अथर्ववेदः/काण्डं २०/सूक्तम् ०२०

विकिस्रोतः तः
← सूक्तं २०.०१९ अथर्ववेदः - काण्डं २०
सूक्तं २०.०२०
१-४ विश्वामित्रः, ५-७ गृत्समदः।
सूक्तं २०.०२१ →
दे. इन्द्रः। गायत्री

20.20
शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।
इन्द्र सोमं शतक्रतो ॥१॥
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
इन्द्र तानि त आ वृणे ॥२॥
अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।
उत्ते शुष्मं तिरामसि ॥३॥
अर्वावतो न आ गह्यथो शक्र परावतः ।
उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥४॥
इन्द्रो अङ्गं महद्भयमभि षदप चुच्यवत्।
स हि स्थिरो विचर्षणिः ॥५॥
इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्।
भद्रं भवाति नः पुरः ॥६॥
इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्।
जेता शत्रून् विचर्षणिः ॥७॥