अथर्ववेदः/काण्डं २०/सूक्तम् ०४२

विकिस्रोतः तः
← सूक्तं २०.०४१ अथर्ववेदः - काण्डं २०
सूक्तं २०.०४२
कुरुस्तुतिः।
सूक्तं २०.०४३ →
दे. इन्द्रः। गायत्री।

वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् ।
इन्द्रात्परि तन्वं ममे ॥१॥
अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् ।
इन्द्र यद्दस्युहाभवः ॥२॥
उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः ।
सोममिन्द्र चमू सुतम् ॥३॥