अथर्ववेदः/काण्डं ४/सूक्तम् ०५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ४.०४ अथर्ववेदः - काण्डं ४
सूक्तं ४.५
ब्रह्मा
सूक्तं ४.०६ →
दे. स्वापनं, वृषभः। अनुष्टुप्, २ भुरिक्, ७ पुरस्ताज्ज्योतिस्त्रिष्टुप्।

सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत्।
तेना सहस्येना वयं नि जनान्त्स्वापयामसि ॥१॥
न भूमिं वातो अति वाति नाति पश्यति कश्चन ।
स्त्रियश्च सर्वाः स्वापय शुनश्चेन्द्रसखा चरन् ॥२॥
प्रोष्ठेशयास्तल्पेशया नारीर्या वह्यशीवरीः ।
स्त्रियो याः पुण्यगन्धयस्ताः सर्वाः स्वापयामसि ॥३॥
एजदेजदजग्रभं चक्षुः प्राणमजग्रभम् ।
अङ्गान्यजग्रभं सर्वा रात्रीणामतिशर्वरे ॥४॥
य आस्ते यश्चरति यश्च तिष्ठन् विपश्यति ।
तेषां सं दध्मो अक्षीणि यथेदं हर्म्यं तथा ॥५॥
स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः ।
स्वपन्त्वस्यै ज्ञातयः स्वप्त्वयमभितो जनः ॥६॥
स्वप्न स्वप्नाभिकरणेन सर्वं नि स्वापया जनम् ।
ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः ॥७॥

सायणभाष्यम्

'सहस्रशृङ्गः' इति सूक्तेन स्त्र्यभिगमने तस्यास्तत्परिसरवर्तिनां च स्वापनार्थम् उदपात्रं संपात्य अभिमन्त्र्य तेन शयनशालां प्रोक्ष्य शेषम् अभ्यन्तरद्वारे निनयेत् ।
तथा नग्नः सन् अनेनैव उलूखलम् अभिमन्त्रयेत ।
तथा गृहस्योत्तरां स्रक्तिं स्त्रीखट्वाया दक्षिणं पादं रज्जुं वा अभिमन्त्रयेत ।
सूत्रितं हि --“ 'सहस्रशृङ्गः' इति स्वापनम् । उदपात्रेण संपातवता शालां संप्रोक्ष्यापरस्मिन् द्वारपक्षे न्युब्जति । एवं नग्नः । उलूखलम् उत्तरां सक्तिं दक्षिणं शयनपादं तन्तून् अभिमन्त्रयते" (कौसू ३६, १-४ ) इति ।

स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत्।
तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्त्स्वापयामसि ।।१।।
सहस्रऽशृङ्गः । वृषभः । यः । समुद्रात् । उत्ऽआचरत् ।
तेन । सहस्येन । वयम् । नि । जनान् । स्वापयामसि ॥ १॥

सहस्रशृङ्गः सहस्ररश्मिः सूर्यः वृषभः वर्षिता कामानां वृष्टिजलस्य वा। स्मर्यते हि --
  'आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ।' (मस्मृ ३,७६ ) इति ।
एवंभूतो य आदित्यः समुद्रात् अम्बुधेः । यद्वा समुद्रम् इति अन्तरिक्षनाम । अन्तरिक्षप्रदेशाद् उदयाचलपरिसरवर्तिनः उदाचरत् उदगाद् तेन उदितेन सहस्येन। सहः शत्रूणाम् अभिभवनम् । तत्र साधुः सहस्यः । तादृशेन आदित्येन वयं जनान् अवस्थितान् नि ष्वापयामसि निष्वापयामः । स्वापेन परवशान् कुर्मः।


न भूमिं॒ वातो॒ अति॑ वाति॒ नाति॑ पश्यति॒ कश्च॒न।
स्त्रिय॑श्च॒ सर्वाः॑ स्वा॒पय॒ शुन॒श्चेन्द्र॑सखा॒ चर॑न् ।।२।।
न । भूमिम् । वातः । अति । वाति । न । अति । पश्यति । कः । चन ।
स्त्रियः । च । सर्वाः । स्वापय । शुनः । च । इन्द्रऽसखा । चरन् ॥२॥

