अथर्ववेदः/काण्डं १९/सूक्तम् ३२
← सूक्तं १९.३१ | अथर्ववेदः - काण्डं १९ सूक्तं १९.३२ भृृगुः (आयुष्कामः) |
सूक्तं १९.३३ → |
दे. दर्भः। अनुष्टुप्, -- - -- |
शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः ।
दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥१॥
नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते ।
यस्मा अछिन्नपर्णेन दर्भेन शर्म यच्छति ॥२॥
दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः ।
त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे ॥३॥
तिस्रो दिवो अत्यतृणत्तिस्र इमाः पृथिवीरुत ।
त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि ॥४॥
त्वमसि सहमानोऽहमस्मि सहस्वान् ।
उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥५॥
सहस्व नो अभिमातिं सहस्व पृतनायतः ।
सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि ॥६॥
दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित्।
तेनाहं शश्वतो जनामसनं सनवानि च ॥७॥
प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च ।
यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥८॥
यो जायमानः पृथिवीमदृंहद्यो अस्तभ्नादन्तरिक्षं दिवं च ।
यं बिभ्रतं ननु पाप्मा विवेद स नोऽयं दर्भो वरुणो दिवा कः ॥९॥
सपत्नहा शतकाण्डः सहस्वान् ओषधीनां प्रथमः सं बभूव ।
स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥१०॥
सायणभाष्यम्
'शतकाण्डो दुश्च्यवनः' इत्यादिकं षष्ठं सूक्तम् । तस्य 'याम्यां यमभये' (शांक १७,४ ) इति विहितायां याम्याख्यायां महाशान्तौ दर्भमणिबन्धनं कुर्यात् । सूत्रितं हि शान्तिकल्पे-“ 'नेच्छत्रुः' (अ २,२७ ) इति पाटामूलम् अपराजितायाम्, 'शतकाण्डो शतकाण्डो दुश्च्यवनः इति दर्भमणिं याम्याम् (शांक १९.६) इति।
श॒तका॑ण्डो दुश्च्यव॒नः स॒हस्र॑पर्ण उत्ति॒रः।
द॒र्भो य उ॒ग्र ओष॑धि॒स्तं ते॑ बध्ना॒म्यायु॑षे ।।१।।
शतऽकाण्डः । दुःऽच्यवनः । सहस्रऽपर्णः । उत्ऽतिरः ।
दर्भः । यः । उग्रः । ओषधिः । तम् । ते । बध्नामि । आयुषे ॥ १ ॥
अनेन दर्भस्य मणिसाधनभूतस्य स्वरूपाधानपूर्वकं मृत्युभयपरिहाराय मणि रूपेण बन्धनम् अभिधीयते । शतकाण्डः । शतशब्दः अपरिमितवचनः । अनेकैः काण्डैः पर्वभिर्युक्तः । दश दशतः परिमाणम् अस्येति अर्थे ‘पङ्क्ति' (पा ५,१,५९) इति दशानां शभावः तश्च प्रत्ययो निपातितः । दुश्च्यवनः । च्युङ् प्रुङ् गतौ । 'छन्दसि गत्यर्थेभ्यः' (पा ३,३,१२९ ) इति युच् । दुःखेन च्यावनीयः न केनापि च्याव्यः सहस्रपर्णः अनेकैः पत्रैर्युक्तः । उत्तरमन्त्रे अच्छिन्नपर्णेन दर्भेण इति पर्णानाम् आवश्यकत्वाभिधानाद् अत्र सहस्रपर्ण इति विशेषितः । उत्तरः उत्कृष्टतरः सर्वेषामप्योषधीनां मध्ये अतिशयितवीर्यः । उदः सुबन्तत्वात् तरप् । अस्य तथात्वम् उत्तरत्र दर्शयिष्यते । एवंलक्षण उग्रः उद्गूर्णबलः ओषधिः ओषधिविशेष इति विशेषितरूपो यो दर्भः तेन दर्भेण हे मृत्युभयार्दित पुरुष त्वां बध्नामि बन्धनं करोमि । किमर्थम् । आयुषे शतसंवत्सरलक्षणायुरर्थम् ।
