अथर्ववेदः/काण्डं ६/सूक्तम् ०२५

विकिस्रोतः तः
← सूक्तं ६.०२४ अथर्ववेदः - काण्डं ६
सूक्तं ६.०२५
ऋषिः - शुनःशेपः
सूक्तं ६.०२६ →
दे. मन्याविनाशनम्। अनुष्टुप्

पञ्च च याः पञ्चाशच्च संयन्ति मन्या अभि ।
इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥१॥
सप्त च याः सप्ततिश्च संयन्ति ग्रैव्या अभि ।
इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥२॥
नव च या नवतिश्च संयन्ति स्कन्ध्या अभि ।
इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥३॥

सायणभाष्यम्

'पञ्च च याः' इति तृचेन गण्डमालानिवृत्त्यर्थं पञ्चाधिकपञ्चाशत्संख्याकैः सूत्रोक्तकाष्ठैः प्रज्वालनम् इत्येवमादीनि कर्माणि कुर्यात् । सूत्रितं हि- " 'पञ्च च याः' इति पञ्चपञ्चाशतं परशूपर्णान् काष्ठैरादीपयति । कपाले प्रशृतं काष्ठेनालिम्पयति' (कौसू ३०,१४, १५) इत्यादि ।

'अव मा पाप्मन्' इति तृचेन सर्वरोगभैषज्यकर्मणि सूत्रोक्तप्रकारेण तन्त्रं कृत्वा अपरेद्युस्त्रींस्त्रीन् पुरोडाशसंवर्तांश्चतुष्पथे अवचरेत् । सूत्रितं हि- 'अव मा पाप्मन्' इति तितउनि पूल्यान्यवसिच्य अपविध्यापरेद्युस्त्रींस्त्रीन् पुरोडाशसंवर्तांश्चतुष्पथेप्यवचरति' ( कौसू ३०, १८) इति ।

महाशान्त्यादौ क्रियमाणे नैर्ऋतकर्मणि एतं तृचं जपन् नदीतीरं गच्छेत् । “ 'अव मा पाप्मन्' इति जपन्नुदकम् अभिगच्छेत्' ( शांक १५,६ ) इति हि शान्तिकल्पः।


पञ्च॑ च॒ याः प॑ञ्चा॒शच्च॑ सं॒यन्ति॒ मन्या॑ अ॒भि।

इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ।।१।।

पञ्च । च । याः। पञ्चाशत् । च । सम्ऽयन्ति । मन्याः । अभि ।

इतः । ताः । सर्वाः । नश्यन्तु । वाकाः । अपचिताम्ऽइव ॥ १ ॥

पञ्च च पञ्चाशच्च पञ्चाधिकपञ्चाशत्संख्याका या गण्डमालाः मन्याः गलस्योर्ध्वभागे स्थिता धमनीर्मन्याशब्दवाच्या अभि संयन्ति सर्वतो व्याप्नुवन्ति इतः अस्मात् प्रयोगात् ताः तत्संख्याकाः सर्वा गण्डमाला नश्यन्तु विनष्टा भवन्तु । वाकाः वचनीया दोषाः अपचितामिव पूजितां पतिव्रतां स्त्रियं प्राप्य यथा पराहता नश्यन्ति तथेत्यर्थः ।


स॒प्त च॒ याः स॑प्त॒तिश्च॑ सं॒यन्ति॒ ग्रैव्या॑ अ॒भि।

इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ।।२।।

सप्त। च । याः । सप्ततिः । च । सम्ऽयन्ति । ग्रैव्याः । अभि ।

इतः । ताः । सर्वाः । नश्यन्तु । वाकाः । अपचिताम्ऽइव ॥ २ ॥

सप्ताधिकसप्ततिसंख्याका या गण्डमालाः ग्रैव्याः ग्रीवासु भवा नाडीः अभि संयन्ति अभितो व्याप्नुवन्ति । अन्यद् व्याख्यातम् ।


नव॑ च॒ या न॑व॒तिश्च॑ सं॒यन्ति॒ स्कन्ध्या॑ अ॒भि।

इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ।।३।।

नव । च । याः । नवतिः । च । सम्ऽयन्ति । स्कन्ध्याः । अभि ।

इतः । ताः । सर्वाः । नश्यन्तु । वाकाः । अपचिताम्ऽइव ॥ ३ ॥

नवोत्तरनवतिसंख्याका या गण्डमालाः स्कन्ध्याः । ग्रीवाभ्योऽधःप्रदेशः स्कन्धः । तत्र भवा धमनीः अभिसंयन्ति अभितो व्याप्नुवन्ति । शेषम् उक्तार्थम् ।

[सम्पाद्यताम्]