अथर्ववेदः/काण्डं १९/सूक्तम् ३८

विकिस्रोतः तः
← सूक्तं १९.३७ अथर्ववेदः - काण्डं १९
सूक्तं १९.३८
अथर्वा।
सूक्तं १९.३९ →
दे. गुल्गुलुः। १. अनुष्टुप्, ......

न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते ।
यं भेषजस्य गुल्गुलोः सुरभिर्गन्धो अश्नुते ॥१॥
विष्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते ।
यद्गुल्गुलु सैन्धवं यद्वाप्यसि समुद्रियम् ॥२॥
उभयोरग्रभं नामास्मा अरिष्टतातये ॥३॥