अथर्ववेदः/काण्डं ४/सूक्तम् ३८
← सूक्तं ४.३७ | अथर्ववेदः - काण्डं ४ सूक्तं ४.३८ बादरायणिः। |
सूक्तं ४.३९ → |
दे. १-४ अप्सराः, ५-७ ऋषभः। अनुष्टुप्........ |
उद्भिन्दतीं संजयन्तीमप्सरां साधुदेविनीम् ।
ग्लहे कृतानि कृण्वानामप्सरां तामिह हुवे ॥१॥
विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम् ।
ग्लहे कृतानि गृह्णानामप्सरां तामिह हुवे ॥२॥
यायैः परिनृत्यत्याददाना कृतं ग्लहात्।
सा नः कृतानि सीषती प्रहामाप्नोतु मायया ।
सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥३॥
या अक्षेषु प्रमोदन्ते शुचं क्रोधं च बिभ्रती ।
आनन्दिनीं प्रमोदिनीमप्सरां तामिह हुवे ॥४॥
सूर्यस्य रश्मीन् अनु याः सञ्चरन्ति मरीचीर्वा या अनुसञ्चरन्ति ।
यासामृषभो दूरतो वाजिनीवान्त्सद्यः सर्वान् लोकान् पर्येति रक्षन् ।
स न ऐतु होममिमं जुषाणोऽन्तरिक्षेण सह वाजिनीवान् ॥५॥
अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् ।
इमे ते स्तोका बहुला एह्यर्वाङियं ते कर्कीह ते मनोऽस्तु ॥६॥
अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् ।
अयं घासो अयं व्रज इह वत्सां नि बध्नीमः ।
यथानाम व ईश्महे स्वाहा ॥७॥
सायणभाष्यम्
उद्भिन्दतीं संजयन्तीम् इति सूक्तेन द्यूतजयकर्मणि अक्षान् अभिमन्त्र्य देवनं कुर्यात् । सूत्रितं हि- पूर्वास्वषाढासु गर्तं खनति इति प्रक्रम्य 'उद्भिन्दतीं संजयन्तीम् (अ ४.३८) यथा वृक्षम् अशनिः (अ ७.५२) इदम् उग्राय (अ ७.११४) इति वासितान् अक्षान् निवपति (कौसू ४१.१०,१३) इति ।
तथा सूर्यस्य रश्मीन् (५) इत्यादिभिः ककींन् वत्सान् इह रक्ष वाजिन् (७) इत्येवमन्ताभिस्तिसृभिर्ऋग्भिर्गोपुष्टिकर्मणि द्वादशदाम्नीं रज्जुं संपाताज्येन संस्कुर्यात् । अयं घासः (७) इति पादेन गोभ्यो घासं प्रयच्छेत् । इह वत्सान् (७) इति पादेन तस्यां द्वादशदाम्न्यां रज्ज्वां वत्सान् बध्नीयात् । सूत्रितं हि- कर्कीप्रवादानां द्वादशदाम्न्यां संपातवत्याम् अयं घासः इह वत्साम् इति मन्त्रोक्तम् (कौसू २१.११) इति ।
तथा सूर्यस्य रश्मीन्' इति तिसृभिः कर्कीसवं दद्यात् । सूत्रितं हि - सूर्यस्य रश्मीन् इति कर्की सानूबन्ध्यां ददाति (कौसू ६६.१३) इति ।
उ॑द्भिन्द॒तीं सं॒जय॑न्तीमप्स॒रां सा॑धुदे॒विनी॑म्।
ग्लहे॑ कृ॒तानि॑ कृण्वा॒नाम॑प्स॒रां तामि॒ह हु॑वे ।।१।।
वि॑चिन्व॒तीमा॑कि॒रन्ती॑मप्स॒रां सा॑धुदे॒विनी॑म्।
ग्लहे॑ कृ॒तानि॑ गृह्णा॒नाम॑प्स॒रां तामि॒ह हु॑वे ।।२।।
यायैः॑ परि॒नृत्य॑त्या॒ददा॑ना कृ॒तं ग्लहा॑त्।
सा नः॑ कृ॒तानि॑ सीष॒ती प्र॒हामा॑प्नोतु मा॒यया॑।
सा नः॒ पय॑स्व॒त्यैतु॒ मा नो॑ जैषुरि॒दं धन॑म् ।।३।।
या अ॒क्षेषु॑ प्र॒मोद॑न्ते॒ शुचं॒ क्रोधं॑ च॒ बिभ्र॑ती।
आ॑न॒न्दिनीं॑ प्रमो॒दिनी॑मप्स॒रां तामि॒ह हु॑वे ।।४।।
