अथर्ववेदः/काण्डं २०/सूक्तम् १२४

विकिस्रोतः तः
← सूक्तं २०.१२३ अथर्ववेदः - काण्डं २०
सूक्तं २०.१२४
१-३ वामदेवः, ४-६ भुवनः।
सूक्तं २०.१२५ →
दे. इन्द्रः। १-२ गायत्री, ३ पादनिचृत्, ४-६ त्रिष्टुप्।

कया नश्चित्र आ भुवदूती सदावृधः सखा ।
कया शचिष्ठया वृता ॥१॥
कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।
दृल्हा चिदारुजे वसु ॥२॥
अभी षु नः सखीनामविता जरितॄणाम् ।
शतं भवास्यूतिभिः ॥३॥
इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ।
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥४॥
आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ।
हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥५॥
प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ।
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥६॥