अथर्ववेदः/काण्डं २०/सूक्तम् ०२२

विकिस्रोतः तः
← सूक्तं २०.०२१ अथर्ववेदः - काण्डं २०
सूक्तं २०.०२२
१-३ त्रिशोकः, ४-६ प्रियमेधः।
सूक्तं २०.०२३ →
दे. इन्द्रः। गायत्री।

अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
तृम्पा व्यश्नुही मदम् ॥१॥
मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
माकीं ब्रह्मद्विषो वनः ॥२॥
इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।
सरो गौरो यथा पिब ॥३॥
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
सूनुं सत्यस्य सत्पतिम् ॥४॥
आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
यत्राभि संनवामहे ॥५॥
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
यत्सीमुपह्वरे विदत्॥६॥