सामग्री पर जाएँ

अथर्ववेदः/काण्डं २/सूक्तम् ३६

विकिस्रोतः तः
← सूक्तं २.३५ अथर्ववेदः - काण्डं २
सूक्तं २.३६
पतिवेदनः
दे. १ अग्निः, २ सोमः, अर्यमा, धाता, ३ अग्नीषोमौ, ४ इन्द्रः, ५ सूर्यः, ६ धनपतिः, ७ भगः, ८ औषधिः। त्रिष्टुप्, - -- ---

आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन ।
जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्तु अस्यै ॥१॥
सोमजुष्टं ब्रह्मजुष्टमर्यम्णा संभृतं भगम् ।
धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् ॥२॥
इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोति ।
सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजतु ॥३॥
यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव ।
एवा भगस्य जुष्टेयमस्तु नारी संप्रिया पत्याविराधयन्ती ॥४॥
भगस्य नावमा रोह पूर्णामनुपदस्वतीम् ।
तयोपप्रतारय यो वरः प्रतिकाम्यः ॥५॥
आ क्रन्दय धनपते वरमामनसं कृणु ।
सर्वं प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः ॥६॥
इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः ।
एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे ॥७
आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः ।
त्वमस्यै धेह्योषधे ॥८॥


सायणभाष्यम्

'आ नो अग्ने' इति सूक्तेन पतिलाभकर्मणि 'आगमकृशरं संपात्य कुमारीम् आशयेत् ।

तथा तस्मिन्नेव कर्मणि तस्या एव अलंकारगुग्गुल्वौक्षाणां संपातितानां क्रमेण बन्धनं धूपनं प्रलेपनं च कुर्यात् । औक्षशब्दः अग्रे व्याख्यास्यते ।

तथैव अनेन सूक्तेन रात्रौ व्रीहीन् हुत्वा कुमारीं दक्षिणेन प्रक्रामयेत् ।

एवम् अनेनैव सूक्तेन संपातवतीं नावं कन्यकाम् आरोग्य ‘भगस्य नावम्' (अ २,३६,५) इति पञ्चम्यर्चा ताम् उत्तारयेत् ।

तथा पतिलाभविज्ञानकर्मणि सप्तदामतन्त्र्यां संपातवत्यां सप्त वत्सान् बन्धयित्वा कुमार्या मोचयेत् । सा यदि प्रदक्षिणं मुञ्चेत् तर्हि पतिलाभं जानीयात् ।

तथा अनेनैव सूक्तेन अहतवस्त्रेण वेष्टितम् ऋषभं संपात्य विसर्जयेत् ।

अत्र “पतिवेदनानि । 'आ नो अग्ने' इत्यागमकृशरम् आशयति । मृगाखराद् वेद्यां मन्त्रोक्तानि संपातवन्ति” (कौसू ३४,१२-१४ ) इत्यादि सूत्रं द्रष्टव्यम् ।

तथा अनेनैव सूक्तेन विवाहकर्मणि आगमकृशरं' संपात्य अभिमन्त्र्य कन्यकां प्राशयेत् । तद् उक्तं सूत्रकृता -- 'अथ विवाहः' इति प्रक्रम्य " 'पूर्वापरम्' (अ ७,८६) इत्युपदधीत । 'पतिवेदनं' ( अ २,३६ ) च” (कौसू ७५,१-७) इति । अत्र पतिवेदनशब्देन पतिलाभसाधनत्वाद् इदमेव सूक्तं विवक्षितम् ।


आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन ।

जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्तु अस्यै ॥१॥

आ। नः । अग्ने । सुऽम॒तिम् । सम्ऽभलः । गमेत् । इमाम् । कुमारीम् । सह । नः । भगेन ।