सूर्य॑स्य र॒श्मीननु॒ याः स॒ञ्चर॑न्ति॒ मरी॑चीर्वा॒ या अ॑नुस॒ञ्चर॑न्ति।
यासा॑मृष॒भो दू॑र॒तो वा॒जिनी॑वान्त्स॒द्यः सर्वा॑न्लो॒कान्प॒र्येति॒ रक्ष॑न्।
स न॒ अैतु॒ होम॑मि॒मं जु॑सा॒णो॑३ ऽन्तरि॑क्षेण स॒ह वा॒जिनी॑वान् ।।५।।
५. या अप्सरसः सूर्यस्य रश्मीन् किरणान् अनु ' लक्षणे अनोः कर्मप्रवचनी- यत्वम् । रश्मयो यत्र निर्गच्छन्ति तस्मिन् प्रदेशे संचरन्ति वर्तन्ते । मरीचीर्वा मरीचिशब्देन प्रभा विवक्षिता । सूर्यकिरणसंबन्धिनीः मरीचीः प्रभा अनुलक्ष्य या अप्सरसः संचरन्ति । तस्य मरीचयोऽप्सरसः ( तै ३.४.७.१) इत्यादि तैत्तिरीयकम् अनुसन्धेयम् । यासाम् अप्सरसाम् ऋषभः वृषभः सेचनसमर्थः पतिः दूरतः दूरे विप्रकृष्टे अन्तरिक्षदेशे संचरन् वाजिनीवान् वाजः अन्नम् अस्याम् अस्तीति व्युत्पत्त्या वाजिनी उषा । ततो नित्ययोगे मतुप् । सर्वदा उषसा संबद्ध इत्यर्थः । स च सद्यः शीघ्रं सर्वान् लोकान् रक्षन् पालयन् । हेतौ शतृप्रत्ययः । पालनाद्धेतोः पर्येति प्रतिदिवसं पर्यावर्तते स वाजिनीवान् सूर्यः अन्तरिक्षेण । उपलक्षणम् एतत् । अन्तरिक्षगताभिस्ताभिर- प्सरोभिः सह इमम् अस्मदीयं होमम् हूयमानं हविः जुषाणः सेवमानः नः अस्मान् ऐतु आगच्छतु ।
अ॒न्तरि॑क्षेन स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्।
इ॒मे ते॑ स्तो॒का ब॑हु॒ला एह्य॒र्वाङि॒यं ते॑ क॒र्कीह ते॒ मनो॑ ऽस्तु ।।६।।
६. हे वाजिन् । वाजः अन्नं बलं वा । तद्वन् अन्तरिक्षेण अन्तरिक्षदेशोपलक्षिताप्सरो- गणेन सह 'वाजिनीवान् उषसा तद्वान् । हविर्लक्षणं वा अन्नं वाजिनी तद्वान् । इह अस्मिन् स्थाने 'कर्कीन् कर्कवर्णान् शुभ्रान् वत्सान् रक्ष पालय समृद्धान् कुरु । ते त्वदीया इमे स्तोका क्षीराज्यादिबिन्दवो धाराः बहुलाः समृद्धा अस्माकं भवन्तु । त्वं च अर्वाङ् अस्मदभिमुखः सन् एहि आगच्छ । कर्की कर्कवर्णा शुभ्रा इयं गौः ते तव स्वभूता इह अस्मिन् गोष्ठे वर्तते । ते तुभ्यं नमः । अस्माभिः कृतो नमस्कारः अस्तु भवतु ।
अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्।
अ॒यं घा॒सो अ॒यं व्र॒ज इ॒ह व॒त्सां नि ब॑ध्नीमः।
य॑थाना॒म व॑ ईश्महे॒ स्वाहा॑ ।।७।।
७. पूर्वोऽर्धर्चः पूर्ववद् योज्यः । अयं प्रदीयमानो घासः अदनीयस्तृणसंघातः पुष्टि करो भवतु । अदेः कर्मणि घञ् । 'घञ्पोश्च' (पा २.४.३८) इति घस्लृ आदेशः । अयम् अस्मदीयो व्रजः गोष्ठः गोपुष्टिकरो भवतु । इह अस्मिन् व्रजे द्वादशदाम्न्या तन्त्या वत्सान् नि बध्नीमः नितरां बद्धान् कुर्मः । वः युष्माकं यथानाम येन प्रकारेण खलु ईश्महे स्वामिनो भवामः तथा नि बध्नीमः । ईश ऐश्वर्ये । अदादित्वात् शपो लुक् । स्वाहा इदं हविः स्वाहुतम् अस्तु ।
टिप्पणी
द्र. गन्धर्वोपरि टिप्पणी