अथर्ववेदः/काण्डं २०/सूक्तम् ०१८

विकिस्रोतः तः
← सूक्तं २०.०१७ अथर्ववेदः - काण्डं २०
सूक्तं २०.०१८
१-३ मेधातिथिः प्रियमेधश्च, ४-६ वसिष्ठः।
सूक्तं २०.०१९ →
दे. इन्द्रः। गायत्री।

वयमु त्वा तदितर्था इन्द्र त्वायन्तः सखायः ।
कण्वा उक्थेभिर्जरन्ते ॥१॥
न घेमन्यदा पपन वज्रिन्न् अपसो नविष्टौ ।
तवेदु स्तोमं चिकेत ॥२॥
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
यन्ति प्रमादमतन्द्राः ॥३॥
वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् ।
विद्धि त्वस्य नो वसो ॥४॥
मा नो निदे च वक्तवेऽर्यो रन्धीरराव्ने ।
त्वे अपि क्रतुर्मम ॥५॥
त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् ।
त्वया प्रति ब्रुवे युजा ॥६॥