जुष्टा । वरेषु । समनेषु । वल्गुः । ओषम् । पत्या । सौभगम् । अस्तु । अस्यै ॥ १ ॥

हे अग्ने संभलः संभाषकः समादाता वा कन्यार्थी पुरुषः नः अस्माकं कन्यावतां सुमतिम् शोभनां बुद्धिम् आ गमेत् आगच्छतु अस्मद्बुद्ध्यनुसारेण सर्वलक्षणसंपूर्णः 'अभिलषितो वरः प्राप्नोतु । यद्वा संभलो हिंसकः पूर्वम् अभिलाषविघाती कन्याम् अनिच्छन् पुरुषः सुमतिम एतत्कामनायुक्तां कल्याणीं बुद्धिं प्राप्य नः अस्मान् आ गमेत् । कन्यां वरयितुम् इति शेषः । भल भल्ल परिभाषणहिंसादानेषु । अस्मात् संपूर्वात पचाद्यच् । गमेदिति । 'लिङ्याशिष्यङ्' (पा ३,१,८६) इति अङ्प्रत्ययः। आगत्य च भगेन भाग्येन सह नः अस्मदीयाम् इमां कुमारीम् । आ गमेत् इत्यनुषङ्गः। कुमारशब्दाद् वयसि प्रथमे' (पा ४,१,२०) इति ङीप् । ततः समनेषु समानमनस्केषु । सलोपश्छान्दसः । यद्वा समानं मन्यमानेषु सहृदयेषु । मन्यतेः पचाद्यच् । वरेषु वरयितृषु कन्यावरणार्थम् आगतेषु वरपक्षीयेषु । उक्तं हि वरप्रेषणम् आपस्तम्बेन--सुहृदः समवेतान् मन्त्रवतो वरान् प्रहिणुयात्' (आपगृ ४,१) इति । तेषु जुष्टा प्रीता वरयितृपुरुषसंमता सती वल्गुः रुचिरा प्रीतिजननी स्यात् । 'जुष्टार्पिते च च्छन्दसि', 'नित्यं मन्त्रे' (पा ६,१,२०९:२१०) इति जुष्टशब्द आद्युदात्तः । ऊषम् ऊषति रुजति अपनुदति दुःखजातम् इति ऊषम् सुखकरम् । ऊष रुजायाम् इति धातोरच् । यद्वा वस निवासे इत्यस्माद् ‘घञर्थे कविधानम्' (पावा ३,३,५८) इति करणे कप्रत्ययः । यजादित्वात् संप्रसारणे 'कृञादीनां के द्वे भवतः' ( पावा ६,१,१२) इति द्विर्वचने सवर्णदीर्घे शासिवसिघसीनाञ्च' (पा ८,३,६०) इति षत्वे च रूपम् । पत्या सह निवाससाधनं सौभगम् सौभाग्यम् अस्यै अस्याः कुमार्यै कुमार्याः अस्तु भवतु । षष्ठ्यर्थे चतुर्थी । सौभगशब्दस्य अञ्प्रत्ययः उत्तरपदवृद्ध्यभावश्च प्राग् उक्तः।


सोमजुष्टं ब्रह्मजुष्टमर्यम्णा संभृतं भगम् ।

धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् ॥२॥

सोमऽजुष्टम् । ब्रह्मऽजुष्टम् । अर्यम्णा । सम्ऽभृतम् । भगम् ।

धातुः । देवस्य । सत्येन । कृणोमि । पतिऽवेदनम् ॥२॥

सोमजुष्टम् सोमदेवेन सेवितं ब्रह्मजुष्टम् ब्रह्मणा परिवृढेन गन्धर्वेण च जुष्टम् । अर्यम्णा । अत्र अर्यमशब्देन विवाहाग्निरुच्यते-- 'अर्यमणं नु देवं कन्या अग्निम् अयक्षत' (आश्वगृ १,७,१३) इति मन्त्रवर्णात् । तेन च संभृतम् स्वीकृतं भगम् कन्यारूपं भागधेयं धातुः 'धाता गर्भं दधातु ते' (ऋ १०,१८४,१) इति प्रसिद्धस्य देवस्य सत्येन अनुज्ञारूपेण यथार्थवचनेन पतिवेदनम् देवताव्यतिरिक्तस्य मनुष्यरूपस्य पत्युर्लम्भकं कृणोमि करोमि । सोमादिदेवतात्रयोपभोगानन्तरं कन्याया मानुषपतिसंबन्धः श्रुत्यन्तरे समाम्नायते -- 'सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः' (ऋ १०, ८५,४०, इति।


इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोति ।

सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजतु ॥३॥

इयम् । अग्ने । नारी । पतिम् । विदेष्ट । सोमः । हि । राजा । सुऽभगाम् । कृणोति ।

सुवाना । पुत्रान् । महिषी । भवाति । गत्वा । पतिम् । सुऽभगा । वि । राजतु ॥ ३ ॥

हे अग्ने इयम् अस्मदीया नारी कुमारी पतिं विदेष्ट विन्दतां लभताम् । विद्लृ लाभे इत्यस्माद् आशिषि लिङि 'लिङ्याशिष्यङ्' (पा ३,१,८६ ) । 'छन्दस्युभयथा' (पा ३, ४,११७) इति लिङः सार्वधातुकत्वात् सीयुटः सलोपः। 'सुट् तिथोः' (पा ३,४,१०७ ) इति सुडागमः । हि यस्मात् सोमो राजा सुभगाम् सौभाग्ययुक्तां कृणोति करोति । सुभगाम् इति । 'आद्युदात्तं द्व्यच् छन्दसि' (पा ६,२,११९ ) इत्युत्तरपदाद्युदात्तत्वम् । पतिलाभानन्तरं पुत्रान् सुवाना जनयन्ती। षूङ् प्राणिगर्भविमोचने । आदादिकः। महिषी महनीया श्रेष्ठा भार्या भवाति भवतु । महिषीति। मह पूजायाम् । अविमह्योष्टिषच् ( पाउ १,४५ ) । टित्त्वान्ङीप् । इत्थं पतिं गत्वा लब्ध्वा सुभगा सौभाग्ययुक्ता सती वि राजतु विशेषेण तेजस्विनी भवतु ।


यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव ।

एवा भगस्य जुष्टेयमस्तु नारी संप्रिया पत्याविराधयन्ती ॥४॥

यथा । आऽख़रः । मघऽवन् । चारुः । एषः । प्रियः । मृगाणाम् । सुऽसदाः । बभूव ।

एव । भगस्य । जुष्टा। इयम् । अस्तु । नारी । सम्ऽप्रिया । पत्या । अविऽराधयन्ती ॥४॥

मघवान् मंहनीयभोग्यपदार्थयुक्तः चारुः शोभनः मृगाणाम् *[एषः] आखरः निजावासप्रदेशः। खनु अवदारणे इत्यस्माद् आङ्पूर्वात् 'डरो वक्तव्यः' (पावा ३,३,१२५) इति डरः। टिलोपः । स प्रदेशः प्रियः सन् यथा येन प्रकारेण सुषदाः सुखेन स्थातुं योग्यो बभूव भवति । छान्दसो लिट् । सुपूर्वात् सदेरसुनि रूपम् । एव एवम् इयं नारी भगस्य भाग्येन जुष्टास्तु । किं कुर्वती । पत्या भर्त्रा सह संप्रिया संप्रियाणि सम्यक्प्रीतिकराणि भोग्यानि वस्तूनि अभिराधयन्ती अभिवर्धयन्ती । यद्वा पत्या सह संप्रिया संप्रीयमाणा अभिराधयन्ती पुत्रपश्वादिभिः समृद्धा भवन्ती।


भगस्य नावमा रोह पूर्णामनुपदस्वतीम् ।

तयोपप्रतारय यो वरः प्रतिकाम्यः ॥५॥

भगस्य । नावम् । आ । रोह । पूर्णाम् । अनुपऽदस्वतीम् ।

तया । उपऽप्रतारय । यः । वरः । प्रतिऽकाम्यः ॥ ५॥

भगस्य भाग्यस्य प्राप्तिसाधनभूतां पूर्णाम् अभिमतफलैः परिपूरिताम् अनुपदस्वतीम् क्षयरहितां नावम् हे कन्ये त्वम् आ रोह। तया उक्तलक्षणया नावा उप अभिलष्यमाणपतिसमीपं प्रतारय आत्मानं प्रापय । प्रतिकाम्यः अयमेव मे भर्ता स्याद् इति प्रतिनियतं काम्यमानो यो वरः पतिस्तस्य समीपम् इति पूर्वत्र संबन्धः ।


