सामग्री पर जाएँ

अथर्ववेदः/काण्डं ५/सूक्तम् ०४

विकिस्रोतः तः
← सूक्तं ५.०३ अथर्ववेदः - काण्डं ५
सूक्तं ५.४
भृग्वङ्गिराः।
सूक्तं ५.०५ →
दे. कुष्ठो, यक्ष्मनाशनम्। अनुष्टुप्, ५ भुरिक्, ६ गायत्री, १० उष्णिग्गर्भा निचृत्।

यो गिरिष्वजायथा वीरुधां बलवत्तमः ।
कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः ॥१॥
सुपर्णसुवने गिरौ जातं हिमवतस्परि ।
धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम् ॥२॥
अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।
तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥३॥
हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।
तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥४॥
हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया ।
नावो हिरण्ययीरासन् याभिः कुष्ठं निरावहन् ॥५॥
इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु ।
तमु मे अगदं कृधि ॥६॥
देवेभ्यो अधि जातोऽसि सोमस्यासि सखा हितः ।
स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड ॥७॥
उदङ्जातो हिमवतः स प्राच्यां नीयसे जनम् ।
तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे ॥८॥
उत्तमो नाम कुष्ठस्युत्तमो नाम ते पिता ।
यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥९॥
शीर्षामयमुपहत्यामक्ष्योस्तन्वो रपः ।
कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥१०॥