वातः वायुः भूमिं नाति वाति नातिमात्रं गच्छतु। अतिवातेन स्वापभङ्गो मा भूद् इत्यर्थः । तथा कश्चन यः कोपि तत्रस्थो जनः नाति पश्यति अतिशयेन न पश्यतु । स्वापपरवशो भवतु इत्यर्थः । अपि च हे वात त्वम् इन्द्रसखा। इन्द्रः आत्मा । स सखा यस्य प्राणवायोः तदात्मकः चरन् देहे वर्तमानः तत्र परितोऽवस्थिताः सर्वाः स्त्रियश्च शुनश्च स्वापय । श्वन्शब्दात् शसि 'श्वयुवमघोनामतद्धिते' (पा ६,४,१३३) इति संप्रसारणम् ।


प्रो॑ष्ठेश॒यास्त॑ल्पेश॒या नारी॒र्या व॑ह्य॒शीव॑रीः।
स्त्रियो॒ याः पुण्य॑गन्धय॒स्ताः सर्वाः॑ स्वापयामसि ।।३।।
प्रोष्ठेऽशयाः । तल्पेऽशयाः । नारीः । याः। वह्यऽशीवरीः।
स्त्रियः । याः । पुण्यऽगन्धयः । ताः । सर्वाः । स्वापयामसि ॥ ३ ॥

प्रोष्ठेशयाः प्राङ्कणे शयानाः तल्पेशयाः 'खट्वायां शयानाः । उभयत्रापि 'अधिकरणे शेतेः' (पा ३,२,१५) इति अच्प्रत्ययः। 'शयवासवासिष्वकालात्' (पा ६,३,१८) इति सप्तम्या अलुक् । या एवंभूता नारीः नार्यः सन्ति याश्च वह्यशीवरीः। वहत्यनेनेति वहनसाधनम् आन्दोलिकादि वह्यम् । तत्र शयनस्वभावा याः स्त्रियः सन्ति । वह्यम् इति । 'वह्यं करणम्' (पा ३,१,१०२ ) इति यत्प्रत्ययान्तो निपात्यते । तस्मिन्नुपपदे शेतेः 'अन्येभ्योऽपि दृश्यन्ते' ( पा ३,२,७५) इति क्वनिप् । 'वनो र च' (पा ४,१,७) इति ङीब्रेफौ। जसि वा छन्दसि' (पा ६,१,१०६) इति पूर्वसवर्णदीर्घः । याश्च अन्याः स्त्रियः पुण्यगन्धयः शोभनगन्धयुक्ताः सन्ति । पुण्यस्य गन्ध इव गन्धो यासु इति विगृह्य 'उपमानाच्च' ( पा ५,४,१३७ ) इति गन्धस्य इत् अन्तादेशः। ता अनुक्रान्ताः सर्वाः स्त्रियः स्वापयामसि स्वापयामः।


एज॑देजदजग्रभं॒ चक्षुः॑ प्रा॒णम॑जग्रभम्।
अङ्गा॑न्यजग्रभं॒ सर्वा॒ रात्री॑णामतिशर्व॒रे ।।४।।
एजत्ऽएजत् । अजग्रभम् । चक्षुः । प्राणम् । अजग्रभम् ।
अङ्गानि । अजग्रभम् । सर्वा । रात्रीणाम् । अतिऽशर्वरे ॥ ४ ॥

एजदेजत् यद्यद् एजतिमद् अस्ति प्राणिजातं तत् सर्वम् अजग्रभम् स्वापेन गृहीतम् अकार्षम् । एजृ कम्पने इत्यस्मात् लटः शत्रादेशः । ग्रह उपादाने इत्यस्मात् ण्यन्तात् लुङि चङि अजग्रभम् इति रूपम् । 'हृग्रहोर्भः” ( पावा ८,२,३२ ) इति भत्वम् । तथा चक्षुः प्राणम् तदीयं दर्शनसाधनम् इन्द्रियं प्राणसंचारस्थानाश्रितं गन्धग्राहकम् इन्द्रियं च अजग्रभम् स्वापेन गृहीतम् अकृषि । तथा तदीयानि सर्वा सर्वाणि अङ्गानि हस्तपादादीनि अजग्रभम् अजिग्रहम् । एतत् सर्वं कस्मिन् काले कृतम् इति तद् आह -- रात्रीणाम् इति । रात्रीणां संबन्धिनि अतिशर्वरे अतिशयिता शर्वरी यस्मिन् काले स कालः अतिशर्वरः । तमोभूयिष्ठे मध्यरात्रकाल इत्यर्थः ।


य आस्ते॒ यश्चर॑ति॒ यश्च॒ तिष्ठ॑न्वि॒पश्य॑ति।
तेषां॒ सं द॑ध्मो॒ अक्षी॑णि॒ यथे॒दं ह॒र्म्यं तथा॑ ।।५।।
यः । आस्ते । यः । चरति । यः । च । तिष्ठन् । विऽपश्यति ।
तेषाम् । सम् । दध्मः । अक्षीणि । यथा । इदम् । हर्म्यम् । तथा ॥ ५॥

