अथर्ववेदः/काण्डं २०/सूक्तम् १०८

विकिस्रोतः तः
← सूक्तं २०.१०७ अथर्ववेदः - काण्डं २०
सूक्तं २०.१०८
ऋ. नृमेधः।
सूक्तं २०.१०९ →
दे. इन्द्रः। १ गायत्री, २ ककुप्, ३ पुर उष्णिक्।

त्वं न इन्द्रा भरमोजो नृम्णं शतक्रतो विचर्षणे ।
आ वीरं पृतनाषहम् ॥१॥
त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।
अधा ते सुम्नमीमहे ॥२॥
त्वां शुष्मिन् पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो ।
स नो रास्व सुवीर्यम् ॥३॥