आ क्रन्दय धनपते वरमामनसं कृणु ।

सर्वं प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः ॥६॥

आ। क्रन्दय । धनऽपते । वरम् । आऽमनसम् । कृणु ।

सर्वम् । प्रदक्षिणम् । कृणु । यः । वरः । प्रतिऽकाम्यः ॥ ६ ॥

हे धनपते वैश्रवण वरम् वरयितारं पतिम् आ क्रन्दय एषा कन्या मे जाया भूयाद् इति संततम् उद्घोषय । अभिधापयेत्यर्थः। 'आङः क्रन्द सातत्ये' इति णिच् । यद्वा वरम् आ क्रन्दय एतत्कन्याभिमुखम् आह्वय । क्रदि आह्वाने । तथा आमनसम् अभिमुखमनस्कं कृणु कुरु । किञ्च सर्वम् प्राणिजातं प्रदक्षिणम् प्रदक्षिणाचारं विवाहानुकूलव्यापारं कृणु कुरु । यो वरः प्रतिकाम्यः । उक्तोर्थः। तस्मै सर्वं प्रदक्षिणं कुरु इति संबन्धः।


इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः ।

एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे ॥७

इदम् । हिरण्यम् । गुल्गुलु । अयम् । औक्षः । अथो इति । भगः ।

एते । पतिऽभ्यः । त्वाम् । अदुः । प्रतिऽकामाय । वेत्तवे ॥ ७ ॥

इदं हिरण्यम् हिरण्मयालंकारः गुग्गुलु धूपनद्रव्यविशेषः प्रसिद्धः । अयम् औक्षः प्रलेपनद्रव्यम् । तत्स्वरूपं च कौशिकसूत्रभाष्यकारैर्दर्शितम् -- ‘आवपेत् सुरभि गन्धान् क्षीरे सर्पिष्यथोदके ।

एतद् आयनम् इत्याहुरौक्षं तु मधुना सह ॥' ( केगृ ३४,१४ ) इति ।

अथो अपि च तेषाम् अलंकारादीनाम् अधिष्ठाता भगः एतन्नामा देवः एते सर्वे धारणधूपनलेपनैः हे कुमारि त्वां पतिभ्यः सोमगन्धर्वाग्निभ्यः प्रतिकामाय प्रतिनियतम् एनां कन्यां कामयमानं मानुषं पतिं वेत्तवे वेत्तुं लब्धुम् अदुः दत्तवन्तः। दाञो लुङि 'गातिस्था' (पा २,४,७७ ) इति सिचो लुक् । प्रतिकामाय। ‘क्रियाग्रहणं कर्तव्यम्' (पावा १,४,३२) इति कर्मणः संप्रदानत्वात् चतुर्थी। वेत्तवे इति। 'तुमर्थे सेसनसे' (पा ३,४,९) इत्यादिना विदेर्लाभार्थात् तवेन्प्रत्ययः।


आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः ।

त्वमस्यै धेह्योषधे ॥८॥

आ । ते । नयतु । सविता । नयतु । पतिः । यः । प्रतिऽकाम्यः ।

त्वम् । अस्यै । धेहि । ओषधे ॥ ८ ॥

हे कन्ये ते त्वाम् अभिलक्ष्य सविता सर्वस्य प्रेरको देवः आ नयतु वरम् आगमयतु । यः प्रतिकाम्यः । उक्तोर्थः। पतिः सोपि नयतु उपयम्य त्वां स्वगृहं प्रापयतु । तथा हे ओषधे व्रीह्यात्मके त्वम् अस्यै कुमार्यै धेहि पतिं विधेहि। प्रयच्छेत्यर्थः। 'ध्वसोरेद्धावभ्यासलोपश्च' (पा ६,४,११९ ) इति एत्वाभ्यासलोपौ ।

द्वितीये काण्डे षष्ठेऽनुवाके पञ्चमं सूक्तम् ।

समाप्तश्च षष्ठोऽनुवाकः।

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरश्रीवीरप्रतापहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणार्येण विरचिते माधवीये अथर्ववेदार्थप्रकाशके द्वितीये काण्डे षष्ठोऽनुवाकः । समाप्तं द्वितीयं काण्डम् ॥