अथर्ववेदः/काण्डं ४/सूक्तम् १६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ४.१५ अथर्ववेदः - काण्डं ४
सूक्तं ४.१६
ब्रह्मा।
सूक्तं ४.१७ →
वरुणः, सत्यानृतान्वीक्षणम्। त्रिष्टुप्, १ अनुष्टुप्, ५ भुरिक्, ७ जगती, ८ त्रिपान्महाबृहती, विराण्नाम त्रिपाद्गायत्री।

बृहन्न् एषामधिष्ठाता अन्तिकादिव पश्यति ।
य स्तायन् मन्यते चरन्त्सर्वं देवा इदं विदुः ॥१॥
यस्तिष्ठति चरति यश्च वञ्चति यो निलायं चरति यः प्रतङ्कम् ।
द्वौ संनिषद्य यन् मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः ॥२॥
उतेयं भूमिर्वरुणस्य राज्ञ उतासौ द्यौर्बृहती दूरेअन्ता ।
उतो समुद्रौ वरुणस्य कुक्षी उतास्मिन्न् अल्प उदके निलीनः ॥३॥
उत यो द्यामतिसर्पात्परस्तान् न स मुच्यातै वरुणस्य राज्ञः ।
दिव स्पशः प्र चरन्तीदमस्य सहस्राक्षा अति पश्यन्ति भूमिम् ॥४॥
सर्वं तद्राजा वरुणो वि चष्टे यदन्तरा रोदसी यत्परस्तात्।
संख्याता अस्य निमिषो जनानामक्षान् इव श्वघ्नी नि मिनोति तानि ॥५॥
ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः ।
छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्यति तं सृजन्तु ॥६॥
शतेन पाशैरभि धेहि वरुणैनं मा ते मोच्यनृतवाङ्नृचक्षः ।
आस्तां जाल्म उदरं श्रंशयित्वा कोश इवाबन्धः परिकृत्यमानः ॥७॥
यः समाभ्यो वरुणो यो व्याभ्यो यः संदेश्यो वरुणो यो विदेश्यो ।
यो दैवो वरुणो यश्च मानुषः ॥८॥
तैस्त्वा सर्वैरभि ष्यामि पाशैरसावामुष्यायणामुष्याः पुत्र ।
तान् उ ते सर्वान् अनुसंदिशामि ॥९॥