अथर्ववेदः/काण्डं २०/सूक्तम् १२२

विकिस्रोतः तः
← सूक्तं २०.१२१ अथर्ववेदः - काण्डं २०
सूक्तं २०.१२२
शुनःशेपः।
सूक्तं २०.१२३ →
दे. इन्द्रः। गायत्री।

रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
क्षुमन्तो याभिर्मदेम ॥१॥
आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णवियानः ।
ऋणोरक्षं न चक्रयोः ॥२॥
आ यद्दुवः शतक्रतवा कामं जरितॄणाम् ।
ऋणोरक्षं न शचीभिः ॥३॥