अस्मदभिसरणसमये यो जनः तत्र आस्ते यश्च चरति संचरति यश्च तत्र तिष्ठन् स्थितः सन् विपश्यति विविधम् इतस्ततः पश्यति । तेषां सर्वेषाम् अक्षीणि चक्षूंषि सं दध्मः । संहितानि निमीलितानि कुर्मः । तत्र दृष्टान्तः -- इदम् दृश्यमानं हर्म्यं यथा दर्शनशक्तिशून्यं तथा । चक्षुष्मदपि प्राणिजातं मां द्रष्टुम् असमर्थं भवतु इत्यर्थः ।


स्वप्तु॑ मा॒ता स्वप्तु॑ पि॒ता स्वप्तु॒ श्वा स्वप्तु॑ वि॒श्पतिः॑।
स्वप॑न्त्वस्यै ज्ञा॒तयः॒ स्वप्त्व॒यम॒भितो॒ जनः॑ ।।६।।
स्वप्तु । माता । स्वप्तु । पिता । स्वप्तु । श्वा । स्वप्तु । विश्पतिः।
स्वपन्तु । अस्यै । ज्ञातयः । स्वप्तु । अयम् । अभितः । जनः ॥ ६ ॥

यस्याः स्त्रियाः प्रस्वापनेन वशीकरणम् अत्र चिकीर्षितं तस्या माता प्रथमं स्वप्तु स्वपितु निद्रापरवशा भवतु । ञिष्वप् शये । अस्मात् लोटि अदादित्वात् शपो लुक् । 'रुदादिभ्यः सार्वधातुके' (पा ७,२,७६ ) इति इडभावश्छान्दसः। तस्याः पिता च स्वप्तु निद्रात् । यस्तस्य ग्रहस्य परिरक्षणाय श्वा द्वारि वर्तते सोपि स्वप्तु निद्रातु । विश्पतिः गृहाधिपतिश्च स्वप्तु शेताम् । अस्यै । षष्ठ्यर्थे चतुर्थी । अस्याः प्रेप्सितायाः स्त्रिया ये ज्ञातयः सन्ति तेपि स्वपन्तु । गृहाद् बहिः अभितः रक्षणार्थं नियुक्तः अयं जनश्च स्वप्तु निद्रागृहीतो भवतु । एवं मात्रादीनां स्वापनप्रार्थनेन स्वाभिलषितसिद्धिराशास्यते।


स्वप्न॑ स्वप्नाभि॒कर॑णेन॒ सर्वं॒ नि स्वा॑पया॒ जन॑म्।
ओ॑त्सू॒र्यम॒न्यान्त्स्वा॒पया॑व्यु॒षं जा॑गृताद॒हमिन्द्र॑ इ॒वारि॑ष्टो॒ अक्षि॑तः ।।७।।
स्वप्न । स्वप्नऽअभिकरणेन । सर्वम् । नि । स्वापय । जनम् ।
आऽउत्सूर्यम् । अन्यान् । स्वापय । आऽव्युषम् । जागृतात् । अहम् । इन्द्रःऽइव । अरिष्टः । अक्षितः ॥ ७॥

हे स्वप्न स्वप्नाभिमानिन् देव 'स्वप्नाधिकरणेन स्वप्नस्य यद् अधिकरणम् अधिष्ठानं शय्यादि तेन साधनेन सर्वं जनं नि ष्वापय नितरां स्वापय । अयमेवार्थः अवधिप्रदर्शनेन विव्रियते--मात्रादयो ये अन्ये अनुक्रान्ताः तान् अन्यान् ओत्सूर्यम् --उद्यन् सूर्यो यस्मिन् काले स उत्सूर्यः कालः तावत्पर्यन्तं स्वापय इत्यर्थः। एवं सर्वजनस्य प्रस्वापने सति अरिष्टः अहिंसितः अक्षितः क्षयरहितश्च सन् अहम् इन्द्र इव भोगपरो भूत्वा 'आव्यूषम् उषःकालावधि जागृतात् । पुरुषव्यत्ययः । जागरं करवाणि।।
इति चतुर्थे काण्डे प्रथमेऽनुवाके पञ्चमं सूक्तम् ।
। इति चतुर्थे काण्डे प्रथमोऽनुवाकः।।

[सम्पाद्यताम्]