अथर्ववेदः/काण्डं २०/सूक्तम् ०९५

विकिस्रोतः तः
← सूक्तं २०.०९४ अथर्ववेदः - काण्डं २०
सूक्तं २०.०९५
१ गृत्समदः, २-४ सुदाः पैजवनः।
सूक्तं २०.०९६ →
दे. इन्द्रः। १ अष्टिः, २-४ शक्वरीः।

त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत्।
स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥१॥
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥२॥
त्वं सिन्धूंरवासृजोऽधराचो अहन्न् अहिम् ।
अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥३॥
वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु ।
नभन्तामन्यकेषां ज्यका अधि धन्वसु ॥४॥