अथर्ववेदः/काण्डं १९/सूक्तम् ६९

विकिस्रोतः तः
← सूक्तं १९.६८ अथर्ववेदः - काण्डं १९
सूक्तं १९.६९
ब्रह्मा।
सूक्तं १९.७० →
दे. आपः । १ आसुर्यनुष्टुप्, २ साम्न्यनुष्टुप्, ३ आसुरी गायत्री, ४ साम्न्युष्णिक् ( १-४ एकावसाना)।

जीवा स्थ जीव्यासं सर्वमायुर्जीव्यासम् ॥१॥
उपजीवा स्थोप जीव्यासं सर्वमायुर्जीव्यासम् ॥२॥
संजीवा स्थ सं जीव्यासं सर्वमायुर्जीव्यासम् ॥३॥
जीवला स्थ जीव्यासं सर्वमायुर्जीव्यासम् ॥४॥