अथर्ववेदः/काण्डं ६/सूक्तम् ०१०
दिखावट
← सूक्तं ६.००९ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०१० ऋषिः - शन्तातिः |
सूक्तं ६.०११ → |
दे. १ पृथिवी, श्रोत्रं, वनस्पतिः, अग्निः, २ प्राणः, अन्तरिक्षं, वयः, वायुः, ३ द्यौः, चक्षुः, नक्षत्राणि, सूर्यः। |
पृथिव्यै श्रोत्राय वनस्पतिभ्योऽग्नयेऽधिपतये स्वाहा ॥१॥
प्राणायान्तरिक्षाय वयोभ्यो वायवेऽधिपतये स्वाहा ॥२॥
दिवे चक्षुषे नक्षत्रेभ्यः सूर्यायाधिपतये स्वाहा ॥३॥