अथर्ववेदः/काण्डं २०/सूक्तम् ०९३

विकिस्रोतः तः
← सूक्तं २०.०९२ अथर्ववेदः - काण्डं २०
सूक्तं २०.०९३
१-३ प्रगाथः, ४-८ देवजामयः।
सूक्तं २०.०९४ →
दे. इन्द्रः। गायत्री।

उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।
अव ब्रह्मद्विषो जहि ॥१॥
पदा पणींरराधसो नि बाधस्व महामसि ।
नहि त्वा कश्चन प्रति ॥२॥
त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् ।
त्वं राजा जनानाम् ॥३॥
ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते ।
भेजानासः सुवीर्यम् ॥४॥
त्वमिन्द्र बलादधि सहसो जात ओजसः ।
त्वं वृषन् वृषेदसि ॥५॥
त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः ।
उद्द्यामस्तभ्ना ओजसा ॥६॥
त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः ।
वज्रं शिशान ओजसा ॥७॥
त्वमिन्द्राभिभुरसि विश्वा जातान्योजसा ।
स विश्वा भुव आभवः ॥८॥