अथर्ववेदः/काण्डं १९/सूक्तम् ४०

विकिस्रोतः तः
← सूक्तं १९.३९ अथर्ववेदः - काण्डं १९
सूक्तं १९.४०
ब्रह्मा।
सूक्तं १९.४१ →
दे. बृहस्पतिः, विश्वे देवाश्च। पराऽनुष्टुप् त्रिष्टुप्, .....

यन् मे छिद्रं मनसो यच्च वाचः सरस्वती मन्युमन्तं जगाम ।
विश्वैस्तद्देवैः सह संविदानः सं दधातु बृहस्पतिः ॥१॥
मा न आपो मेधां मा ब्रह्म प्र मथिष्टन ।
सुष्यदा यूयं स्यन्दध्वमुपहूतोऽहं सुमेधा वर्चस्वी ॥२॥
मा नो मेधां मा नो दीक्षां मा नो हिंसिष्टं यत्तपः ।
शिवा नः शं सन्त्वायुषे शिवा भवन्तु मातरः ॥३॥
या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः ।
तामस्मे रासतामिषम् ॥४॥