अथर्ववेदः/काण्डं ५/सूक्तम् २६

विकिस्रोतः तः
← सूक्तं ५.२५ अथर्ववेदः - काण्डं ५
सूक्तं ५.२६
ब्रह्मा
सूक्तं ५.२७ →
दे. वास्तोष्पतिः, १ अग्निः, २ सविता, ३, ११ इन्द्रः, ४ निविदः, ५ मरुतः, ६ अदितिः, ७ विष्णुः, ८ त्वष्टा, ९ भगः, १० सोमः, १२ अश्विनौ, बृहस्पतिः। १,५ द्विपदार्षी उष्णिक् , - - - -

यजूंषि यज्ञे समिधः स्वाहाग्निः प्रविद्वान् इह वो युनक्तु ॥१॥
युनक्तु देवः सविता प्रजानन्न् अस्मिन् यज्ञे महिषः स्वाहा ॥२॥
इन्द्र उक्थामदान्यस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥३॥
प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर्वहतेह युक्ताः ॥४॥
छन्दांसि यज्ञे मरुतः स्वाहा मातेव पुत्रं पिपृतेह युक्ताः ॥५॥
एयमगन् बर्हिषा प्रोक्षणीभिर्यज्ञं तन्वानादितिः स्वाहा ॥६॥
विष्णुर्युनक्तु बहुधा तपांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥७॥
त्वष्टा युनक्तु बहुधा नु रूपा अस्मिन् यज्ञे युनक्तु सुयुजः स्वाहा ॥८॥
भगो युनक्त्वाशिषो न्वस्मा अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥९॥
सोमो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥१०॥
इन्द्रो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥११॥
अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ ।
बृहस्पते ब्रह्मणा याह्यर्वाङ्यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥१२॥