नास्य॒ केशा॒न्प्र व॑पन्ति॒ नोर॑सि ताड॒मा घ्न॑ते।
यस्मा॑ अछिन्नप॒र्णेन॑ द॒र्भेन॒ शर्म॒ यछ॑ति ।।२।।
न । अस्य । केशान् । प्र । वपन्ति । न । उरसि । ताडम् । आ । घ्नते ।
यस्मै । अच्छिन्नऽपर्णेन । दर्भेण । शर्म । यच्छति ॥२॥
अस्य केशान् शिरोरुहान् न प्रवपन्ति न आकर्षन्ति मृत्युदूताः रक्षःपिशाचाद्या वा। तथा अमुम् उरसिताडम् उरस्ताडयित्वा न आ घ्नते न हिंसन्ति मृत्युदूताद्याः। 'हिंसार्थानां च समानकर्मकाणाम्' (पा ३,४,४८ ) इति तृतीयान्ते उपपदे विहितो णमुल् सप्तम्युपपदेपि व्यत्ययेन निष्पन्नः । 'तत्पुरुषे कृति बहुलम्' (पा ६,३,१४ ) इति अलुक् । आ घ्नते इति । 'आङो यमहनः' (पा १,३,२८ ) इति अस्वाङ्गकर्मकेपि आत्मनेपदम् । अस्येति उक्तं कस्य इत्यत आह - यस्मै मृत्युभयार्दिताय पुरुषाय अच्छिन्नपर्णेन दर्भेण दर्भमणिबन्धनं कृत्वा शर्म सुखं यच्छति प्रयोक्ता । अस्येति पूर्वत्र संबन्धः।
दि॒वि ते॒ तूल॑मोषधे पृथिव्यामसि॒ निष्ठि॑तः।
त्वया॑ स॒हस्र॑काण्डे॒नायुः॒ प्र व॑र्धयामहे ।।३।।
दिवि । ते । तूलम् । ओषधे । पृथिव्याम् । असि । निऽस्थितः ।
त्वया । सहस्रऽकाण्डेन । आयुः । प्र । वर्धयामहे ॥ ३ ॥
हे ओषधे शतकाण्डाह्व ते तव तूलम् अग्रं दिवि द्युलोके । तावत्पर्यन्तं तवोर्ध्वाभिवृद्धिरित्यर्थः । पृथिव्याम् भूम्यां कृत्स्नेनात्मना विष्ठितः विविधम् अवस्थितः असि । सर्वां पृथिवीम् आक्रम्य अवस्थित इत्यर्थः । एवं द्यावापृथिवीव्यापिना त्वया सहस्रकाण्डेन अनेककाण्डोपेतेन अस्य मृत्युभीतस्य आयुः प्र वर्धयामहे प्रकर्षेण अभिवृद्धं कुर्मः।
ति॒स्रो दि॒वो अत्य॑तृणत्ति॒स्र इ॑माः पृथि॒वीरु॒त।
त्वया॒हं दु॒र्हार्दो॑ जि॒ह्वां नि तृ॑णद्मि॒ वचां॑सि ।।४।।
ति॒स्रः । दिवः । अति । अतृणत् । तिस्रः । इमाः । पृथिवीः । उत ।
त्वया । अहम् । दुःऽहार्दः । जिह्वाम् । नि । तृणद्मि । वचांसि ॥ ४ ॥
हे शतकाण्डाख्यौषधे त्वं तिस्रो दिवः त्रिविधान् द्युलोकान् भोक्तॄणाम् उत्तममध्यमाधमभेदेन त्रैविध्यात् तद्भोगस्थानस्य द्युलोकस्यापि त्रित्वम् । एवं वक्ष्यमाणायाः पृथिव्या अपि द्रष्टव्यम् । अत्यतृण: अतिक्रम्य गतवान् असि । वेष्टितवान् असीत्यर्थः । उत अपि च इमाः परिदृश्यमानाः तिस्रः पृथिवीः अपि अत्यतृणः । एवंमहानुभावेन त्वया अहं दुर्हार्दः दुर्हृदयस्य शत्रोः जिह्वां नि तृणद्मि वेष्टयामि । तस्य वचांसि च वेष्टयामि बन्धयामि । यस्त्वं कृत्स्नां द्यावापृथिवीम् आक्रान्तोसि तादृशेन अतिदीर्घेण त्वया शत्रोर्जिह्वां वाचश्च बध्नामि । उतृदिर हिंसानादरयोः । रौधादिकः । 'हल्ङ्या' ( पा ६,१,६८) इत्यादिना सिपो लोपः।
