सामग्री पर जाएँ

अथर्ववेदः/काण्डं २/सूक्तम् १०

विकिस्रोतः तः
← सूक्तं २.०९ अथर्ववेदः - काण्डं २
सूक्तं २.१०
भृग्वङ्गिराः
सूक्तं २.११ →
दे. १-८ द्यावापृथिवी, ब्रह्म, २ अग्निः, आपः, ओषधयः, सोमः, ३ वातः,दिशः, ४-८ वातपत्नीः, सूर्यः, यक्ष्मं, निर्ऋतिः। १ त्रिष्टुप् - - - -- --

क्षेत्रियात्त्वा निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥१॥
शं ते अग्निः सहाद्भिरस्तु शं सोमः सहौषधीभिः ।
एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥२॥
शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः ।
एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥३॥
इमा या देवीः प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे ।
एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥४॥
तासु त्वान्तर्जरस्या दधामि प्र यक्ष्म एतु निर्ऋतिः पराचैः ।
एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥५॥
अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः पाशाद्ग्राह्याश्चोदमुक्थाः ।
एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥६॥
अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके ।
एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥७॥
सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन् निरेनसः ।
एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥८॥


सायणभाष्यम्

क्षेत्रियात् त्वा' इति सूक्तेन पूर्वोक्तक्षेत्रियरोगशान्तये चतुष्पथे उदकघटं संपात्य अभिमन्त्र्य व्याधितपर्वसु काम्पीलशकलानि बद्ध्वा कूर्चैः सह तेनोदकेन आप्लावयेद् अवसिञ्चेत् । सूत्रितं हि -- 'क्षेत्रियात् त्वा' इति चतुष्पथे काम्पीलशकलैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति । अवसिञ्चति (कौसू २७.७; ८) इति।


क्षेत्रियात्त्वा निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।

अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥१॥

क्षेत्रियात् । त्वा । निःऽऋत्याः । जामिशंसात् । द्रुहः । मुञ्चामि । वरुणस्य । पाशात् ।

अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति। उभे इति । स्ताम् ॥ १॥

हे क्षेत्रियव्याधिपीडित पुरुष त्वा त्वां क्षेत्रियात् क्षयकुष्ठादिदोषदूषितपितृमात्रादिशरीरावयवेभ्य आगतात् पुत्रादिशरीरसंक्रान्तात् क्षयकुष्ठादेः मुञ्चामि मोचयामि। पुत्रशरीरे पित्रादिशरीरावयवसंक्रान्तिः श्रुत्यन्तरे श्रूयते -- 'अङ्गाद् अङ्गात् संभवसि हृदयाद् अधि जायसे' ( आगृ १,१५,११) इति । तथा निर्ऋत्याः रोगनिदानभूतायाः पापदेवतायाः सकाशात् जामिशंसात् । सह जायत इति जामिर्भगिनी तदुपलक्षिता बन्धवो जामयः। अप्राप्ताभिलषितानां तेषां शंसनात् आक्रोशजनितात् पापात् द्रुहः गुरुदेवतादिद्रोहात् वरुणस्य देवस्य पाशात् पापिनां निग्राहकात् त्वा मुञ्चामि इति सर्वत्र संबन्धः। निर्ऋत्यादीनां महारोगनिदानत्वात् तदनिवृत्तौ रोगनिवृत्तेरसंभवात् ततोपि मोचनम् उक्तम् । अपिच त्वा त्वां ब्रह्मणा मन्त्रेण अनागसम् अपराधरहितं कृणोमि करोमि । न तत् सर्वं मत्सामर्थ्येन करोमि अपितु मन्त्रप्रभावेनेति तात्पर्यार्थः । ततः हे व्याधित द्यावापृथिवी द्यावापृथिव्यौ उभे ते तव शिवे कल्याणकारिण्यौ स्ताम् भवताम् । अस्तेर्लोटि तसस्ताम् । 'श्नसोरल्लोपः' (पा ६,४,१११) इत्यकारलोपः। सत्स्वपि देवतान्तरेषु द्यावापृथिव्योरेव प्रार्थनम् भौमंदिव्यापराधजनितत्वात् सर्वरोगाणाम् ‘द्यौः पिता पृथिवी माता' ( तैब्रा ३,७,५,४; ५ ) इति श्रुतेः तयोरेव सर्वजगन्मातापितृत्वेन सर्वदेवान्तर्भावात् तत्प्रसादेन सर्वरोगशान्तिः सर्वदेवताप्रीतिश्च भवतीत्येवमर्थं कृतम् ।


शं ते अग्निः सहाद्भिरस्तु शं सोमः सहौषधीभिः ।

एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।

अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥२॥

शम् । ते । अग्निः । सह । अत्ऽभिः । अस्तु । शम् । सोमः । सह । ओषधीभिः ।

एव । अहम् । त्वाम् । क्षेत्रियात् । निःऽऋत्याः । जामिऽशंसात् । द्रुहः । मुञ्चामि । वरुणस्य । पाशात् ।

