अथर्ववेदः/काण्डं २०/सूक्तम् ०१४

विकिस्रोतः तः
← सूक्तं २०.०१३ अथर्ववेदः - काण्डं २०
सूक्तं २०.०१४
सौभरिः।
सूक्तं २०.०१५ →
दे. इन्द्रः। प्रगाथः।

वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
वाजे चित्रं हवामहे ॥१॥
उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्।
त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।
सखाय इन्द्रमूतये ॥३॥
हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