त्वम॑सि॒ सह॑मानो॒ ऽहम॑स्मि॒ सह॑स्वान्।
उ॒भौ सह॑स्वन्तौ भू॒त्वा स॒पत्ना॑न्सहिषीवहि ।।५।।
त्वम् । असि । सहमानः । अहम् । अस्मि । सहस्वान् ।
उभौ । सहस्वन्तौ । भूत्वा । सऽपत्नान् । सहिषीवहि ॥ ५ ॥
हे शतकाण्डाख्यौषधे त्वं सहमानासि शत्रूणां सहनशीला भवसि । अहं च सहस्वान् शत्रुहिंसासाधनबलोपेतः अस्मि । सह इति बलनामसु पाठात् । अतिशयेन शत्रूणां सोढास्मीत्यर्थः । उभौ सहस्वन्तौ सहनधर्मकौ भूत्वा सपत्नान् अस्मदीयान् शत्रून् सहिषीमहि अभिभवेम । षह मर्षणे । आशीर्लिङि रूपम् ।
सह॑स्व नो अ॒भिमा॑तिं॒ सह॑स्व पृतनाय॒तः।
सह॑स्व॒ सर्वा॑न्दु॒र्हार्दः॑ सु॒हार्दो॑ मे ब॒हून्कृ॑धि ।।६।।
सहस्व । नः । अभिऽमातिम् । सहस्व । पृतनाऽयतः ।।
सहस्व । सर्वान् । दुःऽहार्दः । सुऽहार्दः । मे । बहून् । कृधि ॥ ६ ॥
हे शतकाण्डौषधे नः अस्माकम् अभिमातिम् अभिहिंसकं शत्रुं पापं वा। 'पाप्मा वा अभिमातिः' (तै २,१,३,५) इति श्रुतेः। सहस्व अभिभव । तथा पृतनायतः पृतन्यतः पृतना सेना ताम् आत्मन इच्छतः । मया सह योद्धुम् इति शेषः । तांश्च सहस्व अभिभव । किं बहुना । सर्वान् दुर्हार्दः दुर्हृदयान् सहस्व । एवं कृत्वा मे सुहार्दः सुहृदयान् बहून् कृधि कृणु । सर्वान् मयि अनुकूलान् कृधीत्यर्थः ।
द॒र्भेण॑ दे॒वजा॑तेन दि॒वि ष्ट॒म्भेन॒ शश्व॒दित्।
तेना॒हं शश्व॑तो॒ जनाँ॒ अस॑नं॒ सन॑वानि च ।।७।।
दर्भेण । देवऽजातेन । दिवि । स्तम्भेन । शश्वत् । इत् ।
तेन । अहम् । शश्वतः । जनान् । असनम् । सनवानि । च ॥ ७ ॥
देवजातेन देवेभ्यः सकाशाद् उत्पन्नेन दिविष्टम्भेन द्युलोकस्य अधःपाताभावाय स्तम्भकेन द्युलोकस्य स्तम्भभूतेन वा एवंविधेन तेन दर्भेण शश्वदित् सर्वदा अहं शश्वतः नित्यान् दीर्घजीविनो जनान् असनम् अलभे अपि च सनवानि लभै । षणु दाने । तानादिकः । लोटि ‘आडुत्तमस्य पिच्च' ( पा ३,४,९२ ) इति आडागमः।
प्रि॒यं मा॑ दर्भ कृणु ब्रह्मराज॒न्या॑भ्याम्शू॒द्राय॒ चार्या॑य च।
यस्मै॑ च का॒मया॑महे॒ सर्व॑स्मै च वि॒पश्य॑ते ।।८।।
प्रियम् । मा । दर्भ । कृणु । ब्रह्मऽराजन्याभ्याम् । शूद्राय । च । आर्याय । च ।
यस्मै । च । कामयामहे । सर्वस्मै । च । विऽपश्यते ॥ ८॥
हे दर्भ मा मां त्वां धारयमाणं ब्रह्मराजन्याभ्यां ब्राह्मणक्षत्रियाभ्याम् वर्णाभ्यां प्रियं कृणु कुरु । ब्राह्मणानां क्षत्रियाणां च यथाहं प्रियो भवामि तथा मां कुर्वित्यर्थः। अनेन तेषां वशीकरणं प्रार्थितं भवति । तथा शूद्राय च आर्याय च । जात्यभिप्रायम् - इदम् । शूद्राणाम् आर्याणां च मां प्रियभूतं कुरु । किं च यस्मै अनुलोमेषु प्रतिलोमेषु च जातीयेषु मध्ये यस्मैयस्मै प्रियभावं कामयामहे तस्मै सर्वस्मै विपश्यते पापम् अन्विष्यते पुरुषाय मां प्रियं कुरु।
