.०३५
कौशिकः।
सूक्तं ६.०३६ →
दे. वैश्वानरः। गायत्री ।

वैश्वानरो न ऊतय आ प्र यातु परावतः ।
अग्निर्नः सुष्टुतीरुप ॥१॥
वैश्वानरो न आगमदिमं यज्ञं सजूरुप ।
अग्निरुक्थेष्वंहसु ॥२॥
वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाकॢपत्।
ऐषु द्युम्नं स्वर्यमत्॥३॥