अथर्ववेदः/काण्डं २०/सूक्तम् ०६६

विकिस्रोतः तः
← सूक्तं २०.०६५ अथर्ववेदः - काण्डं २०
सूक्तं २०.०६६
विश्वमनाः।
सूक्तं २०.०६७ →
दे. इन्द्रः। उष्णिक्।

स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् ।
अर्यो गयं मंहमानं वि दाशुषे ॥१॥
एवा नूनमुप स्तुहि वैयश्व दशमं नवम् ।
सुविद्वांसं चर्कृत्यं चरणीनाम् ॥२॥
वेत्था हि निर्ऋतीनां वज्रहस्त परिवृजम् ।
अहरहः शुन्ध्युः परिपदामिव ॥३॥