अनागसम् । ब्रह्मणा। त्वा । कृणोमि । शिवे इति। ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥२॥

हे रुग्ण ते तव अग्निः अयं चतुष्पथे हूयमानः पृथिवीस्थानः अद्भिः अभिमन्त्रितोदकाभिमानिदेवताभिः सह समस्तव्याध्युपशमनेन शम् सुखकरो *[अस्तु] भवतु । सोमः ओषधीनां राजा ओषधीभिः ओषध्युपलक्षितैः काम्पीलादिभिरौषधगणैः सह शम् सुखकरो भवतु । 'ओषधेश्च विभक्तावप्रथमायाम्' (पा ६,३,१३२ ) इति सांहितिको दीर्घः। एव एवम् अहं प्रयोक्ता त्वा त्वाम् । क्षेत्रियादित्यादि पूर्ववद् योज्यम्।


शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः ।

एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।

अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥३॥

शम् । ते । वातः । अन्तरिक्षे । वयः । धात् । शम् । ते। भवन्तु । प्रऽदिशः । चतस्रः।

एव । अहम् । त्वाम् । क्षेत्रियात् । निःऽऋत्याः । जामिऽशंसात् । द्रुहः । मुञ्चामि । वरुणस्य । पाशात् ।

अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥ ३ ॥

हे रुग्ण ते तव अन्तरिक्षे अन्तरा क्षान्ते द्यावापृथिव्योर्मध्ये वर्तमाने वा । 'अन्तरा क्षान्तं भवति । अन्तरेमे इति वा' इत्यादि निरुक्तम् (२,१० )। तस्मिन् स्वस्थाने वयोधाः वयसां पक्षिणां धाता धारयिता, वयसाम् अन्नेन पोषयिता वा वातः अन्तरिक्षाधिपतिर्वायुः शम् सुखकरो भवतु । तथा चतस्रः प्रदिशः प्रकृष्टा दिशः प्राच्याद्या महादिशः ते तव शं भवन्तु सुखकर्यो भवन्तु । एवाहम् इत्यादि गतम् ।


इमा या देवीः प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे ।

एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।

अनागसं ब्रह्मणा त्वा कृनोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥४॥

इमाः । याः । देवीः । प्रऽदिशः । चतस्रः । वातऽपत्नीः । अभि । सूर्यः । विऽचष्टे ।

एव । अहम् । त्वाम् । क्षेत्रियात् । निःऽऋत्याः । जामिऽशंसात् । द्रुहः । मुञ्चामि । वरुणस्य । पाशात् ।

अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥ ४ ॥

इमाः परिदृश्यमाना देवीः द्योतमानाः वातपत्नीः वातः पतिर्यासाम् । 'विभाषा सपूर्वस्य' ( पा ४,१,३४ ) इति ङीब्नकारौ। दिक्षु वायोः संचारात् तत्पतित्वोपचारः । एवंभूता याश्चतस्रः प्रदिशः सूर्यः सर्वस्य प्रेरयिता द्युस्थानाधिपतिः सविता अभि अभितः सर्वतो विचष्टे । पश्यतिकर्मायम् । विपश्यति । स्वकिरणप्रसारणेन प्रकाशयतीत्यर्थः । चतस्र इति 'चतसर्याद्युदात्तत्वनिपातनम्' ( पावा ७,२,९९) इति वचनात् 'चतुरः शसि' (पा ६,१,१६७ ) इति अन्तोदात्तत्वाभावः । चष्ट इति । चक्षिङ् व्यक्तायां वाचि । अदादित्वात् शपो लुक् । 'स्कोः संयोगाद्योरन्ते च' (पा ८,२,२९ ) इति कलोपः । ताभिः सह सूर्यः शं भवतु इत्यनुषङ्गः । एवाहम् इत्यादि गतम्।।


तासु त्वान्तर्जरस्या दधामि प्र यक्ष्म एतु निर्ऋतिः पराचैः ।

एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।

अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥५॥

तासु । त्वा । अन्तः । जरसि । आ । दधामि । प्र । यक्ष्मः । एतु । निःऽऋतिः । पराचैः ।

एव । अहम् । त्वाम् । क्षेत्रियात् । निःऽऋत्याः । जामिऽशंसात् । दुहः । मुञ्चामि । वरुणस्य । पाशात् ।

अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते। द्यावापृथिवी इति । उभे इति । स्ताम् ॥ ५ ॥

याः पूर्वमन्त्रोक्ता दिशः तासु अन्तः मध्ये हे रुग्ण त्वा त्वां जरसि जरायाम् आ दधामि । जरापर्यन्तं रोगादिपरिहारेण जीवयन् शतायुषं करोमीत्यर्थः । 'जराया जरस न्यतरस्याम्' (पा ७,२,१०१) इति जरसादेशः । यक्ष्मः त्वदीयो राजयक्ष्मादिः क्षेत्रियः प्रैतु प्रगच्छतु त्वां विमुञ्चतु । निर्ऋतिः त्वद्रोगनिदानभूता पापदेवता पराचैः पराङ्मुखी प्रैतु। प्रतिनिवृत्य अनवलोकयन्ती दूरं गच्छतु इत्यर्थः । एवाहं त्वेत्यादि गतम्।


अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः पाशाद्ग्राह्याश्चोदमुक्थाः ।

एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।

अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥६॥

अमुक्थाः । यक्ष्मात् । दुःऽइतात् । अवद्यात् । द्रुहः । पाशात् । ग्राह्याः । च । उत् । अमुक्थाः।

एव । अहम् । त्वाम् । क्षेत्रियात् । निःऽऋत्याः । जामिऽशंसात् । द्रुहः । मुञ्चामि । वरुणस्य । पाशात् ।

अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति। उभे इति । स्ताम् ॥ ६॥

हे रुग्ण त्वं यक्ष्मात् क्षेत्रियव्याधेः। अमुक्थाः मुक्तोसि। मा संशयं कार्षीरित्यर्थः। मुच्लृ मोक्षणे । अस्मात् कर्मणि लुङि मध्यमैकवचने 'झलो झलि' (पा ८,२,२६) इति सिचो लोपः । तथा दुरितात् दुर्गतात् रोगनिदानभूतात् पापात् अवद्यात् जाम्याद्यभिशंसनरूपाद् निन्दनात् । 'अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु' (पा ३,१,१०१) इति यत्प्रत्ययान्तो निपातितः । द्रुहः देवतादिद्रोहात् । पाशात् पापिनो निग्राहकाद् वरुणपाशात् ग्राह्याः ब्रह्मराक्षस्यादिरूपायाः पिशाच्याश्च उदमुक्थाः उन्मुक्तो भवसि । एवाहम् इत्यादि पूर्ववत् ।


अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके ।

एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।

अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥७॥

अहाः । अरातिम् । अविदः । स्योनम् । अपि । अभूः । भद्रे । सुऽकृतस्य । लोके ।

ए॒व । अहम् । त्वाम् । क्षेत्रियात् । निःऽऋत्याः । जामिऽशंसात् ।द्रुहः । मुञ्चामि । वरुणस्य । पाशात् ।

अनागसम् । ब्रह्मणा । त्वा । कृणोमि। शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥ ७॥

हे व्याधित अरातिम् शत्रुवद्बाधकं रोगं शत्रुमेव वा अहाः अहासीः अत्याक्षीः । ओहाक् त्यागे । लुङि ‘मन्त्रे घसह्वरणशवृदहाद्' (पा २,४,८०) इति च्लेर्लुक् । स्योनम् । सुखनामैतत् । सुखम् अविदः लब्धवान् असि । विद्लृ लाभे इत्यस्माद् लुङि लृदित्वाद् अङ् । भद्रे भन्दनीये कल्याणे सुकृतस्य सुष्ठु कृतस्य पुण्यस्य फलभूतेऽस्मिन् भूलोके अप्यभूत् । 'अपिः पदार्थसंभावनान्ववसर्ग” (पा १,४,९६) इति कस्यचित् पदस्यार्थे अपिशब्दस्य कर्मप्रवचनीयसंज्ञाविधानाद् अत्र अन्वेतुं योग्ये जीवननिवासादिपदार्थे अपि शब्दो वर्तते । भूलोके चिरकालनिवासो दीर्घजीवनं वा तव अभूद् इत्यर्थः। एवाहम् इत्यादि गतम्।


सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन् निरेनसः ।

एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।

अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥८॥

सूर्यम् । ऋतम् । तम॑सः । ग्राह्याः। अधि । दे॒वाः। मुञ्चन्तः। असृजन् । निः। एनसः ।

एव । अ॒हम् । त्वाम् । क्षेत्रियात् । निःऽऋत्याः । जामिऽशंसात् । द्रुहः । मुञ्चामि । वरुणस्य। पाशात्।

अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥ ८॥

ऋतं सत्यभूतं सूर्यं तमसः स्वर्भानुरूपाद् ग्राह्याः ग्रहात् । अधिः पञ्चम्यर्थानुवादी। मुञ्चन्तः मोचयन्तो देवाः इन्द्रादयः एनसः तद्धेतुभूतात् पापाद् निरसृजन् निरगमयन् । सृज विसर्ग। 'सुवर्भानुरासुरः सूर्यं तमसा विध्यत् तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्' (तै २,१,२,२ ) इत्यादि तैत्तिरीयकम् । यथा देवाः सूर्यं राहुग्रहाद् अमोचयन् एवम् अहमपि त्वां मन्त्रप्रभावेन क्षेत्रियरोगात् तन्निदानभूतपापादिभ्यश्च मोचयामीत्यर्थः ।

इति द्वितीयेऽनुवाके पञ्चमं सूक्तम् ।

इति द्वितीयोऽनुवाकः।