यो जाय॑मानः पृथि॒वीमदृं॑ह॒द्यो अस्त॑भ्नाद॒न्तरि॑क्षं॒ दिवं॑ च।
यं बि॑भ्रतं न॒नु पा॒प्मा वि॑वेद॒ स नो॒ ऽयं द॒र्भो वरु॑णो दि॒वा कः॑ ।।९।।
यः । जायमानः । पृथिवीम् । अदृंहत् । यः । अस्तभ्नात् । अन्तरिक्षम् । दिवम् । च ।
यम् । बिभ्रतम् । ननु । पाप्मा । विवेद । सः। नः । अयम् । दर्भः। वरुणः। दिवा । कः ॥ ९ ॥
यो दर्भः शतकाण्डाख्यो जायमानः प्रादुर्भवन्नेव पृथिवीं सर्वाम् अदृंहत् दृढां कृतवान् । दृह दृहि वृद्धौ । यथा अप्सु विलीना न भवति तथा स्वमूलेन भुवं दृढां चकारेत्यर्थः। यः च जातमात्रः सन् स्वकाण्डैः अन्तरिक्षम् अन्तरा क्षान्तं भवतीति अन्तरिक्षम् । तच्च दिवम् द्योतमानं द्युलोकं च अस्तभ्नात् स्तब्धवान् । यथा ते न निपतेतां तथा तस्तम्भ । यम् उक्तलक्षणं शतकाण्डदर्भमणिं बिभ्रतम् धारयन्तं पाप्मा ननु विवेद न जानाति । न स्पृशतीत्यर्थः । स तादृशः अयं वरुणः अन्धकारनिवारको दर्भो नः अस्माकं दिवा प्रकाशम् अकः करोतु । लुङि 'मन्त्रे घस” (पा २,४,८० ) इति च्लेर्लुक् ।
स॑पत्न॒हा श॒तका॑ण्डः॒ सह॑स्वा॒नोष॑धीनां प्रथ॒मः सं ब॑भूव।
स नो॒ ऽयं द॒र्भः परि॑ पातु वि॒श्वत॒स्तेन॑ साक्षीय॒ पृत॑नाः पृतन्य॒तः ।।१०।।
सपत्नऽहा । शतऽकाण्डः । सहस्वान् । ओषधीनाम् । प्रथमः । सम् । बभूव ।
सः। नः । अयम् । दर्भः । परि । पातु । विश्वतः । तेन । साक्षीय । पृतनाः। पृतन्यतः ॥१०॥
सपत्नहा सपत्नानाम् । सपत्नीवत् सपत्नः । एकस्मिन् विषये समानपतित्वम् इच्छतां शत्रूणां हन्ता शतकाण्डः शतसंख्याकैरनेकैः काण्डैरुपेतः सहस्वान् सहो बलं तद्वान् एवंमहानुभावः ओषधीनाम् इतरासां प्रथमः मुख्यः प्रथमभावी वा । अतिशयितवीर्यत्वात् । 'प्रथम इति मुख्यनाम । प्रतमो भवति' इति निरुक्तम् (२,२२ )। एवंभूतः सन् सं बभूव । स तादृशः संभूतः अयं दर्भो नः अस्मान् विश्वतः सर्वतः सर्वाभ्यो दिग्भ्यस्तज्जन्येभ्यो भयेभ्यः परि पातु परिरक्षतु । तेन दर्भमणिना पृतन्यतः पृतनां सेनाम् इच्छतः शत्रोः पृतनाः सेनाः साक्षीय अभिभवानि । पृतन्यत इति । पृतनाशब्दात् क्यचि 'कव्यध्वरपृतनस्यर्चि लोपः' (पा ७,४,३९) इति आकारलोपः। साक्षीयेति । षह अभिभवे । अस्मात् लिङि 'सिब्बहुलं छन्दसि णित्” ( पावा ३,१,३४ ) इति सिप् । णिद्वद्भावाद् उपधावृद्धिः।
इति चतुर्थेऽनुवाके षष्ठं सूक्तम् ।
टिप्पणी
दर्भोपरि पौराणिक-वैदिक संदर्भाः
१९.३२.२ नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते । यस्मा अछिन्नपर्णेन दर्भेन शर्म यच्छति ॥२॥