अथर्ववेदः/काण्डं ४/सूक्तम् ३२

विकिस्रोतः तः
← सूक्तं ४.३१ अथर्ववेदः - काण्डं ४
सूक्तं ४.३२
ब्रह्मास्कन्दः
सूक्तं ४.३३ →
दे. मन्युः । त्रिष्टुप्, १ जगती

संरम्भणानि सेने समीक्षमाणो जपति (कौ.सू. १४.२६-३१)

4.32
यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक्।
साह्याम दासमार्यं त्वया युजा वयं सहस्कृतेन सहसा सहस्वता ॥१॥
मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः ।
मन्युं विश ईडते मानुषीर्याः पहि नो मन्यो तपसा सजोषाः ॥२॥
अभीहि मन्यो तवसस्तवीयान् तपसा युजा वि जहि शत्रून् ।
अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥३॥
त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर्भामो अभिमातिषाहः ।
विश्वचर्षणिः सहुरिः सहीयान् अस्मास्वोजः पृतनासु धेहि ॥४॥
अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।
तं त्वा मन्यो अक्रतुर्जिहीडाहं स्वा तनूर्बलदावा न एहि ॥५॥
अयं ते अस्म्युप न एह्यर्वाङ्प्रतीचीनः सहुरे विश्वदावन् ।
मन्यो वज्रिन्न् अभि न आ ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥६॥
अभि प्रेहि दक्षिणतो भवा नोऽधा वृत्राणि जङ्घनाव भूरि ।
जुहोमि ते धरुणं मध्वो अग्रमुभावुपांशु प्रथमा पिबाव ॥७॥