सामग्री पर जाएँ

अथर्ववेदः/काण्डं १/सूक्तम् २१

विकिस्रोतः तः
← सूक्तं १.२० अथर्ववेदः - काण्डं १
सूक्तं १.२१
अथर्वा।
सूक्तं १.२२ →
दे. इन्द्रः। अनुष्टुप्।

स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।
वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥१॥
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
अधमं गमया तमो यो अस्मामभिदासति ॥२॥
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
वि मन्युमिन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥३॥
अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् ।
वि महच्छर्म यच्छ वरीयो यावया वधम् ॥४॥

सायणभाष्यम्

'स्वस्तिदाः' इत्यस्य अपराजितगणे पाठात् सांग्रामिकादिकर्मसु गणप्रयुक्तो विनियोग उक्तः।

तथा ग्रामगमनादिषु स्वस्त्ययनकामः एतेन सूक्तेन प्रथमं दक्षिणपादप्रक्रमणम् , शर्करातृणप्रक्षेपणम् , इन्द्रोपस्थानं च कुर्यात् । सूत्रितं हि - “ 'स्वस्तिदाः' ( अ १,२१) 'ये ते पन्थानः' (अ ७,५७,२) इत्यध्वानं दक्षिणेन प्रक्रामति । व्युदस्यत्यसंख्याताः शर्कराः । तृणानि क्षिप्त्वोपतिष्ठते" (कौसू ५०,१-३ ) इति ।

एवं पिशाचादिनिवारणकर्मणि, उद्वेगविनाशने च एतत् सूक्तम् ‘स्वस्त्याद्यं कुरुते' ( कौसू २५, ३६ ) इति सूत्रकृता अतिदिष्टत्वात् । तथा वेदिकरणस्यादावपि एतत् सूक्तं जपेत् ।

वि न इन्द्र' ( अ १, २१, २ ) इत्यनया पुरीषच्छन्नां चितिं ब्रह्मा अनुमन्त्रयते । तद उक्तं वैताने--" 'वि न इन्द्र' ( अ १, २१, २ ) 'मृगो न भीमः' ( अ ७, ८९, ३) 'वैश्वानरो न ऊतये' ( अ ६, ३५ ) इति चितिं पुरीषच्छन्नाम्” ( वैताश्रौ २९,५) इति ।


स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।

वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥१॥

स्वस्तिऽदाः। विशाम् । पतिः । वृत्रऽहा । विऽमृधः। वशी । वृषा । इन्द्रः । पुरः । एतु । नः । सोमऽपाः । अभयम्ऽकरः ॥ १ ॥

स्वस्ति इति अविनाशिनाम । विनाशरहितं शोभनं फलं ददाति प्रयच्छतीति स्वस्तिदाः । 'स्वस्तीत्यविनाशिनाम । xxसु अस्ति' ( या ३, २१) इति यास्कः। डुदाञ् दाने। 'क्विप च' (पा, ३, २, ७६ ) इति क्विप्। 'समासस्य' ( पा ६, १, २२३ ) इति अन्तोदात्तत्वम् । विशाम् सर्वासां प्रजानां पतिः पालयिता। 'सावेकाच' (पा ६, २. १६८ ) इति विश्शब्दाद् उत्तरस्य आम उदात्तत्वम । वृत्रहा । वृत्रो नाम जलाधारभूतो मेघः। तं मेघं वृष्ट्यर्थं हतवान् वृत्रहा। यद्वा वृत्रो नाम त्वष्ट्रा उत्पादितः असुरः, तं हतवान् । आह च यास्कः - तत् को वृत्रः। मेघ इति नैरुक्तास्त्वाष्ट्रेऽसुर इत्यैतिहासिकाः (या २, १६ ) इति । तन्नामनिर्वचनं श्रुत्यैव द्वेधा दर्शितम् 'यद् अवर्तयत् तद् वृत्रस्य वृत्रत्वम्' (तै २, ५, २, १) इति । 'यद् इमाँल्लोकान् अवृणोत् तद् वृत्रस्य वृत्रत्वम्' (तै २, ५, २,२) इति च । हन हिंसागत्योः । वृत्रशब्दोपपदाद् अस्माद् भूते काले 'ब्रह्मभ्रूणवृत्रेषु क्विप्' (पा ३, २, ८७ ) इति क्विप् । उपपदसमासे 'गतिकारकोपपदात् कृत्” (पा ६, २, १३९) इति उत्तरपदप्रकृतिस्वरत्वम् । विमृधः विशेषेण मर्धयिता शत्रूणाम् । मृध हिंसायाम् । 'इगुपधज्ञाप्रीकिरः कः' ( पा ३, १, १३५ ) इति कप्रत्ययः । वशी सर्वस्य प्राणिजातस्य वशयिता । वश कान्तौ । 'वशिरण्योरप्युपसंख्यानम्' (पा ३, ३, ५८ ) इति भावे अप् । वशोस्यास्तीति वशी। अत इनिठनौ' (पा ५,२,११५ ) इति मत्वर्थीय इनिः । वृषा कामानां वर्षिता । वृषु सेचने इत्यस्मात् 'युवृषितक्षि' (पाउ १,१५४) इत्यादिना औणादिकः कनिन्प्रत्ययः । 'ञ्नित्यादिर्नित्यम्' (पा ६, १, १९७) इति आद्युदात्तत्वम् । सोमपाः सोमस्य पाता । पा पाने । अस्मात् सोमशब्दोपपदात् 'आतो मनिन्क्वनिब्वनिपश्च' (पा ३, २, ७४ ) इति विच् । एवम् उक्तमहिमोपेत इन्द्रः अभयंकरः भयराहित्यस्य कर्ता सन् नः अस्माकं संग्रामादौ पुरः पुरस्तात् पूर्वभागे एतु गच्छतु। अभयंकर इति । उपपदविधौ भयाढ्यादिग्रहणं तदन्तविधिं प्रयोजयति' (पावा ३, २, ४३ ) इति वचनात् मेघर्तिभयेषु कृञः' (पा ३, २, ४३ ) इति अभयशब्दोपपदादपि करोतेः खच्प्रत्ययः। "अरुर्द्विषदजन्तस्य मुम्' (पा ६, ३, ६७) इति पूर्वपदस्य मुमागमः । 'चितः' (पा ६, १, १६३) इति अन्तोदात्तत्वम् । उपपदसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । पुर इति । 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' (पा ५, ३,३९ ) इति पूर्वशब्दात् असिप्रत्ययः प्रकृतेः पुरादेशश्च ।।


वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।

अधमं गमया तमो यो अस्मामभिदासति ॥२॥

वि । नः । इन्द्र । मृधः । जहि । नीचा । यच्छ । पृतन्यतः ।

अधमम् । गमय । तमः । यः । अस्मान् । अभिऽदासति ॥ २ ॥

हे इन्द्र परमैश्वर्ययुक्त देव नः अस्मभ्यम् । 'बहुवचनस्य वस्नसौ' (पा ८, १, २१ ) इति अस्मदश्चतुर्थ्यन्तस्य नस् आदेशः । तादर्थ्ये चतुर्थी । अस्मदर्थं मृधः। संग्रामनामैतत् । संग्रामान् । मृधेः संपदादिलक्षणः क्विप् । वि जहि विनाशय । अस्मद्विजयार्थं संग्रामकारिणः शत्रून् मारयेत्यर्थः । हन हिंसागत्योः। लोटि 'सेर्ह्यपिच्च' (पा ३ ४, ८७ ) इति हिः आदेशः । 'हन्तेर्जः' (पा ६, ४, ३६ ) इति जादेशः । तस्य 'असिद्धवदत्राभात्' (पा ६, ४, २२) इति असिद्धत्वात् 'अतो हेः' (पा ६, ४, १०५ ) इति लुगभावः । तथा पृतन्यतः पृतनां सेनाम् आत्मन इच्छतः युद्धोद्योगकारिणः शत्रून् नीचा नीचैः यच्छ नियमय । युद्धार्थं संघीभावत्यागेन न्यग्भूतान् कुर्वित्यर्थः । पृतन्यतः । पृतनाशब्दात् 'सुप आत्मनः क्यच्' (पा ३,१,८) इति क्यच् । 'कव्यध्वरपृतनस्यर्चि लोपः' (पा ७,४,३९) इति आकारलोपः । तदन्तस्य धातुसंज्ञायां लटः शत्रादेशः। क्यजकारेण उदात्तेन सह शपः शतुश्चैकादेशे 'एकादेश उदात्तेनोदात्तः' (पा ८,२,५) इति शतुरुदात्तत्वात् 'शतुरनुमो नद्यजादी' (पा ६,१,१७३) इति अजादिविभक्तेः उदात्तत्वम् । नीचैःशब्दात् उत्तरस्य सुपः 'सुपां सुलुक्' (पा ७,१,३९) इत्यादिना डादेशः। डित्करणसामर्थ्यात् टिलोपः । अपि च यः शत्रुः अस्मान् अभिदासति क्षेत्रधनाद्यपहारेण उपक्षपयति । दसु उपक्षये। तं शत्रुम् अधमम् पुनरुत्थानशून्यं निकृष्टं तमः मरणात्मकं गमय प्रापय गम्लृ सृप्लृ गतौ । अस्मात् णिजन्तात् 'जनीजॄष्क्नसुरञ्जोऽमन्ताश्च' इति मित्संज्ञायां 'मितां ह्रस्वः' (पा ६,४,९२) इति उपधाह्रस्वत्वम् । 'अन्येषामपि दृश्यते' (पा ६,३,१३७) इति सांहितिको दीर्घः।


वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।

वि मन्युमिन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥३॥

वि। रक्षः। वि । मृधः। जहि । वि। वृत्रस्य । हनू इति। रुज ।

वि । मन्युम् । इन्द्र । वृत्रहन् । अमित्रस्य । अभिऽदासतः ॥ ३ ॥

हे वृत्रहन् वृत्रस्य हन्तरिन्द्र त्वं रक्षः । जातावेकवचनम् । बाधकानि रक्षांसि । वीत्युपसर्गश्रवणात् जहीति क्रिया अत्रापि संबध्यते । वि जहि विनाशय । रक्षणीयः अस्मात् सर्वो जन इत्यपादानेर्थे औणादिकः असुन्प्रत्ययः। 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७) इति आद्युदात्तत्वम् । 'रक्षो रक्षितव्यम् अस्मात् , (या ४,१८) इति यास्कोपि । तथा मृधः संग्रामान् वि जहि । तथा वृत्रस्य वृत्रवत् प्रबलस्य शत्रोः हनू कपोलौ वि रुज विभङ्ग्धि । विदारयेत्यर्थः । रुजो भङ्गे। तुदादित्वात् शप्रत्ययः। 'अतो हेः' (पा ६,४,१०५) इति हेर्लुक् । अभिदासतः अभितः अस्मान् उपक्षपयतः अमित्रस्य शत्रोर्मन्युम् क्रोधमपि । अत्रापि उपसर्गश्रवणात् जहीति संबध्यते । वि जहि । स्वस्थानस्थितोपि यथा मद्विषये मन्युं न करोति तथा कुर्वित्यर्थः । मन ज्ञाने । 'यजिमनिशुन्धिदसिजनिभ्यो युच्' (पाउ ३,२०) इति औणादिको युच्प्रत्ययः । यास्कोप्याह – 'मन्युर्मन्यतेः 'दीप्तिकर्मणः' (या १०,२९) इति ।


अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् ।

वि महच्छर्म यच्छ वरीयो यावया वधम् ॥४॥

अप । इन्द्र । द्विषतः । मनः। अप । जिज्यासतः । वधम् ।

वि । महत् । शर्म । यच्छ । वरीयः । यवय । वधम् ॥ ४ ॥

हे इन्द्र परमैश्वर्ययुक्त देव द्विषतः शत्रोर्मनः हिंसकं क्रूरं मानसम् । अपेत्युपसर्गश्रवणात् योग्या प्रकृता जहीति क्रिया संबध्यते। अप जहि अपहतं कुरु । द्विष अप्रीतौ। अस्मात् लटः शत्रादेशः । 'अदिप्रभृतिभ्यः शपः' (पा २,४,७२) इति शपो लुक्। 'शतुरनुमो नद्यजादी' (पा ६,१,१७३) इति ङस उदात्तत्वम् । तथा जिज्यासतः वयोहानिं तदुपलक्षितं मरणं कर्तुम् इच्छतः शत्रोः संबन्धिनं वधम् हननसाधनम् आयुधम् । पूर्ववत् क्रियाध्याहारः। अप जहि । ज्या वयोहानौ । 'धातोः कर्मणः समानकर्तृकादिच्छायां वा' (पा ३,१,७) इति सन्प्रत्ययः 'सन्यङोः' (पा ६,१,९) इति द्विर्वचने हलादिशेषे ह्रस्वे च कृते 'सन्यतः' (पा ७,४,७९) इति अभ्यासाकारस्य इत्वम् । सन्नन्तस्य धातुसंज्ञायां लटः शत्रादेशः । शपः पित्त्वाद् अनुदात्तत्वे, शतुर्लसार्वधातुकस्वरेण, ङसश्च सुप्त्वाद् अनुदात्तत्वे 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७) इति सन्नन्तस्य यद् आद्युदात्तत्वं तदेव शिष्यते। उत्तरोऽर्धर्चो व्याख्यातः ।

इति पञ्चमं सूक्तम् ।

इति प्रथमकाण्डे चतुर्थोनुवाकः।